भामतीव्याख्या
वेदान्तकल्पतरुः
 

भोगेन त्वितरे क्षपयित्वा सम्पद्यते ।

अनारब्धकार्य इत्यस्य नञः फलं भोगेन निवृत्तिं दर्शयत्यनेन सूत्रेण । अस्य तूपपादनं पुरस्तादपकृष्य कृतमिति नेह क्रियते पुनरुक्तिभयात् ॥ १९ ॥

इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य प्रथमः पादः समाप्तः ॥

भोगेन त्वितरे क्षपयित्वा संपद्यते॥१९॥ व्यवहितेन संबन्धमाह –

अनारब्धेति ।

न तत्राप्यारब्धफलं कर्म लयाद् व्यावर्तितं, तस्य च प्रयोजनं भोगेन क्षय इति तदिदानीं दर्शयतीत्यर्थः ।

ननु विद्ययैवारब्धकर्मणोऽपि लयः किं न स्यादत आह –

अस्य त्विति ।

पुरस्तादिति ।

अनारब्धकार्ये इत्यत्रैवेत्यर्थः । अगतार्थत्वममृतानन्दपादैरुक्तम् । प्रारब्धकर्मफलभोगानन्तरं मोक्षेऽपि तत्कर्मजन्यानेकदेहसंभवात्तत्र च विद्याप्रमोषसंभवात्तत्कृतकर्मणामश्लेषाभावेन मुक्त्यभावः शङ्क्यते, तत्रोत्तरमाधिकारिकाणां देहान्तरे ज्ञानाप्रमोष आगमसिद्धोऽस्मदादीनामथ संपत्स्य इति श्रुतिबलेन प्रारब्धभोगानन्तरं मुक्तिरिति॥१९॥

इति चतुर्दशमितरक्षपणाधिकरणम्॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य प्रथमः पादः॥