ब्रह्मदृष्टिरुत्कर्षात् ।
यद्यपि सामानाधिकरण्यमुभयथापि घटते तथापि ब्रह्मणः सर्वाध्यक्षतया फलप्रसवसामर्थ्येन फलवत्त्वात्प्राधान्येन तदेवादित्यादिदृष्टिभिः संस्कर्तव्यमित्यादित्यादिदृष्टयो ब्रह्मण्येव कर्तव्या न तु ब्रह्मदृष्टिरादित्यादिषु । न चैवंविधेऽवधृते शास्त्रार्थे निकृष्टदृष्टिर्नोत्कृष्ट इति लौकिको न्यायोऽपवादाय प्रभवत्यागमविरोधेन तस्यैवापोदितत्वादिति पूर्वपक्षसङ्क्षेपः । सत्यं सर्वाध्यक्षतया फलदातृत्वेन ब्रह्मण एव सर्वत्र वास्तवं प्राधान्यं तथापि शब्दगत्यनुरोधेन क्वचित्कर्मण एव प्राधान्यमवसीयते । यथा “दर्शपूर्णमासाभ्यां यजेत स्वर्गकामः”, “चित्रया यजेत पशुकामः” इत्यादौ । अत्र हि सर्वत्र यागाद्याराधिता देवतैव फलं प्रयच्छतीति स्थापितं तथापि शब्दतः कर्मणः करणत्वावगमने फलवत्त्वप्रतीतेः प्राधान्यम् । क्वचिद्द्रव्यस्य यथा व्रीहीन्प्रोक्षतीत्यादौ । तदुक्तं “यैस्तु द्रव्यं सञ्चिकीर्ष्यते गुणस्तत्र प्रतीयते” इति । तदिह यद्यपि सर्वाध्यक्षतया वस्तुतो ब्रह्मैव फलं प्रयच्छति तथापि शास्त्रं ब्रह्मबुद्ध्याऽदित्यादौ प्रतीक उपास्यमाने ब्रह्म फलाय कल्पते इत्यभिवदति किंवादित्यादिबुद्ध्या ब्रह्मैव विषयीकृतं फलायेत्युभयथापि ब्रह्मणः सर्वाध्यक्षस्य फलदानोपपत्तेः शास्त्रार्थसन्देहे लोकानुसारतो निश्चीयते ।
तदिदमुक्तम् –
निर्धारिते शास्त्रार्थ एतदेवं स्यादिति ।
न केवलं लौकिको न्यायो निश्चये हेतुरपि तु आदित्यादिशब्दानां प्राथम्येन मुख्यार्थत्वमपीत्याह –
प्राथम्याच्चेति ।
इति परत्वमपि ब्रह्मशब्दस्यामुमेव न्यायमवगमयति । तथाहि स्वरप्रवृत्या आदित्यादिशब्दा यथा स्वार्थे वर्तन्ते तथा ब्रह्मशब्दोऽपि स्वार्थे वर्त्स्यति यदि स्वार्थोऽस्य विवक्षितः स्यात् । तथाचेतिपरत्वमनर्थकं तस्मादितिना स्वार्थात्प्रच्याव्य ब्रह्मपदं ज्ञानपरं स्वरूपपरं वा कर्तव्यम् ।
नच ब्रह्मपदमादित्यादिपदार्थ इति, प्रतीतिपर एवायमितिपरः शब्दो यथा गौरिति मे गवयोऽभवदिति । तथाच आदित्यादयो ब्रह्मेति प्रतिपत्तव्या इत्यर्थो भवतीत्याह –
इतिपरत्वादपि ब्रह्मशब्दस्येति ।
शेषमतिरोहितार्थम् ॥ ५ ॥
ब्रह्मदृष्टिरुत्कर्षात्॥५॥ पूर्वत्र ब्रह्माभिन्नजीवदृष्टेर्नामादिषु करणे घटादिदृष्टेरपि प्रसङ्ग इत्यतिप्रसङ्गान्न प्रतीकेष्वहंमतिक्षेप इत्युक्तम्, एवमिहापि यदि आदित्यादिषूपास्यमानेषु ब्रह्म फलप्रदमभिमतं, तर्हि चैत्रे उपास्यमाने मैत्रात्फलसिद्धिप्रसङ्गाद् ब्रह्मैव फलप्रदत्वादुपास्यमिति सङ्गतिमभिप्रेत्य पूर्वपक्षमाह –
ब्रह्मणः सर्वाध्यक्षतयेति ।
प्रयोजनवत्त्वेन ब्रह्मणः संस्कारापेक्षत्वात्तत एव च प्रधानत्वात्तद्वाचिब्रह्मशब्दस्य प्रतीतिलक्षकत्वायोगाद् ब्रह्मैवादित्यादिदृष्टिभिः संस्कार्यमित्यर्थः ।
फलवत्त्वप्रधानत्वाभ्यां शास्त्रीयन्यायाभ्यां दुर्बलत्वाच्छास्त्रार्थानवधारकत्वसिद्ध्यर्थं विशेषणं –
लौकिक इति ।
यथा राजपुरुष आगत इत्युक्ते वस्तुतः प्रधानस्यापि राज्ञ आगमनं न प्रतीयते, किं तु पुरुषस्यैव ; तथाऽत्रापि आदित्यादिरेव शब्दतः प्रधानत्वेनावगत उपास्तिकर्मेति वक्तुं श्रौतं दृष्टान्तमाह –
सत्यमित्यादिना ।
ऐहिकफलं कर्मोदाहरति –
चित्रयेति ।
प्रकृतत्वादादित्यादेर्द्रव्यस्य प्राधान्यसिद्ध्यर्थं दृष्टान्तारमाह –
क्वचिद् द्रव्यस्येति ।
अत्राप्यङ्गानुष्ठानाराधितः परमेश्वर एव प्रधानसिद्धिहेतुरिति तस्यैवार्थतः प्राधान्यमिति । यैस्तु शब्दैर्वीहीनित्यादिभिर्द्रव्यं संचिकीर्ष्यत इति प्रतीयते, तत्र क्रिया प्रोक्षणादिका गुणत्वेन प्रतीयतेत्यर्थः । तदिहेत्यादिना विमृशति - तत्र फलायकल्पत इत्यभिवदतीत्यन्तं सिद्धान्तवचनव्यक्तिप्रदर्शनपरं किं वेत्यादिफलायेत्यन्तं पूर्वपक्षानुवादः । अत्राप्यभिवदति किं शास्त्रमित्यनुषङ्गः । तदनेन ब्रह्मगतफलदातृत्वप्रधानत्वयोः कर्मस्विवाऽऽदित्याद्युपासनेष्वपि संभवात्कांस्यभोजिन्यायेन लौकिकन्यायानुगृहीतृत्वमुक्तम् । न चातिप्रसङ्गः, अतिथ्याद्युपासन इव ब्रह्मण एव फलदातृत्वसंभवादित्युक्तं भाष्ये । यदि स्वार्थोऽस्य विवक्षितः स्यात्तर्हि ब्रह्मशब्दोऽपि स्वार्थे वर्त्स्यति वृत्तो भविष्यति, न त्वस्य स्वार्थो विवक्षित इत्यर्थः ।
यदि विवक्षितः स्यात्तत्र दूषणमाह –
तथा चेति ।
इतिनेति ।
इतिशब्देनेत्यर्थः ।
स्वरूपपरमिति ।
ब्रह्मपदमेव स्वरूपं तत्परं ब्रह्मेति शब्द इति वा द्वावर्थावितिशब्दशिरस्कब्रह्मशब्दात् प्रतीयेते इत्यर्थः ।
शब्दपरत्वं दूषयत्युपास्तिविधिसिद्ध्यर्थं –
न च ब्रह्मपदमिति ।
य आदित्यः स ब्रह्मेत्ययं शब्द इति सामानाधिकरण्यं विरुद्धमित्यर्थः ।
ननु प्रतीतिपरत्वमपि न युज्यते, या ब्रह्मेति प्रतीतिः सा आदित्य इत्यस्याप्यर्थस्य विरुद्धत्वादत आह –
गौरितीति ।
भ्रान्तो हि गवयादिकं गौरिति प्रतिपद्य बाधोत्तरकालं वक्ति गौरिति मेऽभवद् गवय इति, गवात्मत्वेन प्रतीत इत्यर्थः । यद्यपि प्रतीतिविषयत्वापेक्षायां हि गौणमिदमपि सामानाधिकरण्यम् ; तथापि प्रचुरप्रयोगान्निरूढमतः शब्दसामानाधिकरण्याद्विशेषः॥५॥