भामतीव्याख्या
वेदान्तकल्पतरुः
 

वायुमब्दादविशेषविशेषाभ्याम् ।

“श्रुत्याद्यभावे पाठस्य क्रमं प्रति नियन्तृता । ऊर्ध्वाक्रमणमात्रे च श्रुता वायोर्निमित्तता ॥” “स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते”(बृ. उ. ५ । १० । १) इति हि वायुनिमित्तमूर्ध्वाक्रमणं श्रुतं न तु वायुनिमित्तमादित्यगमनं “स आदित्यं गच्छति” इत्यादित्यगमनमात्रप्रतीतेः । नच तेनेत्यनन्तरश्रुतोर्ध्वीक्रमणक्रियासम्बन्धि निराकाङ्क्षमादित्यगमनक्रिययापि सम्बन्द्धुमर्हति । न चादित्यागमनस्य तेनेति विना काचिदनुपपत्तिर्येनान्यसम्बद्धमप्यनुषज्यते । तत्राग्निलोकमागच्छति स वायुलोकमित्यादिसन्दर्भगतस्य पाठस्य क्वचिन्नियामकत्वेन कॢप्तसामर्थ्यादग्निवायुवरुणक्रमनियामकश्रुत्याद्यभावादिति प्राप्ते प्रत्युच्यते ऊर्ध्वशब्दो न लोकस्य कस्यचित्प्रतिपादकः । तद्भेदापेक्षया युक्तमादित्येन विशेषणम् ॥ भवेदेतदेवं यद्यूर्ध्वशब्दात्कश्चिल्लोकभेदः प्रतीयेत स तूपरिदेशमात्रवाची लोकभेदाद्विनापर्यवस्यंल्लोकभेदवाचिनादित्यपदेनादित्ये व्यवस्थाप्यते । तथा चादित्यलोकगमनमेव वायुनिमित्तमिति श्रौतक्रमनियमे, पाठः पदार्थमात्रप्रदर्शनार्थो न तु क्रमाय प्रभवति श्रुतिविरोधादिति सिद्धम् । वाजसनेयिनां संवत्सरलोको न पठ्यते छान्दोग्यानां देवलोको न पठ्यते तत्रोभयानुरोधादुभयपाठे माससम्बन्धात्संवत्सरः पूर्वः पश्चिमो देवलोकः । नहि मासो देवलोकेन सम्बध्यते किन्तु संवत्सरेण । तस्मात्तयोः परस्परसम्बन्धान्मासारभ्यत्वाच्च संवत्सरस्य मासानन्तर्ये स्थिते देवलोकः संवत्सरस्य परस्ताद्भवति । तत्रादित्यानन्तर्याय वायोः संवत्सरादित्यस्य स्थाने देवलोकाद्वायुमिति पठितव्यम् ।

वायुमब्दादिति तु सूत्रमत्रापि वाचकमेव । तथापि संवत्सरात्पराञ्चमादित्यादर्वाञ्चं वायुमभिसम्भवन्तीति छान्दोग्यपाठमात्रापेक्षयोक्तं, तदिदमाह –

वायुमब्दादिति त्विति ॥ २ ॥

वायुमब्दादविशेषविशेषाभ्याम्॥२॥ अत्र तेनेत्यस्यादित्यमागच्छतीत्येतत्पर्यन्तं संबन्धासंबन्धाभ्यां संशयः । पाठक्रमार्थक्रमाभ्यां संशय इति कैश्चिदुक्तमयुक्तम्; प्रबलदुर्बलाभ्यां सन्देहानवतारात्, पूर्वत्रार्चिरादिमार्गपर्वप्रत्यभिज्ञानात्सर्वत्र गत्यैक्यमुक्तम् । इहापि ‘‘स एतं देवयानं पन्थानम् आपद्याग्निलोकमागच्छति स वायुलोकमि’’त्यत्रार्थेऽर्चिरात्मकाग्न्यान्तर्यप्रत्यभिज्ञानादर्चिषोऽनन्तरं वायुर्निवेशनीय इति सङ्गतिः । नन्वत्र पाठादग्न्यानन्तर्यं वायोर्वक्तुमशक्यम् ; पाठस्य दुर्बलत्वाद्, इत्याशङ्क्याह –

श्रुत्याद्यभाव इति ।

ननु ‘‘स वायुमागच्छति स वायुस्तस्मै तत्र विजिहीते स्वावयवान्विगमय्य छिद्रं करोती’’ति ‘‘यथा रथचक्रस्य खं छिद्रं तेनोर्ध्वं आक्रमते स आदित्यमागच्छती’’ति वायोरादित्यात्पूर्वत्वरूपः क्रमस्तेनेति श्रुत्या प्रतीतः, तद्बलात्स एतमित्यत्रत्यः पाठक्रमो बाध्यतामत आह –

ऊर्ध्वक्रमणेति ।

द्वितीयार्धं व्याचष्टे –

तस्या इति ।

तेनेति श्रुतिर्वायुकृतावकाशस्योर्ध्वदेशमात्रप्राप्तौ हेतुत्वमाह, नादित्यगमने इत्यर्थः ।

ननु कथमादित्यगमनमात्रप्रतीतिस्तेनेत्यस्यादित्यमागच्छतीत्यनेनाप्यनुषङ्गः किं न स्यादत आह –

न चेति ।

आकाङ्क्षायां ह्यनुषङ्गः, इह तु तेनेत्यस्य सन्निहितोर्ध्वाक्रमणेन नैराकाङ्क्ष्यान्न व्यवहितादित्यागमनेन संबन्ध इत्यर्थः ।

नन्वादित्यप्राप्तेर्वायुदत्तावकाशेन वाय्वतिक्रमाद्विनाऽनुपपत्तेस्तेनेत्येतदादित्येनाप्यनुषज्यताम्, अत आह –

न चादित्यागमनस्येति ।

छिद्रेणोर्ध्वदेशप्राप्तेर्जातत्वात्पुनरादित्यागमनस्य तेनेत्यस्मिन्नपेक्षा नास्तीत्यर्थः ।

क्वचिदिति ।

वरुणलोकादावित्यर्थः । अत्रोर्ध्वादित्यलोकशब्दयोर्विशेषणविशेष्यभावादेकार्थत्वम् ।

तथा च तेनेति श्रुत्या वायुदत्तस्यादित्यगमनं प्रति हेतुत्वस्य नियतप्राक् सत्त्वात्मकत्वेन क्रमरूपस्य प्रतीतेः श्रुत्या पाठक्रमबाध इति सिद्धान्तयति –

ऊर्ध्वशब्द इति ।

उभयपाठ इति ।

उभयोः संवत्सरदेवलोकयोरश्रुतस्थलेऽपि पाठे कर्तव्ये सतीत्यर्थः ।

माससंबन्धादिति ।

माससंवत्सरयोः कालत्वसाम्यादित्यर्थः ।

कार्यकारणभावमप्याह –

मासारभ्यत्वाच्चेति ।

देवलोकः संवत्सरस्य परस्ताद्भवतु, वायुः क्व निवेशनीयस्तत्राह –

तत्रेति ।

‘‘तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति’’ इति वायोरादित्यानन्तर्याय निरन्तरत्वाय संवत्सरादित्यस्य स्थाने एतस्योपरि देवलोकं देवलोकाद्वायुमिति पठितव्यमित्यर्थः ।

ननु सूत्रं वायुमब्दादित्येतावन्मात्रं, कथमधिकावापस्तत्राह –

वायुमब्दादिति त्विति ।

वाचकमेव बोधकमेवेत्यर्थः । सूत्रे वायुशब्दो देवलोकोपलक्षणार्थ इति भावः ।

ननु यदि संवत्सराद्देवलोकाद्वायुं वायोरादित्यमभिसंभवन्तीति क्रमः सूत्रोक्तः, कथं तर्हि भाष्ये वायोः संवत्सरात्परत्वमादित्यादर्वाक्त्वं चोक्तमत आह –

तथापीति ।

छान्दोग्यपाठमात्रापेक्षया हि संवत्सरादादित्यमित्येतावन्मात्रश्रवणान्मध्ये वायुनिवेशे वायोः संवत्सरात्परत्वमादित्यादर्वाक्त्वं च सिध्यति; संवत्सरादुपरि वाजसनेयकगतदेवलोकानयने तु देवलोकसहितवायोरब्दादित्यान्तरालवर्त्तित्वमित्यर्थः ।

उक्तेऽर्थे भाष्यं संवादयति –

तदिदमिति ।

प्रजापतिलोकमिति ।

प्रजापतिर्विराट् आपूर्यमाणपक्षाच्छुक्लपक्षात्सकाशान्मासानार्च्छति यान् षण्मासान् येषु षण्मासेष्वादित्य उदग् उत्तरां दिशमेति॥२॥

इति द्वितीयं वाय्वधिकरणम्॥