भामतीव्याख्या
वेदान्तकल्पतरुः
 

न चाधिकारिकमपि पतनानुमानात्तदयोगात् ।

प्रायश्चित्तं न पश्यामीति नैष्ठिकं प्रति प्रायश्चित्ताभावस्मरणान्नैरृतगर्दभालम्भः प्रायश्चित्तमुपकुर्वाणकं प्रति । तस्माच्छिन्नशिरस इव पुंसः प्रतिक्रियाभाव इति पूर्वः पक्षः । सूत्रयोजना तु न चाधिकारिकमधिकारलक्षणे प्रथमकाण्डे निर्णीतम् “अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्”( जै.सू. ६ । ८ । ४ । २२ ) इत्यनेन यत्प्रायश्चित्तं तन्न नैष्ठिके भवितुमर्हति । कुत आरूढो नैष्ठिकमिति स्मृत्या पतनश्रुत्यनुमानात्तत्प्रायश्चित्तायोगात् ॥ ४१ ॥

उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ।

श्रुतिस्तावत्स्वरसतोऽसङ्कुचद्वृत्तिर्ब्रह्मचारिमात्रस्य नैष्ठिकस्योपकुर्वाणस्य चाविशेषेण प्रायश्चित्तमुपदिशति साक्षात् । प्रायश्चित्तं न पश्यामीति तु स्मृतिः । तस्यामपि च साक्षात्प्रायश्चित्तं न कर्तव्यमिति प्रायश्चित्तनिषेधो न गम्यते, न पश्यामीति तु दर्शनाभावेन सोऽनुमातव्यः । तथा च स्मृतिर्निषेधार्थेति अनुमाय तदर्था श्रुतिरनुमातव्या । श्रुतिस्तु सामान्यविषया विशेषमुपसर्पन्ती शीघ्रप्रवृत्तिरिति । स्मार्तं प्रायश्चित्तादर्शनं तु यत्नगौरवार्थम् । एतदुक्तं भवतिकृतनिर्णेजनैरपि एतैर्न सङ्ख्यानं कर्तव्यमिति । सूत्रार्थस्तु उपपूर्वमपि पातकं नैष्ठिकस्यावकीर्णित्वं न महापातकमपिरेवकारार्थे अत एके प्रायश्चित्तभावमिच्छन्तीति । आचार्याणां विप्रतिपत्तौ विशेषाभावात्साम्यं भवेत् । शास्त्रस्था या वा प्रसिद्धिः सा ग्राह्या शास्त्रमूलत्वात् । उपपादितं च प्रायश्चित्तभावप्रसिद्धेः शास्त्रमूलत्वमिति । सुगममितरत्॥ ४२ ॥

न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥४१॥ प्रत्यवरोहोऽशास्त्रीय इत्युक्तम्, स यदि क्रियते, तर्हि किमस्ति प्रायश्चित्तं न वेति चिन्त्यते ।

ब्रह्मचारित्वान्निष्ठिकस्यापि नैऋतालम्भप्राप्तेः पूर्वपक्षाभावमाशङ्क्याह –

प्रायश्चित्तमिति ।

अवकीर्णिपशुश्च तद्वदिति ।

उपनयनहोमा आहवनीये कार्या ‘‘यदाहवनीये जुह्वति तेन सोऽस्याभीष्टः प्रीतो भवती’’त्याहवनीयस्य सर्वहोमार्थत्वादिति प्रापय्य षष्ठे सिद्धान्तितम् । आधानं हि ‘‘जातपुत्र आदधीते’’ति वचनात् कृतदारस्य विहितम् । उपनयनकाले च दाराभावादाधानमप्राप्तकालम् । तदभावाच्चाहवनीयाभावः । तस्माल्लौकिकेऽग्नाविति एवमवकीर्णिपशुरपीत्यर्थः ॥४१॥ श्रुतिस्तावदुपदिशति साक्षादित्यन्वयः ।

ननु प्रायश्चित्तसद्भावश्रुतिः सामान्यविषया, तदभावविषया स्मृतिस्तु नैष्ठिकविशेषविषया प्रबलेति, नेत्याह –

प्रायश्चित्तमिति ।

श्रुते नैष्ठिके प्रायश्चित्तं बोधयितुं सामान्यमेकमेव व्यवधानं स्मृतेस्तु तस्मिस्तदभावं बोधयितुं निषेधकल्पना, ततस्तन्मूलश्रुतिकल्पनेति व्यवधानद्वयम्, अतो दुर्बला स्मृतिः श्रुत्यनुसारेण नेतव्येत्यर्थः ।

यत्नगौरवार्थं प्रायश्चित्तनिषेधश्चेत्तत्किं यत्नगौरवं तदाह –

कृतनिर्णेजनैरिति ।

संख्यानं संप्रतिपत्तिः संव्यवहारः अन्यैर्व्यवहर्तृभिरवकीर्णिनि व्यवहाराभावे यत्नगौरवं कर्तव्यमिति स्मृत्यर्थ इति भावः । समा विप्रतिपत्तिः स्या(जै.सू.अ.१ पा.३ सू,८) दिति यववराहाधिकरणपूर्वपक्षसूत्रम् ।यववराहशब्दार्थावधारणे आर्याणां म्लेच्छानां च विप्रतिपत्तिः समेत्यर्थः । एष दृष्टान्तः ।

प्रकृते दार्ष्टान्तिके योजयति –

आचार्याणामिति ।

शास्त्रस्था वा तन्निमित्तत्वा(जै.सू.अ.१ पा.३.सू.१९) दिति सिद्धान्तसूत्रं, तद्योजयति –

शास्त्रस्था येति ।

यववराहाधिकरणं लिङ्गभूयस्त्वा (व्या.सू.अ.३ पा ३ सू.४४) दित्यत्रानुक्रान्तम् ।

ननु प्रायश्चित्ताभावप्रसिद्धिरपि स्मृतिमूलैवेति नेत्याह –

उपपादितं चेति ।

विप्रकृष्टार्थायाः स्मृतेः सकाशात् सन्निकृष्टार्थश्रुतेर्बलीयस्त्वात् प्रायश्चित्तभावप्रसिद्धेस्तन्मूलत्वमुपपादितम् इत्यर्थः ।।४२॥

इति एकादशमाधिकारिकाधिकरणम् ॥