भामतीव्याख्या
वेदान्तकल्पतरुः
 

चतुर्थेऽध्याये द्वितीयः पादः ।

वाङ्मनसि दर्शनाच्छब्दाच्च ।

अथास्मिन् फलविचारलक्षणे वाङ्मनसि सम्पद्यत इत्यादिविचारोऽसङ्गत इत्यत आह –

अथापरासु विद्यासु फलप्राप्तय इति ।

अपरविद्याफलप्राप्त्यर्थदेवयानमार्गार्थत्वादुत्क्रान्तेस्तद्गतो विचारः पारम्पर्येण भवति फलविचार इति नासङ्गत इत्यर्थः ।

नन्वयमुत्क्रान्तिक्रमो विदुषो नोपपद्यते “न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते” (बृ. उ. ४ । ४ । ६) इति श्रवणात्तत्कथमस्य विद्याधिकार इत्यत आह –

समाना हि विद्वदविदुषोरिति ।

विषयमाह –

अस्तीति ।

विमृशति –

किमिहेति ।

विशयः संशयः ।

पूर्वपक्षमाह –

तत्र वागेवेति ।

श्रतिलक्षणाविशये संशये ।

सिद्धान्तसूत्रं पूरयित्वा पठति –

वाग्वृत्तिर्मनसि सम्पद्यते इति ।

वृत्त्यध्याहारप्रयोजनं प्रश्नपूर्वकमाह –

कथमिति ।

उत्तराधिकरणपर्यालोचनेनैवं पूरितमित्यर्थः । तत्त्वस्य धर्मिणो वाचः प्रलयविवक्षायां त्विह सर्वत्रैव परत्रेह चाविभागसाम्यात्किं परत्रैव विशिंष्यादविभाग इति न त्वत्रापि । तस्मादिहाविभागेनाविंशिषतोऽत्र वृत्त्युपसंहारमात्रविवक्षा सूत्रकारस्येति गम्यते ।

सिद्धान्तहेतुं प्रश्नपूर्वकमाह –

कस्मादिति ।

सत्यामेव मनोवृत्तौ वाग्वृत्तेरुपसंहारदर्शनात् । वाचस्तूपसंहारमदृष्टं नागमोऽपि गमयितुमर्हति । आगमप्रभवयुक्तिविरोधाच्च । आगमो हि दृष्टानुसारतः प्रकृतौ विकाराणां लयमाह । न च वाचः प्रकृतिर्मनो येनास्मिन्नियं लीयेत । तस्माद्वृत्तिवृत्तिमतोरभेदविवक्षया वाक्पदं तद्वृत्तौ व्याख्येयम् । सम्भवति च वाग्वृत्तेर्वागप्रकृतावपि मनसि लयः । तथा तत्र तत्र दर्शनादित्याह –

वृत्त्युद्भवाभिभवाविति ॥ १ ॥

अत एव च सर्वाण्यनु ।

यत एव प्रकृतिविकारभावाभावान्मनसि न स्वरूपलयो वाचोऽपि तु वृत्तिलयः, अत एव च सर्वेषां चक्षुरादीनामिद्रियाणां सत्येव सवृत्तिके मनसि वृत्तेरनुगतिर्लयो न स्वरूपलयः । वाचस्तु पृथक्ग्रहणं पूर्वसूत्रे उदाहरणापेक्षं न तु तदेवेह विवक्षितमित्यर्थः ॥ २ ॥

वाङ्मनसि दर्शनाच्छब्दाच्च॥१॥ सगुणविद्याफलस्य ब्राह्मलौकिकस्यार्चिरादिगतिप्राप्यस्यानुक्रम्य प्राप्त्यसंभवात् तदर्थमुत्क्रान्तिनिरूपणं व्यापिब्रह्मात्मभावे निर्गुणविद्याफले निषेधार्थं चेत्यभिप्रेत्य पादस्याध्यायसंगतिमाह –

अपरविद्याफलेति ।

विद्याधिकारो विद्यया संबन्धः ।

भाष्यगततत्त्वशब्दार्थमाह –

धर्मिण इति ।

धर्मिणो हि स्वरूपमेव  तत्त्वं धर्माणामारोपितत्वादिति ।

सर्वत्रेति पदं व्याचष्टे –

परत्रेह चेति ।

नन्वत्रापीति ।

किं विशिष्यादित्यनुषङ्गः ; तथा सिद्धोत्क्रान्तिक्रमानुवादितावदिदं वाक्यम्, तत्र पूर्वं व्यवहरमाण आसीन्नेदानीमिति व्यापारलोपः सिद्धः, न तु वाग्लोपोऽतो वाक्छब्दो वृत्तिलक्षक इति सिद्धान्ताभिप्रायमाह –

सत्यामेवेति ।

मनोवृत्तिसत्त्वकथनं वाग्वृत्तिलये हेतुत्वोपपत्त्यर्थम् । अन्यथा हि तत्प्रलीनवृत्तिकं न हेतुः स्यादिति ।

ननु ‘‘षोडश कलाः पुरुषं प्राप्यास्तं गच्छन्ती’’त्यत्र वागादिस्वरूपलयोऽप्युक्तः ; एवमत्र किं न स्यादत आह −

आगमो हीति॥१॥

वाङ्मनसीत्युदाहृतवाक्ये वाच एव श्रवणान्नेन्द्रियान्तराणां मनसि वृत्तिलय इति भ्रममपनेतुमवान्तरसूत्रम् –

अत एवेति ।

तद्व्याचष्टे –

यत एवेति ।

वृत्तेरनुगतिर्लयः । एषा च सौत्रानुशब्दवाच्या । उपशान्ततेजा उपशान्तौष्ण्यः । पुनर्भवं पुनर्जन्मोद्दिश्य मनसि संपद्यमानैरिन्द्रियैः प्राणमायातीति शेषः॥२

इति प्रथमं वागधिकरणम्॥