वेदान्तकल्पतरुः
कल्पतरुपरिमलः
 

शास्त्रयोनित्वात् ॥३॥ अत्र हेतुमात्रं प्रतिभाति, नैतज्जगद्योनित्वे, साध्याविशेषादित्यसङ्गतिमाशङ्क्यार्थिकप्रतिज्ञया सङ्गतिमाह—

सूत्रान्तरमिति ।

अथ वा वेदनित्यत्वाद् ब्रह्मणो विश्वयोनिता । नेति शङ्कामपाकर्तुं शास्त्रयोनित्वमुच्यते ॥ अस्मिन्पक्षे श्रौतप्रतिज्ञयैव सङ्गतिः ।

अभ्युच्चयार्थत्वेन हेतुपौनरुक्त्यं परिहरति —

न केवलमिति ।

हेत्वन्तरसमर्थनाच्चाधिकरणान्तरत्वम् । ‘अस्य महत’ इत्यादिवाक्यं ब्रह्मणो वेदकर्तृत्वेन सर्वज्ञत्वं न साधयत्युत साधयतीति वेदस्य सापेक्षत्वप्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वपक्षामाशङ्क्य निराकरिष्यते ।

सिद्धान्तोपक्रमभाष्यं व्याचष्टे —

चातुर्वर्ण्येत्यादिना ।

पुराणन्यायमीमांसा धर्मशास्त्रं षडङ्गानि दश विद्यास्थानानि ।

तया तया द्वारेति ।

सृष्टिवाक्यापेक्षितसर्गादिप्रपञ्चनद्वारा पुराणमद्वैतपरं, जातिव्यक्तिलक्षणनिरूपणेन न्यायो वैदिकपदार्थशुद्ध्यर्थः; शेषोपयोगस्तु व्यक्तः ।

उक्तमर्थं प्रमाणयतीति ।

अत्रायं भाष्यविभागः — महत इत्यारभ्य ब्रह्मेत्यन्तेन निःश्वसितश्रुत्या विभक्तत्वहेतूपकृतया ब्रह्मकार्यं वेद इत्युक्तम् । नहीदृशस्येत्यारभ्यास्तीत्यन्तेन व्यतिरेकमुखेन सर्वज्ञत्वप्रतिज्ञा । यदित्यादिना लोके इत्यन्तेन व्याप्तिरुक्तेति ।

विस्तरत्वं शास्त्रविशेषणं व्याप्त्यनुपयोगाद् व्यर्थमित्याशङ्क्य महाविषयत्वाद्वेदस्य ब्रह्मज्ञानेन तुल्यविषयत्वभ्रमनिवृत्तिः प्रयोजनमित्याह —

विस्तरार्थमिति ।

यस्मादित्यस्य तस्येत्यनेन व्यवहितेन संबन्धमाह —

वेदस्येति ।

इदमिहानुमानम् —

ब्रह्म वेदविषयादधिकविषयज्ञं तत्कर्तृत्वात्, यो यद्वाक्यप्रमाणकर्ता स तद्विषयादधिकविषयज्ञः, यथा पाणिनिरिति । सर्वावभासकवेदकर्तृत्वेन पक्षधर्मताबलात्सर्वज्ञत्वसिद्धिरिति ।

यद्वा —

अयं घटः, एतदन्यासर्ववित्कर्तृकत्वानधिकरणैतदन्यावेदत्वानधिकरणसकर्तृकान्यः, घटत्वाद्, घटान्तरवदिति ।

ईक्षणादिप्रयत्नापेक्षणादप्रयत्नशब्दः सौकर्यापेक्ष इत्याह —

ईषदिति ।

अधुना पूर्वपक्षमाशङ्क्य निराक्रियते । कर्तृमत्त्वेन वेदस्य सापेक्षत्वं वदन् प्रष्टव्यः — सापेक्षता किं पुरुषनिर्वर्त्यत्वमात्रात्, अभिनवानुपूर्वीविरचनाद्वा, मानान्तरोपलब्धार्थविषयवचनरचनाद्वा, कतिपयकालविरचितसर्वसंप्रदायस्य वेदस्यैकपुरुषान्निःसरणाद्वा ।

नाद्यः, तत्रापि संमतत्वादित्याह —

येऽपि तावदिति ।

व्यक्तिरभिव्यक्तिः । द्वितीये क्रमान्यत्वमात्रमभिनवत्वं, विसदृशक्रमत्वं वा । आद्यो भवद्भिरप्यङ्गीकृतः ।

चरमस्तु नास्माभिरपि स्वीकृत इत्याह —

तस्मान्नित्येति ।

तृतीयस्त्वनभ्युपगमनिरस्त इत्याह —

वैयासिकं त्विति ।

अनुवर्तमाना आचक्षत इत्यनुषङ्गः ।

ननु विवर्तत्वे वेदान्तानां यादृच्छिकत्वापातान्न क्रमनियम स्यात्तत्राह —

यथाहीति ।

सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो नोपाध्यायवत्क्रमानुरोधो युक्त इति, तत्राह —

यथात्रेति ।

‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् (पाणि ० शिक्षा ०)॥‘ इति श्रूयते ।

चतुर्थं निराकरोति —

नचैकस्येति ।

सर्वदासंप्रदायाविच्छेदमिच्छद्भिरपि संप्रदायप्रवर्तकेष्वाष्वास आस्थेयः, स वरमेकस्मिन्नेव ब्रह्मण्यवगतसार्वज्ञ्ये कृत इति भावः ।

ननु न वयमीश्वरं पश्यामः , कथं तत्कर्तृके वेदे विश्वासस्तत्राह —

सर्गादिभुवामिति ।

इति तृतीयं शास्त्रयोनित्वाधिकरणम् ॥

साध्याविशेषादिति ।

हेतुः सिद्धश्चेत् साध्यमपि सिद्धमेव । "अस्य महतो भूतस्य" इत्यादिश्रुत्या खलु हेतुसिद्धिरेष्टव्या, तया यतो वेत्यादिश्रुत्यन्तरैश्च साध्यस्यापि सिद्धिरविशिष्टा । अथ श्रुतिप्रच्छादनेन साध्यासिद्धिरुच्यते, तर्हि हेतोरप्यसिद्धिः स्यादित्येवं साध्याविशेष इत्यर्थः ।

आर्थिकप्रतिज्ञयेति ।

आर्थिकी सर्वज्ञत्वप्रतिज्ञा । ननु निर्विशेषब्रह्मविचारं प्रतिज्ञातवतः सूत्रकारस्य सविशेषब्रह्मगतसर्वज्ञत्वदृढीकरणं क्वोपयुज्यते? पूर्वसूत्रे विवक्षितस्य जीवो जगत्कारणमिति शङ्काव्यावर्तनस्य स्थिरीकरणे । ननु पूर्वसूत्रे ब्रह्मणः सर्वज्ञत्ववत्सर्वशक्तिकत्वमप्यर्थलब्धं तत्किमिति केनचिद्धेतुना न दृढीकृतं? तदपि ह्युक्तशङ्कानिवर्त्तनक्षमम्; सत्यं, तदपि निःश्वसितश्रुत्युहरणेन दृढीकृतमेव; 'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेद' इत्युपक्रम्य, अयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निःश्वसितानि इति नामरूपात्मकस्य सर्वस्यापि प्रपञ्चस्य निःश्वसितवदप्रयत्नसाध्यब्रह्मकार्यत्वोक्तेः ।

अथवेति ।

ननु वेदानित्यत्वप्रसाधनं वियत्पादे (व्या. सू. अ. २ पा.३) सङ्गतं, न त्वत्रेति-चेत्, सत्यम्, पूर्वसूत्रार्थाक्षिप्तसर्वज्ञत्वदृढीकरणार्थतयेह वेदकर्तृत्वं व्यवस्थापनीयमासीत्, तेनार्थाद् ब्रह्मणः सर्वकारणत्वमनुपपन्नं वेदस्य नित्यत्वादिति शङ्कानिराकरणमपि लभ्यत इत्यानुषङ्गिकार्थकथनपरोऽयं श्लोकः । आनुषङ्गिके चार्थे न पृथक् सङ्गत्यपेक्षा । अथवेत्यस्मिन् पक्ष इति च हेतोरार्थप्रतिज्ञान्वयमनपेक्ष्य श्रौतप्रतिज्ञयैव तदन्वय इत्यभिप्रायं न भवति; येन स्वतन्त्रमिदं पक्षान्तरमित्यानुषङ्गिकत्वं न स्यात्, किं त्वार्थप्रतिज्ञयैवान्वय इति यथाश्रुतभाष्यटीकानुसारेण प्रथमः । आनुषङ्गिकार्थविषयौतप्रतिज्ञयाऽप्यन्वयो भाष्यटीकयोः विवक्षित इति द्वितीयोऽयं पक्षः । प्रतिज्ञयैवेत्येवकारो भिन्नक्रमः, श्रौतप्रतिज्ञयाऽप्यन्वयोऽस्त्यैवेत्यर्थः ।

ननु जगद्योनित्वसिद्धे सार्वज्ञ्ये शास्त्रयोनित्वम् अभ्युच्चयार्थं हेत्वन्तरं चेदधिकरणान्तरत्वं न स्यादित्यत आह –

हेत्वन्तरेति ।

सिद्धहेत्वन्तराभिधाने ह्यैकाधिकरण्यम्, इह शास्त्रयोनित्वहेतुः प्रसाधनीय इति तदर्थमधिकरणान्तरमित्यर्थः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्यौतिषमिति षडङ्गानि ।

जातिव्यक्तीति ।

उपलक्षणमेतदपेक्षितप्रमाणादिनिरूपणस्यापि ।

उक्तमर्थं प्रमाणयतीति ।

यद्यदित्यादिभाष्यात् प्राचीनेन सन्दर्भेण हेतुनिर्देशपूर्वकं प्रतिज्ञातं सार्वज्ञ्यरूपमर्थं प्रमाणवन्तं करोतीत्यर्थः । यद्यपि हेतुनिर्देशमारभ्य प्रमाणोपन्यासः प्रवृत्तः; तथापि व्याप्त्यैव हेतुः प्रामाण्यमश्नुत इति यद्यदित्यादिव्याप्तिप्रदर्शकग्रन्थ एव प्रमाणोपन्यासार्थत्वेनावतारितः । अथवा - 'त्रीनुदाहरणान्तान्वा यद्वोदाहरणादिका"निति मीमांसकमर्यादया यद्यदित्यादिरुदाहरणोपनयनिगमनोपन्यास एव प्रमाणोपन्यासः । भाष्ये - ततः प्रागन्वयमुखेन हेतोर्व्यतिरेकमुखेन प्रतिज्ञायाश्च निर्देशस्तस्य स्फुटीकरणार्थः, न त्वनुमानावयवरूप इत्यभिप्रायेणोदाहरणप्रभृतिरेवोक्तार्थे प्रमाणप्रदर्शनपरत्वेनावतारितः । प्रमाणवच्छब्दात् तत्करोतीत्यर्थे णिचि णाविष्ठवद्भावाद् ‘विन्मतोर्लुगिति' मतुपो लुकि च सति प्रामाण्यवन्तं करोतीत्यर्थे प्रमाणयतीति शब्दः । यद्वा - उक्तमर्थं वेदकर्तृत्वं हेतुं व्याप्त्याद्युपन्यासेन प्रमाणं करोतीत्यर्थः । अस्मिन् पक्षे प्रमाणशब्दादेव णिच् । विभक्तत्वं भिन्नत्वं कार्यत्वे हेतुरिति वियदधिकरणे यावद्विकारं त्विति' (व्यास. अ. २ पा. ३ सू.७) सूत्रेण प्रदर्शयिष्यते ।

तुल्यविषयत्वेति ।

विस्तरार्थमित्यत्र विस्तरशब्दः शब्दप्रपञ्चपरः; 'प्रथने वावशब्द' इति शब्दातिरिक्तस्यार्थस्य प्रपञ्चे घञो विधानेन शब्दप्रपञ्च एव 'ऋदोरबि'त्यपा विस्तरशब्दनिष्पत्तेः । विस्तररूपोऽर्थो धर्मी यस्य तद्विस्तरार्थम् । वस्तुमात्रवाचिनोऽर्थशब्दस्येह धर्मरूपे वस्तुनि पर्यवसानम् । एवं च ऋग्वेदादिरूपे शास्त्रे अर्थवादादिबहुले शब्दमात्रस्यैव प्रपञ्चो नार्थस्येति विस्तरार्थविशेषणेन ज्ञापनाद् वेदस्य ब्रह्मज्ञानस्य च तुल्यविषयत्वभ्रान्तिः निवर्तिता भवति । अतोऽधिकविषयज्ञानवत्त्वसाध्यस्य न बाध इति भावः ।

ब्रह्मेति ।

ननु वेदविषयाधिकविषयज्ञानवत्त्वमात्रं साध्यं चेत्, सर्वावभासकवेदकर्तृखेन पक्षधर्मताबलात् सर्वज्ञतासिद्धिरित्येतन्न घटते; वेदविषयतदधिकोभयविषयज्ञानवत्त्वं साध्यं चेत्, वैदिकासदर्थोपाख्यानाद्यर्थविषयभ्रान्तिज्ञानवत्त्वमपि ब्रह्मणः सिद्ध्येत् । किञ्च हेतूकृतं वेदकर्तृत्वं वेदवक्तृत्वमात्रं चेत्, अर्थानभिज्ञाध्यापके व्यभिचारः; पूर्वानुपूर्वीमनपेक्ष्य तद्वक्तृत्वं चेत्, असिद्धिः; सामान्यव्याप्त्युपन्यासे च वाक्यप्रमाणस्येति प्रमाणपदं व्यर्थम्; अप्रमाणवाक्यकर्तुरपि भ्रान्तस्य प्रतारकस्य च तदर्थतदधिकोभयविषयज्ञानसत्त्वात् । तस्मात्सर्वमिदमयुक्तमिति - चेत्, उच्यते; ईश्वरस्य वैदिकासदर्थोपाख्यानायर्थविषयज्ञानवत्त्वेऽपि तस्य ज्ञानस्य प्रमित्युपयोग्याहार्यज्ञानत्वाद् न तेन भ्रान्तिमत्त्वप्रसक्तिः । न ह्यभावप्रमित्युपयोग्यधिकरणगोचरप्रतियोगितदवच्छेदकारोपवन्तः पुरुषाः धर्मार्थप्रमित्युपयोगिकपोताख्यायिकाहसकाकोपाख्यानादिरचनामूलारोपवन्तो वाल्मीकिकृष्णद्वैपायनादयो बालारोग्यसाधनौषधपानकर्तव्यताप्रमित्युपयोगिबालनरोचनार्थतदभिमतफलान्तरोपन्यासमूलारोपवन्तः पित्रादयश्च भ्रान्ता इति व्यपदिश्यन्ते । किञ्च यत्सत्तानिश्चयरूपं न भवति, न तेनान्यत्र अन्यवैशिष्ट्यावगाहिनाऽपि भ्रान्त इति व्यपदिश्यते । न हि शुक्तौ रजतत्ववैशिष्ट्यज्ञानवानिव अस्य पुरोवर्तिनि रजतत्ववैशिष्ट्यावगाहिज्ञानमप्रमाणमिति तदीयभ्रान्तिविषयतया पुरोवर्तिनि रजतत्ववैशिष्ट्यं गृह्णन् भ्रान्तिज्ञोऽपि भ्रान्त उच्यते । वेदकर्तृत्वं च वक्रन्तराधीनानुपूर्वीमनपेक्ष्य वेदकर्तृत्वमिति नार्थानभिज्ञाध्यापके व्यभिचारः । न चैवमपि घुणाक्षरन्यायेन वेदसमानानुपूर्वीकस्य वाक्यस्यार्थान्तरविवक्षया प्रयोक्तरि व्यभिचारः सकलवेदवक्तृत्वस्य विवक्षितत्वात् । तावच्च सर्गादौ सर्वान् वेदानध्यापितेष्वीश्वरवत्सार्वज्ञ्यरहितेषु मन्वादिषु व्यभिचारीति तद्वारणेन पूर्वोक्तविशेषणमप्यर्थवत् । उदाहरणवाक्ये प्रमाणपदं यो यस्य वाक्यस्यार्थविवक्षया प्रयोक्तेति विवक्षारूपविशेषणलाभार्थम् । तच्च विशेषणमर्थानभिज्ञाध्यापकेषु निरभिप्रायवाक्यप्रयोक्तृषून्मादग्रस्तादिषु च व्यभिचारवारणार्थम् सर्गादौ वेदान्प्रवर्तयत ईश्वरस्यापि तत्तदर्थविवक्षाऽस्तीति सामान्यव्याप्तावुपात्तस्य व्याप्यस्य पक्षानुगतिः । उक्तं हि ग्रहाधिकरणवार्तिके (जै.अ.३.पासू. १३-१५) 'शब्दब्रह्मेति यच्चेदं शास्त्रं वेदाख्यमुच्यते । तदप्यधिष्ठितं सर्वमेकेन परमात्मना॥ तथर्ग्वेदादयो वेदाः प्रोक्ता येऽपि पृथक्पृथक् । भोग्यत्वेनात्मनां तेऽपि चैतन्यानुगताः सदा॥ तेषामन्तर्गतेच्छानां वाक्यार्थप्रतिपादनी । विवक्षा चाविवक्षा च ज्ञायते शब्दशक्तितः॥ इति ॥ ननु सकलवेदकर्तृत्वहेतूकरणबलात् सकलवेदार्थविषयत्वम् ईश्वरज्ञानस्य सिद्ध्यतीति तावतैव तस्य सार्वज्ञ्यसिद्धेरधिकविषयत्वं विशेषणान्तरं किमर्थम् । न च-तावता तस्य सार्वज्ञ्यं न सिद्ध्यति, अवेदप्रतिपादिताद्यतनपुरुषपाणिगतवराटकसंख्यादिज्ञानवत्त्वस्य तेन असिद्धेरिति वाच्यम् । अधिकविषयत्वविशेषणेनापि तदसिद्धेः । टीकायां हि इक्षुक्षीरादिमाधुर्यविशेषवत् वेदेनापि यदाहत्य बोधयितुं न शक्यं तादृग्विवशेषविषयज्ञानवत्त्वस्याप्यधिकविशेषणेन सिद्धिरिति तत्प्रयोजनमुक्तम् । युक्तं चैतत्, यथेक्ष्वादिमाधुर्यं स्वयमनुभूय शब्दं प्रयुञ्जानस्य यादृशं तद्विशेषज्ञानं तादृशं स शब्दो नान्यस्य जनयितुमीष्टे । तथा मानुषादिब्रह्मपर्यन्त आनन्द उत्तरोत्तरमुत्कृष्यते, ब्रह्मानन्दस्तु निरतिशय इति वैदिकशब्दः शतकृत्वः श्रुतोऽपि तमानन्दं साक्षात्कुर्वत ईश्वरस्य अनुभवेन सदृशं तन्निरतिशयत्वादिरूपविशेषानुभवम् अन्यस्य जनयितुं न शक्नोत्येव । एवंविधश्रुत्यबोध्यविशेषविषयत्वेन वेदरचनामूलवेदार्थाधिकवर्णावल्यादिविषयत्वेन चार्थान्तरादिति - चेत्, उच्यते । सकलवेदार्थाभिज्ञत्वमेवेह साध्यं, पक्षधर्मताबलात् सार्वज्ञ्यसिद्ध्युक्तिरपि तन्मात्राभिप्राया । न च तन्मात्रं साध्यते चेद् व्याप्तिबलादेव तत्सिद्ध्यतीति पक्षधर्मताबलोक्तिरधिकसार्वज्ञ्यसिध्यर्था स्यादिति-वाच्यम्; सामान्यव्याप्तिबलात् स्वप्रयुक्तवाक्यार्थाभिज्ञत्वमात्रस्यैव सिद्धिरिति विशिष्य सकलवेदार्थाभिज्ञत्वसिद्धेः सकलवेदकर्तत्वहेतुपक्षधर्मतालभ्यत्वात् । वेदार्थाधिकाद्यतनवृत्तान्ताद्यभिज्ञत्वसिद्धिस्तु स्वतः सर्ववेदार्थगोचरम् ईश्वरज्ञानमन्यदपि सर्वं गोचरयेदिति न्यायसाम्यात् । अधिकविषयत्वस्य साध्यानुप्रवेशनं तु पाणिनीयादिदृष्टव्याप्तिबलात् अधिकविषयत्वमपि सेद्धुमर्हति, किमुत पदार्थविषयत्वमिति कैमुतिकन्यायेन सिषाधयिषितसाध्यसिद्धिदार्ढ्यर्थम्, अनुमानप्रवृत्त्यनन्तरभाविन्यायलभ्यार्थानुवादरूपं वा ।

एवं सूत्रभाष्यसूचितं सर्वज्ञत्वपर्यवसाय्यनुमानं प्रदर्श्य, स्वयं साक्षात्तत्साधकमनुमानं दर्शयति –

अयं घट इति ।

एतत्पदद्वयं पक्षीकृतघटपरम् । एतदन्यश्चासावसर्ववित्कर्तृकश्च, तस्य भावस्तत्त्वं तदनधिकरणमित्येकं सकर्तृकस्य विशेषणम् । एतदन्यश्वासाववेदश्च, तस्य भावस्तत्त्वं तदनधिकरणमिति द्वितीयं तस्य विशेषणम् । एवंभूतात् सकर्तृकादन्यत्वस्य साध्यस्य दृष्टान्ते प्रसिद्धिः पक्षादन्यत्वविषया । पक्षीकृतो हि घट: सकर्तृकः एतदन्यावेदत्वानधिकरणं च; तत्रावेदत्वसत्त्वेऽपि एतदन्यत्वविशिष्टावेदत्वाभावात् । एतदन्यासर्ववित्कर्तृकत्वनाधिकरणं च; तत्र असर्ववित्कुलालकर्तृकत्वसत्त्वेऽपि एतदन्यत्वविविष्टासर्ववित्कर्तृकत्वाभावात् । पक्षे तु वेदादन्यत्वमादाय साध्यं सिद्ध्यद्वेदस्य सर्ववित्कर्तृकत्वमन्तर्भाव्य पर्यवस्यति । पक्षस्य यस्मात्सकर्तृकादन्यत्वं वाच्यं तस्यैतदन्यावेदत्वानधिकरणत्वं ह्यवेदवरूपविशेष्याभावेनोपपादनीयं, न त्वेतदन्यवरूपविशेषणाभावेन; पक्षगतान्योन्याभावप्रतियोगिनि पक्षान्यत्वसत्त्वेन तदभावासंभवात् । एवमेतदन्यासर्ववित्कर्तृकत्वानधिकरणत्वमप्यसर्ववित्कर्तकरूपस्य विशेष्यस्याभावेनोपपादनीयम् पूर्ववत्तत्र विशेषणाभावासंभवात् । एवं च यद्यपि द्वितीयविशेषणलभ्ये वेदपक्षनिष्ठान्योन्याभावप्रतियोगिनि प्रथमविशेषणलभ्यमसर्ववित्कर्तृकत्वानधिकरणत्वम् अकर्तृकत्वेनापि सेद्धुमर्हति; तथापि सकर्तृकविशेष्यविरोधेन तथासिद्धेः निरोधाद् वेदस्य सर्ववित्कर्तृकत्वसिद्धिः । अत्र सकर्तृकात् पटादादन्यत्वेन सिद्धसाधनवारणाय द्वितीयं विशेषणम् । तेन वेदादेव सकर्तृकादन्यत्वसिद्धावपि वेदस्यासर्ववित्कर्तृकत्वेनार्थान्तरं स्यादिति, तद्वारणाय प्रथमविशेषणम् । अकर्तृकत्वेनार्थान्तरवारणाय विशेष्यम् । विशेषणद्वयेऽप्येतदन्यत्वं प्रतियोगिविशेषणं दृष्टान्ते साध्यप्रसिद्ध्यर्थम् । अन्यथा पक्षीकृतघटस्य असर्ववित्कर्तृकत्वाधिकरणत्वात् अवेदत्वाधिकरणत्वाच्च ततोऽन्यत्वमादाय दृष्टान्ते साध्यप्रसिद्धिर्न स्यात् । न च वेदान्यत्वमादायैव तत्र साध्यप्रसिद्धिः शङ्कनीया; पक्षे साध्यसिद्धेः प्राग्वेदे असर्ववित्कर्तृकत्वानधिकरणसकर्तृकत्वसंप्रतिपत्त्यभावात् ।

सापेक्षत्वं वदन्निति ।

एवं च सापेक्षत्वेन कुत्स्नवेदाप्रामाण्याद्वरं निःश्वसितादिश्रुतिमात्रस्य उपचरितार्थत्वम् । तथा सति 'वाचा विरूपनित्यया 'इत्यादिश्रुतिरप्यनुग्रहीष्यत इति पूर्वपक्षपर्यवसाने सति सर्वज्ञत्वहेत्वन्तराक्षेपतत्समाधानार्थं प्रवृत्तमेवेदमधिकरणं जगत्तत्कारणत्वाक्षेपतत्समाधानपर्यन्तमपि फलतो भवतीति अथवा वेदनित्यत्वादित्युपन्यस्तद्वितीयपद्यपर्यन्तमेव भाष्यटीकयोरपि विवक्षितं सिद्ध्यतीति द्रष्टव्यम् ।

स वाग्वज्र इति ।

स स्वरवर्णहीनः प्रयुक्तो मन्त्रः वज्रवद्धिंसको यजमानं हिनस्ति, तत्र पुराकल्पसिद्धमुदाहरणम् –

यथेन्द्र शत्रुरिति ।

त्वष्टुः पुत्रो विश्वरूपः शक्रेण हतः । स त्वष्टेन्द्रस्य हन्तारं पुत्रं लिप्सुः, तदर्थं सोमयागमनुतिष्ठन् भागलिप्सुमपि इन्द्रं नाजुहाव । इन्द्रः स्वयमेवागत्य प्रसह्य सोमरसं पपौ । त्वष्टा सोमपात्रे अवशिष्टं सोमरसमिन्द्रस्य शातयिता पुत्रो भूयादित्याशंसमानः 'स्वाहेन्द्रशत्रुर्वर्धस्वेति मन्त्रेण जुहाव । तदेन्द्रशत्रुरिति शब्दः तत्पुरुषस्वरं विहाय बहुव्रीहिस्वरेण प्रयुक्तः । तेन स्वरापराधेन तत्रोत्पन्नस्य वृत्रासुरस्य शक्र एव शातयिताऽभूदिति त्वष्टा हतपुत्र इत्यादितैत्तिरीयश्रुत्यर्थोऽत्र निबद्धः ।

अवगतसार्वज्ञ्ये इति ।

ननु साश्यसाधकवेदकतृत्वहेतुसिद्धिपरिपन्थिसापेक्षत्वशङ्कानिराकरणप्रस्तावे तदुपयोगितया सार्वज्ञ्यत्वावगतिः कथं सिद्धवदुपन्यस्यते, अन्योन्याश्रयो हि तदा स्यात् । नैष दोषः; सार्वज्ञ्याभ्युपगमहेतुमहिमविशेषावगतेर्विवक्षितत्वात् ।

ननु तथाभूतमहिमविशेषावगतिर्वा कुतः? न हि वयमीश्वरं पश्याम इत्याशङ्कोत्तरत्वेन उत्तरग्रन्थमवतारयति –

नन्विति॥

इति तृतीयं शास्त्रयोनित्वाधिकरणम्