भामतीव्याख्या
वेदान्तकल्पतरुः
 

चतुर्थेऽध्याये चतुर्थः पादः ।

सम्पद्याविर्भावः स्वेन शब्दात् ।

प्रागभूतस्य निष्पत्तौ कर्तृत्वं न सतो यतः । फलत्वेन प्रसिद्धेश्च मुक्ते रूपान्तरोद्भवः । अभूतस्य घटादेर्भवनं निष्पत्तिर्न पुनरत्यन्तसतोऽसतो वा । न जातु गगनतत्कुसुमे निष्पद्येते । स्वरूपावस्थानं चेदात्मनो मुक्तिर्न सा निष्पद्येत, तस्य गगनवदत्यन्तसतः प्रागसत्त्वाभावात् । न चास्य बन्धाभावो निष्पद्यते, तस्य तुच्छस्वभावस्य कार्यत्वेनातुच्छत्वप्रसङ्गात् । फलत्वप्रसिद्धेश्च मोक्षस्याकार्यस्य फलत्वानवकल्पनादागन्तुना रूपेण केनचिदुत्पत्तौ स्वेनेति प्राप्तमनूद्यत इति प्राप्तेऽभिधीयते - सम्भवत्यर्थवत्त्वे हि नानर्थक्यमुपेयते । बन्धस्य सदसत्त्वाभ्यां रूपमेकं विशिष्यते ॥ अनधिगतावबोधनं हि प्रमाणं शाब्दमगत्या कथञ्चिदनुवादतया वर्ण्यते । सकलसांसारिकधर्मापेतं तु प्रसन्नमात्मरूपमप्रसन्नात्तस्मादेव रूपाद्व्यावृत्तमनधिगतमवबोधयन्नानुवादो युज्यते । न चास्य निष्पत्त्यसम्भवः, सत इव घटादेः सांव्यवहारिकेण प्रमाणेन बन्धविगमस्यापि निष्पत्तेर्लोकसिद्धत्वात् । विचारासहतया त्वसिद्धिरुभयत्रापि तुल्या । न ह्यसदुत्पत्तुमर्हतीत्यसकृदावेदितम् । अन्धो भवतीति स्वप्नावस्था दर्शिता बाह्येन्द्रियव्यापाराभावात् । रोदितीव जाग्रदवस्था दुःखशोकाद्यात्मकत्वात् । विनाशमेवापीत इति सुषुप्तिः । एवकारश्चैवार्थेऽनवधारणे ॥ १ ॥

मुक्तः प्रतिज्ञानात् ॥ २ ॥

आत्मा प्रकरणात् ।

ननु ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति पौर्वापर्यश्रवणात्स्वरूपनिष्पत्तेरन्या ज्योतिरुपसम्पत्तिः तथाच भौतिकत्वेऽपि न मोक्षव्याघातः । भवेदेतदेवं यदि ज्योतिरुपसम्पद्य तत् परित्यजेदिति श्रूयेत । तदध्याहारेऽपि तत्प्रतिपादनवैयर्थ्यं तदपरित्यागे च ज्योतिषैव स्वेन रूपेणेति गम्यते । तस्य च भूतत्वे विकारत्वान्मरणधर्मकत्वप्रसिद्धेरमुक्तित्वमिति प्राप्ते प्रत्युच्यते - ज्योतिष्पदस्य मुख्यत्वं भौतिके यद्यपि स्थितम् । तथापि प्रक्रमाद्वाक्यादात्मन्येवात्र युज्यते ॥ परंज्योतिरिति हि परपदसमभिव्याहारात्परत्वस्य चानपेक्षस्य ब्रह्मण्येव प्रवृत्तेज्योतिषि चापरे किञ्चिदपेक्ष्य परत्वात्परं ज्योतिरिति वाक्यादात्मैवात्र गम्यते । प्रकरणं चोक्तम् । यत्सम्पद्य निष्पद्यत इति तन्मुखं व्यादाय स्वपितीतिवत् । तस्माज्ज्योतिरुपसम्पन्नो मुक्त इति सूक्तम् ॥ ३ ॥

आद्ये पादे निर्गुणविद्याफलैकदेशो बन्धनिवृत्तिर्निरूपिता, द्वितीये सगुणनिर्गुणफलप्राप्तिशेषत्वेन तद्विदोरुत्क्रान्त्यनुत्क्रान्ती चिन्तिते । तृतीये च सगुणफलसिध्द्युपयोगिनो गतिगन्तव्यगन्तृविशेषा विचारिताः, इह चतुर्थे पादे निर्गुणविद्याफलैकदेशान्तरं ब्रह्मभावाविर्भावः, सगुणविद्याफलं च सर्वेश्वरतुल्यभोगभाक्त्वमवधारयिष्यते॥ संपद्याविर्भावः स्वेनशब्दात्॥१॥

प्रागिति ।

अभिनिष्पद्यत इति शब्दात् प्रागसतः पदार्थस्य निष्पत्तौ कर्तृत्वं प्रतीयते, तत्सतो नोपपद्यते इति यतस्ततो हेतोर्मुक्तेः फलत्वेन प्रसिद्धेश्चात्मातिरिक्तरूपान्तरोद्भवो मोक्षे स्यादित्यर्थः ।

प्रागभूतस्येत्येतद्व्याचष्टे –

अभूतस्येति ।

अत्यन्तसतोऽनुत्पत्तौ गगनमुदाहरणम् । अत्यन्ताऽसतोऽनुत्पत्तौ गगनकुसुममुदाहरणम् । अतः प्रागसत एवोत्पत्तिरित्यर्थः ।

एवं लोके व्याप्तिमुक्त्वा प्रकृते योजयति –

स्वरूपावस्थानं चेदिति ।

तस्येति ।

स्वरूपावस्थानस्येत्यर्थः ।

ननु स्वरूपं माऽभिनिष्पादि, बन्धाभावस्तु निष्पत्स्यतेऽत आह –

न चास्येति ।

यद्युत्पद्येत बन्धाभावः, तर्हि स कार्यत्वात्कुम्भवन्न तुच्छः स्यादित्यर्थः । फलत्वप्रसिद्धेश्च मोक्षस्यागन्तुना केनचिदुत्पत्तावित्यन्वयः ।

अनयोर्हेतुहेतुमद्भावमुपपादयति –

अकार्यस्येति ।

ननु रूपान्तरनिष्पत्तौ कथं स्वेनेति शब्दोपपत्तिस्तामाह –

केनचिदिति ।

यद्रूपान्तरं निष्पद्यते, तस्यात्मीयत्वं सिद्धं तत्स्वीयवाचिना स्वशब्देनानूद्यत इत्यर्थः ।

स्वशब्दस्यानुवादकत्वं निषेधन्नात्मवचनत्वमाह –

संभवतीति ।

आत्मन्यभिनिष्पत्तिशब्दं घटयति –

बन्धस्येति ।

निवृत्तबन्धमात्मस्वरूपम् अभिनिष्पद्यत इति उच्यते ; बन्धनिवृत्तेर्जन्यत्वादित्यर्थः ।

यदुक्तं कार्यत्वे बन्धध्वंसस्यातुच्छत्वं स्यादिति, स इष्ट्प्रसङ्गः; ध्वंसस्यापि तुच्छत्वाऽनिष्टेरित्याह –

न चास्येति ।

निवृत्तबन्धादात्मस्वरूपात्प्राक्तनरूपस्य विशेषप्रदर्शकं भाष्यं, पूर्वत्रान्धो भवतीत्याद्यवस्थात्रयकलुषितेनात्मनेत्यन्तं, तद्व्याचष्टे –

स्वप्नावस्थादर्शितेत्यादिना ।

बद्धो भवतीति पाठान्तरे रोदितीवेत्यादिना बन्धनप्रदर्शनम् ।

ननु कथं विनाशमेवेत्युच्यते ? सुषुप्तौ स्वरूपचैतन्याविनाशादत आह –

एवकारश्चेति ।

अनवधारणे अवधारणव्यतिरिक्ते इवार्थे इत्यर्थः॥१॥२॥

आत्मेति सूत्रारम्भमाक्षिपति –

नन्विति ।

आरम्भमुपपादयन्पूर्वपक्षमाह –

भवेदिति ।

ननूपसंपद्येति क्त्वाप्रत्ययसामर्थ्यात्  परित्यज्येत्येतदश्रुतमप्यध्याह्रियतां, तथा चात्मप्राप्तिसिद्धेर्व्यर्थः सूत्रारम्भोऽत आह –

तदध्याहारेऽपीति ।

यदि हि परित्याज्यं ज्योतिस्तर्हि तत्प्राप्त्यभिधानवैयर्थ्यामर्चिरादिमार्गस्यात्मविदि वारितत्वादित्यर्थः ।

श्लोकगतं वाक्यादिति हेतुं व्याचष्टे –

परं ज्योतिरिति हीति ।

आनर्थक्यप्रतिहताया ज्योतिःश्रुतेर्वाक्यमेव प्रबलमित्यर्थः । आनर्थक्यप्रतिहतिश्च ज्योतिर्दर्शना (ब्र.अ.१ पा.३ सू.४०) दित्यत्र वर्णिता । अत एव तस्यैव न्यायस्येदमनुस्मारणं । प्रकरणं च य आत्माऽपहतपाप्मेत्यादिभाष्य एवोक्तमित्यर्थः ।

ननु यदि ज्योतिरेव स्वेन रूपेणेति निर्दिश्यते, कथं तर्ह्युपसंपद्येति क्त्वाप्रयोग इत्याशङ्कते –

यदिति ।

परिहरति –

तदिति ।

एककालयोरपि मुखविदारणस्वापयोः क्त्वाप्रत्ययवदयमप्यविवक्षितपूर्वकालभावो न तद्बलात् ज्योतिःस्वरूपशब्दयोर्भिन्नार्थत्वम् । तथा च यत्परं ज्योतिरुपसंपद्यते तत्स्वेन रूपेणाभिनिष्पद्यत’’ इति वाक्यार्थ इत्यर्थः॥३॥

इति प्रथमं संपद्याविर्भावाधिकरणम्॥