भामतीव्याख्या
वेदान्तकल्पतरुः
 

विहितत्वाच्चाश्रमकर्मापि ।

नित्यानि ह्याश्रमकर्माणि यावज्जीवश्रुतेर्नित्येहितोपायतयावश्यं कर्तव्यानि । विविदिषन्तीति च विद्यासंयोगाद्विद्यायाश्चावश्यम्भावनियमाभावादनित्यता प्राप्नोति । नित्यानित्यसंयोगश्चैकस्य न सम्भवति, अवश्यानवश्यम्भावयोरेकत्र विरोधात् । नच वाक्यभेदाद्वास्तवो विरोधः शक्योऽपनेतुम् । तस्मादनध्यवसाय एवात्रेति प्राप्तम् । एतेन “एकस्य तूभयत्वे संयोगपृथक्त्वम्” इत्याक्षिप्तम् । एवं प्राप्तेऽभिधीयते - सिद्धे हि स्याद्विरोधोऽयं न तु साध्ये कथञ्चन । विध्यधीनात्मलाभेऽस्मिन् यथाविधि मता स्थितिः ॥ सिद्धं हि वस्तु विरुद्धधर्मयोगेन बाध्यते । न तु साध्यरूपं यथा षोडशिन एकस्य ग्रहणाग्रहणे । ते हि विध्यधीनत्वाद्विकल्पेते एव । न पुनः सिद्धे विकल्पसम्भवः । तदिहैकमेवाग्निहोत्राख्यं कर्म यावज्जीवश्रुतेर्निमित्तेन युज्यमानं नित्येहितोपात्तदुरितप्रक्षयप्रयोजनमवश्यकर्तव्यं, विद्याङ्गतया च विद्यायाः कादाचित्कतयानवश्यं भावेऽपि “काम्यो वा नैमित्तिको वा नित्यमर्थं विकृत्य निविशते” इति न्यायादनित्याधिकारेण निविशमानमपि न नित्यमनित्ययति, तेनापि तत्सिद्धेरिति संयोगपृथक्त्वान्न नित्यानित्यसंयोगविरोध एकस्य कार्यस्येति सिद्धम् । सहकारित्वं च कर्मणां न कार्ये विद्यायाः किं तूत्पत्तौ । कोऽर्थो विद्यासहकारीणि कर्माणीति । अयमर्थः सत्सु कर्मसु विद्यैव स्वकार्ये व्याप्रियते । यथा “सहैव दशभिः पुत्रैर्भारं वहति गर्दभी” इति सत्स्वेव दशपुत्रेषु सैव भारस्य वाहिकेति ।

अविधिलक्षणत्वादिति ।

विहितं हि दर्शपौर्णमासाद्यङ्गैर्युज्यते न त्वविहितम् । ग्राहकग्रहणपूर्वकत्वादङ्गभावस्य विधैश्च ग्राहकत्वात् । अविहिते च तदनुपपत्तेः । चतसृणामपि च प्रतिपत्तीनां ब्रह्मणि विधानानुपपत्तेरित्युक्तं प्रथमसूत्रे । द्रष्टव्यो निदिध्यासितव्य इति च विधिसरूपं न विधिरित्यप्युक्तम् । उत्पत्तिं प्रति हेतुभावस्तु सत्त्वशुद्ध्या विविदिषोपजनद्वारेत्यधस्तादुपपादितम् । असाध्यत्वाच्च विद्याफलस्यापवर्गस्य स्वरूपावस्थानलक्षणो हि सः । नच स्वं रूपं ब्रह्मणः साध्यं नित्यत्वात् । शेषमतिरोहितार्थम् ॥ ३२ ॥

सहकारित्वेन च ॥ ३३ ॥

सर्वथापि त एवोभयलिङ्गात् ।

यथा मासमग्निहोत्रं जुह्वतीति प्रकरणान्तरात्कर्मभेद एवमिहापि “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इति क्रतुप्रकरणमतिक्रम्यश्रवणात्प्रकरणान्तरात्तद्बुद्धिव्यवच्छेदे सति कर्मान्तरमिति प्राप्त उच्यतेसत्यपि प्रकरणान्तरे तदेव कर्म, श्रुतेः स्मृतेश्च संयोगभेदः परं यथा “अग्निहोत्रं जुहुयात्स्वर्गकामः” “यावज्जीवमग्निहोत्रं जुहुयात्” इति तदेवाग्निहोत्रमुभयसंयुक्तम् । नहि प्रकरणान्तरं साक्षाद्भेदकम् । किन्तु अज्ञातज्ञापनस्वरसो विधिः प्रकरणैक्ये स्फुटतरप्रत्यभिज्ञाबलेन स्वरसं जह्यात् । प्रकरणान्तरेण तु विघटितप्रत्यभिज्ञानः स्वरसमजहत्कर्म भिनत्ति । इह तु सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुञ्जानो न जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयितुमर्हति । नच तत्रापि नैयमिकाग्निहोत्रे मासविधिर्नापूर्वाग्निहोत्रोत्पत्तिरिति साम्प्रतम् । होम एव साक्षाद्विधिश्रुतेः । कालस्य चानुपादेयस्याविधेयत्वात् । काले हि कर्म विधीयते न कर्मणि काल इत्युत्सर्गः । इह तु विविदिषायां विधिश्रुतिः न यज्ञादौ । तानि तु सिद्धान्येवानूद्यन्त इत्यैककर्म्यात्संयोगपृथक्त्वं सिद्धम् । स्मृतिमुक्त्वा लिङ्गदर्शनमुक्तम् ॥ ३४ ॥

अनभिभवं च दर्शयति ॥ ३५ ॥

विहितत्वाच्चाश्रमकर्मापि ॥३२॥

यथा शास्त्रान्तरविरोधात्सर्वान्नत्ववचनं स्तुतिरेवं यज्ञादीनां नित्यत्वश्रुतिविरोधाद्विद्यार्थत्ववचनं स्तुतिरिति सङ्गतिमभिप्रेत्य पूर्वपक्षमाह –

नित्यानि हीत्यादिना ।

तस्मादनध्यावसाय एवेति ।

अध्यवसाये वा विविदिषन्ति इत्यस्य स्तुत्यर्थत्वं भवतीत्याशयः ।

ननु वाचनिकविनियोगभेदात्खादिरादेर्वीर्याद्यर्थत्वं क्रत्वर्थत्वं च प्रथमतन्त्रे सिद्धं, तद्वदत्र किं न स्यादत आह –

एतेनेति ।

वास्तवविरोधेनेत्यर्थः ।

विधिव्यतिरेकेण स्वभावत एव नित्यमनित्यं वा यद्वस्तु व्यवस्थितं तदन्यथा कर्तुं न शक्यते, यत्त्वसिद्धरूपं विधितः कर्तव्यमित्यध्यवसाय यथाविधि निष्पाद्यते, तस्य रूपं विधित एव ज्ञातव्यम्, विधितश्चाग्निहोत्रादेरावश्यकत्वप्रतीतेर्न विरोध इत्याह –

सिद्धे हीति ।

निमित्तेन जीवितेन नित्यं सर्वदा संसारिणामीहित इष्ट उपात्तदुरितक्षयः प्रयोजनं यस्य तत्तथोक्तम् । अनेन फलवत्त्वेऽपि नित्यत्वं कर्मण उपपादितम् । विद्याङ्गतया चेत्यत्र कर्तव्यमित्यनुषङ्गः । ननु विरक्ताधिकाराय विद्याया नित्यसमीहितफलत्वाभावात्तदङ्गत्वेनानुष्ठीयमानस्य नित्यत्वं न स्यात्, ततश्च विविदिषार्थत्वेन कर्म कुर्वतः प्रत्यवायपरिहाराय नित्यप्रयोगोऽपि पृथक्वर्तव्यः ।

न चेन्नित्यप्रयोगस्यैवानित्यत्वं स्यादिति, नेत्याह –

विद्यायाः कादाचित्कतयेति ।

यथा स्वर्गार्थोऽग्निहोत्रप्रयोगो नित्यप्रयोगं विकृत्य प्रयोगस्योभयत्राविशेषान्नित्यविधेः प्रयोजकत्वं बाधित्वा निविशते, यथा वा ‘‘यदि राजन्यं वैश्यं वा याजयेत स यदि सोमं बिभक्षयिषेद् न्यग्रोधस्तिभीराहृतः ताः संपिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेदि’’ति नैमित्तिकः फलचमसप्रयोगो नित्यं सोमप्रयोगं विकृत्य निविशते; काम्यनैमित्तिकाभ्यां नित्यकार्यसिद्धेः ।यादृशो नित्यः प्रयोगः करणार्थत्वेन विहितस्तादृशस्येतरत्र प्रत्यभिज्ञानाच्च न पुनःप्रयोगावृत्तिः । नापि नित्यप्रयोगस्यानित्यतापत्तिरेवमत्रापीत्यर्थः । न्यग्रोधस्कन्धादधोविलम्बिन्यो जटाः स्तिभ्यः ।

कार्यस्येति ।

कर्तव्यस्येत्यर्थः ।

सत्सुकर्मस्विति ।

विद्याकारणत्वेनानुष्ठितेषु कर्मसु सत्सु उत्पन्ना विद्यैव स्वकार्येऽविद्यानिवृत्तिलक्षणे व्याप्रियत इत्यर्थः । भारवाहकत्वं गर्दभ्या एव, पुत्राणां तु भारवहनकाले सत्त्वमात्रम्, न तु वाहकत्वमिति दृष्टान्तवार्तिकाथः ।

ग्राहकेति ।

ग्राहकेण प्रयोगविधिनाऽऽत्मीयत्वेन स्वीकारपूर्वकत्वादित्यर्थः ।

ग्राहकं दर्शयति –

विधेश्चेति ।

अविहिते च ज्ञाने विध्यभावादेव कर्मणां विद्यां प्रत्यङ्गत्वेन प्रयोगविधिग्रहणानुपपत्तेरित्यर्थः ।

ननु तर्हि विद्या विधीयतां, नेत्याह –

चतसृणामपीति ।

एका हि प्रतिपत्तिः साङ्गाध्ययनप्रसवा, अन्या तु शास्त्रश्रवणजा, अपरा ध्यानरूपा, चतुर्थी साक्षात्कृतिः । तासां चतसृणामपि ब्रह्मविषयप्रतिपत्तीनां विधानानुपपत्तिरित्युक्तमित्यर्थः ॥३३॥

ननु ‘‘यावज्जीवमग्निहोत्रं जुहुयादिग्निहोत्रं जुहुयात्स्वर्गकाम’’ इति वाक्ययोरेकप्रकरणे श्रवणाद्युक्त एकस्य कर्मणः काम्यत्वेन नित्यत्वेन च विनियोगः, यज्ञादिवाक्यस्य तु भिन्नप्रकरणत्वान्न विनियोगान्तरहेतुत्वम्, किंतु कर्मान्तरविधायकत्वमेवेति, नेत्याह –

न हि प्रकरणान्तरमिति ।

यत्र कर्मैव धातुनोपादायाख्यातेन विधीयते तत्र कर्मविधायकत्वस्वभावमपरित्यजन् विधिः कर्मान्तरं विदध्यात्, विविदिषावाक्ये तु न यज्ञादिधात्वर्थे विधिः श्रूयते, किं तु विविदिषायां यज्ञादयस्त्वन्यत्रैवोत्पन्ना आख्यातापरतन्त्रैर्यज्ञादिशब्दैरनूद्यन्ते । तत्र फलभूतविविदिषायां विध्ययोगादयं विधिर्यज्ञादीस्तस्यां विनियुञ्जानो न यज्ञादीन् भिनत्तीत्यर्थः ।

यदि प्रदेशान्तरोत्पन्नकर्मानुवादेन विविदिषासंबन्धविधिः स्यात्तर्हि कौण्डपायिनामयनेऽपि नित्याग्निहोत्रानुवादेन मासविधिरापद्येत, तत्राह –

न च तत्रापीति ।

ननु होम एव साक्षाद्विधिश्रवणेऽपि ‘‘यदाहवनीये जुह्वति’’ इत्यत्र होमानुवादेनाहवनीयविधिर्दृष्टः, एवमत्रापि होमानुवादेन कालविधिः किं न स्यादत आह –

कालस्येति ।

पुरुषानुष्ठेयविषयो हि विधिरनुष्ठेयं कालं न विदधाति, किंतु तस्मिन्कर्म विदधाति, आहवनीयस्य तु उपादेयत्वाद् युक्तं प्रदेशान्तरसिद्धकर्मानुवादेन विधानमित्यर्थः ।

ननु कालोऽ पि विधीयते यदग्नेयोऽष्टाकपालोऽमावास्यायामित्यादौ, तत्राह –

काले हीति ।

तत्राप्यमावास्यादिकाले कर्मैव विधीयते इत्यर्थः ।

सायं जुहोतीत्यादौ कालोऽपि विधीयते, होमस्याग्निहोत्रं जुहोतीत्यनेनैव विहितस्यानुवादादत उक्तम् –

उत्सर्ग इति ।

अन्यतः कर्मप्राप्तिरुत्सर्गस्यापवादिका, सा च सायमग्निहोत्रमित्यत्र संदिग्धा विशिष्टविधिसंभवात्तथा चोत्सर्गोऽनपोदित इत्यर्थः ।

स्मृतिरुक्तेति ।

भाष्ये इति शेषः ॥३४॥३५॥

इत्यष्टममाश्रमकर्माधिकरणम् ॥