न प्रतीके न हि सः ।
यथा हि शास्त्रोक्तं शुद्धमुक्तस्वभावं ब्रह्मात्मत्वेनैव जीवेनोपास्यतेऽहं ब्रह्मास्मि तत्त्वमसि श्वेतकेतो इत्यादिषु तत्कस्य हेतोर्जीवात्मनो ब्रह्मरूपेण तात्विकत्वादद्वितीयमिति श्रुतेश्च । जीवात्मानश्चाविद्यादर्पणा यथा ब्रह्मप्रतिबिम्बकास्तथा यत्र यत्र मनो ब्रह्मादित्यो ब्रह्मेत्यादिषु ब्रह्मदृष्टेरुपदेशस्तत्र सर्वत्राहं मन इत्यादि द्रष्टव्यं ब्रह्मणो मुख्यमात्मत्वमिति । उपपन्नं च मनःप्रभृतीनां ब्रह्मविकारत्वेन तादात्म्यम् । घटशरावोदञ्चनादीनामिव मृद्विकाराणां मृदात्मकत्वम् । तथाच तादृशानां प्रतीकोपदेशानां क्वचित्कस्यचिद्विकारस्य प्रविलयावगमाद्भेदप्रपञ्चप्रविलयपरत्वमेवेति प्राप्त उच्यते - न तावदहं ब्रह्मेत्यादिभिर्यथाहङ्कारास्पदस्य ब्रह्मात्मत्वमुपदिश्यते एवं मनो ब्रह्मेत्यादिभिरहङ्कारास्पदत्वं मनःप्रभृतीनां, किन्त्वेषां ब्रह्मत्वेनोपास्यत्वम् । अहङ्कारास्पदस्य ब्रह्मतया ब्रह्मत्वेनोपासनीयेषु मनःप्रभृतिष्वप्यहङ्कारास्पदत्वेनोपासनमिति चेत् । न । एवमादिष्वहमित्यश्रवणात् । ब्रह्मात्मतया त्वहङ्कारास्पदत्वकल्पने तत्प्रतिबिम्बस्येव तद्विकारान्तरस्याप्याकाशादेर्मनःप्रभृतिषूपासनप्रसङ्गः । तस्माद्यस्य यन्मात्रात्मतयोपासनं विहितं तस्य तन्मात्रात्मतयैव प्रतिपत्तव्यं “यावद्वचनं वाचनिकम्” इति न्यायात् । नाधिकमध्याहर्तव्यमतिप्रसङ्गात् । नच सर्वस्य वाक्यजातस्य प्रपञ्चस्य विलयः प्रयोजनम् । तदर्थत्वे हि मन इति प्रतीकग्रहणमनर्थकं विश्वमिति वाच्यं यथा सर्वं खल्विदं ब्रह्मेति । नच सर्वोपलक्षणार्थं मनोग्रहणं युक्तम् । मुख्यार्थसम्भवे लक्षणाया अयोगात् । आदित्यो ब्रह्मेत्यादीनां चानर्थक्यापत्तेः ।
नह्युपासकः प्रतीकानीति ।
अनुभवाद्वा प्रतीकानां मनःप्रभृतीनामात्मत्वेनाकलनं श्रुतेर्वा, न त्वेतदुभयमस्तीत्यर्थः ।
प्रतीकाभावप्रसङ्गादिति ।
ननु यथावच्छिन्नस्याहङ्करास्पदस्यानवच्छिन्नब्रह्मात्मतया भवत्यभाव एवं प्रतीकानामपि भविष्यतीत्यत आह –
स्वरूपोपमर्दे च नामादीनामिति ।
इह हि प्रतीकान्यहङ्कारास्पदत्वेनोपास्यतया प्रधानत्वेन विधित्सितानि । नतु तत्त्वमसीत्यादावहङ्कारास्पदमुपास्यमवगम्यते । किन्तु सर्पत्वानुवादेन रज्जुतत्त्वज्ञापन इवाहङ्कारास्पदस्यावच्छिन्नस्य प्रविलयोऽवगम्यते । किमतो यद्येवम् । एतदतो भवति प्रधानीभूतानां न प्रतीकानामुच्छेदो युक्तो नच तदुच्छेदे विधेयस्याप्युपपत्तिरिति ।
अपिच –
नच ब्रह्मण आत्मत्वादिति ।
नह्युपासनविधानानि जीवात्मनो ब्रह्मस्वभावप्रतिपादनपरैस्तत्त्वमस्यादिसन्दर्भैरेकवाक्यभावमापद्यन्ते येन तदेकवाक्यतया ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्पेत भिन्नप्रकरणत्वात् । तथाच तत्र यथालोकप्रतीतिव्यवस्थितो जीवः कर्ता भोक्ता च संसारी न ब्रह्मेति कथं तस्य ब्रह्मात्मतयाब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिरुपदिश्यतेत्यर्थः ।
अतश्चोपासकस्य प्रतीकैः समत्वादिति ।
यद्यप्युपासको जीवात्मा न ब्रह्मविकारः, प्रतीकानि तु मनःप्रभृतीनि ब्रह्मविकारस्तथाप्यवच्छिन्नतया जीवात्मनः प्रतीकैः साम्यं दृष्टव्यम् ॥ ४ ॥
न प्रतीके न हि सः॥४॥ पूर्वोक्तं जीवब्रह्मणोरभेदमुपजीव्य ब्रह्मदृष्टिभाक्षु मन आदिष्वहमिति ब्रह्माभिन्नजीवदृष्टिः कर्तव्येति पूर्वपक्षमाह –
यथा हीति ।
ब्रह्मरूपेणेति ।
इत्थम्भावे तृतीया ।
ननु ब्रह्मात्मकजीवदृष्टेर्मन आदिष्वध्यासे तदात्मकाकाशादिदृष्टिरपि किं न स्यादत आह –
जीवात्मानश्चेति ।
आकाशादिः स्वरूपेण कल्पितः, जीवानां तु भेदमात्रं कल्पितम् तत्स्वरूपं तु ब्रह्मैवेत्यर्थः । अविद्यादर्पणाः अविद्योपाधिकाः । यथा ब्रह्म जीवेनात्मत्वेनोपदिश्यते तथाऽहं मन इत्यादि द्रष्टव्यमिति योजना ।
अत्र हेतुः –
ब्रह्मणो मुख्यमिति ।
इतिर्यस्मादर्थे । ब्रह्मण आत्मत्वस्य मुख्यात्वाद् नामादिषु ब्रह्माध्यासे जीवदृष्टिरप्यध्यसितव्येत्यर्थः । अविद्यादर्पणा इत्यत उपरितनो यथाकारः पूर्वोक्तानुवादः ।
एवं तावज्जीवस्य ब्रह्माभेदप्रयुक्त्या नामादिष्वहंग्रह उक्तः, इदानीं पूर्वाधिकरणे ब्रह्मण्यात्मत्वमतिः कार्येत्युक्तत्वाद्द्ब्रह्माभिन्ननामादावप्यहंमतिः कार्येत्याह –
उपपन्नं चेति ।
द्वावेतौ पक्षौ भगवता भाष्यकारेणोपन्यस्तौ ।
ब्रह्मणः श्रुतिष्वात्मत्वेन प्रसिद्धत्वादिति प्रतीकानामपि ब्रह्मविकारत्वादिति च प्रतीकेषु ब्रह्मात्मतामापादितेषु न केवलमहंमतिक्षेपः प्रयोजनम्, अपि तर्हि प्रतीकोपलक्षितसमस्तप्रपञ्चप्रविलापनेन तत्त्वमस्यादिवाक्यार्थावगतिसिद्धिश्चेत्याह –
कस्यचिदिति ।
ननु प्रविलये मन आद्येव नास्ति, कुत्राहंग्रहः? सत्यम्; अत एव यथा जीवस्यावच्छिन्नरूपबाधेनानवच्छिन्नब्रह्मरूपतयाऽवस्थानमेवं प्रतीकानामपि ब्रह्मात्मनाऽवस्थानं लयो न तु स्वरूपाभाव इति पूर्वपक्षाभिप्रायमुद्भाव्य स्वयमेव निराकरिष्यति ।
अत्र मन आदावात्मत्वदृष्टिः श्रुतिबलाद्वा शङ्क्यते, अर्थाद्वा न प्रथम इति वदन् पूर्वाधिकरणाद्वैषम्यमाह –
न तावदिति ।
मनःप्रभृतीनामहङ्कारास्पदत्वं न तावदुपदिश्यत इत्यन्वयः । द्वितीयेऽपि किं मन आदिषु ब्रह्माध्यासाद् ब्रह्माऽभिन्नजीवविषयाऽहंदृष्टिराशङ्क्यते, किं वा प्रतीकानां ब्रह्मविकारत्वेन तदभेदाद्द्ब्रह्मणि चात्मत्वप्रतीतेः प्रतीकेष्वप्यहंदृष्टिरापाद्यते ।
प्रथममाशकते –
अहंकारास्पदस्येति ।
यदि श्रुतेः प्रतीकेष्वहंमतिरभिमता, तर्हि ब्रह्मणीव तां वेदः श्रावयेद्, न चैवमित्याह –
नेति ।
यत्त्वर्थादिति तत्रातिप्रसङ्गमाह –
ब्रह्मात्मतया त्विति ।
जीवस्य ब्रह्मस्वरूपत्वात्तद्दृष्टिरिति विशेषशङ्कायां तद्दृष्टिकरणादेव जीवदृष्टिरपि कृतेत्युत्तरम् । अहंदृष्टिस्तु न स्वरूपदृष्टिरहङ्कारविशिष्टस्यानात्मत्वादिति भावः । आर्थिकी हि प्रतीतिस्तत्र क्रियते, यत्र तामृते श्रुतिर्न निर्वहति । न चात्रैवं प्रत्युतातिप्रसङ्ग एव ।
तस्माद्यथाश्रुत्येवार्थो ग्राह्य इत्याह –
तस्माद्यस्येति ।
ब्रह्मविकारत्वान्मन आदिष्वहंमतिक्षेप इति द्वितीयेऽपि पक्षेऽतिप्रसङ्गस्तुल्य एव; घटादिष्वहंमतिप्रसङ्गात् । तुल्यं च श्रुत्यनपेक्षितार्थकल्पनम् ।
यत्त्वत्र प्रयोजनमुक्तं, तद्दूषयति –
न च सर्वस्येति ।
सर्वं खल्वित्यादौ हि क्वचिदेव प्रविलयार्थत्वं, न सर्वत्रेत्यर्थः । यदि च मनो ब्रह्मेत्यत्र मनउपलक्षितविश्वप्रपञ्चः प्रविलापितः, तर्ह्यादित्यादेरप्यनेनैव प्रविलापितत्वादादित्यो ब्रह्मेत्यादेरानर्थक्यमित्यर्थः ।
उपासकस्य प्रतीकानां च भेदेऽपि प्रतीकेषु ब्रह्माभिन्नजीवदृष्टेः श्रुतिवशादुपपत्तेर्भाष्यायोगमाशङ्क्याह –
अनुभवाद्वेति ।
श्रुतिवशादात्मत्वकल्पनस्यातिप्रसङ्गेन निरस्तत्वान्नोभयमप्यस्तीत्युक्तम् ।
स्वयमेवोद्भाव्य दूषयिष्यतीत्यवादिष्म, तदिदानीं निराकरोति –
ननु यथेत्यादिना ।
जीवलयादन्नादिलयस्य वैषम्यमुपपादयति –
इह हीत्यादिना ।
अप्रधानस्य जीवस्य वैशिष्ट्या त्यागेन ब्रह्मात्मना भवत्यभावः, प्रधानं तु प्रतीकं यथानिर्दिष्टं रक्षणीयम्, न तु रूपान्तरमापादयितव्यम् ; प्राधान्यस्यैव व्याघातप्रसङ्गादित्यर्थः ।
न च ब्रह्मण इति भाष्यगतचशब्दार्थमाह –
अपि चेति ।
पूर्वोक्तातिप्रसङ्गेन समुच्चय इत्यर्थः ।
कर्तृत्वाद्यनिराकरणादिति भाष्यगतो हेतुरसिद्धः; प्रतीकवाक्यैरेव तन्निराकरणस्य पूर्वपक्ष उक्तत्वात्, अत आह –
न ह्युपासनविधानानीति ।
यथा ‘‘इदं सर्वं यदयमात्मे’’त्यादीनि अहंब्रह्मास्मीत्यादिमहावाक्यैकवाक्यतामापद्य तदपेक्षितप्रपञ्चबाधं वितन्वते, नैवं प्रतीकवाक्यानि ; तत्रासम्बद्धपदव्यवायेन भिन्नप्रकरणत्वादित्यर्थः ।
तदेकवाक्यतयेति ।
कर्तृत्वादिबाधेन जीवस्य ब्रह्मतामापाद्येति शेषः॥४॥