तानि परे तथा ह्याह ।
प्रतिष्ठाविलयनश्रुत्योर्विप्रतिपत्तेर्विमर्शस्तमपनेतुमयमारम्भः । तानि पुनः प्राणशब्दोदितानीन्द्रियाण्येकादश सूक्ष्माणि च भूतानि पञ्च ।
ब्रह्मविदस्तस्मिन्नेव परस्मिन्नात्मनीति ।
आरम्भबीजं विमर्शमाह –
ननु गताः कला इति ।
घ्राणमनसोरेकप्रकृतित्वं विवक्षित्वा पञ्चदशत्वमुक्तम् ।
अत्र श्रुत्योर्विषयव्यवस्थया विप्रतिपत्त्यभावमाह –
सा खल्विति ।
व्यवहारो लौकिकः सांव्यवहारिकप्रमाणापेक्षेयं श्रुतिः । न तात्त्विकप्रमाणापेक्षा । इतरा तु एवमेवास्य परिद्रष्टुः इत्यादिका विद्वत्प्रतिपत्त्यपेक्षा तात्त्विकप्रमाणापेक्षा । तस्माद्विषयभेदादविप्रतिपत्तिः श्रुत्योरिति ॥ १५ ॥
तानि परे तथा ह्याह ॥१५॥ इत्याद्यधिकरणपञ्चकस्य संगतयो भाष्य एव विशदाः । परस्मिन् पुरुषे करणलयवचने सति संशयानुपपत्तिमाशङ्क्याह –
प्रतिष्ठाविलयनश्रुत्योरिति ।
प्रतिष्ठयोरवान्तरप्रकृतिमहाप्रकृत्योः, लिङ्गशरीरविलयनश्रुतिगताः कला ‘‘एवमेवास्य परिद्रष्टु’’रिति श्रुती तयोर्विप्रतिपत्तेर्विमर्शः संशय इत्यर्थः ।
परस्मिन्नात्मनीति ।
लीयन्त इति शेषः ।
ननु बाह्येन्द्रियाणि दश, भूतानि पञ्च, मन एकमिति षोडश कलाः सन्ति, कथं श्रुतौ पञ्चदशत्वनिर्देशस्तत्राह –
घ्राणेति ।
घ्राणस्य हि पृथिव्युपादानं, मनसश्च सैवान्नमयत्वश्रुतेरत एकप्रकृतिकत्वमित्यर्थः । सांव्यवहारिकप्रमाणेनानुमानेन करणानां भौतिकत्वावगमाद् भूतेषु लयोऽवगतः, भूतसूक्ष्माणां चासाधारणानां साधारणेषु भूतेषु प्राणानां वायौ तात्त्विकप्रमाणैस्तु वेदान्तैर्विश्वस्य ब्रह्मविवर्तत्वावगमाद् ब्रह्मणि बाध इत्यर्थः । यथा नद्यः समुद्रे लीयन्ते एवमेव पुरुषे कलाः, आसां कलानां नामरूपे शक्त्यात्मके अपि भिद्येते, स च विद्वानकलः कलारहितः सन्नमृतो भवति॥१५॥