भामतीव्याख्या
वेदान्तकल्पतरुः
 

सोऽध्यक्षे तदुपगमादिभ्यः ।

प्राणस्तेजसीति तेजःशब्दस्य भूतविशेषवचनत्वाद्विज्ञानात्मनि चाप्रसिद्धेः प्राणस्य जीवात्मन्युपगमानुगमावस्थानश्रुतीनां च तेजोद्धारेणाप्युपपत्तेः । तेजसि समापन्नवृत्तिः खलु प्राणः । तेजस्तु जीवात्मनि समापन्नवृत्ति । तद्द्वारा जीवात्मसमापन्नवृत्तिः प्राण इत्युपपद्यते । तस्मात्तेजस्येव प्राणवृत्तिप्रविलय इति प्राप्तेऽभिधीयते स प्रकृतः प्राणोऽध्यक्षे विज्ञानात्मन्यवतिष्ठते तत्तन्त्रवृत्तिर्भवति । कुतः उपगमानुगमावस्थानेभ्यो हेतुभ्यः ।

तत्रोपगमश्रुतिमाह –

एवमेवेममात्मानमिति ।

अनुगमनश्रुतिमाह –

तमुत्क्रामन्तमिति ।

अवस्थानश्रुतिमाह –

सविज्ञानो भवतीति चेति ।

विज्ञायतेऽनेनेति विज्ञानं पञ्चवृत्तिप्राणसहित इन्द्रियग्रामस्तेन सहावतिष्ठत इति सविज्ञानः ।

चोदयति –

ननु प्राणस्तेजसीति श्रूयत इति ।

अधिकावापोऽशब्दार्थव्याख्यानम् ।

परिहरति –

नैष दोष इति ।

यद्यपि प्राणस्तेजसीत्यतस्तेजसि प्राणवृत्तिलयः प्रतीयते, तथापि सर्वशाखाप्रत्ययत्वेन विद्यानां श्रुत्यन्तरालोचनया विज्ञानात्मनि लयोऽवगम्यते । न च तेजसस्तत्रापि लय इति साम्प्रतम् । तस्यानिलाकाशक्रमेण परमात्मनि तत्त्वलयावगमात् । तस्मात्तेजोग्रहणेनोपलक्ष्यते तेजः सहचरितदेहबीजभूतपञ्चभूतसूक्ष्मपरिचाराध्यक्षो जीवात्मा तस्मिन् प्राणवृत्तिरप्येतीति ।

चोदयति –

ननु चेयं श्रुतिरिति ।

तेजःसहचरितानि भूतान्युपलक्ष्यन्तां तेजःशब्देनाध्यक्षे तु किमायातं तस्य तदसाहचर्यादित्यर्थः ।

परिहरति –

सोऽध्यक्ष इत्यध्यक्षस्यापीति ।

यदा ह्ययं प्राणोऽन्तरालेऽध्यक्षं प्राप्याध्यक्षसम्पर्कवशादेव तेजःप्रभृतीनि भूतसूक्ष्माणि प्राप्नोति तदोपपद्यते प्राणस्तेजसीति ।

अत्रैव दृष्टान्तमाह –

योऽपि स्रुघ्नादिति ॥ ४ ॥

भूतेषु तच्छ्रुतेः ॥ ५ ॥

सूत्रान्तरमवतारयितुं पृच्छति –

कथं तेजःसहचरितेष्विति ।

नैकस्मिन् दर्शयतो हि ।

अत्र भाष्यकारोऽनुमानदर्शनमाह –

कार्यस्य शरीरस्येति ।

स्थूलशरीरानुरूपमनुमेयं सूक्ष्ममपि शरीरं पञ्चात्मकमित्यर्थः ।

दर्शयत इति सूत्रावयवं व्याचष्टे –

दर्शयतश्चैतमर्थमिति ।

प्रश्नप्रतिवचनाभिप्रायं द्विवचनं श्रुतिस्मृत्यभिप्रायं वा । अण्व्यो मात्राः सूक्ष्मा दशार्धानां पञ्चभूतानामिति ।

श्रुत्यन्तरविरोधं चोदयति –

ननु चोपसंहृतेषु वागादिष्विति ।

कर्माश्रयतेति प्रतीयते न भूताश्रयतेत्यर्थः ।

परिहरति –

अत्रोच्यत इति ।

ग्रहा इन्द्रियाणि अतिग्रहास्तद्विषयाः । कर्मणां प्रयोजकत्वेनाश्रयत्वं भूतानां तूपादानत्वेनेत्यविरोधः ।

प्रशंसाशब्दोऽपि कर्मणां प्रयोजकतया प्रकृष्टमाश्रयत्वं ब्रूते सति निकृष्ट आश्रयान्तरे तदुपपत्तेरित्याह –

प्रशंसाशब्दादपि तत्रेति ॥ ६ ॥

सोऽध्यक्षे तदुपगमादिभ्यः॥४॥ मनः प्राण इति वाक्यं विचार्य तदनन्तरस्य प्राणस्तेजसीत्यस्य विचारात्संगतिः । तेजःशब्दस्य भूतविशेषवचनत्वादित्यादिहेतूनां तस्मात्तेजस्येव प्राणवृत्तिलय इति प्रतिज्ञया संगतिः । उपगमनादिश्रुतीः स्वयमेव वक्ष्यति । तेजोद्वारेणेत्येतदुपपादयति –

तेजसि समापन्नेति ।

प्राणवृत्तिलयात् प्राणस्य जीवे वृत्तिलय उपचर्यत इत्यर्थः ।

समापन्नेति ।

आपत्तिर्लयः । यथा राजानं यात्रायाम् उद्यन्तं परिवारभूताः प्राणिनः समुपयन्ति, एवमात्मानमन्तकाले सर्वे प्राणा अभिसमागच्छन्ति । कोऽसावन्तकालः? स उच्यते ।

यत्र काल एतद्भवति, तदेव दर्श्यते –

ऊर्ध्वोच्छ्वासीति ।

ऊर्ध्वोच्छ्वासित्वमित्युपगमनश्रुतेरर्थः । संमुखमागमनमुपगमनम् । आगम्य च गच्छन्तं जीवम् अनु पश्चाद्गमनमनुगमनम् ।

इन्द्रियग्राम इति ।

आ प्रायणादित्यत्र सविज्ञानशब्दः प्राप्तव्यकर्मफलप्रकाशनवचन इत्युक्तमिह तु तमपरित्यज्य तत्सहितेन्द्रियसमुदायवचन इत्युक्तम् इति न विरोधः ।

कथं प्राणोऽध्यक्ष इत्यधिकावापः क्रियत इति भाष्यम् ? तदनुपपन्नमिव ? तेजःशब्देन तेजोऽध्यक्षजीवलक्षणासंभवादधिकशब्दप्रक्षेपाप्राप्तेरत आह –

अधिकावापोऽशब्दार्थेति ।

श्रौतोऽर्थो हि शब्दे भाति, अतोऽश्रौतार्थप्रक्षेपोऽधिकावाप इत्यर्थः ।

लक्षणास्वीकारे हेतुमाह –

श्रुत्यन्तरेति ।

प्राणानां जीवानुगमादिविषयं वर्णितमेव श्रुत्यन्तरम् ।

ननु तस्य तेजोद्वारेणान्यथासिद्धिरुक्तेति, तत्राह –

न च तेजसस्तत्रेति ।

अनिलाकाशक्रमेणेति ।

व्यवधानादेव साक्षत्तेजसः स्वरूपलययोगाद् न तद्द्वारेणात्मनि प्रलय उपचरितुं शक्यो व्यवधानाश्रयणे च घटादावपि प्रलयोपचारप्रसङ्ग इत्यर्थः । वृत्तिलयस्तु न कुतश्चित्प्रमाणादात्मन्यवगत इति न तद्द्वाराऽपि प्राणवृत्तिलयोपचार इति द्रष्टव्यम् । तेजःसहचरितश्चासौ देहबीजभूतश्च पञ्चभूतसूक्ष्मरूपश्च परिवारश्च तस्याध्यक्षो जीवात्मा तस्मिन्प्राणवृत्तिलय इत्यर्थः॥४॥ यद्यपि भाष्ये प्राणसंयुक्तोऽध्यक्षस्तेजःसहितेषु भूतसूक्ष्मेष्ववतिष्ठत इत्युक्तम्; तथापि तद्भूतसहितेऽध्यक्षे प्राणस्तिष्ठतीत्येवंपरं व्याख्येयम्; सोऽध्यक्ष इत्युपक्रमादिति भावः ।

चोद्यभाष्येऽपि यद्यपि प्राणसहितस्याध्यक्षस्य भूतेष्ववस्थितिराक्षिप्यत इति प्रतिभाति; तथापि भूतसहिताध्यक्षे प्राणस्थितिराक्षिप्यत इत्येवंपरत्वेन योज्यमित्याह –

तेजःसहचरितानीति ।

प्राणेनाधारत्वेन संपृक्तस्याध्यक्षस्य भूतैर्मिलित्वा स्थितिं श्रुतिर्न दर्शयतीति भाष्ययोजना हि इयता सूचितेति ।

परिहारभाष्येऽप्यध्यक्षं प्राप्य पूर्वव्यापारान्तरात्तेज आदिभूतप्राप्तिः प्राणस्य नाभिधीयते, उपहितप्राप्तेरुपाधिप्राप्तिनान्तरीयकत्वादित्यभिप्रेत्याह –

अध्यक्षसंपर्कवशादिति ।

दृष्टान्तेऽपि व्यवधानेन प्राप्त्यंशो न विवक्षितोऽपि तु यथा स्रुघ्नान्नगराद्गच्छतो मथुरापाटलिपुत्रयोरुभयोः प्राप्यत्वेऽपि पाठलिपुत्रं प्राप्यत्वेन निर्दिश्यते, एवमिहापि प्राणेन तेजसोऽध्यक्षस्य चोभयोः प्राप्यत्वेऽपि तेजसीति भूतमात्रस्य प्राप्यत्वं निर्दिश्यत इत्ययमर्थो विवक्षित इत्याह –

अत्रैवेति॥५॥

प्राण एकस्मिन्नेव तेजःसूक्ष्मे नावतिष्ठत इति कार्यस्थानेकस्यानेकात्मकत्वादिति च हेतुप्रतिज्ञयोर्वैयधिकरण्यमाशङ्क्याह –

स्थूलशरीरानुरूपमिति ।

कार्यानेकात्मकत्वेनानुमितं कारणानेकत्वमेकत्र प्राणस्थित्यभावे हेतुरित्यर्थः॥६॥

इति तृतीयमध्यक्षाधिकरणम्॥