वेदान्तकल्पतरुः
कल्पतरुपरिमलः
 

जन्माद्यस्य यतः ॥२॥ अनन्तराधिकरणेन प्रारिप्सितसमस्त विचारस्य संबन्धमाह —

तदेवमिति ।

सकलशास्त्रं प्रतीकेन संगृहीतम् । विषयादिसद्भावात् समर्थिते विचारारम्मे तमुपजीव्योत्तरविचारप्रवृत्तेर्हेतुहेतुमल्लक्षणः संबन्ध इत्यर्थः ।

प्रथमसूत्रेण द्वितीयसूत्रस्याक्षेपलक्षणां सङ्गतिमाह —

एतस्येति ।

मुमुक्षुणा ब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति प्रतिज्ञायां ब्रह्मखरूपविचारवत्प्रमाणयुक्तिसाधनफलविचाराणामर्थात् प्रतिभाने कथं प्रथमं ब्रह्मैव विचार्यतेऽत आह—

अत्रेति ।

अत्र यतो वेत्यादिवाक्यं ब्रह्म लक्षयति, उत नेति लक्षणस्य लोकप्रसिद्ध्यप्रसिद्धिभ्यां विशये पूर्वपक्षमाह —

तत्र यद्यावदिति ।

पूर्वाधिकरणाक्षेपपरिहारत्वादस्य तत्रत्यब्रह्मलक्षणनिरूपकत्वाच्च तदीयमेव मुमुक्ष्वभिलषितमोक्षलाभः प्रयोजनमिति न पृथग्वक्तव्यम् । यदाहाचार्यः शबरस्वामी आक्षेपे चापवादे च प्राप्त्यां लक्षणकर्मणि । प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तते॥‘ इति । यत्र पूर्वाधिकरणसिद्धान्ताक्षेपेण पूर्वःपक्षः तत्राक्षेपिकी, यत्र तु पूर्वाधिकरणसिद्धान्तेन पूर्वपक्षः तत्रापवादिकी सङ्गतिः । प्राप्तिः तदर्थचिन्ता, कृत्वा प्रवर्तनं कृत्वाचिन्ता, सा चाभ्युपगमवाद इति । सजातीयविजातीयव्यावृत्तिप्रयोजनो धर्मो लक्षणं नाम ।

तदिह परिदृश्यमानं जगदेव लक्षणं ब्रह्मणः, उत नित्यशुद्धत्वादिस्वरूपमिति विकल्प्य नाद्य इत्युक्ते द्वितीयमाशङ्क्याह —

नचेति ।

ननु लोकासिद्धमपि वेदेन ज्ञाप्यतामत आह —

ऐवं चेति ।

न जगद् ब्रह्मलक्षणं, किंतु तत्प्रति कारणत्वं , तच्च जीवाविद्याविषयीकृतस्य धर्म इत्युपलक्षणमुपपादयति —

माभूदिति ।

तादात्म्येनेति ।

ऐक्येन ।

ततो भेदेन तद्धर्मतयेति ।

तदुत्पत्त्या त्विति ।

तदुत्पन्नत्वेन जगत् स्वकारणं लक्षयति ज्ञापयति, कारणत्वं तु ब्रह्मलक्षणमित्यर्थः । व्रज्याया गतेः । जन्म आदिर्ययोः स्थितिभङ्गयोस्तौ जन्मादी इत्यन्यपदार्थो यदि विशेषरूपेण विवक्ष्यते, तर्हि जन्मादी अस्येति निर्देशे गौरवं स्यात्तन्मा भूदिति सामान्यविवक्षया नपुंसकप्रयोगः सूत्रे कृतः ।

तत्र नपुंसकैकवचनप्रयोगार्हं समाहारमाहेत्याह —

लाघवायेति ।

‘श्रुतीरविशदाः काश्चिद्भाष्याणि विषमाणि च । वाचस्पत्युक्तभावानि पदशो विभजामहे’॥

तद्गुणसंविज्ञान इति ।

तच्छब्देन बहुव्रीह्यर्थोन्यपदार्थ उच्यते । तस्य गुणत्वेन संविज्ञानं यस्मिन्समासे सः तथोक्तः । सर्वस्य विशेषणत्वे समासाऽसंभवात् समासार्थैकदेशो विशेषणमिति लभ्यते ।

अनादौ संसारे कथं जन्मादिस्तत्राह —

जन्मन इति ।

श्रुत्या वा कथमयुक्तं निर्दिष्टमत आह —

वस्त्विति ।

नानादेः संसारस्यादिर्जन्मोच्यते, किं तर्हि प्रतिवस्तु ।

घटस्य हि जन्मैवादिरति ।

इदमः सन्निहितवचनत्वात्प्रत्यक्षमात्रपरामर्शित्वमाशङ्क्य प्रतीतिमात्रं सन्निधिरित्याह —

अस्येतीति ।

सर्वस्य जगतो न जन्म; आकाशादेरनादित्वात्, तत्राह —

षष्ठीति ।

वियदधिकरण (ब्र.अ.२.पा.३.सू.१) न्यायात्तस्याप्यस्ति जन्मादिसंबन्ध इत्यर्थः ।

जगतो जन्मादेर्वा ब्रह्मासंबन्धान्न लक्षणत्वमित्याशङ्क्याह —

यत इति ।

व्याख्यातमेतदधस्तात् । एवं सूत्रपदानि व्याख्याय प्रथमसूत्राद् ब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च वाक्यार्थमाह — अस्य जगत इत्यादिना भाष्येण ।

तद्गतैर्विशेषणैर्लक्षणेऽतिव्याप्तिः परिह्रियत इत्याह —

स्यादेतदित्यादिना ।

स्वभाव एव नियन्तेति स्वभावपक्षः, यदृच्छापक्षस्तु न किंचिन्नियामकमस्तीति । व्यासेधति=प्रतिषेधति ।

उत्पत्तेः प्रगसतः कथं बुद्धावालेखनमत आह —

अत एवेति ।

यदसदिति प्रसिद्धं तद्, बुध्द्यारूढरूपेण सदेव; अन्यथा तुरङ्गशृङ्गवत्कर्मत्वनिर्देशायोगादिति सत्कार्यवादिन आहुः ।

वैश्वानरीयेष्ट्यादिष्विति ।

चतुर्थे स्थितम् — फलसंयोगस्त्वचोदितेन स्यादशेषभूतत्वात्(जै.अ.४.पा.३.सू.३८) “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते’’ इत्युपक्रम्य ‘‘यस्मिन् जात एताभिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवती’’ति श्रूयते । तत्र किं पूतत्वादि पितुः फलं, उत पुत्रस्येति संदेहे, फलस्य कर्तृगामित्वनियमादितरथा प्रेरणानुपपत्तेः पितुरिति प्राप्ते — राद्धान्तः; यस्मिन् जाते एतामिष्टिं निर्वपति स पूत इति जातगामित्वेन फलाम्नानात् फलभोक्तृत्वेनाचोदिते पितरि फलसंयोगो न स्याद्वचनस्य तं प्रत्यशेषभूतत्वात् ।

यत्त्वफलभागिनो न प्रेरणेति ।

तन्न; पूतत्वादिगुणवत्पुत्रवत्तयैव पितुः प्रीत्युत्पत्तेः प्रेरणावकल्पनात् ।

अतः पुत्रगामि फलमिति ।

अत्रानेककर्तृभोक्तृजीवानां सृज्यत्वेन निर्देशाज्जगत्कर्तृत्वायोग्यतोक्ता ।

मनसापीति ।

जगतस्तान्प्रति कार्यत्वायोग्यतेति विशेषणद्वयेन जीवकर्तृकत्वनिषेधः । व्याकृतस्य इत्यनेनानभिव्यक्तबीजावस्थजगतोभिव्यक्त्यभिधानादणवः प्रागसद् द्व्यणुकाद्यारभन्त इति मतव्युदासः । शेषं विशदं टीकायाम् । तदेव लिलक्षयिषितजगद्योनिब्रह्मसजातीयया परभ्रमपरिकल्पितप्रधानादेरुक्तविधजगत्प्रकृतित्वं ब्रह्म व्यवच्छिनत्ति । विजातीयात्पुनः कार्यात्कारणत्वादेव । तथा च सजातीयविजातीयव्यवच्छेदकत्वेन जगत्प्रकृतित्वस्य सिद्धं लक्षणत्वम् ।

धर्मलक्षणेति ।

धर्म इति लक्षणमिति अवस्थेति त्रीणि लक्षणानि यस्य परिणामस्य स तथोक्तः ।

स चोत्पत्तावन्तर्भवतीति ।

धर्मपरिणामं विवृणोति —

धर्मिणो हीति ।

कनकादेर्धर्मिणो धर्मरूपपरिमाणो नाम मुकुटकटकादिरिति सांख्यप्रक्रिया । तत्र निरूप्यमाणे परिणामशब्दालम्बने तस्य कटकादेर्हेमादित उत्पत्तिरित्यर्थः ।

लक्षणपरिणाममुदाहरति —

एवमिति ।

प्रत्युत्पन्नत्वं वर्तमानत्वं कटकादिकार्यस्य वर्तमानत्वातीतत्वभविष्यत्वरूपो लक्षणपरिणामः सोऽप्युत्पत्तिरित्यर्थः ।

अवस्थापरिणाममुदाहरति —

एवमवस्थेति ।

अतीतादेरेवातीतत्वातीततरत्वातीततमत्वादिरूपो नवपुराणत्वाद्यापत्तिरवस्थापरिणामो नाम, स चोत्पत्तिरेवेत्यर्थः ।

अपक्षयस्य विनाशान्तर्भावमाह —

अपक्षयस्त्विति ।

तच्च न मूलकारणेति ।

पुरुषाणां श्रुतिमन्तरेणातीन्द्रियार्थे दर्शनसामर्थ्याभावादित्यर्थः ।

न च वृध्द्यादिविकारकथनादेव मूलकारणे द्रष्टृत्वमनुमेयं अन्यथाप्युपपत्तेरित्याह —

महासर्गादिति ।

परमकारणादुत्पत्त्यादयो न गृहीता इति शङ्कापनुत्तये योत्पत्तिर्ब्रह्मणो ‘यतो वेति’ वाक्ये जायन्त इत्युत्पत्तिरभिहिता या च तत्रैव स्थितिजीवन्तीत्युक्ता, यश्च तत्रैव प्रलयोऽभिसंविशन्तीत्युक्तस्त उत्पत्त्यादयः सूत्रे गृह्यन्त इति भाष्यार्थः ।

तत्रोत्पत्तिमात्रादेव लक्षणस्यालक्ष्यव्यावृत्तिसिद्धौ स्थितिलयोपादानमाशङ्कानिवृत्त्यर्थमित्याह —

उत्पत्तिमात्रमिति ।

उत्पादकत्वं निमित्तेऽपि दृष्टमित्युपादानत्वसिद्ध्यर्थं लयाश्रयत्वमुक्तमित्यर्थः । नन्वेवमपि लयाधारत्वादेवोपादानत्वं लभ्यते, नहि दण्डादिषु कुम्भादयो लीयन्तेऽत इतरवैयर्थ्यम् — इतिचेत्, मैवम्; उपादानत्वमेव न कुलधर्मतयोक्तं, किंतु प्रकृतिविकाराभेदन्यायेनाद्वैतसिद्धये । एवं च भवतु ब्रह्म जगत उपादानम्, अधिष्ठाता तु उत्पत्तिस्थित्योरन्यः स्यात् कुम्भकार इव कुम्भस्योत्पत्तौ राजेव च राजस्थेम्नीति मा शङ्कीत्युत्पत्तिस्थितिग्रहणमिति ।

लक्षणाख्यकेवलव्यतिरेक्यनुमानादेव प्रतिज्ञातब्रह्मप्रमितेः शास्त्रयोनित्व (ब्र.अ.१.पा.१.सू.३) समन्वयाधिकरण (ब्र.अ.१.पा.१.सू.४) योर्वैयर्थ्येत्याशङ्क्याह —

तदनेनेति ।

ब्रह्मज्ञानाय वेदान्तविचार आरभ्य इति प्रतिज्ञायां विशेषणत्वेन ब्रह्मविषय इति प्रतिज्ञाविषयस्येत्युक्तम् । लक्षणं हि सिद्धस्य वस्तुतो भेदमवगमयति, ईदृशं तदिति तत्स्वरूपं वा, न सत्ताम् । कार्येण च कारणं किंचिदस्तीति मितम् । तत्त्वेकमनेकं वेति संदिग्धम् । तस्य यदैकत्वं सेत्स्यति, तदा भवति तत्सर्वज्ञं सर्वशक्ति च, नेतरथा । अयमेव संशयः कल्पनालाघवसंज्ञकतर्केणोत्कटैककोटिकतां नीतः संभावना समभवन्न निर्णयः ।

विचित्रप्रासादादीनां बहुकर्तृकत्वस्य प्रायेण दृष्टत्वात्तदिदमुक्तं —

संभावनोक्तेति ।

एवंच वक्ष्यमाणाधिकरणद्वयेन प्रमाणं वाच्यमित्यर्थः ।

एतदेवेति भाष्येण युक्तीनामासां संभावनाहेतुत्वं दृढीक्रियत इत्याह —

इत्थं नामेति ।

नैय्यायिकैरपि प्रमाणादमूषां भेदो नाज्ञायि युक्तीनाम् । ततः स्तोकैवासां प्रमाणादूनतैवं च संभावयन्तितरामित्यर्थः ।

सुहृद्भावेनेति ।

उत्तराधिकरणारंभात्प्राक् क्षणमपि शिष्याणामनुपपत्तिशङ्का मा भूदिति कृपयेत्यर्थः ।

अत्र ‘‘नावेदविन्मनुते तं बृहन्तं’’ ‘‘नैषा तर्केण मतिरापनेये’’ त्यादिशास्त्रात्प्रागुक्तयुक्त्या च वेदैकगम्यं ब्रह्मेति समाधत्त इत्याह —

परिहरतीति ।

वाक्यार्थविचारणाशब्देन शाब्दबोध उपासनासहित उक्तः, परस्तादवगतिरेवेति मध्येऽध्यवसानशब्दो न युक्त इत्याशङ्क्य नायं ज्ञानवचनः कितु संस्कारसहितलयविक्षेपाविद्यासमाप्तिवचन इत्याह —

सवासनेति ।

वृत्तिरूपसाक्षात्कारस्याविद्याध्वंसिनो मध्ये विद्यामानत्वेऽपि न सोऽध्यवसानशब्देन गृहीत अविद्यानिवृत्त्या स्वरूपाभिव्यक्तिं प्रति व्यवधानादिति ।

विमतं, चेतनपूर्वकं, कार्यत्वादित्यादियुक्तिः शब्दाविरोधिनी वस्तुविशेषनिर्धारणे तदुपजीविनीति वक्तव्यम्, ब्रह्मात्मत्वस्य केवलयुक्त्यगोचरत्वस्वाभाव्यादित्याह —

तदुपजीवि  चेत्यपीति ।

यथाहि किल गन्धारदेशेभ्य आनीय चौरैररण्ये कश्चिद्बद्धचक्षुर्निहित आप्तोपदेशतस्तदुपदिष्टस्य साकल्येन न गृहीतत्वात्पण्डितः स्वयमूहापोहक्षमतया च मेधावी गन्धारान्प्राप्नोति, एवं परब्रह्मण आच्छिद्य विवेकदृष्टिं निरुध्याविद्यादिभिः संसारारण्ये निहितो जन्तुः परमकारुणिकगुरूपदेशतः स्वस्वभावं प्रतिपद्यत इति भाष्यस्थश्रुत्यर्थः ।

यदुक्तं ब्रह्मणो मानान्तराविषयत्वे कुतो मननमिति, तत्राह —

शब्दाविरोधिन्येति ।

कारणस्य सर्वज्ञत्वादिसिद्धौ युक्तिः शब्दमुपजीवति, न स्वतन्त्रा; कारणमात्रं तु संभावयन्तीतिकर्तव्यता न मानान्तरमित्यर्थः ।

भाष्यस्थानुभवशब्दार्थमाह —

अन्तःकरणेति ।

ननु कथं वृत्तिः प्रमाणमिति भाष्ये उक्तं? निष्फलत्वादित्याशङ्क्य तत्कृताविद्यानिवृत्तिद्वारा स्वरूपाभिव्यक्तिः, उपचारात्फलमस्तीत्याह —

तस्येति ।

धर्मजिज्ञासायां श्रुत्यादय एव प्रमाणमित्ययुक्तं, वेदविषयश्रोत्रप्रत्यक्षाद्यपेक्षणादित्याशङ्क्य ज्ञातव्ये धर्मे न साक्षात्कारतदुपयोगियुक्त्यादीनां संभवो, ब्रह्मजिज्ञासा तु साक्षात्कारपर्यन्तेत्याह —

यद्यपीत्यादिना ।

न केवलं ब्रह्मजिज्ञासायामनुभवादीनां संभवः, किंतु तत्त्वसाक्षात्कारमन्तरेणापरोक्षसंसारभ्रमनिवृत्त्ययोगात्तेन विना न पर्यवसानं चेत्याह —

अनुभवार्थेति ।

ब्रह्मजिज्ञासायामिति सप्तम्यन्तं पदं षष्ठ्यन्तत्वेन विपरिणमय्यानुभवावसानत्वाद्ब्रह्मजिज्ञासाया इति भाष्यं योज्यम् । अनुभवोऽवसाने समाप्तौ फलत्वेन यस्याः सा तथोक्ता । धर्मजिज्ञासायां त्वनुभवः कारणत्वेनोपक्रमे उपयुक्त इत्यर्थः ।

इहानुभवः स्वरूपाभिव्यक्तिर्न वृत्तिः, तत्र हेतुमाह —

परेति ।

न वृत्तिरनित्यत्वाद्विचारस्य पुष्कलं फलमित्यर्थः । तदनुभव एव त्वित्यत्र वृत्तिरुक्ता, एवकारेण तु तत्कृताविद्यानिवृत्तिद्वारेण स्वरूपाभिव्यक्तिरशक्यतरेति सूचितम् । भाष्ये — भूतशब्दः परमार्थवचनः, चशब्दः शङ्कानिवृत्त्यर्थः, व्यतिरेकः प्रपञ्चाभावोपलक्षितस्वरूपं, तद्विषयसाक्षात्कारस्य विकल्परूपो ब्रह्मणा सह विषयविषयिभावरूपः संबन्धोऽस्ति, नतु तत्त्वतः । उक्तं हीदं प्रथमसूत्रे — वृत्तिविषयत्वमपि तयैवोपहितस्य न निरुपाधेरिति, तत्र प्रस्मर्तव्यमित्यर्थः । अन्यथाकर्तुमित्यत्र कर्तुमित्यस्यानुषङ्गो भाष्ये कार्यः; करणापेक्षत्वादन्यथाकरणस्य ।

उदितहोमः कर्तुं शक्योऽनुदिते त्वन्यथेति तदाह —

कर्तुमिति ।

भाष्यस्थविध्यादिशब्दानुदाहृतवाक्येषु योजयति —

गृह्णातीत्यादिना ।

‘‘नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशेदि’’ति नारास्थिस्पर्शनिषेधः । ‘‘शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात्’’ (याज्ञ०  अ.३ श्लो.२४३) इति ब्रह्मघ्नः शवशिरसो नारास्थो ध्वजत्वेन धारणविधिः॥

भाष्ये प्रतिज्ञैव भाति, न हेतुरत आह —

एतदुक्तमिति ।

स्वातन्त्र्येण कर्तुं समर्थोऽपि हिताहितोपायत्वमजानन्, तद्बोधकविधिनिषेधापेक्ष इत्यर्थः ।

अन्तःकरणजकल्पनाद्वैविध्यमाह —

सवासनेति ।

जाग्रद्वासनावासितं मन एव स्वप्नकारणं, जाग्रत्संशयविपर्ययाः संस्कारसहितान्तर्बहिःकरणजा इत्यर्थः । यथावस्तुत्वं वस्त्वनुसारित्वं यासां नास्ति तास्तथोक्ताः ।

न वस्त्विति ।

संशया न विकल्पयन्ति, विपर्यया नान्यथयन्तीत्यर्थः ।

खानि=इन्द्रियाणि, व्यतृणत्=हिंसितवान्, पराङ् पश्यति लोकः प्रत्यगात्मनस्त्वविषयत्वमिति —

अपरोक्षत्वात् प्रत्यगात्मप्रसिद्धेरित्यत्रेति ।

उपरिष्टात् तर्कपादे (अ.२.पा.२) उपपादितं चेति । विमतं, धीमत्कृतं, कार्यत्वादित्यनुमानान्नेश्वरसिद्धिः; जीवजत्वेन सिद्धसाधनत्वात्, उपकरणाद्यभिज्ञकर्तृकत्वसाधने कतिपयतदभिज्ञतायां सर्वज्ञासिद्धेः, सर्वतदभिज्ञकर्तृकत्वे सपक्षस्य साध्यहीनत्वात्, कुम्भं निर्मितवतः कुम्भकारस्य चैत्रक्रय्योऽयमित्यनवबोधात्, साधारणेऽपि सिद्धसाधनत्वात्, मनःसंयोगहीनस्य चोपलब्धेरभावादमनस्कस्याप्यैश्वर्यादुपलब्धिसंभवे तत एव विनैवोपलब्ध्या जगन्निर्माणसंभवेनोपलब्धिमत्कर्तृकत्वस्यैव विलोपेन वृद्धिगृह्णतो मूलच्छेदादित्यादि न्यायकणिकायां व्युदपादिति । उपरिष्टात् समन्वयसूत्रे ।

जन्मादिसूत्रेण यतो वेत्यादिवाक्यं लक्ष्यमिति भाष्ये उक्तं, तदर्थं श्रुतिसूत्रयोरर्थप्रत्यभिज्ञां दर्शयति —

श्रुतिरिति ।

अत्र स्वरूपलक्षणपरत्वं सूत्रस्य दर्शयितुं तस्य चेति भाष्यं ।

तद्व्याचष्टे —

अत्र चेति ।

जगद्विशेषणैः पूर्वनिर्णयेऽपि श्रुतित इह निर्णीयते । कारणं ब्रह्माऽनूद्य वाक्येनानन्दत्वविधानात्स्वरूपलक्षणसिद्धिः । आनन्दः सत्यादेरुपलक्षणम् ननु — आनन्दादेर्भेदे न ब्रह्मलक्षणत्वम्, अभेदे वाक्यार्थासिद्धिः, गुणभूतपदार्थविशिष्टः प्रधानपदार्थो हि वाक्यार्थः — अत्रोच्यते; यत्र पदार्थः प्रमितः तत्र स एवेतरपदार्थविशिष्टः प्रतिपाद्यः । यस्त्वज्ञातः स नान्यैः शक्यो विशेष्टुमिति स एव वाक्येन प्रमेयः । प्रमिते चैतस्मिन् वाक्यस्य समाप्तेर्न विशिष्टपरत्वम् । यथा प्रकृष्टप्रकाशश्चन्द्र इति प्रकर्षप्रकाशद्वारा चन्द्रलक्षणान्न तद्वैशिष्ट्यं ; मानान्तरादेव तत्सिद्धेः, उपायस्तु वैशिष्ट्यम् अखण्डचन्द्रसिद्धौ । तच्चाविरोधाच्चन्द्रेऽनुज्ञायते, सत्यादिवाक्ये त्वनन्तादिपदैर्बाध्यते वैशिष्ट्यम् । एवंच अविशिष्टमपर्यायानेकशब्दप्रकाशितम् । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे॥ ननु — चन्द्रलक्षणमिदं; ततश्चन्द्रः, इतरस्माद्भिद्यते, चन्द्रशब्देन व्यवहर्तव्यो वा, प्रकृष्टप्रकाशत्वात्, व्यतिरेकेण तमोवदिति व्यावृत्तिविशिष्टस्य वाच्यत्वविशिष्टस्य च वाक्येन प्रतिपाद्यत्वं  — इति । तन्न; अप्रमिते चन्द्रे व्यावृत्तेरनवबोधात्, प्रमितेऽपि प्रमाणान्तरात् प्रमितिर्लक्षणवाक्याद्वा । प्रथमे सामान्यत; प्रमितिर्विशेषतो वा । नाग्रिमः; सामान्यस्यैव व्यावृत्तिसिद्धौ चन्द्रस्य तदसिद्धिप्रसङ्गात्, न चरमः; विशेषग्राहिप्रमाणादेव व्यावृत्तिसिद्धौ लक्षणवैफल्यात् । न द्वितीयः; लक्षणवाक्याच्चन्द्रप्रमितौ तस्य तत्रैव पर्यवसाने व्यावृत्तिपरत्वानुपपत्तेः । न च चन्द्रशब्दवाच्यत्वं साध्यते; अचन्द्रे चन्द्रशब्दवाच्यत्वसाधने व्याघातात् । अथ चन्द्रत्वमप्यभिप्रेत्य चन्द्रशब्दवाच्यत्वं साध्यते, तर्हि चन्द्रत्वमेव साध्यतामवश्यापेक्षितत्वात्कृतमश्रुतवाच्यत्वकल्पनया । तस्मात्प्रकृष्टत्वे सति प्रकाशत्वमज्ञातचन्द्रज्ञापकम्; अर्थाद्व्यावृत्त्यादिसिद्धिः । एवंचैतदपास्तत् — एकेन पदेन यावदुक्तं तावतोऽपरेणाभिधाने पर्यायत्वम्, अधिकाभिधाने विशिष्टवाक्यार्थत्वापत्तिः — इति; वाच्यार्थनानात्वस्येष्टत्वाल्लक्ष्यस्य चैकत्वात् । नहि चन्द्रद्वयमस्ति, न च लक्षणस्य विशिष्टत्वाल्लक्ष्यं विशिष्टं स्यात् । मा भूत् सामान्यवत्त्वे सत्यस्मद्बाह्येन्द्रियग्राह्यत्वं विशिष्टमित्यनित्यत्वमपि विशिष्टं, तर्हि अनित्यत्वस्येव लक्षणानात्मकत्वाल्लक्ष्यस्य ब्रह्मणः सत्याद्यात्मकत्वं न स्यादिति चेत्, नैतदस्ति; यतः; ‘सत्तादीनां हि जातीनां व्यक्तितादात्म्यदर्शनात् । लक्ष्यव्यक्तिरपि ब्रह्म सत्त्वादि न जहाति नः॥’‘ इह हि कल्पितभेदव्यक्त्याश्रितैः सामान्यैर्या व्यक्तयो लक्ष्यन्ते, तास्तद्रूपत्वं न जहति; तरङ्गचन्द्रानुगतचन्द्रत्वेन लक्ष्यचन्द्रव्यक्तिरिव चन्द्रात्मत्वम्, एवं ब्रह्मापि मायाकार्यकुम्भादिकल्पितव्यक्तयनुगतं सत्तया लक्ष्यमाणं सत्त्वं न हास्यति । तथा ज्ञानत्वानन्दत्वाभ्यामप्यन्तःकरणवृत्त्युपधानलब्धभेदचिदानन्दविशेषानुगताभ्यां लक्ष्यमाणचिदानन्दव्यक्तयोरपि योज्यम् । यथा च सद्भेद औपाधिकः, एवं सज्ज्ञानानन्दभेदोऽपि, सत्त्वरहितज्ञानानन्दयोः शून्यत्वप्रसङ्गात्, बोधात्मत्वरहितसतश्च भानाभावप्रसङ्गाद्, दृश्यत्वे कल्पितत्वेन सत्त्वायोगात्सद्बोधात्मकसाक्षिणश्च परप्रेमास्पदत्वेनानन्दस्वाभाव्यावगमादिति । तथाच कल्पितभेदसामान्यतदपेक्षव्यक्त्याकारबाधेन सत्यज्ञानानन्दात्मकं ब्रह्म निश्चीयते । प्रयोगोऽपि सत्यादिवाक्यं, विशिष्टार्थपरत्वरहितं, लक्षणवाक्यत्वात्प्रकृष्टप्रकाशादिवाक्यवदिति । तथा — उपाधिभेदभिन्नोऽर्थो येनैकः प्रतिपाद्यते । तदपि स्यादखण्डार्थे महत्खं कुम्भकं यथा॥ निरंशस्य हि जीवस्याणुत्वमनन्तत्वं वा स्यात् । तत्र नाणुत्वं; सकलदेहव्यापि ह्लादानुपलम्भप्रसङ्गाद्, विभोश्च नभोवद् द्रव्यत्वावान्तरजात्यनाधारस्येश्वराद्भेदायोगात् । तस्मादनन्तब्रह्मात्मनोऽस्य परिच्छेद औपाधिकः । श्रूयते च जीवस्य परस्मादौपाधिको भेदः — यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा॥इति ।

नन्वेवं भूतब्रह्मणः कथं जगद्योनित्वमत आह —

एतदिति॥

इति द्वितीयं जन्माद्यधिकरणम्॥

यतो वेति ; आक्षेपे इति ; कारणत्वं त्विति ; जन्म आदिर्ययोरिति ; तत्र नपुंसकैकवचनेति ; स्वभाव एव नियन्तेति ; यदसदिति प्रसिद्धमिति ; इतरथा प्रेरणानुपपत्तेरिति ; पितुःप्रीत्युत्पत्तेरिति ; सांख्यप्रक्रियेति ; सोप्युत्पत्तिरिति ; पुरुषाणामिति ; न चेति ; अन्यथाप्युपपत्तरिति ; वेदान्तेति ; कार्येण चेति ; उपासनासहित इति ; समाप्तिवचन इति ; व्यवधानादिति ; अन्यथा कर्तुमित्यत्रेति ; प्रत्यगात्मनस्त्वविषयत्वमिति ; अपरोक्षत्वादिति ; जीवजत्वेन सिद्धसाधनत्वादिति ; उपकरणेत्यादिना ; मनःसंयोगेति ; जगद्विशेषणैरिति ; कारणं ब्रह्मेति ; सत्यादेरपीति ; नन्विति ; अत्रोच्यत इति ; यस्त्वज्ञात इति ; यथा प्रकृष्टप्रकाश इति ; मानान्तरादिति ; उपायस्त्विति ; अनुज्ञायत इति ; एवं चेति ; अविशिष्टमिति ; नन्विति ; नचेति ; अचन्द्र इति ; व्याघातादिति ; अथ चन्द्रत्वमिति ; अज्ञातचन्द्रज्ञापकमिति ; अर्थादिति ; न हि चन्द्रद्वयमस्तीति ; मा भूदिति ; तर्हीति ; सत्याद्यात्मकत्वं न स्यादिति ; सत्त्वादि न जहातीति ; इह कल्पितभेदेति ; तरङ्गेति ; यथा चेति ; विशिष्टार्थपरत्वरहितमिति ; तथेति ; निरंशस्येति ; यथा ह्यय मिति ;

जन्माद्यस्य यतः॥२॥

यतो वेति ।

ननु 'यतो वे'त्यादिवाक्यस्य ब्रह्मलक्षकत्वालक्षकत्वसंशयः, न तदुक्तलक्षणस्य जगज्जन्मादेः प्रसिद्ध्यप्रसिद्धिभ्यां, किन्तु विरोधाविरोधाभ्याम्, 'आनन्दाद्ध्येवेति' वाक्यस्यैव संशयः तदुक्तस्वरूपलक्षणस्य प्रसिद्ध्यप्रसिद्धिभ्याम्, अतः कथमेवमुक्तम् इतिचेत्, उच्यते । स्वरूपलक्षणमपि यतो वेत्यादिवाक्यमूलम् । तदुक्तं, जगत्कारणमनूद्य हि तस्य आनन्दत्वविधायकमानन्दवाक्यम् इति । अत इत्थमुक्तौ नानुपपत्तिः । ननु जन्माद्यस्य यत इति सूत्रोपात्तस्य पूर्वपक्षसिद्धान्ताभ्यां प्रथमं समर्थ्यमानस्य तटस्थलक्षणस्य विरोधाविरोधाभ्यां 'यतो वे'त्या दिवाक्यस्य ब्रह्मलक्षकत्वालक्षकत्वसंशय एवाधिकरणाङ्गत्वेन दर्शयितुं युक्तः, न त्वतथाभूतस्य स्वरूपलक्षणस्य प्रसिद्ध्यप्रसिद्धिभ्याम् यतो वेत्यादिवाक्यस्य आनन्दवाक्यद्वारा ब्रह्मलक्षकत्वालक्षकत्वसंशय इति-चेत्, उच्यते; सकलेतरव्यावृत्तलक्ष्यबोधनसमर्थमिह लक्षणं निर्धारणीयं, जगज्जन्मादिकं तु न तथा, किन्तु शाखाग्रे चन्द्र इतिवत् तटस्थलक्षणम् । यथा दिगन्तरस्थिततारकादिभ्य एवं व्यावर्तकं, न तु शाखोर्ध्वदेशगतचन्द्रसमीपवर्तितारकादिभ्यः । एवं जगज्जन्मादिकम् असंभावितकारणभावेभ्य एव व्यावर्तकं, न तु संभावितकारणभावेभ्यः प्रधानपुरुषादिभ्यः । अतः प्रकृष्टप्रकाशवत् सकलेतरव्यावृत्तलक्ष्यबोधनसमर्थस्वरूपलक्षणमेव इह तटस्थलक्षणद्वारा सूत्रकृता निर्दिधारयिषितं, न तु तटस्थलक्षणमेव । अत एवाचार्यस्तस्य च निर्णयवाक्यमित्यादिभाष्यस्य तात्पर्यं वक्ष्यते-स्वरूपलक्षणपरत्वं सूत्रस्य दर्शयितुं तस्य चेति भाष्यमिति । तस्मात् प्रसिद्ध्यप्रसिद्धिमूलकसंशयस्य अधिकरणाङ्गत्वेन प्रदर्शनं युक्तमेव॥

आक्षेपे इति ।

आक्षेपाधिकरणमाक्षेप्याधिकरणसिद्धान्तफलेनैव फलवद्, यथा औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः (जै. अ.१ पा.१ सू.५) इत्यधिकरणे शब्दार्थसंबन्धस्य नित्यत्वेन वेदस्य निरपेक्षबोधकत्वरूपप्रामाण्ये समर्थिते शब्दार्थसंबन्धस्य नित्यत्वमयुक्तं शब्दानामेव अनित्यवादिति तदाक्षेपसमाधानार्थं प्रवृत्तं शब्दाधिकरणम् (जै. अ.१ पा. ३ सू. २८) अपवादाधिकरणमपवादाधिकरणपूर्वपक्षफलेन फलवत् । यथा स्मृत्यधिकरणे (जै. अ. १ पा. ३ सू.१-२) स्मृतीनां वेदमूलत्वेन प्रामाण्ये समर्थिते प्रत्यक्षश्रुतिविरुद्धस्मृतिषु वेदमूलत्वापवदनार्थं प्रवृत्तं विरोधाधिकरणम् (जै. अ.१पा.३ सू. ३) । तदर्थाचिन्ता यदर्था सा तत्फलेन फलवती, यथा दर्शपूर्णमासादिप्रकरणाम्नातान्यङ्गानि प्राकरणिकेष्वेव व्यवतिष्ठन्ते, न तु सौर्यादिष्वप्युपदेशविधया पारिप्लवानि भवन्तीति । सप्तमाद्यचिन्ता सौर्यादिषु प्रयाजादीनामतिदेशेन प्राप्तिरिति अग्रिमचिन्ताफलेन फलवती । लक्षणनिरूपणं लक्ष्यपरिच्छेदेन फलवत्, इत्येतेषु नियतैकरूपफलविशेषावगतेः फलं न वक्तव्यं कृत्वाचिन्तायाम् अन्यत्रैव फलमिति तत्र फलव्यतिरेकनिश्चयात् फलं न वक्तव्यमित्यर्थः ।

कारणत्वं त्विति ।

यद्यपि जन्यजनकभावसंबन्धेन जगद् ब्रह्म लक्षयतीति जगत एव ब्रह्मलक्षणत्वमनुपदमुक्तं; तथापि व्यावृत्तिव्यवहारानुमानयोः हेतूभवतो लक्षणस्य पक्षनिष्ठत्वेन भाव्यमिति ये मन्यन्ते ताननुरुध्यैवमुक्तम् ।

जन्म आदिर्ययोरिति ।

ननु भाष्यानभिमतमतद्गुणसंविज्ञानमाश्रित्य विशेषविवक्षायां तस्मिन्नेव पक्षे यत्सूत्रगौरवमुच्यते तदनुपपन्नम् । तथाहि अत्र विवक्षाविषयो न भवतीति प्रत्याख्येयो विशेषः, किं वा तद्विषयो भवतीत्युपादेयं सामान्यम् । जन्मादित्रयमध्ये अतद्गुणसंविज्ञानबहुव्रीहिलभ्यं स्थितिभङ्गद्वयं विशेषः, तद्गुणसंविज्ञानबहुव्रीहिलभ्यं जन्मादित्रयं सामान्यमिति चेत्, कथमाद्यपक्षे गौरवं, द्वितीयपक्षे तत्परिहारश्च । जन्मादिपदविग्रहवाक्यगतयत्पदविवरणार्थं जन्मस्थितिभङ्गानामिति इतरेतरयोगद्वन्द्वाश्रयणे हि जन्म आदिः येषामिति विग्रहलाभात् जन्मादयो(अ)स्य यत इति सूत्ररचनापत्त्या जन्मस्थितिभङ्गरूपसामान्यविवक्षायामेव अतिगौरवं स्यात् । समाहारद्वन्द्वाश्रयणे तु स्थितिभङ्गद्वयरूपविशेषविवक्षायामपि न गौरवम् । जन्म आदिर्यस्य स्थितिभङ्गस्येति विग्रहाश्रयणेन जन्माद्यस्य यत इत्येव सूत्ररचनोपपत्तेः । न हि त्रयविवक्षायामेव समाहारद्वन्द्वाश्रयणं, न द्वयविवक्षायामित्यस्ति नियमः । एतेन स्त्रीलिङ्गपुंलिङ्गे लिङ्गविशेषौ नपुंसकलिङ्गं तदुभयानुगतं सामान्यं, न तु तृतीयं लिङ्गान्तरमिति शाब्दिकमर्यादाश्रयणेन विशेषसामान्यशब्दार्थग्रहणशङ्कापि निरस्ता । स्थितिभङ्गद्वयग्रहणेऽपि लिङ्गसामान्यविवक्षायां जन्मादिषु त्रिष्वपि लिङ्गविशेषविवक्षायाश्च कर्तुं शक्यत्वेन गौरवलाघवस्थित्यभावात् । न हि लिङ्गविशेषलिङ्गसामान्यविवक्षे द्वित्रिग्रहणयोर्नियते, उच्यते; लिङ्गविशेषविवक्षायां गौरवं लिङ्गसामान्यविवक्षायां लाघवमित्येवात्र विवक्षितं, मूलश्रुत्यनुसारेण जन्मादित्रयकारणत्वं लक्षणमिति तल्लाभार्थं तद्गुणसंविज्ञानबहुव्रीहिरेवात्राभिमतः । तदाश्रयणे च लिङ्गविशेषविवक्षायां जन्मादयोऽस्य यत इति सूत्ररचनापत्त्या गौरवं स्पष्टमेव । तत्र यद्याशङ्क्येत तर्हि अतद्गणसंविज्ञानबहुव्रीह्याश्रयणेन लिङ्गविशेषविवक्षाऽस्त्विति, तत्रापि 'जन्मादी अस्य यत' इति सूत्ररचनापत्त्या गौरवमस्तीति विभावयितुं जन्म आदिर्ययोः इत्यादिग्रन्थप्रवृत्तिरिति न कश्चिद्दोषः ।

ननु लिङ्गसामान्यविवक्षायामपि 'जन्मादीन्यस्य यत' इति सूत्ररचनापत्त्या गौरवं स्यात् इत्याशङ्कानिराकरणार्थम् उत्तरटीकाग्रन्थमवतारयति –

तत्र नपुंसकैकवचनेति ।

इतरेतरयोगद्वन्द्वसमाश्रयणे लिङ्गसामान्यविवक्षाभ्यनुज्ञानाभावात् जन्मादीनि इति सूत्ररचनापत्त्या गौरवं स्यात् । इह तु सर्वो द्वन्द्वो विभाषैकवद्भवतीति परिभाषासिद्धः समाहारद्वन्द्वः समाश्रीयते । तत्र ‘स नपुंसकमिति सूत्रेण लिङ्गसामान्यविवक्षाऽभ्यनुज्ञातेति नपुंसकैकवचनेन सूत्रलाघवं लभ्यत इत्यर्थः ।

स्वभाव एव नियन्तेति ।

"कालः स्वभावो नियतिर्यदच्छा भूतानि योनिः पुरुष इति चिन्य"मिति श्वेताश्वतरोपनिषन्मन्त्रेण कालकारणत्वादिवादाः प्रत्याख्याताः । "कथमसतः सज्जायते"ति श्रुत्या तु असत्कारणत्ववादः । तैरिह पूर्वपक्षः कृतः । मन्त्रे पुरुषशब्दस्य विवरणं टीकायां, ग्रहलोकपालशब्देन कृतम् । इदं हिरण्यगर्भादीनामप्युपलक्षणम् । क्रियाशब्देन नियतिशब्दस्य, प्रधानशब्देन योनिशब्दस्येति विवेकः । अतिव्याप्तिशब्देन कालादीनामेव कारणत्वोपपत्तौ ब्रह्म कारणं नाभ्युपगन्तव्यमित्यसम्भवो विवक्षितः । तत्र पुरुषपूर्वपक्षः श्रुत्यन्तरावलम्बनः । प्रश्नोपनिषदि हि "षोडशकलं पुरुषं" प्रस्तुत्य 'तं त्वा पृच्छामि क्वासौ पुरुष इति' भारद्वाजप्रश्ने "तस्मै स होवाच इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्ति, स ईक्षाञ्चक्रे कस्मिन्नु अहमत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति, स प्राणमसृजत् प्राणाच्छद्धा खं वायुर्ज्योतिरापः पृथिवीमिन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोकाः लोकेषु नाम चेति' जीवस्यैव प्राणादिनामान्तषोडशकलास्रष्टृत्वं श्रूयते । अयं च जीवपूर्वपक्ष इहैवाधिकरणे निराकार्यः, न प्रधानादिपूर्वपक्षवदधिकरणान्तरे निराकृतः । "कस्मिन्नु अहमुत्क्रान्त" इत्यादिप्रश्नोपनिषद्वाक्यमपि परब्रह्मविषयमेव; "तान् होवाच, एतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति” तदुपसंहारे पिप्पलादवचनात् । सकलोपनिषत्प्रसिद्धस्य जीवाधिकस्य परब्रह्मणश्च अपलपितुमशक्यत्वात् । प्राणोत्क्रान्तिप्रतिष्ठाभ्यां परब्रह्मणः स्वोत्क्रान्तिप्रतिष्ठावत्त्वम्, ईक्षणं तु स्वस्य तथाभूतजीवाभेदाभिप्रायेणेति तन्निराकरणं द्रष्टव्यम् ।

यदसदिति प्रसिद्धमिति ।

यद्यपि स्रष्टव्यसजातीयगतानुभूताकारानुसन्धानेनापि सृष्टिः सम्भवति; तथापि यत्रानुभूतादप्यतिशयितेन वैलक्षण्येन स्रष्टव्यमिति स्रष्टव्याकारानुसन्धानं, तत्र तस्याकारस्य तदानीमसत्वप्रसिद्धिरस्तीति तात्पर्यम् ।

इतरथा प्रेरणानुपपत्तेरिति ।

तथा च प्रबलन्यायविरुद्धतया यथाश्रुतार्थप्रतिपादनाक्षमेण "यस्मिन् जात" इत्याद्यर्थवादेन कथंचिल्लक्षणोन्नीतेन पितृगाम्येव फलं प्रतिपाद्यत इति कल्पनीयमिति भावः ।

पितुःप्रीत्युत्पत्तेरिति ।

पुत्रगतमपि पूतत्वादिकं पशुहिरण्याद्यभिवृद्धिवत्पितुः प्रीत्युत्पादनद्वारा गौणपुरुषार्थो भवतीत्यर्थः । कारणवमेवेति पाठे ब्रह्म व्यवच्छिनत्तीत्यनुषङ्गः । कारणत्वादेवेति पाठे ब्रह्म व्यवच्छिन्नमित्यध्याहारः ।

सांख्यप्रक्रियेति ।

धर्मलक्षणावस्थापरिणामभेदान् पातंजला व्यवहरन्ति । पातञ्जले हि योगशास्त्रे परिणामत्रयसंयमात् अतीतानागतज्ञानम् (योगसूत्र. पा. २ सू. १६) इति परिणामत्रयविषयं धारणाध्यानसमाधिरूपं संयमं फलाय विधातुं चित्तस्य परिणामत्रयलक्षणानन्तरं सूत्रितम् । एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामाः व्याख्याताः" ( योगसूत्र, पा. २ सू. १३) इति त इह सेश्वरसांख्या(अ)नतिभिन्नत्वात् सांख्यशब्देनोक्ताः ।

सोप्युत्पत्तिरिति ।

वर्तमानत्वादिरपि तत्तत्कालोपाधिविशेषोत्पत्तिरित्यर्थः ।

पुरुषाणामिति ।

पुरुषवाक्यं हि मूलप्रमाणसापेक्षम् । तदिह न तावच्छ्रुतिः; श्रुतेजन्मादित्रितयविषयत्वात् । नापि तदीयं प्रत्यक्षं; मूलकारणाधीनमहाभूतजन्मादिषु प्रत्यक्षाप्रवृत्तेरित्यर्थः ।

अतीन्द्रियार्थद्रष्टृत्वमपि पुरुषगौरवादनुमेयमित्याशङ्क्याह –

न चेति ।

अन्यथाप्युपपत्तरिति ।

यास्कादयः स्वकाले हेमादीनां विकारषट्कं दृष्ट्वा पठितवन्त इत्यप्युपपत्तेः नातीन्द्रियाथे प्रत्यक्षं कल्पनीयमित्यर्थः । एतेन यास्कवचनस्य स्मृतित्वात् मूलश्रुत्यनुमानमपि निरस्तम्; दृष्टमूलाभावे एव तदनुमानादिति भावः ।

वेदान्तेति ।

वेदान्तविचारः कर्तव्य इत्यार्थिकप्रतिज्ञायामित्यर्थः । ननु चोदनासूत्रवत् जन्मादिसूत्रं लक्षणप्रमाणोभयपरमस्तु जन्यजनकभावेन लक्षणीभवतो जगतः सकर्तृकत्वानुमाने हेतुभावस्याप्युपपत्तेः ।

अत उत्तराधिकरणवैयर्थ्यमेवेत्याशङ्क्य कार्येण कारणमनुमीयतां नाम, तदेकत्वादिसिद्धौ तु श्रुतिरेव शरणीकरणीयेत्युत्तराधिकरणं सार्थकमित्याह –

कार्येण चेति ।

ननु कार्यत्वलिङ्गेन जगतः कारणानुमानानन्तरं प्रवृत्तेः तदेकत्वानेकत्वसंशयो लाघवतर्कवशात् उत्कटकोटिकसंशयरूपा संभावना संपद्यत इत्येतदयुक्तम् । न हि तर्कः किंचित्कोटिसहचरितानेकधर्मोपलम्भवकिंचित्कोटिभूयोदृष्टसहचारैकर्मोपलम्भवच्च कोट्युत्कटत्वनियामकत्वेन क्लुप्तः, किन्तु प्रमाणानुग्राहकत्वेन । तथा च कार्यत्वलिङ्गकानुमानाद्भवन्ती सकर्तृकत्वानुमितिरेव लाघवतर्कोपनीतकर्त्रैकत्वमपि विषयीकुर्वाणा सती एककर्तृकत्वानुमितिः संपद्यत इत्येव युक्तम् । गोपुरप्राकारादिषु बहुकर्तृकत्वेन निश्चितेषु लाघवावतारासंभवेऽपि तथात्वेन अनिश्चितेषु वियदादिषु तदवतारे बाधकाभावात् इतिचेत्, मैवम् । लाघवतर्केण अनुमितेविषयगौरवापादनस्य विरुद्धत्वात् । एककर्तृकत्वं हि अनेककर्तृकत्वाभावविशिष्टसकर्तृकत्वं, न तु एकत्वसंख्याविशिष्टकर्तृकत्वमात्रमपि; बहुष्वपि प्रत्येकम् एकत्ववैशिष्ट्यसत्त्वेन तद्विषयत्वस्य बहुकर्तृकत्वाविरोधित्वात् । एवमतिगुरुविषयापादकः कथं लाघवतर्कव्यपदेशं लभेत । नह्येवंभूतं लाघवं प्रमाणानुप्राहकं संप्रतिपन्नमस्ति, यदग्रे वस्तुलाघवसिद्ध्यर्थं स्वानुग्राह्यप्रमाणस्य विषयगौरवमापादयेत् । तथा सति हीष्टपुरोवर्तिज्ञानं प्रवृत्तिकारणं गृह्णतः प्रमाणस्य अनुप्राहको लाघवतर्को विसंवादिप्रवृत्तिस्थले व्यधिकरणप्रकारकज्ञानाकल्पनया वस्तुलाघवसिद्ध्यर्थं भेदाग्रहं कारणतावच्छेदकत्वेनोपनयेद्, न तु ज्ञानवित्तिवेद्यतय उपस्थितमिष्टं पुरोवर्तिवैशिष्ट्यम् । तस्मात्सकर्तृकत्वानुमानानुग्राहकभावात् प्रच्युतोऽयं लाघवतर्कः स्वयमप्रमाणत्वात् स्वातन्त्र्येण कर्त्रैकत्वनिश्चयमुत्पादयितुमक्षमः कर्त्रैकत्वानेकत्वसंशयस्य एकत्वकोटावुत्कटत्वमात्रं संपादयन् उपकरोतीति कल्पनं युक्तम्, न तु प्राकारगोपुरादिषु दृष्टिमवलंब्य प्रवृत्तां तदनेकत्वकोटिं सर्वथा निवर्त्तयतीति । एककोटिनिर्धारणाक्षमस्य सर्वथा कोट्यन्तरनिवर्त्तकत्वायोगात्, तस्य संभावनाजननमात्रेणापि अनुपकारकत्वे लाघवात्, कत्रैकत्वसर्वज्ञत्ववादिसिद्धिम् अभिमन्यमानानां भ्रान्तेः निरालम्बनत्वापत्तेश्च । वस्तुतस्तु लाघवतर्कोऽपि खतो दुर्बलः । अतिविचित्ररचनस्यापि प्रपञ्चस्य बहुविधापरिमितगोपुरप्रासादमण्डपमहातडागादियुक्तस्य महतो नगरस्येव क्रमसंभूतासर्वज्ञासर्वशक्तिकसंप्रतिपन्नानेकसंसारिकर्तकत्वेनापि सिद्ध्युपपत्तौ सर्वज्ञसर्वशक्तिकैककर्त्रन्तरकल्पन एव गौरवात् । किन्तु तथाभूतैककर्तृप्रतिपादकवेदान्तवाक्यनिकुरुम्बसमाश्रयणेनैव लब्धबलः तस्याप्यनुग्राहको भवति । सो(अ)यं वनसिंहह्रदनक्रादिन्यायः । किरातैर्हन्तुं शक्यो(अ)पि सिंहो महद्वनं शरणं प्रविश्य दुराधर्षः तेभ्यो न बिभेति, वनं च तत् सिंहाधिष्ठानानुगृहीतं तैर्दुष्प्रवेशं भवति । तदिदं सर्वं तदुपजीवि चेत्यपि द्रष्टव्यमिति टीकाग्रन्थेनैव विभावयिष्यते ।

उपासनासहित इति ।

उपासनाशब्दो मननस्यापि संग्राहकः । परस्तादवगतिरेवेति वृत्तिरूपावगत्यभिप्रायेण शङ्का ।

समाप्तिवचन इति ।

अवसानशब्दः समाप्तिवाचीत्यध्युपसृष्टोऽपि समाप्तिरूपनिवृत्तिपर इति भावः । एवं चाविद्यानिवृत्तिनिर्वर्त्यत्वोक्तेः अवगतिशब्दः स्वरूपावगतिपर इत्यर्थादुक्तं भवति ।

व्यवधानादिति ।

अव्यवहितकारण एव निर्वर्तकत्वप्रसिद्धेः व्यवहिता वृत्तिस्तथात्वेन न ग्राह्येति भावः । न चैवं विचारणाशब्दोक्तश्रवणमननोपासनानां साक्षात्कारैकसाध्यायाम् अविद्यानिवृत्तौ करणत्वाभावात्कथं विचारणाऽध्यवसानेति शब्दसङ्गतिरिति शङ्कनीयम् । न हि तत्र विचारणयाऽध्यवसानमिति 'कर्तृकरणे कृता बहुलमिति' सूत्रेण तृतीयासमासः समाश्रीयते, येन करणत्वप्रतीतिः स्यात् । टीकायां हि षष्ठीसमासो दर्शितः, स तु साक्षात्कारद्वारकपरम्परासंबन्धेऽप्युपपद्यते ।

अन्यथा कर्तुमित्यत्रेति ।

अकरणप्रतिकोटिनिर्देशकतया उपात्तस्य अन्यथाकरणप्रतिकोटिनिर्देशार्थमप्यपेक्षितत्वात् अनुषङ्गः कर्तव्य इत्यर्थः । ननु 'भाष्ये प्रतिज्ञैवाभाति न हेतुरिति' न युक्तं; टीकायां विधिप्रतिषेधाश्चार्थवन्त इति प्रतिज्ञायां विकल्पोत्सर्गापवादाश्च इत्युत्तरभाष्यस्य हेतुपरत्वेन योजितत्वादिति चेत्, उच्यते: पुरुषस्य स्वातन्त्र्येण स्वत एवं प्रवृत्त्युपपत्तेः विधिप्रतिषेधानर्थक्यम् इत्याशङ्कापरिहारार्थत्वेन खल्विदं प्रतिज्ञाभाष्यमवतारितम् । तत्रैतदुक्तं भवतीत्यादिटीकाग्रन्थेन वर्ण्यमानम् इष्टोपायतादिप्रतिपादनमेव विधिप्रतिषेधार्थवत्त्वे हेतुर्न तु विकल्पादिकमित्यभिप्रायेण हेत्वाकाङ्क्षायाम् एतदुक्तमित्यादिकमित्यवतारितम् । विकल्पादिप्रतिपादनं तु विरुद्धयोः विधिप्रतिषेधयोर्विध्योर्वा कथमिष्टोपायताप्रतिपादकत्वमित्याशङ्कायां विकल्पेनोत्सर्गापवादरूपेण वेति हेतूपपादनार्थमित्यभिप्रेत्य, टीकायां तदपि हेतुपरत्वेन योजितम् ।

प्रत्यगात्मनस्त्वविषयत्वमिति ।

ननु 'पराञ्चि खानीति' मन्त्रमुदाहृत्य प्रत्यगात्मन इन्द्रियाविषयत्वोक्तिरयुक्ता; 'कश्चिद्धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुरमृतत्वमिच्छन्निति तन्मन्त्रोत्तरार्द्धे एव तस्य विद्वदिन्द्रियग्राह्यताया उक्तत्वात् इतिचेत्, सत्यम् । तत्र श्रवणादिवासितेन्द्रियग्राह्यत्वोक्तावपि शब्दमनपेक्ष्य स्वातन्त्र्येण इन्द्रियग्राह्यत्वस्य प्रत्याख्याने विरोधाभावात् ।

अपरोक्षत्वादिति ।

प्रदेशोपलक्षणमेतत् । अस्मत्प्रत्ययविषयत्वात् इतिभाष्यव्याख्यानावसरे जीवभावोपाध्युपहितरूपेण विषयत्वोक्त्या स्वरूपेणाविषयत्वमुपपादितमित्यर्थः ।

जीवजत्वेन सिद्धसाधनत्वादिति ।

अतिविचित्ररचनस्यापि प्रपञ्चस्य बहुविधापरिमितगोपुरप्रासादमण्डपमहातटाकादियुक्तस्य महतो नगरस्येव क्रमेण युगपद्वा संभूतैः असर्वज्ञासर्वशक्तिकैरपि विश्वामित्रादिवत् उचितपुण्यवशलब्धतत्तदेकदेशसृष्टिसामर्थ्यशालिभिः बहुभिः जीवैः निर्मितत्वमुपपद्यते । धर्मिकल्पनातो वरं धर्मकल्पनेति न्यायात् । अतोऽनुमानस्य तद्विषयत्वोपपत्तेः न क्लृप्तजीवातिरिक्तसर्वज्ञसर्वशक्तिकैककर्त्रन्तरसिद्धिरित्यर्थः ।

ननूपकरणाद्यभिज्ञकर्तृकरवं साध्यत इति नार्थान्तरमित्याशङ्क्य, यत्किंचिद्यावद्विकल्पेन प्रागुक्तमर्थान्तरं दृष्टान्तस्य साध्यवैकल्यं वा स्यात्, यावदिति यत्किंचिदिति वा विशेषाविवक्षायामप्यर्थान्तरं स्यादित्याह –

उपकरणेत्यादिना ।

अनुमानस्यातिरिक्तेश्वराऽसाधकत्वमुक्त्वा तत्साधकत्वे बाधकमप्याह –

मनःसंयोगेति ।

धीमत्कर्तृकत्वसाध्यसिद्ध्या सिद्ध्यन्ती धीर्नित्याऽभ्युपगम्यते, अनित्या वा । नाद्यः, त्वन्मते कार्यत्वे धीमत्कर्तृकत्वव्याप्तिवत् ज्ञानत्वे जन्यत्वव्याप्तेरप्यप्रतिक्षेप्यतया तद्विरोधेन ज्ञाननित्यत्वासिद्धेः । न द्वितीयः, क्लृप्तकारणं मनस्संयोगादिकं विना ज्ञानोत्पत्त्यसंभवात् । तद्विनापि ऐश्वर्यवशात् ज्ञानोत्पत्त्यभ्युपगमे तत एव ज्ञानं विनापि स्रष्टृत्वसंभवेन त्वदभिमतसाध्यासिद्धिप्रसङ्गादित्यर्थः । ननु कार्यणकारणं किंचिदस्तीत्यनुमितमिति' पूर्वग्रन्थे युक्त्या कर्तृमात्रनिश्चयः, तदेकत्वसार्वज्ञ्यादिषु संभावनेत्युक्तं, तदनन्तरं कारणस्य सर्वज्ञत्वादिसिद्धौ युक्तिः शब्दमुपजीवति, न स्वतन्त्रा, कारणमात्रं तु संभावयन्तीतिकर्तव्यतेति ग्रन्थेनानुमानं कर्तृसंभावनामेव जनयति, न निश्चयं तदेकत्वसार्वज्ञ्यादौ संभावनामपि न जनयति । किन्तु तदंशे शब्दोपजीवनमेवेत्युक्तम् । इदानीम् ईश्वरानुमानस्य अर्थान्तरबाधकयोः उद्भावनेन संभावनामपि यथा नोत्पादयेत् तथोपपादितम् । सर्वमिदं पूर्वापरविरुद्धमितिचेत्, उच्यते; विमतं धीमत्कर्तृपूर्वकमित्याद्यनुमानं सर्वथा कर्तृसाधकं न भवतीति । एवमिह सर्वथैव प्रतिक्षिप्तमनुमानं न कर्तृनिश्चायकं, किन्तु तत्संभावनामात्रजनकमिति 'कारणमात्रं तु संभावयन्तीति' ग्रन्थेनोक्तम् । तस्यायमाशयः, कार्यत्वलिङ्गकानुमानं कर्तृसामान्यमपि न निर्धारयितुमीष्टे; यथा दानपतनयोः संप्रदानापादानकारकापेक्षत्वेऽपि न कार्यान्तराणां तदपेक्षा. एवं घटादीनां कर्त्रपेक्षत्वेऽपि अङ्करादीनां मा भूत्तदपेक्षा इत्यप्रयोजकत्वशङ्कया घटतृणादिषु कृताकृतव्यवहारोपोद्बलिततया व्याप्तिशैथिल्यात् । किन्तु तन्मात्रं संभावयति; संप्रदानापादानयोरिव च कर्तुः कार्यान्तरेषु दृष्टव्यभिचाराभावाद्, घटपटादिषु भूयः सकर्तृकत्वदर्शनाच्च । कर्त्रैकत्वादौ तु युक्तिः संभावनामात्रमपि न जनयति, कृप्तानेकजीवकर्तृकत्वोपपत्तेरिति । अतो नानयोः ग्रन्थयोः परस्परविरोधः । कार्येण च कारणं किंचिदस्त्यनुमितमित्यादिग्रन्थस्तु प्रौढिवादेन प्रवृत्त इति न किंचिदवद्यम् ।

ननु 'प्रधानादिसंशये निर्णयवाक्यमिति' टीकाग्रन्थो न युक्तः; भाष्ये अस्य जगतो नामरूपाभ्यां व्याकृतस्येत्यादिना जगतः कानिचिद्विशेषणान्युक्त्वा न च यथोक्तविशेषणस्य जगत इत्याद्युत्तरग्रन्थेन जगत्कारणस्य प्रधानादिविलक्षणेश्वररूपत्वसमर्थनेन संशयाभावादित्याशङ्क्याह –

जगद्विशेषणैरिति ।

निर्णयेऽपि इत्यपिशब्देन ब्रह्मनिर्णये श्रुत्येकशरणानामस्माकं युक्त्या वस्तुतो निर्णयो न भवति, अतः प्रधानादिसंशय इति ।

ननु प्रसिद्धस्यैवानुवाद्यतया लोकप्रसिद्धं लौकिकानन्दमनूद्य तस्य जगज्जन्मादिकारणत्वविधायकम् आनन्दाद्ध्येवेति वाक्यमिति प्रतिभाति । तथा सति लौकिकानन्दस्यैव जगज्जन्मादिष्वदृष्टादिवत् कारणान्तरत्वमुक्तं स्याद्, न तेनानन्दरूपता ब्रह्मणः स्वरूपलक्षणं सिद्ध्येत् इत्याशङ्क्याह –

कारणं ब्रह्मेति ।

कल्पनीयोपस्थितिकलौकिकानन्दप्रसिद्ध्यापेक्षया क्लृप्तोपस्थितिकपूर्वप्रस्तुतजन्मादिकारणप्रसिद्धिः शीघ्रतरेति तया जगजन्मादिकारणं ब्रह्म अनूद्य तस्यानन्दरूपत्वविधायकमिदं वाक्यमिति भावः ।

सत्यादेरपीति ।

आनन्दादयः प्रधानस्य (ब्र.अ.३ पा.३ सू.११) इत्यधिकरणसिद्धं 'सत्यं ज्ञानमनन्तं ब्रह्मेति' प्रदेशान्तराम्नातलक्षणगतसत्यज्ञानाद्युपसंहारम् अभिप्रेत्य उपलक्षणत्वोक्तिः ।

नन्विति ।

सत्यज्ञानादीनां ब्रह्मस्वरूपाच्च परस्परस्माच्च भेदे सच्चिदानन्दरूपत्वं ब्रह्मलक्षणं न सिद्ध्येत् । अभेदे वाक्यार्थो न सिद्ध्येत् । तस्य अनेकपदार्थवैशिष्ट्यरूपत्वनियमादित्यर्थः ।

अभेदपक्षमालम्ब्योक्तनियमासिद्ध्या परिहरति –

अत्रोच्यत इति ।

यस्त्वज्ञात इति ।

तथा चाज्ञाते ब्रह्मपदार्थे एव वाक्यस्य पर्यवसानात् पुनः न विशिष्टपरत्वमित्यर्थः । ननु अज्ञातत्वं ब्रह्मणोऽसिद्धं; स्वरूपलक्षणवाक्ये ब्रह्मानूद्य तस्य आनन्दत्वविधानमित्यनुपदमेव उक्तत्वात् । न ह्यज्ञातमनुवाद्यम् । अत एव न विशिष्टपरत्वमित्येतदपि असिद्धम्, विधेयानुवाद्यविभागे सति तत्संसर्गविषयत्वावश्यम्भावात् इतिचेत्, उच्यते; 'अधीहि भगवो ब्रह्मेति' प्रश्नसमये ब्रह्मप्रातिपदिकार्थतया 'यतो वे'त्यादिवाक्यश्रवणानन्तरं जगजन्मादिकारणतया च भृगुणा ज्ञातमपि ब्रह्म प्रधानपरमाण्वादिव्यावृत्तेन स्वरूपेण न निधारितमित्यज्ञातम् । जगत्कारणत्वेन तदनुवादेऽपि नानुवाद्यसंसर्गस्य वाक्यार्थानुप्रवेशः । किन्तु वायुक्षेपिष्ठत्वादेः अर्थवादानूदितस्य तत्समर्पकार्थवादिकपदसंघातलक्षणीयविधिवाक्यान्वियिस्तुतिद्वारतयेव 'यत इमानि भूतानि जायन्त' इत्यादिपदसंघातलक्षणीयकारणलाश्रयवस्तूपस्थितिद्वारतया प्रथमावगतिमात्रम् । न च अनुवाद्यस्य जगत्कारणवस्य वाक्यान्वयसंभवे तत्समर्पकार्थपदसंघातस्य पुरोडाशकपालेन तुषानुपवपती' त्यत्र पुरोडाशकपालशब्दस्यैव अधिष्ठानलक्षणा न युक्तेति वाच्यम्; ब्रह्मप्रातिपदिकार्थमात्रस्य बुभुत्सितत्वेन अबुभुत्सितस्य कारणत्वस्यापि वाक्यार्थानुप्रवेशे कल्पकाभावात् । तदेतदनुपदमेव प्रकृष्टप्रकाशदृष्टान्तविवरणे स्फुटीकरिष्यते ।

यथा प्रकृष्टप्रकाश इति ।

'कश्चन्द्र' इति प्रश्नोत्तरे "प्रकृष्ट प्रकाशश्चन्द्र इति' वाक्ये प्रकृष्टप्प्रकाशशब्दौ प्रकर्षप्रकाशत्वरूपस्वार्थबोधनद्वारा तदाश्रयं बुभुत्सितं वस्तुतश्चन्द्ररूपं व्यक्तिविशेषं लक्षयत इति तत्र प्रकर्षप्रकाशत्ववैशिष्ट्यं न वाक्यार्थज्ञानानुप्रविष्टमित्यर्थः ।

ननु प्रश्नोत्तरे बुभुत्सितं वक्तव्यमित्येव नियमः, न त्वबुभुत्सितं न वक्तव्यमित्यपि; अबुभुत्सितस्यापि बुभुत्सितग्रहणोपायस्य सहवचनोपपत्तेः, काञ्च्याः को मार्ग इति प्रश्न मार्गग्रहणोपायतया तत्तत्प्रदेशस्थितगिरिनदीकाननादिसद्भावस्यापि सहवचनदर्शनात् इत्याशङ्क्याह –

मानान्तरादिति ।

मानान्तरासिद्धो गिरिनद्यादिमार्गग्रहणोपायो वाक्यार्थेऽनुप्रविशतु नाम, मानान्तरसिद्धस्य तु न तदनुप्रवेशः कल्पनीय इत्यर्थः ।

नन्वेवं सति मानान्तरोपस्थितस्यैव प्रकर्षस्य प्रकाशत्वस्य च बुभुत्सितचन्द्रव्यक्तिग्रहणोपायत्वसंभवात् तदुपादानं व्यर्थमित्याशङ्क्याह –

उपायस्त्विति ।

उपात्तमेव प्रकृष्टत्वं प्रकाशत्वं च व्यक्तिविशेषनिर्धारणोपायो भवति, नानुपात्तम् । न हि चन्द्र इत्येवोत्तरेण प्रकृष्टप्रकाशत्वाश्रयव्यक्तिविशेषः चन्द्र इति निर्धारणं निष्पद्यते । नन्वेवं सति प्रकृष्टप्रकाशत्ववैशिष्ट्यमपि वाक्येन बोधनीयमापतति । न हि तदबोधने तदाश्रयव्यक्तिविशेषश्चन्द्र इति निर्धारणा भवतीति-चेत्, उच्यते; कुत्र घोष इति प्रश्नोत्तरे घोषवासयोग्यनिबिडाधारप्रतिपादनार्थं प्रवृत्ते गङ्गायां घोष इति वाक्ये गङ्गापदं स्वार्थोपस्थापनद्वारा वस्तुतः स्वार्थसंबन्धिबुभुत्सितनिबिडाधाररूपं तीरं लक्षयतीति न तीरे प्रवाहविशेषसंबन्धित्वमपि वाक्ये बोध्यम् । न च तदपि वाक्येन बोध्यमेव, तीरत्वमात्रेण बोधने तीरव्यक्तिविशेषनिर्धारणासिद्धेरिति-वाच्यम्, गङ्गापदलक्ष्यत्वं अतदर्थसंबन्धिनः तीरान्तरस्य न संभवतीति तलक्ष्यत्वानुपपत्त्या अर्थात् तीरविशेषलाभोपपत्त्या तल्लाभार्थं मुख्यार्थसंबन्धित्वस्य लक्षणीयकोट्यनुप्रवेशकल्पनायोगाद्, यश्चार्थादर्थो न स चोदनार्थ' इति न्यायात् एवमिहापि द्रष्टव्यम् ।

अनुज्ञायत इति ।

न प्रतिक्षिप्यत इत्यर्थः । न तु वाक्यार्थानुप्रवेशित्वेनानुज्ञायत इति तदननुप्रवेशस्य समर्थितत्त्वात् ।

एवमुक्तां प्रक्रियामाश्रित्य स्वाभिमतं लौकिकवैदिकानां लक्षणवाक्यानाम् अभेदपरवाक्यानां चाखण्डार्थत्वं निर्धारयितुमर्थगतमखण्डत्वं लक्षयति –

एवं चेति ।

अविशिष्टमिति ।

समभिव्याहृतपदान्तरार्थासंसृष्टमित्यर्थः । अतः प्रकृष्टप्रकाशचन्द्र इत्यत्र बोध्यस्य चन्द्रस्य पदार्थैकदेशेन चन्द्रत्वेन वैशिष्ट्येऽपि नासंभवः । न च तत्त्वमस्यादिवाक्यार्थेष्वभेदरूपः संसर्गोऽस्तीत्यसंभवः शङ्कनीयः; संबन्धस्य द्विनिष्ठत्वनियमेन अभेदस्य संसर्गत्वाभावात् । कोकिलः पिक इत्यादिपर्यायानेकशब्दप्रकाशिते वाक्यार्थत्वाभावात् अलक्ष्येऽतिव्याप्तिवारणार्थम् अपर्यायेति विशेषणम् । अविशिष्टमित्यनेन अर्थलब्धस्यैक्यस्य स्पष्टीकरणार्थम् एकमिति । पदार्थभेदे तदुभयसंसर्गस्य वाक्यार्थत्वावश्यम्भावनाविशिष्टत्वासंभवात् । एवमपर्यायानेकशब्दप्रकाशितम् अविशिष्टमखण्डमिति अखण्डलक्षणोक्त्या समभिव्याहृतपदान्तरार्थसंसर्गागोचरप्रमितिजनकं वाक्यम् अखण्डार्थमिति अखण्डार्थलक्षणं सूचितं भवतीति द्रष्टव्यम् ।

दृष्टान्तासिद्धिमाशङ्कते –

नन्विति ।

व्यावृत्तिर्व्यवहारो वा लक्षणार्थ इति नैयायिकाः । तथा च प्रकृष्टप्रकाश इति हेतुगर्भविशेषणं, चन्द्र इति च हेत्वाश्रयभूतायाः चन्द्रव्यक्तेः इतरव्यावृत्तचन्द्रशब्दवाच्यत्वान्यतरसाध्यवैशिष्ट्यपरमिति नाखण्डार्थतेत्यर्थः । स्यादेतत् । मा भूत् चन्द्रव्यक्तौ तदितरव्यावृत्तेः साध्यता ।

ज्योतिर्मण्डलमध्ये प्रकृष्टप्रकाशरूपेण तां गृह्णता प्रत्यक्षेण तस्या नक्षत्रादिव्यावृत्तेरपि ग्रहणात्, चन्द्रशब्दवाच्यत्वस्य तु स्यात्, इयं व्यक्तिश्चन्द्रशब्दवाच्येति प्रागनवगतत्वादवगतौ वा लक्षणे वाक्यानपेक्षणात् इत्याशङ्क्याह –

नचेति ।

चन्द्रत्वजातिरहिते तत्साध्यते, तद्वति वा ।

नाद्यः इत्याह –

अचन्द्र इति ।

व्याघातादिति ।

शब्दप्रवृत्तिनिमित्तरहितस्य तद्वाच्यत्वायोगादित्यर्थः । द्वितीये, अयं चन्द्र इति चन्द्रत्वेन निश्चितायां व्यक्तौ तत्साध्यते, उतानेनैव वाक्येन चन्द्रत्वावगमनपूर्वकं तत्साध्यते । नाद्यः, चन्द्रवविशिष्टः चन्द्रशब्दवाच्यः, अयं चन्द्रत्वविशिष्टः इत्यवगच्छतः तत्र चन्द्रशब्दवाच्यत्वनिर्णयार्थमुपदेशानपेक्षणात् । न हि गोसदृशो गवयः अयं च गोसदृश इति जानतः तत्र गवयशब्दवाच्यत्वनिश्चयार्थम् उपदेशापेक्षा दृश्यते ।

न द्वितीय इत्याह –

अथ चन्द्रत्वमिति ।

अज्ञातचन्द्रज्ञापकमिति ।

यद्यपि प्रकृष्टप्रकाशव्यक्तिरेव चन्द्रः, स च ज्ञात एव । न च चन्द्रत्वेनाज्ञानं विवक्षितम्, व्यक्तिसमानवित्तिवेद्यस्य तस्यापि सप्रकारके व्यक्तिज्ञाने प्रकारत्वेन विषयतावश्यंभावात; तथापि चन्द्रत्ववैशिष्ट्यांशे सत्तानिश्चयरूपज्ञानाभावो विवक्षितः । अनभ्यासदशापन्नजलादिज्ञानवत्, यतो न तदंशे सत्तानिश्चयरूपम् । अत एवोपदेशानन्तरमेव तनिश्चयः । अन्यथोपदेशवैयर्थ्यं स्याद्; विषयान्तरासंभवात् । यद्वा जातेः नास्ति व्यक्तिसमानवित्तिवेद्यत्वनियमः; स्वर्णकरकादिषु गृह्यमाणेष्वपि तेजस्त्वजलत्वपृथिवीत्वादिसंशयदर्शनात् । किन्तु यद्व्यञ्जकतया यदवगतं तस्याः तत्समानवित्तिवेद्यत्वनियमः । न च ज्योतिर्मण्डलमध्यवर्तिप्रकर्षविशेषयुक्तप्रकाशत्वं चन्द्रत्वव्यंजकमिति प्रागुपदेशात् ज्ञातम्, अतो युज्यत एव अज्ञातचन्द्रत्वज्ञापकत्वं प्रकृष्टप्रकाशवाक्यस्य ।

अर्थादिति ।

अप्रकृष्टप्रकाशनक्षत्रादिव्यावृत्तेः प्रत्यक्षतः सिद्धावपि अचन्द्रव्यावृत्तेः चन्द्रशब्दवाच्यत्वस्य च अर्थात्सिद्धिरित्यर्थः ।

ननु वाच्यनानात्वे लक्ष्यस्यापि नानात्वं स्यादित्याशङ्क्याह –

न हि चन्द्रद्वयमस्तीति ।

प्रकृष्टप्रकाशशब्दवाच्यनानात्वेऽपि तल्लक्ष्यचन्द्रव्यक्तिनानात्वं नास्तीत्यर्थः ।

मा भूदिति ।

यद्यपि ध्वंसप्रागभावान्यतरप्रतियोगित्वरूपम् अनित्यत्वं ध्वंसेन प्रागभावेन वा विशिष्टमेव; तथाप्यस्मदादिबाह्येन्द्रियग्राह्यत्वं सामान्यवत्वेनेव समानाधिकरणविशेषणेन विशिष्टं न भवतीत्यत्र तात्पर्यम् । सुवर्णं तेजः, जलपृथिव्यन्यत्वे सति रूपवत्वात् इत्याद्युदाहरणान्तरमिह द्रष्टव्यम् ।

अनित्यत्वतज्ज्ञापकदृष्टान्तेनैव दोषान्तरमाशङ्कते –

तर्हीति ।

सत्याद्यात्मकत्वं न स्यादिति ।

सता जात्यादितादात्म्यापन्नं हि घटादिकं सदाद्यात्मकमिष्यत इति भावः ।

सत्त्वादि न जहातीति ।

सदाद्यात्मकं भवतीत्यर्थः ।

aaननु घटादिविषयेषु सत्तादिजातीनां व्यक्तितादात्म्यदर्शनमस्तु, ततः किमायातं ब्रह्मणः सदात्मकत्वादिसिद्धौ इत्याशङ्क्य, लोकं व्याचष्टे –

इह कल्पितभेदेति ।

प्रतिज्ञातमर्थं क्वचिदुदाहरणे प्रदर्शयन्नेव तन्न्यायं प्रकृते योजयति –

तरङ्गेति ।

वस्तुतश्चन्द्रस्यैकत्वे(अ)पि तरङ्गोपाधिकल्पितभेदा बह्वश्चन्द्राः सन्तीति तावदनुगतं चन्द्रत्वसामान्यं तद्वाचिनश्चन्द्रशब्दस्य यदा भेदकल्पनाधिष्ठाने बिम्बचन्द्रे प्रयोगस्तदा तद्वाच्यचन्द्रत्वसामान्यलक्ष्या भवति या चन्द्रव्यक्तिः, सा चन्द्रात्मत्वं न जहातीति दृष्टं तथेहापि मायाकल्पितभेदघटपटाद्यनुगतसत्तासामान्यवाचिन: सच्छब्दस्य सद्भेदकल्पनाधिष्ठाने ब्रह्मणि प्रयोगे सति तद्वाच्येन सत्तासामान्येन लक्ष्यं ब्रह्म सदात्मत्वं न जहातीत्यर्थः ।

ननु सच्चिदानन्दशब्दवाच्यसत्तादिसामान्यलक्ष्यव्यक्तीनां भेदादपर्यायानेकशब्दपर्यवसानास्पदं ब्रह्म न सिद्ध्येदत आह –

यथा चेति ।

व्यक्त्याकारो व्यक्तिभेदः ।

विशिष्टार्थपरत्वरहितमिति ।

पदान्तरार्थसंसृष्टार्थपरत्वरहितमित्यर्थः ।

एवं तत्पदार्थविषयावान्तरवाक्यानामखण्डार्थत्वं प्रसाध्य तत्त्वमस्यादिमहावाक्यानामपि तत्साधयति –

तथेति ।

तत्त्वमस्यादिवाक्यम्, अखण्डार्थम्, उपाधिभेदभिन्नार्थक्यप्रतिपादकत्वाद्, महाकाशो घटाकाश इति वाक्यवदिति लोकसंहितेऽनुमाने हेत्वसिद्धिपरिहाराय जीवेश्वरयोः स्वाभाविकभेदाभावं जीवस्य विभुत्वेन साधयिष्यन् परिमाणान्तरनिरासेन तस्य विभुत्वमुपपादयति –

निरंशस्येति ।

आत्मा, द्रव्यत्वावान्तरजातिरहितः, विभुत्वात् आकाशवत् इत्यनुमाने जातौ धर्मिसमानसत्ताकत्वं विशेषणं देयं, तेन तरङ्गचन्द्रानुगतचन्द्रत्वन्यायेन जीवे ईश्वरे च कल्पिताया आत्मत्वजातेरभ्युपगमेऽपि न बाधः । जीवेश्वरभेदस्य स्वाभाविकत्वे तद्गतात्मत्वजातेः धर्मिसमानसत्ताकत्वावश्यंभावात् तदभावसाधनेन स्वाभाविकभेदनिराससिद्धिः ।

उक्तानुमानानुग्राह्यां जीवानामीश्वरात् परस्परस्माच्च भेदस्यौपाधिकत्वप्रतिपादिनीं श्रुतिमुदाहरति –

यथा ह्यय मिति ।

इति द्वितीयं जन्माद्यधिकरणम्॥ शास्त्रयोनित्वात्॥३॥