अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ।
अब्रह्मक्रतवो यान्ति यथा पञ्चाग्निविद्यया । ब्रह्मलोकं प्रयास्यन्ति प्रतीकोपासकास्तथा ॥ सन्ति हि मनो ब्रह्मेत्युपासीतेत्याद्याः प्रतीकविषया विद्याः । तद्वन्तोऽप्यर्चिरादिमार्गेण कार्यब्रह्मोपासका इव गन्तुमर्हन्ति “अनियमः सर्वासाम्” इत्यविशेषेण विद्यान्तरेष्वपि गतेरवधारणात् । न चैषां परब्रह्मविदामिव गत्यसम्भव इति । नच ब्रह्मक्रतव एव ब्रह्मलोकभाजो नातत्क्रतव इत्यप्येकान्तः । अतत्क्रतूनामपि पञ्चाग्निविदां तत्प्राप्तेः । न चैते न ब्रह्मक्रतवो मनो ब्रह्मेत्युपासीतेत्यादौ सर्वत्र ब्रह्मानुगमेन तत्क्रतुत्वस्यापि सम्भवात् । फलविशेषस्य ब्रह्मलोकप्राप्तावप्युपपत्तेः, तस्य सावयवतयोत्कर्षनिकर्षसम्भवादिति प्राप्ते प्रत्युच्यते उत्तरोत्तरभूयस्त्वादब्रह्मक्रतुभावतः । प्रतीकोपासकान् ब्रह्मलोकं नामानवो नयेत् ॥ भवतु पञ्चाग्निविद्यायामब्रह्मक्रतूनामपि ब्रह्मलोकनयनं, वचनात् । किमिव हि वचनं न कुर्यात्नास्ति वचनस्यातिभार इह तु तदभावात् । “तं यथायथोपासते तदेव भवति”(मुद्गलोपनिषत्.३) इति श्रुतेरौत्सर्गिक्यान्नासति विशेषवचनेऽपवादो युज्यते । नच प्रतीकोपासको ब्रह्मोपास्ते सत्यपि ब्रह्मेत्यनुगमे । किन्तु नामादिविशेषं ब्रह्मरूपतया । तथा खल्वयं नामादितन्त्रो न ब्रह्मतन्त्रः । आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः प्रतीक इति हि वृद्धाः । ब्रह्माश्रयश्च प्रत्ययो नामादिषु प्रक्षिप्त इति नामतन्त्रः । तस्मान्न तदुपासको ब्रह्मक्रतुः किन्तुनामादिक्रतुः । न च ब्रह्मक्रतुत्वे नामाद्युपासकानामविशेषादुत्तरोत्तरोत्कर्षः सम्भवी । नच ब्रह्मक्रतुस्तदवयवक्रतुर्येन तदवयवापेक्षयोत्कर्षो वर्ण्येत । तस्मात्प्रतीकालम्बनान्विदुषो वर्जयित्वा सर्वानन्यान्विकारालम्बनान्नयत्यमानवो ब्रह्मलोकम् । न ह्येवमुभयथाभाव उभयथार्थत्वे कांश्चित्प्रतीकालम्बनान्न नयति विकारालम्बनान्विदुषस्तु नयतीत्यभ्युपगमे कश्चिद्दोषोऽस्ति “अनियमः सर्वासाम्” इत्यस्य न्यायस्येति सर्वमवदातम् ॥ १५ ॥
विशेषं च दर्शयति ॥ १६ ॥
अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥१५॥ गन्तव्यविशेषनिरूपणानन्तरं गन्तृविशेषनिरूपणात्सङ्गतिः । ननु ब्रह्मक्रतूनां ब्रह्मोपासकानामेव ब्रह्मलोकगमनमुचितं, ‘‘तं यथा यथोपासत ‘‘ इति न्यायात्, तत्र कथं प्रतीकोपासकानां ब्रह्मलोकगमनमाशङ्क्येतेत्यत आह –
ब्रह्मक्रतव इति ।
‘‘स एनान्ब्रह्म गमयती’’ति प्रकृतपञ्चाग्निविदां परामर्शादब्रह्मक्रतवोऽपि यथा पञ्चाग्निविद्यया ब्रह्मलोकं यान्ति, तथा प्रतीकोपासका अपि, ‘‘ये चामी अरण्ये श्रद्धा तप इत्युपासते’’ इति सामान्यवचनाद् ब्रह्मलोकं प्रयास्यन्तीत्यर्थः ।
अब्रह्मोपासकत्वं चासिद्धमित्याह –
न चैते इति ।
ननु ‘‘यावन्नाम्नो गतं व्याप्तिस्तत्रास्य यथाकामचारो भवति वाग्वाव नाम्नो भूयसी यावद्वाचो गत ‘‘मित्यादिप्रतीकोपास्तीनामुत्तरोत्तरमुत्कर्षवत्फलं श्रूयते, तद् ब्रह्मलोके कथमत आह –
फलविशेषस्येति ।
प्रतीकोपासकानामानवो ब्रह्मलोकं न नयेत्कुतः? तत्राह –
उत्तरोत्तरभूयस्त्वादिति ।
प्रतीकोपास्तिफलस्येति शेषः ।
किमिवहीति ।
विशेषवचनं सामान्यवचनबाधनं किमिव हि न कुर्यात् किंतु सर्वत्र कुर्यादेवेत्यर्थः ।
इह तदभावादिति ।
विशेषवचनाभावात्, ये चामी इत्यस्य सामान्यविषयत्वादित्यर्थः ।
तदिदमुक्तम् –
असति विशेषवचन इति ।
किंतु नामादिविशेषणं ब्रह्मरूपतयेति ।
ब्रह्मशब्दस्येतिशब्दशिरस्कत्वेन ब्रह्मणोऽप्रधानत्वावगमादित्यर्थः ।
ननु भवत्वर्थान्तरविषयस्य विषयान्तरे प्रक्षेपः प्रतीकः, कथमेतावता नामादिषु ब्रह्मधीप्रक्षेपसिद्धिः? अत आह –
ब्रह्माश्रयश्चेति ।
अत्राप्युक्त एव हेतुः –
यस्मादिति ।
यदुक्तं ब्रह्मलोकस्य सावयवत्वात् फलविशेषोपपत्तिरिति, तत्राह –
न च ब्रह्मक्रतुरिति ।
ब्रह्मलोकावयविनस्तत्तद्द्ब्रह्मणश्च सर्वैरूपस्यात्वाद् न फलविशेषोपपत्तिरित्यर्थः ।
उभयथाऽदोषादिति सूत्रावयवं योजयति –
न ह्येवमिति ।
कांश्चित्प्रतीकालम्बनान्नयति, कांश्चित्तु विकारब्रह्मालम्बनान्नयतीति योऽयमुभयथाभाव उभयथात्वं तस्याभ्युपगमे सत्यनियमः सर्वासामित्यस्य न्यायस्य सामान्यवचनाश्रयस्य न हि कश्चिद्दोषः ; तस्य ब्रह्मक्रतुष्वप्युपपत्तेरिति योजना॥१५॥१६॥