भामतीव्याख्या
वेदान्तकल्पतरुः
 

अविभागो वचनात् ।

निमित्तापाये नैमित्तिकस्यात्यन्तिकापायः । अविद्यानिमित्तश्च विभागो नाविद्यायां विद्यया समूलघातमपहतायां सावशेषो भवितुमर्हति । तथापि प्रविलयसामान्यात्सावशेषताशङ्कामतिमन्दामपनेतुमिदं सूत्रम् ॥ १६ ॥

अविभागो वचनात् ॥१६॥

अतिमन्दामपनेतुमिति ।

श्रुतिविरोधेनेत्यर्थः॥१६॥

इत्यष्टममविभागाधिकरणम्॥