भामतीव्याख्या
वेदान्तकल्पतरुः
 

अतश्चायनेऽपि दक्षिणे ।

अत एवेत्युक्तहेतुपरामर्श इत्याह –

अत एव चोदीक्षानुपपत्तेरिति ।

पूर्वपक्षबीजमाह –

उत्तरायणमरणप्राशस्त्य इति ।

अपनोदमाह –

प्राशस्त्यप्रसिद्धिरिति ।

अतःपदपरामृष्टहेतुबलादविदुषो मरणं प्रशस्तमुत्तरायणे विदुषस्तूभयत्राप्यविशेषो विद्यासामर्थ्यादिति । विदुषोऽपि च भीष्मस्योत्तरायणप्रतीक्षणमविदुष आचारं ग्राहयति “यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः”(भ. गी. ३-२१) इति न्यायात् । आपूर्यमाणपक्षादित्याद्या च श्रुतिर्न कालविशेषप्रतिपत्त्यर्था, अपि त्वातिवाहिकीर्देवताः प्रतिपादयतीति वक्ष्यति । तस्मादविरोधः ॥ २० ॥

सूत्रान्तरावतरणाय चोदयति –

ननु च यत्र काले त्विति ।

काल एवात्र प्राधान्येनोच्यते न त्वातिवाहिकी देवतेत्यर्थः ।

योगिनः प्रति च स्मर्यते स्मार्ते चैते ।

स्मार्तीमुपासनां प्रत्ययं स्मार्तः कालभेदविनियोगः प्रत्यासत्तेः न तु श्रौतीं प्रतीत्यर्थः । अत्र यदि स्मृतौ कालभेदविधिः श्रुतौ चाग्निज्योतिरादिविधिस्तत्राग्न्यादीनामातिवाहिकतया विषयव्यवस्थया विरोधाभाव उक्तः । अथ तु प्रत्यभिज्ञानं तथापि यत्र काल इत्यत्रापि कालाभिधानद्वारेणातिवाहिक्य एव देवता उक्ता इत्यविरोध एवेति ॥ २१ ॥

इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य द्वितीयः पादः ॥ २ ॥

अतश्चायनेऽपि दक्षिणे॥२०॥ प्राशस्त्यप्रसिद्धेरविद्वद्विषयत्वेन सङ्कोचे हेतुमाह –

अतःपदपरामृष्टेति ।

प्रतीक्षणमित्यत उपर्यविदुष इति द्वितीयाबहुवचनम्॥२०॥

अग्निर्ज्योतिरादीति ।

अग्निरर्चिरादिदेवता ज्योतिरादित्यदेवता ।

विषयव्यवस्थयेति ।

स्मार्तकालविधेर्निर्गुणपुरुषमात्रविवेकचित्तवृत्तिनिरोधात्मकसांख्ययोगविषयत्वेन श्रौतातिवाहिकदेवताविधेः सगुणविद्याविषयत्वेन च व्यवस्थयेत्यर्थः ।

अथ तु प्रत्यभिज्ञानमिति ।

स्मृतावग्न्यादिशब्दैः श्रौतार्चिरादिदेवतानां प्रत्यभिज्ञानमित्यर्थः॥२१॥

इत्येकादशं दक्षिणायनाधिकरणम्॥

इति श्रीमत्परमहंसपरिव्राजकश्रीमदनुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य द्वितीयः पादः॥२॥