रश्म्यनुसारी ।
रात्रावहनि चाविशेषेण रश्म्यनुसारी सन्नादित्यमण्डलं प्राप्नोतीति सिद्धान्तपक्षप्रतिज्ञा ॥ १८ ॥
पूर्वपक्षमाशङ्कते सूत्रावयवेन –
निशि नेति चेन् ।
सूत्रावयवान्तरेण निराकरोति –
न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ।
यावद्देहभावि हि शिराकिरणसम्पर्कः प्रमाणान्तरात्प्रतीयते । दर्शयति चैतमर्थं श्रुतिरप्यशेषेण । अमुष्मादादित्यात्प्रतायन्ते रश्मयस्त आसु नाडीषु सृप्ता भवन्ति य आभ्यो नाडीभ्यः प्रतायन्ते विस्तार्यन्ते ते रश्मयोऽमुष्मिन्नादित्ये सृप्ताः ।
प्रतापादिकार्यदर्शनादिति ।
आदिग्रहणेन चन्द्रापः सङ्गृह्यन्ते । चन्द्रमसा खल्वम्मयेन सम्बध्यमानानां सूरीणां भासां चन्द्रिकात्वम् । तस्मादप्यस्ति निशि सौर्यरश्मिप्रचार इति । ये त्वाहुः स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छेदिति निरपेक्षश्रवणाद्रात्रौ प्रेते नास्ति रश्म्यपेक्षेति । तान्प्रत्याह –
यदि च रात्रौ प्रेत इति ।
नह्येतद्विशिष्याधीयतेऽध्येतारः । ये तु मन्यन्ते विद्वानपि रात्रिप्रायणापराधेन नोर्ध्वमाक्रमत इति तान्प्रत्याह –
अथ तु विद्वानपीति ।
नित्यवत्फलसम्बन्धेन विहिता विद्या न पाक्षिकफला युक्तेति ।
ये तु रात्रौ प्रेतस्य विदुषोऽहरपेक्षां सूर्यमण्डलप्राप्तिमाचक्षते तन्मतमाशङ्क्याह –
अथापि रात्राविति ।
यावत्तावदुपबन्धेनानपेक्षा गतिः श्रुता । न चापेक्षा शक्यावगमा उपबन्धविरोधादिति ॥ १९ ॥
रश्म्यनुसारी॥१८॥ सूत्रं योजयति –
रात्रावहनि वेति॥१८॥
सिद्धान्तहेतुस्तूत्तरसूत्रगतोत्तरावयव इति ।
प्रमाणान्तरादिति ।
निश्यप्यौष्ण्यग्राहकादित्यर्थः । अनेन सौत्रश्चशब्दो व्याख्यातः ।
व्याख्यानपूर्वकं वाक्यमुदाहरति –
अमुष्मादिति ।
चन्द्रगतप्रकाशान्यथानुपपत्त्याऽस्ति रात्रौ सूर्यरश्मिरित्याह –
आदिग्रहणेति ।
ननु चन्द्रमस एव प्रकाशोऽस्तु, तत्राह –
अम्मयेनेति ।
रत्रावुत्क्रान्तस्याहःप्रतीक्षा नास्तीत्यत्र हेतुमाह –
यावत्तावदिति ।
स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतीति श्रुतौ यावच्छब्दोपबन्धेन शैघ्र्यपरेणानपेक्षा गतिः श्रुता, एवं चापेक्षा न शक्यावगमा; यावत्तावच्छाब्दयोरुपबन्धेनैव निरोधादित्यर्थः । अथ विशेषविज्ञानोपशमानन्तरम् । एतदिति क्रियाविशेषणम् । एतत्करोतीत्यर्थः ।
तदेव दर्शयति –
अस्मादिति ।
यद्रात्रौ ताप उपलभ्यते इति एतदहरेव रात्रौ दधाति सविता॥१९॥