आसीनः सम्भवात् ।
कर्माङ्गसंबन्धिषु यत्र हि तिष्ठतः कर्म चोदितं तत्र तत्सम्बद्धोपासनापि तिष्ठतैव कर्तव्या । यत्र त्वासीनस्य तत्रोपासनाप्यासीनेनैवेति । नापि सम्यग्दर्शने वस्तुतन्त्रत्वात्प्रमाणतन्त्रत्वाच्च । प्रमाणतन्त्रा च वस्तुव्यवस्था प्रमाणं च .....नापेक्षत इति तत्राप्यनियमः( ? ) । यन्महता प्रयत्नेन विनोपासितुमशक्यं यथा प्रतीकादि, यथा वा सम्यग्दर्शनमपि तत्त्वमस्यादि, तत्रैषा चिन्ता । तत्र चोदकशास्त्राभावादनियमे प्राप्ते यथा शक्यत इत्युपबन्धादासीनस्यैव सिद्धम् । ननु यस्यामवस्थायां ध्यायतिरुपचर्यते प्रयुज्यते किमसौ तदा तिष्ठतो न भवति न भवतीत्याह । आसीनश्चाविद्यमानायासो भवतीति । अतिरोहितार्थमितरत् ॥ ७ ॥
ध्यानाच्च ॥ ८ ॥
अचलत्वं चापेक्ष्य ॥ ९ ॥
स्मरन्ति च ॥ १० ॥
आसीनः संभवात्॥७॥ अङ्गावबद्धोपासनचिन्तनसमनन्तरं तत्पर्युदासं सिद्धमादायेतरेषूपासनेष्वासननियमचिन्तनात्सङ्गतिरित्यभिप्रेत्य विषयं परिशिनष्टि –
कर्माङ्गसंबन्धिष्विति ।
नापि सम्यग्दर्शन इति ।
श्रवणमननध्यानाभ्यासवादितमनसा साक्षात्कारोत्पत्तावित्यर्थः ।
ननु वस्त्वधीनेऽपि ज्ञाने चक्षुरादिवदासनमप्यपेक्ष्यतामत आह –
प्रमाणतन्त्रत्वाच्चेति ।
ननु प्रमाणमपि शुक्त्यादौ निकटोपसर्पणादिवदासनमपेक्षतां, तत्राह –
प्रमाणं चेति ।
ध्यानादिसंस्कृतमप्रतिबद्धं चित्तं प्रदीपवत्स्वयमेव प्रमा करोतीत्यर्थः ।
यथा वा सम्यग्दर्शनमपीति ।
तत्त्वमस्यादिवाक्यजनितज्ञानाभ्यासात्मकमित्यर्थः ।
ध्यायतिश्चेत्यादिभाष्यमाक्षिपति –
नन्विति ।
भाष्यगतोपचारशब्दो न युक्तः, बकादिष्वपि ध्यानसद्भावादत आह –
प्रयुज्यत इति ।
असाववस्था किं तिष्ठतो न भवति, अपि तु भवत्येव; तिष्ठतोऽप्यैकाग्न्यसंभवादित्यर्थः । तिष्ठतो हि देहपतनप्रतिबन्धे फलातिशयो भवति नासीनस्येति परिहाराभिप्रायः ।
भाष्यगतानायासपदव्याख्यानम् –
अविद्यमानायास इति ।
अनेन बहुव्रीहित्वं द्योतितम्॥७॥८॥९॥१०॥