भामतीव्याख्या
वेदान्तकल्पतरुः
 

चतुर्थेऽध्याये तृतीयः पादः

अर्चिरादिना तत्प्रथितेः ।

भिन्नप्रकरणस्थत्वाद्भिन्नोपासनयोगतः । अनपेक्षा मिथो मार्गास्त्वरातोऽवधृतेरपि ॥ गन्तव्यमेकं नगरं प्रति वक्रेणाध्वना गतिमपेक्ष्य ऋजुनाध्वना गतिस्त्वरावती कल्प्यते । एकमार्गत्वे तु कमपरमपेक्ष्य त्वरा स्यात् । अथ तैरेव रश्मिभिरित्यवधारणं नोपपद्यते पथ्यन्तरस्य निवर्तनीयस्याभावात्तस्मात्परानपेक्षा एवैते पन्थान एकब्रह्मलोकप्राप्त्युपाया व्रीहियवाविव विकल्पेरन्निति प्राप्ते प्रत्युच्यते एकत्वेऽपि पथोऽनेकपर्वसङ्गमसम्भवात् । गौरवान्नैव नानात्वं प्रत्यभिज्ञानलिङ्गतः ॥ सपर्वा हि पन्था नगरादिकमेकं गन्तव्यं प्रापयति नाभागः । तत्र किमेते रश्म्यहर्वायुसूर्यादयोऽध्वनः पर्वाणः सन्तोऽध्वनैकेन युज्यन्ते, आहो यथायथमध्वानमपि भिन्दन्तीति सन्देहेऽभेदेऽप्यध्वनो भागभेदोपपत्तेर्न भागिभेदकल्पनोचिता, गौरवप्रसङ्गात् । एकदेशप्रत्यभिज्ञानाच्च विशेषणविशेष्यभावोपपत्तेर्नानेकाध्वकल्पना । अथैतैरेव रश्मिभिरित्यवधारणं न तावदर्थान्तरनिवृत्त्यर्थं तत्प्रापकैरेव वाक्यान्तरैर्विरोधात् , तस्मादन्यानपेक्षामस्यावधारयतीति वक्तव्यम् । न चैकं वाक्यमप्राप्तमध्वानं प्रापयति तस्य चानपेक्षतां प्रतिपादयतीत्यर्थद्वयाय पर्याप्तं, तस्माद्विधिसामर्थ्यप्राप्तमयोगव्यवच्छेदमेवकारोऽनुवदतीति युक्तम् ।

त्वरावचनं चेति ।

न खल्वेकस्मिन्नेव गन्तव्ये पथिभेदमपेक्ष्य त्वरावकल्प्यते किन्तु गन्तव्यभेदादपि तदुपपत्तिः । यथा कश्मीरेभ्यो मथुरां क्षिप्रं याति चैत्र इति तथेहाप्यन्यतः कुतश्चिद्गन्तव्यादनेनोपायेन ब्रह्मलोकं क्षिप्रं प्रयातीति ।

भूयांस्यर्चिरादिश्रुतौ मार्गपर्वाणीति ।

अयमर्थः एकत्वात्प्राप्तव्यस्य ब्रह्मलोकस्याल्पपर्वणा मार्गेण तत्प्राप्तौ सम्भवन्त्यां बहुमार्गोपदेशो व्यर्थः प्रसज्यते । तत्र चेतनस्याप्रवृत्तेः । तस्माद्भूयसां पर्वणामविरोधेनाल्पानां तदनुप्रवेश एव युक्त इति ॥ १ ॥

अर्चिरादिना तत्प्रथितेः॥१॥

भिन्नेति ।

मार्गा अर्चिरादयो मिथः परस्परमनपेक्षा न त्वनेकविशेषणविशिष्ट एको मार्गः । कुतः? भिन्नप्रकरणत्वादिभिर्यत्र विद्यैक्येऽपि गतिविशेषेणाभेदो यथा पञ्चाग्निविद्यायां देवलोकादेस्तत्र भिन्नप्रकरणस्थत्वाद्विद्याभेदे तु भिन्नोपासनशेषत्वादिभिः ।

त्वरात इति ।

स यावत्क्षिप्येन्मन इति वेगावगतेरित्यर्थः ।

एतद्व्याचष्टे –

गन्तव्यमिति ।

अवधृतेरित्येतद्विवृणोति –

अथैतैरिति ।

एकस्मिन् गन्तव्येऽनेकमार्गवैयर्थ्यमाशङ्क्याह –

विकल्पेरन्निति ।

एकत्वेऽपीति ।

पथो मार्गस्य नैव नानात्वम् ; कुतः? तस्यैकत्वेऽप्यनेकैर्गुणभूतैः पर्वभिरवच्छेदैर्वाय्वादिभिः संगमसंभवेन गुणानां प्रधानेन समुच्चयोपपत्तेः, मार्गभेदकल्पनायां च गौरवाद्, आदित्यादिबहुविशेषणानां च सर्वत्र प्रत्यभिज्ञानलिङ्गेन मार्गैक्यावगमादित्यर्थः ।

भिन्नप्रकरणस्थत्वं ब्रह्मवदेकत्वेऽप्यविरुद्धम्; भिन्नोपासनशेषत्वं च भिन्नोपासनकर्तृचैत्रवदविरुद्धम् ;एकमार्गस्यानेकस्यानेकपर्वसंभवं लोके दर्शयति –

सपर्वा हीति ।

भागिभेदकल्पना अवयविभेदकल्पना ।

यदुक्तमवधृतेरिति, तत्राह –

न चैकं वाक्यमिति ।

अनपेक्षतामिति ।

अर्चिराद्यनपेक्षतामित्यर्थः ।

विधिसामर्थ्येति ।

न खल्विति रश्मिभिरिति रश्मिसत्ताबोधसामर्थ्यसिद्धं रश्मीनामसंबन्धव्यवच्छेदं मार्गोऽनुवदति; निशायां रश्म्यभावशङ्कामपनेतुमित्यर्थः । यच्चोक्तम् त्वरात इति, तत्परिहारार्थं भाष्यं –

त्वरावचनं त्वर्चिराद्यपेक्षायामपि शैर्घ्यार्थत्वाद् नोपरुध्यत इति, तदनुपपन्नम्; पूर्वपक्षे शैर्घ्यस्यैवानपेक्षत्वसाधकत्वेनोपपादितत्वादतो व्याचष्टे –

न खल्विति ।

पथि भेदं पथो मार्गस्य भेदम् ।

अन्यतः कुतश्चिद्गन्तव्यादिति ।

स्वर्गादेरित्यर्थः । तत्र हि धूमादिमार्गेण गमनं, कदाचित्प्रबलकर्मभिः प्रतिबन्धाद्विलम्बेतापि न त्वत्र; आ प्रायणादुपासीनस्यान्त्यप्रत्ययावश्यम्भावात्, ततश्च गन्तव्यान्तरापेक्षया शैर्घ्यार्थत्वादिति भाष्यं व्याख्याताम् ।

भूयांसीति भाष्ये मार्गैक्यं किमित्यर्चिरादिनेत्युक्तं, न पुना रश्म्यादिनेति शङ्कोत्तरमिव भाति; तथा सति चातोऽपीत्युपरितनोऽपिशब्दो न सङ्गच्छेतेति मत्वा व्याचष्टे –

अयमर्थ इति ।

त उपासकाः परा दीर्घाः समा यस्य स परावान् ब्रह्मा, तस्य पराः समावसन्ति तस्मिन्वसन्तीत्यन्या श्रुतिः, ‘‘सा ये’’ त्यन्या श्रुतिः । जितिर्जयः व्यष्टिर्व्याप्तिः । तद्य इति चापरा ब्रह्मचर्येणानुविन्दन्त्युपासते तेषामेव ब्रह्मलोकः प्राप्यत इति शेषः॥१॥

इति प्रथममर्चिराद्यधिकरणम्॥