भामतीव्याख्या
वेदान्तकल्पतरुः
 

यदेव विद्ययेति हि ।

अस्ति विद्यासंयुक्तं यज्ञादि य एवं विद्वान्यजेतेत्यादिकम् । अस्ति च केवलम् । तत्र यथा ब्राह्मणाय हिरण्यं दद्यादित्युक्ते विदुषे ब्राह्मणाय दद्यान्न ब्राह्मणब्रुवाय मूर्खायेति विशेषप्रतिलम्भः तत्कस्य हेतोस्तस्यातिशयवत्त्वात् । एवं विद्यारहिताद्यज्ञादेर्विद्यासहितमतिशयवदिति तस्यैव परविद्यासाधनत्वमुपात्तदुरितक्षयद्वारा नेतरस्य । तस्माद्विविदिषन्ति यज्ञेनेत्यविशेषश्रुतमपि विद्यासहिते यज्ञादावुपसंहर्तव्यमिति प्राप्तेऽभिधीयते - यदेव विद्यया करोति तदेवास्य वीर्यवत्तरमिति तरबर्थश्रुतेर्विद्यारहितस्य वीर्यवत्तामात्रमवगम्यते । नच सर्वथाकिञ्चित्करस्य तदुपपद्यते । तस्मादस्त्यस्यापि कयापि मात्रया परविद्योत्पादोपयोग इति विद्यारहितमपि यज्ञादि परविद्यार्थिनानुष्ठेयमिति सिद्धम् ॥ १८ ॥

यदेव विद्ययेति हि॥१८॥ पूर्वोक्ताग्निहोत्रादिष्वेवाङ्गावबद्धोपास्तिसाहित्यानियम इह चिन्त्यते । ननु तन्निर्धारणानियम इत्यनेनैतद्गतं, स्वर्गादाविव विद्याफलसिद्ध्यप्रतिबन्धस्य पृथक्संभवादत आह –

यथा ब्राह्मणायेति ।

विद्यायुक्तकर्मप्रशंसया विद्याविहीननिषेधः कल्प्यते, न च विधिविरोधः; केवलं कर्म कुर्यादित्यश्रवणात्कर्मस्वरूपविधेश्च पारशाखिकाङ्गनियमे इवोपास्तिनियमेप्युपपत्तेः । अतश्च विद्यानां पुनरङ्गत्वोन्मज्जने तन्निवृत्त्यर्थ आरम्भ इत्यर्थः॥ अन्ये त्वाहुः -
विद्यार्थत्वं यदा यायुरनाश्रमिकृताः क्रियाः ।
तदोपास्तिविहीनेषु का कथाऽऽश्रमकर्मसु॥
ततः प्रक्षिप्तमेतत् स्यात्स्नातकेन तु केनचित् ।
इति॥ नैवं नेतव्यम् ; यतः –
नाश्रमोक्तक्रियास्वस्ति विधुरादेरधिक्रिया ।
तस्मात्तदीयजप्यादि विद्यासाधनमीरितम्॥
विद्योपेतेषु शक्तस्य तत्त्यागादन्यकारिणः ।
न विद्या सेत्स्यतीत्येषा शङ्का केन निवार्यते॥
एवं हि भट्टपादाः प्रतिपादयन्ति -
‘‘प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
स नाप्नोति फलं तस्य परत्रेति विचारितम्’’
इति॥

यदि विद्यायुक्तं कर्म वीर्यवदित्येतावदुच्येत, तत इतरस्यार्थादवीर्यत्वेन निन्दा गम्येत, न चैवमस्ति; अत्र हि तरप् प्रयोगेण विद्यासंयुक्तस्य वीर्यवत्त्वातिशयबोधनादर्थात्केवलकर्मणोऽपि वीर्यवत्त्वमात्रं विधिबललब्धमभ्यनुज्ञायेताऽतो न निन्दावकाश इति सिद्धान्तयति –

यदेव विद्ययेत्यादिना ।

पयसि सर्वं प्रतिष्ठितमिति विन्द्वान्यदहरेवाग्निहोत्रं जुहोति॥१८॥

इति त्रयोदशं विद्याज्ञानसाधनत्वाधिकरणम्॥