भामतीव्याख्या
वेदान्तकल्पतरुः
 

समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ।

अत्रामृतत्वप्राप्तिश्रुतेः परविद्यावन्तं प्रत्येतदिति मन्वानस्य पूर्वः पक्षः । विशयानानां सन्दिहानानां पुंसाम् ।

चोदयति –

ननु विद्याप्रकरण इति ।

परिहरति –

न स्वापादिवदिति ।

परविद्ययैवामृतत्वप्राप्त्यवस्थामाख्यातुं तत्सधर्माश्च तद्विधर्माश्चान्या अप्यवस्थास्तदनुगुणतयाख्यायन्ते । साधर्म्यवैधर्म्याभ्यां हि स्फुटतरः प्रतिपिपादयिषिते वस्तुनि प्रत्ययो भवतीति । न तु विदुषः सकाशाद्विशेषवन्तोऽविद्वांसो विधीयन्ते येन विद्याप्रकरणव्याघातो भवेदपि तु विद्यां प्रतिपादयितुं लोकसिद्धानां तदनुगुणतया तेषामनुवाद इति ।

एवं प्राप्तेऽभिधीयते –

समाना चैषोत्क्रान्तिर्वाङ्मनसीत्याद्या विद्वदविदुषोः ।

कुतः –

आसृत्युपक्रमात् ।

सृतिः सरणं देवयानेन पथा कार्यब्रह्मलोकप्राप्तिरासृतेराकार्यब्रह्मलोकप्राप्तेः । अयं विद्योपक्रम आरम्भः प्रयत्न इति यावत् । तस्मादेतदुक्तं भवति नेयं परा विद्या यतो नाडीद्वारमाश्रयते । अपि त्वपरविद्येयम् । न चास्यामात्यन्तिकः क्लेशप्रदाहो यतो न तत्रोत्क्रान्तिर्भवेत् । तस्मादपरविद्यासामर्थ्यादापेक्षिकमाभूतसम्प्लवस्थानममृतत्वं प्रेप्सते पुरुषार्थाय सम्भवत्येष उत्क्रान्तिभेदवान् सृत्युपक्रमोपदेशः । उपपूर्वादुष दाह इत्यस्मादुपोष्येति प्रयोगः ॥ ७ ॥

समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य॥७॥ निरूपिताया उत्क्रान्तेरपरविद्यास्वन्वय इह प्रदर्श्यते । ननु दहरादिविद्याविदामुत्क्रान्तिर्नास्तीति इह पूर्वपक्षः, स न साधुः ; तद्विद्यासु देशान्तरीयफलास्वावश्यकत्वादुत्क्रान्तेरत आह –

अत्रेति ।

अत्राधिकरणे विषयभूतदहरविद्यायाममृतत्वमेतीत्यमृतत्वप्राप्तिश्रुतेरमृतत्वस्य च परविद्याफलत्वात्, परविद्यावन्तं प्रत्येतदमृतत्वं परविद्यायां चोत्क्रान्तिर्निषिध्यत इति यो मन्यते तस्य मतेनायं पूर्वपक्षः । वस्तुतस्तु नास्ति पूर्वपक्षः । ‘‘तयोर्ध्वमाय’’न्नित्युत्क्रान्तिमुपन्यस्यामृतत्वस्य श्रावितत्वादिति द्योतितं मन्वानग्रहणेन । अथवा - सगुणस्यापि व्यापित्वाद् ब्रह्मणो न तत्प्राप्तुमुत्क्रान्त्यपेक्षेति पूर्वपक्षोऽत्र वास्तवः| तस्या मुक्ते सधर्मा अवस्थाः सुषुप्त्याद्याः, विधर्मा जाग्रदाद्याः ।

नन्वेता अपि प्रतिपाद्यन्ता किं मुक्त्यर्थतया तदनुवादेनात आह –

न त्विति ।

येन हेतुना विद्याप्रकरणे व्याघातस्तेन विदुषः सकाशादविद्वांस उत्क्रान्त्यादिविशेषवन्तो न प्रतिपाद्यन्ते, नापि विद्वान् अमृतत्वश्रुतिविरोधादेवेत्यर्थः ।  अनेन न तु विदुष इति भाष्यं व्याख्यातम् । भाष्यकृद्भिरासृत्युपक्रमादित्येतत् प्रतिज्ञाविशेषणत्वेन व्याख्यातम् । अविशेषश्रवणादिति च हेतुरध्याहृतः ।

स्वयंत्वासृत्युपक्रमादेतदेव हेतुत्वेन योजयति –

कुत इति ।

आसृति सृतिपर्यन्तम् उपक्रमादित्यर्थः । ब्रह्मलोकप्राप्तितद्गतविशिष्टभोगफलपर्यन्तत्वाद्विद्यानुष्ठानप्रारम्भस्य ब्रह्मलोकस्य चोत्क्रम्य गत्वैव प्राप्यत्वादस्ति सगुणविद उत्क्रान्तिरित्यर्थः । एतेन वास्तवोऽपि पूर्वः पक्षो व्युदस्तः; सगुणब्रह्मप्राप्तिमात्रस्यापुमर्थत्वादिति ।

उपक्रमेति प्रकृत्यर्थमुक्त्वा पञ्चम्यर्थमाह –

तस्मादिति ।

प्रेप्सते प्राप्तुमिच्छते । उत्क्रान्तिभेद उत्क्रान्तिविशेषः । मूर्धन्यनाड्या निष्क्रमणम् ।

वस निवासे इत्यस्माद्धातोरिदं न भवति; तथा सत्यनुपोष्येत्यस्य मुक्त्वेत्येवमर्थत्वापातात्, अतो व्याचष्टे –

उष दाहे इतीति॥७॥

इति चतुर्थमासृत्युपक्रमाधिकरणम्॥