वेदान्तकल्पतरुः
कल्पतरुपरिमलः
 

तत्तु समन्वयात्॥४॥ वेदान्ता ब्रह्मणि प्रमाणं न वेति सिद्धवस्तुबोधात्फलभावाभावाभ्यां सिद्धं रूपादिहीनं वस्तु बोधयतो वाक्यस्य मानान्तरसापेक्षत्वानपेक्षत्वाभ्यां वा संशये पूर्वाधिकरणद्वितीयवर्णकेनाक्षेपिकीं सङ्गतिमुक्त्वा पूर्वपक्षभाष्यं व्याचष्टे —

किमाक्षेप इत्यादिना ।

कथमिति थमुप्रत्ययान्तः किंशब्द आक्षेपे ।

जैमिनिसूत्रोपन्यासो न व्युत्थितसिद्धान्तिविश्रम्भायापि तु दृढपूर्वपक्षनिरासार्थं सिद्धान्तावश्यारम्भायेत्याह —

पारामर्षेति ।

अभिधेयाभावोऽनुभवविरोधान्न युक्तो वक्तुमित्याह —

आनर्थक्यं चेति ।

भाष्ये पौनरुक्त्यमाशङ्क्य संग्रहविवरणत्वमाह —

अत इत्यादीति ।

वाऽन्तमिति ।

उपासनादिक्रियान्तरविधानार्थत्वं वेत्येतदन्तमित्यर्थः ।

ननु किमिति वेदान्तानामर्थवादवद्विधिपदैकवाक्यता? मन्त्रवत्पार्थगर्थ्यमस्त्वित्याशङ्क्य तर्हि तद्वद्विधिभिर्वाक्यैकवाक्यता स्यादित्याह भाष्यकारः —

मन्त्राणां चेति ।

इषे त्वेत्यत्र छिनद्मीत्यध्याहाराच्छाखाच्छेदः क्रिया भाति, क्वचिच्चाग्निर्मूर्धेत्यादौ तत्साधनं देवतादीति । मन्त्राश्च श्रुत्यादिभिः क्रतौ विनियुक्ताः । ते किम् — उच्चारणमात्रेणादृष्टं कुर्वन्तः क्रतावुपकुर्वन्त्युत दृष्टेनैवार्थप्रकाशनेनेति संदेहः । तत्र न तावद् दृष्टार्थत्वमेव मन्त्राणां शक्यं वक्तुम्; उपायान्तरेणापि मन्त्रार्थस्य स्वाध्यायकालावगतस्य चिन्तादिना प्रयोगसमये स्मृतिसंभवात्तावन्मात्रार्थत्वे मन्त्राणां नित्यवदाम्नानवैयर्थ्यात् । अथ तु मन्त्रैरेवार्थप्रत्यायननियमाददृष्टं कल्प्येत, तदुच्चारणादेव कल्प्यतां; तस्य पुंव्यापारगोचरत्वात्स्वव्यापारे च पुरुषस्य नियोगात्तत्र च फलाकाङ्क्षणादिति प्रापय्य प्रमाणलक्षणे राद्धान्तितम् – ‘यस्य दृष्टं न लभ्येत तस्यादृष्टप्रकल्पना । लभ्यतेऽर्थस्मृतिर्दृष्टा मन्त्रोच्चारणतस्त्विह॥ अर्थस्मृतिः प्रयोगार्था प्रयोगाच्च फलोदयः । इति दृष्टार्थसंपत्तौ नादृष्टमिह कल्प्यते॥‘ यस्तु मन्त्रैरेव स्मर्तव्यमिति नियमस्तस्य न किंचिद्दृष्टमस्तीत्यदृष्टं कल्प्यते ।

तस्माद्दृष्टादृष्टार्था मन्त्र इति ।

उत्पत्तिविधेरिति ।

अधिकारविधितः प्रवृत्तिलाभादुत्पत्तिविधिरज्ञातकर्मस्वरूपबोधपर इत्यर्थः ।

अनागतेति ।

भावो भावना, तद्विषयः सर्वो विधिः । यतः स उत्पाद्यः, उत्पाद्यत्वे हेतुरनागतत्वम् । अधिकारः फलसंबन्धबोधनम् । विनियोगोऽत्र क्रियायाः फलशेषत्वज्ञापनम् । प्रयोगः अनुष्ठापनम् । कर्मस्वरूपज्ञानमुत्पत्तिः । फलसंबन्धः क्रियाया न शेषत्वमन्तरेण, तच्च नानुष्ठानं विना, अनुष्ठानं च नाज्ञाते इत्यविनाभावः । सिद्धं चेत्पुंव्यापारानपेक्षं फलमारभेत, सदाऽऽरभेतेति नाधिकारादिसंभव इत्यर्थः ।

सर्वेषामविनाभावे सर्वत्र चातूरूप्यमस्तीति कथमवान्तरभेदस्तत्राह —

तद्वाक्यानां त्विति ।

उदाहरति —

यथेति ।

सर्वविधिषूत्पत्त्यादयः प्रतीयन्ते, अग्निहोत्रं जुहुयादित्यत्राप्यग्निहोत्रेणेष्टं भावयेदित्यर्थः, नत्वग्निहोत्रस्य भाव्यत्वम् । अफलत्वात् । न चाग्निहोत्रस्वरूपसत्ता बोध्या; अभूद्भवति भविष्यतीत्यापत्तौ विध्युत्खातापातात् ।

तस्मादधिकारविधितः प्राप्तविनियोगाद्यनुवादेनोत्पत्तिर्विधिः स्वरूपपरो भवति, ब्रह्मणि तु भावनाभावादनुवाद्यस्यापि विनियोगादेरभावान्नोत्पत्तिविधिरित्याह —

तस्मादिति ।

विधिपरत्वे वेदान्तानां न केवलमनुवादत्वाभावः, अपि तु विपरीतार्थत्वं च न स्यात्, पक्षान्तरे तु स्यादित्याह —

एवंचेति ।

यादृशमिति ।

जीवाद्भिन्नमित्यर्थः । जीवे ब्रह्मदृष्ट्यारोपान्न भेदग्राहिप्रमाणविरोध इत्यर्थः ।

तदिति ।

सूत्रपदोक्तां सिद्धान्तपक्षप्रतिज्ञामित्यर्थः ।

सम्यगन्वय इति ।

तात्पर्यं सम्यक्त्वम् ।

ननु शास्त्रयोनित्वद्वितीयवर्णकाक्षेपसमाधानरूपमिदमधिकरणं , तत्र च ‘यतो वेति’ वाक्यमुदाहृतमिह किमिति तदुपेक्षितमत आह —

यतो वेति ।

तद्ब्रह्म सर्वज्ञमित्यादिभाष्ये यत इत्यादिवाक्यप्रमेयकीर्तनात्तत्प्रमाणं बुद्धिस्थं भवतीति नोदाहृतमित्यर्थः ।

वेदान्तानां ब्रह्मात्मैकत्वे उपक्रमोपसंहारैक्यं तात्पर्यलिङ्गं सदृष्टान्तमाह —

येनेति ।

भेदलक्षणे चिन्तितम् – ‘‘पौर्णमासीवदुपांशुयाजः स्यात्’’ । ‘‘जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ उपांशुयाजमन्तरा यजति, विष्णुरुपांशु यष्टव्योऽजामित्वाय प्रजापतिरुपांशु यष्टव्योऽजामित्वायाग्निषोमावुपांशु यष्टव्यावजामित्वायेति’’ श्रूयते । तत्रोपांशुयाजमन्तरा यजतीति किं समुदायानुवादः, उतापूर्वयागविधिरिति विशये यथाग्नेयादियागानां ‘य एवं विद्वान्पौर्णमासी यजते’ ‘य एवं विद्वानमावास्यां यजत’ इति समुदायानुवादौ । एवमिदमपि विष्ण्वादिवाक्यविहितयागानां समुदायानुवादः । तत्र हि विष्ण्वाद्या देवताः श्रूयन्ते । ‘‘सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्य’’ मिति ध्रौवाज्यद्रव्यसिद्धिः । तव्यप्रत्ययाश्च विधायकाः श्रूयन्ते । नत्वन्तरावाक्येऽस्ति द्रव्यदैवतं रूपम् । यजतीति च वर्तमानापदेशः । तदुक्तम् – ‘यागान्विष्ण्वादिसंयुक्तान्विहितान्रूपवत्तया । अरूपमन्तरावाक्यमगत्यैवावलम्बते॥‘ इति पूर्वपक्षः ।

एतदधिकरणसिद्धान्तमाह —

अनूचोरिति ।

निरन्तरयोराग्नेयाग्नीषोमीययोः पुरोडाशयोः करणे आलस्यं स्यादिति दोषं संकीर्त्य तदपनयार्थमुपांशुयाजमाज्यद्रव्यकं विधायानन्तरमजामित्वायेति तद्विधानलब्धं जामिता दोषसमाधानमुपसंहरति । अतः सार्थवादोपक्रमोपसंहारैकरूप्यादेकमिदं वाक्यम् । एकवाक्यता चोपांशुयाजविधौ लभ्यते नेतरत्रानेकयागविधाविति ।

ननु तव्यविहितयागानां समुदायानुवादोऽयमिति, तत्राह —

अपूर्वेति ।

तथाहि — यष्टव्य इति कर्मप्राधान्यं विष्ण्वादिवाक्ये प्रतीयते, यागस्तूपसर्जनम् । तत्र कर्मत्वमप्रधानीकृत्य यागप्राधान्यं लक्षणीयं, कर्मतया च देवतात्वं ततो गुरुतरा कल्पना । अन्तरावाक्ये तु श्रुतं यागप्राधान्यं विधिश्च पञ्चमलकाररूपः । यत्तु रूपाभाव इति तन्न; ध्रौवाज्यलाभात् । आग्नेयादीन्यागान्क्रमेणाम्नाय मन्त्रकाण्डे तत्क्रमेणैव याज्यानुवाक्या आम्नाताः, तत्रोपांशुयाजस्थाने वैष्णवप्राजापत्याग्नीषोमीयास्तिस्र ऋचः पठ्यन्ते; ताभिस्तुल्यार्थत्वेन विकल्प्यमानाभिर्विष्ण्वादिदैवतानां समर्पितत्वात् । तस्मादपूर्व उपांशुयाजो विधेयः । विष्ण्वादिवाक्यानि त्वर्थवादा । इत्थं महीयानुपांशुयाजो यदस्मिन्विष्ण्वादयो यष्टव्या इति ।

एवं वाक्यान्तराणामिति ।

ऎतरेयके – ‘‘आत्मा वा इदमेक एवे’’ त्युपक्रम्य ‘‘स एतमेव पुरुषं ब्रह्म ततमपश्य’’दिति ‘‘तमेव ब्रह्मात्मान’’मभिधाय समाप्तौ ‘‘प्रज्ञानं ब्रह्मे’’ त्युपसंहृतम् । वाजसनेयकेऽपि – ‘‘अहं ब्रह्मास्मीत्युपक्रम्य ‘‘ , ‘‘ अयमात्मा ब्रह्मे’’त्युपसंहृतम् । आथर्वणे – ‘‘ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति’’ सर्वात्मकं ब्रह्मोपक्रम्य ‘‘ब्रह्मैवेदममृतं  पुरस्तादिति’’ तदेव निगमितम्॥

वेदान्ता यदि सिद्धवस्तुपरास्तर्हि मानान्तर सापेक्षाः स्युः पुंवाक्यवदिति पूर्ववाद्यभिमतस्य प्रसङ्गे हेतोः पौरुषेयत्वेन सोपाधिकत्वं भाष्यगतापिशब्देन द्योत्यत इत्याह —

अयमभिसंधिरिति ।

तस्यैवानैकान्तिकत्वमाह —

प्रत्यक्षादीनामपीति ।

वाक्यस्य सतः सिद्धवस्तुपरत्वे पौरुषेयत्वापत्तिरिति साधनव्याप्तिमुपाधेः शङ्कते —

यद्युच्येतेति ।

वाक्यत्वादि लिङ्गं यस्य तत्तथा ।

कार्यपरतायां हि वेदान्तानां न वाक्यत्वादिना सापेक्षत्वमनुमेयं, पौरुषेयत्वस्योपाधित्वात् एवं न च साधनव्याप्तिरित्याह —

कार्यार्थत्व इति ।

तत्त्वेन= याथात्म्येन ।

कार्ये मानान्तरायोग्यत्वस्यासिद्धत्वात्तत्परत्वेऽपि वेदान्तानां पौरुषेयत्वं संभवतीति समा साधनव्याप्तिः, तश्च दुरपवादं वाक्यत्वादिलिङ्गकं पौरुषेयत्वमित्याशयेनाह —

अत्र ब्रूम इत्यादिना ।

किं पुनरिति ।

कृतियोग्यस्य कार्यत्वे भावार्थस्यापि तत्त्वेन मानान्तरयोग्यत्वमित्यर्थः ।

तर्ह्यलौकिकं कार्यमिति शङ्कते —

अपूर्वमिति ।

तर्हि मानान्तरानवगते संगतिग्रहायोगाल्लिङ्गादीनामबोधकत्वापात इत्याह —

हन्तेति ।

ननु यजेतेति श्रुतेः कार्यता भात्यतोऽपूर्वसिद्धिरिति, तत्राह —

लोकानुसारत इति ।

स्वर्गकामपदसमभिव्याहारसंज्ञकतर्कानुगृहीतवेदादेव क्रियाविलक्षणापूर्वे लिङ्गादीनां संबन्धग्रह इति शङ्कते —

स्वर्गकाम इति ।

अयं तर्कोऽतिप्रसङ्गीत्याह —

चैत्येति ।

कर्तृस्मरणात्स्पृष्टदृष्टपौरुषेयत्वेन बुद्धादेवचैषामकार्यार्थत्वे वेदानामपि पौरुषेयत्वस्य वाक्यत्वादिनाऽनुमितत्वादकार्यार्थत्वं समानमित्यर्थः ।

स्मर्यमाणकर्तृकत्वेन वाक्यत्वादि सोपाधिकमित्याशङ्क्य सिद्धार्थवेदान्तेष्वपि तत्सममतः कार्यार्थत्वमनपेक्षतायामप्रयोजकमित्याह —

अन्यतस्त्विति ।

वर्तमानसंप्रयोगजप्रत्यक्षस्य कार्यरूपधर्मगोचरत्वानुपपत्तेर्योगसामर्थ्यस्यापीन्द्रियविषयेष्वेवातिशयकारित्वान्न धर्मस्य प्रत्यक्षता, लिङ्गाद्यभावाच्च नानुमेयत्वादि, नचाज्ञाते पुंसां वचनरचना संभविनीति वैदिकी रचना न पौरुषेयीति न्यायकणिकायां व्युत्पादितम् ।

नन्वपौरुषेयतयाऽनपेक्षत्वेप्यग्निर्हिमस्य भेषजमितिवन्मानान्तरगृहीतग्राहित्वमित्याशङ्क्य तत्त्वमसीति, ब्रह्मात्मभावस्येति भाष्यशेषेण परिहृतमित्याह —

न चानधिगतेति ।

सर्वस्मिन्नुपपादितेऽर्थे भाष्यं संवादयति —

तदिदमिति ।

सिद्धार्थत्वे सत्यपुरुषार्थनिष्ठत्वं स्यादिति द्वितीयपूर्वपक्षबीजम् ।

सर्वक्लेशप्रहाणादिति भाष्यस्थप्रशब्दार्थमाह —

सोऽ यमस्येति ।

बाह्यानुष्ठानानपेक्षमज्ञाननिवृत्त्यानन्दाविर्भावफलमन्वयव्यतिरेकिनिदर्शनयुगलद्वयप्रदर्शनपुरःसरं ब्रह्मज्ञानस्य दर्शयति —

एतदुक्तमित्यादिना ।

ग्रैवेयकं ग्रीवालङ्कारः ।

समूलघातमिति ।

कषादित्वादनुप्रयोगः । सह मूलेनोपहन्तीत्यर्थः ।

समारोपितनिबन्धन इति ।

समारोपिताऽविद्या निबन्धनं यस्य जीवभावस्य स तथोक्तः । आत्मानमेव लोकं=चैतन्यम् । देवता=सगुणं ब्रह्म । आदिशब्दात् प्राणविशुध्द्यादि गृह्यते ।

उपासनावाक्यैकदेशमुपास्यसमर्थकं विविनक्ति —

आत्मेतीति ।

यदवादि पूर्वपक्षिणा न क्वचिदपि वेदवाक्यानां विधिमन्तरेणार्थवत्तेति, तत्र किं यदि वेदान्ता विधिमन्तरेण प्रमाणं, तर्ह्यर्थवादाः किं न स्युरिति प्रतिबन्दी मता, अथवा वेदवाक्यस्य सिद्धपरस्यान्यत्रादर्शनाद्व्याप्त्यभावेन न वेदान्तानां सिद्धवस्तुपरत्वमिति ।

आद्यमर्थवादाधिकरणपूर्वपक्षं संगृह्णन्नाशङ्कते —

स्यादेतदित्यादिना ।

रुदतो यदश्रु अशीर्यत तद्रजतमभवत्तस्माद्रजतमदक्षिण्यमिति निन्दा ।

बर्हिषि बर्हिःसाध्ये यागे, रजतं न देयमिति निषेधशेष इति सिद्धान्तं दर्शयन्नर्थवादानां नोपेक्षाफलत्वमिति तावदाह —

स्वाध्यायेति ।

प्रयोजनपर्यवसायिबोधजनकत्वतदभावाभ्यां विशेषं दर्शयन्प्रतिबन्दीं परिहरति —

न च वेदान्तेभ्य इति ।

ननु निषेध एव स्वनिषेधस्यानर्थहेतुत्वान्यथानुपपत्त्या निन्दां कल्पयिष्यति, नेत्याह —

तद्यदीति ।

अर्थवादादेव निन्दालाभे निषेधकस्य निषेधे निन्दायां च तात्पर्तं न कल्प्यमित्यर्थः ।

ननु ‘सोऽरोदीदिति’ वाक्ये निन्दा न भाति, कितु भूतानुवाद इत्याशङ्क्य मुख्यार्थे प्रयोजनाभावान्निन्दा लक्ष्यत इत्याह —

लक्ष्यमाणेति ।

द्वितीयमुद्भाव्य निषेधति —

ननु विध्यसंस्पर्शिन इत्यादिना ।

तच्च स्वत इत्युपपादितं न्यायकणिकायामित्यर्थः ।

ननु प्रमायाः कार्येण प्रमाणानां तज्जनकत्वमनुमेयं, कथं नानुमानगम्यमिति भाष्यमित्याशङ्क्याह —

यद्यपीति ।

कार्यार्थापत्त्यपरपर्यायानुमानेन मानान्तरेण वा प्रमा नोत्पद्यते, किंतूदितायां तस्यामनुमानं प्रवर्तत इत्यर्थः । प्रमाणान्तरं तावदपेक्ष्यमाणं न दृश्यते ।

एतदर्थापत्त्यपेक्षणे दूषणमाह —

नापीति ।

अपेक्षत इत्यनुषङ्गः । उत्पन्नायां प्रमायां प्रमाणानां प्रमाजनकत्वस्यानुमानं, ततश्च प्रमोत्पत्तिरिति परस्पराश्रयप्रसङ्गः । शास्त्रप्रामाण्यमनुमानगम्यत्वेन न भवतीति च भाष्यार्थो न पुनरनुमानेन ज्ञेयमिति ।

कार्यविरहिवेदान्तेभ्यः प्रमा यद्युत्पद्यते, तदा स्वतः परतो वेति चिन्ता, ननूत्पद्यत इत्यत आह —

ईदृगिति ।

सिद्धे ब्रह्मणि वेदान्तेभ्यः प्रमोत्पत्तिरनुभवसिद्धेत्यर्थः ।

यद्यनुभवसिद्धाप्यन्यत्र सिद्धार्थार्थवादादावदर्शनादपहूयत, तदाऽतिप्रसङ्ग इत्याह —

अन्यथेति ।

एवं तावत्सिद्धेर्थेऽपि प्रमाणान्तरपरतन्त्राणां पौरुषेयवाक्यानामङ्गीकृत्य प्रामाण्यं वेदान्तेषु क्रियाविषयतामन्तरेण नैरपेक्ष्यपुरुषार्थपर्यवसाने न लभ्येते इति मतं, ब्रह्मात्मैक्यस्य प्रमाणान्तरागम्यत्वेन तदवगममात्रायत्तप्रयोजनलाभेन च पराणुदत् ।

इदानीं कार्यान्वितपदार्थे पदसङ्गतिग्रहेण सिद्धं वस्तु न शब्दप्रमेयमिति वेदान्तानुपासननियोगपरान् ये मन्यन्ते, तन्मतेन पूर्वपक्षमाह —

अज्ञातेति ।

अथवा आरोपितब्रह्मभावस्य जीवस्योपास्तिपरा वेदान्ता न ब्रह्मात्मत्वे प्रमाणमिति पूर्वः पक्षः ॥

‘अयं तु — सन्तु वेदान्ता मानं ब्रह्मात्मवस्तुनि । किंतु ज्ञानविधिद्वारेत्येष भेदः प्रतीयताम्॥‘ अतएव भाष्यं यद्यपि शास्त्रप्रमाणकं ब्रह्मेति । तत्र कार्यविषयाद्वाक्याद् ब्रह्मनिश्चय इति प्रतिज्ञासामर्थ्यादेव, न सिद्धार्थादिति लभ्यते ।

तत्र हेतुः —

सिद्धे वस्तुन्यज्ञातसङ्गतित्वेनेति ।

यत्र वृद्धप्रयुक्तशब्दविषयत्वं तत्र सङ्गतिः शब्दस्य गृह्यते, सिद्धेतु तद्व्यावर्तमानं स्वव्याप्यं सङ्गतिग्रहं व्यावर्तयतीत्यभिप्रेत्याह —

यत्र हीति ।

लोकेनेति ।

वृद्धेः प्रयोगव्यापकवक्तृविवक्षाश्रोतृप्रतिपत्तीच्छयोरभावात्सिद्धे प्रयोगाभावमाह —

नचेति ।

रूपमात्रं= वस्तुमात्रम् ।

सर्वपदानां कार्यार्थत्वे सति पर्यायत्वमाशङ्क्य —

तत्र किंचिदिति ।

कार्यार्थः= कार्यशेषः । अत्र प्रयोगः — गोपदं न कार्यानन्विते गोत्वे गृहीतसंबन्धं, तत्र वृद्धैरप्रयुक्तत्वात्, तुरगपदवत् ।

एवं सर्वत्र सिद्धे वस्तुन्युत्तमवृद्धस्य शब्दप्रयोगाभावमुक्त्वा मध्यमवृद्धप्रवृत्तेर्व्युत्पत्तिलिङ्गभूतायास्तत्राभावाच्च तत्र न व्युत्पत्तिरित्याह —

अपिचेति ।

शास्त्रत्वेनेत्यादिहेतून्व्याचष्टे —

अपिचेत्यादिना ।

न च रज्जुरिति ।

नकारोऽयं ‘सांसारिकधर्माणां न च निवृत्तिः’ इति उपरि सबन्धनीयः ।

यथाकथंचिदिति ।

सिद्धपदार्थसंसर्गस्य नियोगाविनाभावादिहापि मा भैषीरिति नियोगं कल्पयित्वाऽन्यपरादेव वाक्यात्सिद्धरूपार्थनिश्चय इत्यर्थः ।

किंत्विति ।

आत्मप्रतिपत्तिर्विषयोऽवच्छेदको यस्य तत्तथा ।

ननु नियोगोऽपूर्वमिति प्राभाकरैर्वाक्यार्थो वर्ण्यते, स किमन्य एव कार्यो नेत्याह —

तच्चेति ।

कार्यपरेभ्यो वेदान्तेभ्यः कथं वस्तुसिद्धिरित्याशङ्क्य विध्याक्षेपलक्षणोपादानप्रमाणादित्याह —

नचेति ।

स्वप्रतीत्युपाधित्वेन विषयस्य, स्वनिर्वर्तकत्वेन करणस्य, कार्यं स्वावच्छेदकज्ञाननिरूपणाय ज्ञायमानमात्मानमपेक्षते चेत्तर्हि न श्रौतत्वमात्मन इत्याशङ्क्य विध्याक्षिप्तस्य श्रौतत्वे गुरुसंमतिमाह —

यथाहुरिति ।

तत्सिद्ध्यर्थं= विधेयसिद्ध्यर्थम् ।

उपादीयते इत्यस्य व्याख्यानम् —

आक्षिप्यते इति ।

ज्ञानस्य प्रमात्वात्प्रत्यक्षवन्न विधेयता, आत्मनश्च नित्यत्वात्तदयोग इत्याशङ्क्याह —

विधेयता चेति ।

ज्ञानमिहोपासनं तच्च क्रियेत्यनुष्ठेयम् । आत्मनस्तु स्वरूपसत्ताविनिश्चितिरज्ञातज्ञाप्तिर्विधेयतेति न विरोध इत्यर्थः ।

ननु वाग्धेनूपास्त्यादाविचारोप्यस्य विधेयधीविषयत्वं किं न स्यादत आह —

आरोपितेति ।

ब्रह्मास्मीति ज्ञाने यादृगर्थो भाति तद्भाव आरोपितो यस्य स तथा । तस्यान्यस्य ज्ञाननिरूपकत्वे तेन प्रतिभासमानार्थेन तज्ज्ञानं निरूपितं न स्यात् । न च सत्यां गतौ युक्त आरोप इति । इयचं प्रतिपत्तिविधिविषयतयेति भाष्यस्य व्याख्या । प्रतिपत्तिविधेर्नियोगस्य विषयभूतप्रतिपत्तिं प्रत्यवच्छेदकत्वेन विषयतयेति भाष्यार्थः ।

एवमाहवनीयादयोऽ पीति ।

‘यदाहवनीये जुह्वती’ति विहिते क आहवनीय इति वीक्षायां ‘वसन्ते ब्राह्मणोऽग्नीनादधीते’त्यादिविधिभिः संस्कारविशिष्टोऽग्निराहवनीयो गम्यते, तथाऽपूर्वदेवतास्वर्गादिकं विधिपरेणैव शास्त्रेण समर्थ्यते ।

श्लोकोक्तहेतुद्वयं भाष्येण सङ्गमयति —

प्रवृत्तिनिवृत्तिपरस्येति ।

‘तद्भूतानाम्’ (जै.अ.१.पा.१.सू,२५) इति सूत्रोदाहरणेन कार्यान्वितेऽर्थे शब्दसङ्गतिर्न सिद्ध इत्युक्तम् । ‘आम्नायस्य’ (जै.अ.१.पा.२.सू.१५) इत्येतद्विहायेतरवाक्यैः प्रवृत्त्यादिपरस्य शास्त्रत्वमुक्तम् ।तेन तु सिद्धरूपपरस्य न शास्त्रत्वमुक्तम् । तस्य वेदस्य, कर्मावबोधो नियोगज्ञानं दृष्टं प्रयोजनं । चोदनासूत्रे (जै.अ.१.पा.१.सू.२) चोदनेति शब्देन क्रियाया नियोगस्यानुष्ठापकं वचनमाहुरिति । तत्तेश्च पदार्थेषु भूतानां वर्तमानानां क्रिया  कार्यं, तदर्थत्वेन समाम्नायः समुच्चारणमित्यर्थः ।

नचेति ।

नियोगस्य स्वकीयत्वेन बोद्धारं नियोज्यम् अधिकारणं कर्मणि स्वामिनं, तत्रैव कर्तारम् अनुष्ठातारम् इति । नियोज्यभेदो नियोज्यविशेषः ।

अमृतत्वकाम इति अश्रवणान्नियोज्यसिद्धिमाशङ्क्याह —

ब्रह्मवेदेति ।

भवतीति सिद्धरूपेणावगतस्य फलस्य साध्यत्वाभिव्यक्त्यर्थम्, एवंकामशब्दवाच्यनियोज्यविशेषाकाङ्क्षायां विपरिणामेन ब्रह्म बुभूषुर्विद्यादिति वाक्यार्थः स्यादित्यर्थः॥

रात्रिसत्रेति ।

चतुर्थे चिन्तितम् – ‘क्रतौ फलार्थवादमङ्गवत्कार्ष्णाजिनिः’ (जै.अ.४.पा.३.सू.१७) । प्रतितिष्ठन्ति ह वा ए एता रात्रीरुपयन्ती’ति श्रूयते । तत्र रात्रशब्देनायुर्ज्योतिरित्यादिवाव्यविहिताः सोमयागविशेषा उच्यन्ते ।  किमत्र स्वर्ग एवाधिकारिविशेषणमुत प्रतिष्ठेति संशयः । तत्रैवंकाम इत्यश्रवणाद्विधिशक्तिलभ्यः स्वर्ग एव विशेषणं, संदेहे हि वाक्यशेषस्वीकारः, न निश्चये । निश्चितश्चेह सर्वाभिलषितः स्वर्गो विधिसामर्थ्यान्नियोज्यविशेषणम् । या तु प्रतिष्ठाविषया श्रुतिः साऽपि लक्षणया स्वर्गपरैव कल्प्यत इति प्राप्तं । क्रतौ रात्रिसत्रादौ न प्रतिष्ठादि विवक्षितमित्येतावन्मात्रेणाङ्गवदिति सूत्रे प्रायाजाद्यङ्गफलार्थवादोदाहरणं, ननु तद्वत्पदार्थत्वमस्ति रात्रिसत्राणाम् । एवं प्राप्ते — उच्यते; ‘फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्’ (जै.अ.४.पा.३.सू.१८) प्रतिष्ठाफलस्य निर्देशात्तदेवाधिकारिविशेषणम् । यत्तु विधिशक्त्या स्वर्ग इति । तन्न; मुख्यार्थश्रुतिपदानुगुण्येन विधिशक्तौ पर्यवसितायामानुमानिकस्वर्गकल्पनाऽनवकाशात् ।

तस्माद्वाक्यशेषस्थमेव फलमिति ।

विश्वजिन्न्यायेनेति वक्तव्ये विश्वजिति नैमित्तिकाधिकारे फलकल्पना कृत्वाचिन्तयेति पिण्डपितृयज्ञः स्थिरोदाहरणत्वेनोदाहृतः ।

असमवेतार्थतयेति ।

अश्रूयमाणत्वेन ब्रह्मभवनशब्देनासमवेतः स्वर्गोऽ र्थस्तत्परतयेत्यर्थः । यद्यपि ब्रह्मभवनस्य फलत्वेऽप्येवंकाम इति लक्षणाऽस्तीति परोक्षवृत्तिता तुल्या; तथापि श्रुतं ब्रह्मभवनं न हीयते, हीयते तु पूर्वपक्षे ।

तदिदमुक्तम् —

अत्यन्तेति ।

पिण्डपितृयज्ञन्यायो ऽनुक्रम्यते । चतुर्थे एवं निरणायि – “पितृयज्ञः स्वकालत्वादनङ्गं स्यात्’ । (जै.अ.४.पा.४.सू.१९) ‘अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ती’त्यत्रानारभ्याधीतवाक्ये श्रुतः पिण्डपितृयज्ञः क्रत्वर्थः पुरुषार्था वेति संशये कर्मवाच्यमावास्याशब्दसमभिव्याहारात्तदङ्गत्वम् । यद्यपि कालस्यापि साधारणोऽयं शब्दः; तथापि फलकल्पनापरिहाराय कर्मवाच्येव अतः क्रत्वर्थ इति प्राप्ते — सिद्धान्तः; कालकर्मसाधारणोऽप्यमावास्याशब्दोऽपराह्णशब्दसमानाधिकृत इह कालपर एव । न च साधारण्यम्; काले रूढत्वात्कर्मणि च तत्संबन्धेन लाक्षणिकत्वात् । तस्मात्कर्मसमभिव्याहाराभावाद्विश्वजिन्न्यायेन (जै.अ.४.पा.३ सू.१५) स्वर्गकामनियोज्यकल्पनया स्वर्गफलः पिण्डपितृयज्ञ इति ।

ननु ज्ञानविधिर्यदि ब्रह्मभावफलः, कथं तर्हि भाष्येऽमृतत्वकामस्येत्युक्तं? तत्राह —

ब्रह्मभावश्चेति ।

अमृतत्वशब्देन ब्रह्मभावनिर्देशस्य प्रयोजनमाह —

अमृतत्वं चेति ।

अत्र भाष्यकारेण ब्रह्मज्ञानं विधेयमिति निर्देशाद्, द्रष्टव्य इति विध्युदाहृतेश्च प्रमाणज्ञानविध्यङ्गीकारेण पूर्वपक्ष इति भ्रमः स्यात्, तन्निवर्तयति —

अत्रचेत्यादिना ।

दृशेरिति ।

द्रष्टव्य इति वाक्योपात्तदृशिधातोरुपलब्धिवचनत्वेनोपासनाऽ नभिधायकत्वादित्यर्थः । स्वाध्यायविधेरर्थावबोधपर्यन्तत्वात्तेनैव श्रवणजन्यज्ञानस्य प्रापितत्वादित्यर्थः । भावनया विधेयं जन्यं वैशद्यं यस्य तत्प्रत्यक्षं तथा ।

वाजिनवदिति ।

यथाऽमिक्षार्थविहितदध्यानयनाद्वाजिनमप्रयोजकमानुषङ्गीकतया जायते, एवमदृष्टरूपामृतत्वाय विहितादुपासनात्साक्षात्कारो नान्तरीयकतया जायत इति तदुत्पादनं न विधेयमित्यर्थः । चतुर्थे स्थितम् – ‘एकनिष्पत्तेः सर्वं समं स्यात्’ (जै.अ.४.पा.१.सू.२२) ‘‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति’’ श्रूयते । तत्र संशयः । किमामिक्षैव दध्यानयनं प्रयुञ्जीतेति वाजिनमपीति । तत्रैकस्माद्दध्यानयनात्पयसः सकाशादामिक्षावाजिनयोर्निष्पत्तेः सर्वमामिक्षादि प्रयोजकं स्यादिति प्राप्ते — सिद्धान्तः, ‘संसर्गरसनिष्पत्तेरामिक्षा वा प्रधानं स्यात्’(जै.अ.४.पा.१.सू.२३) । अत्र हि दधिसंसृष्टं पय एव प्रकृतं देवतासबन्धि निर्दिश्यते सा वैश्वदेवीति, न पुनस्ततो निष्पन्नं किंचित्, तत्र नयतेर्द्विकर्मकत्वाद्यत्प्रति दध्यानीयते तत्पयआनयनस्य संस्कार्यम् । संस्कार्यमेव प्रयोजकम् । संस्कृतस्य च पयस आमिक्षात्वात् तस्याश्च स्त्रीत्वास्त्रीलिङ्गमविरुद्धम् । ननु यदि दधिसंस्कृतं पय एव रूपभेदेऽप्यामिक्षा भूत्वा दध्यानयनं प्रयुञ्जीत, तर्हि वाजिनमपि दधिसंयुक्तं पय एवेति किं न प्रयुञ्जीत । नेत्युच्यते, संसर्गरसनिष्पत्तेः; दधिसंसृष्टस्य पयसो यो रसः तस्यामिक्षायामुपलम्भात्, रूपभेदेऽपि तस्यामस्ति संसृष्टं पय इत्यनुमीयते; रूपाभेदेऽपि तक्रपयसोरिव रसभेदोपलम्भात् न वाजिनेन ; तस्य कटुतिक्तरसत्वादिति ।

हेतुद्वयविवरणेन पूर्वकृतेनोत्तरग्रन्थस्य व्याख्यातत्वमाह —

अर्थवत्तयेति ।

‘वेदान्ता यद्युपासां विदधति, विधिसंशोधिमीमांसयैव प्राच्या तर्हीरितार्था इति विफलमिदं ब्रह्मजिज्ञासनं स्यात् ।

अप्यत्युच्चातिनीचो जनिमृतिभयभाग्वैधधीसाध्यमोक्षः कर्मोत्थैः स्वर्गपश्वाद्यतिमधुरफलैः कोऽपराधः कृतो नः॥‘ वेदान्ता यद्युपासनाविधिपराः, तर्हि विहितोपासनायाः पक्षमासादिकालमिततया तत्साध्यफलमपि सातिशयमनित्यं च स्यादतो न विधिपरत्वं वेदान्तानामिति तात्पर्यम् अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्यन्तस्य भाष्यस्य दर्शयति —

पुण्यापुण्येत्यादिना ।

भाष्ये यद्विषया जिज्ञासेति धर्मस्य प्राचि तन्त्रे विचारितत्वोक्तिरुपास्तेरपि विहिताया धर्मत्वेन पुनरविचार्यत्वाय । अधर्मोऽपीत्यदर्मोक्तिः पुण्यफलभोगावसान इवोपास्तिफलभोगसमाप्तावधर्मफलं भोक्तव्यमिति दर्शनाय । चोदनालक्षणत्वोक्तिर्यागवद्विहितोपास्तेर्धर्मत्वार्थम् । एवं शरीरवागित्यादिविशेषणानि कर्मफलवदुपास्तिफलस्य शरीरोपभोग्यत्वादि प्रसञ्जयितुम् । संपत्त्यनेनास्माल्लोकादमुं लोकमिति संपातः कर्म । इष्टं श्रौतम् । पूर्तं स्मार्तं वाप्यादि ।

दत्तं दानमिति ।

आत्यन्तिकमिति ।

देवदत्तस्यात्यन्तिकमशरीरत्वं देवदत्तशरीरप्रागभावासमानकालीनो देवदत्तशरीरध्वंसः, सर्वोपाधिप्रत्यस्तमयोपलक्षितं स्वरूपमिति यावत् ।

विधेयोपास्तिवादिनं प्रति तत्फलस्य मोक्षस्यानित्यत्वादिप्रसञ्जनमिष्टप्रसङ्ग इत्याशङ्क्याह —

एतदुक्तमिति ।

उपास्तिविधेः फलं ब्रह्मात्मत्वमुताविद्यानिवृत्तिर्विद्योदयो वेति विकल्प्य क्रमेण निराकरोति —

त्वयापीत्यादिना ।

उपासनाऽपूर्वमपि चेतःसहकार्यतश्च विध्यवकाश इत्यर्थः ।

ऎहिकस्य मर्दनसुखवन्न विधिफलत्वमित्याशङ्क्याह —

दृष्टं चेति ।

कारीर्यादिनियोगा इह जन्मनि नियतसस्यर्ध्द्यादिफलाः, चित्रादिनियोगफलं पश्वादि भुवि भोग्यमपीह वा जन्मान्तरे वा भवति ।

तत्कार्यमिति ।

तदपूर्वकर्तव्यत्वेनावबोद्धं नार्हतीत्यर्थः ।

अपूर्वं चेन्न साक्षात्कारोपयोगि, तर्ह्युपासनक्रियैव तदर्थं विधीयतां, नेत्याह —

न च तत्काम इति ।

नन्ववघातवदुपास्तावप्यस्तु नियमापूर्वं, नेत्याह —

न च ब्रह्मभूयादिति ।

नेह परमापूर्ववन्नियमापूर्वसाध्यमस्ति; ब्रह्मभावस्य नित्यत्वादित्यर्थः ।

विश्वजिन्न्यायेनेति ।

‘विश्वजिता यजेते’त्याद्यश्रुताधिकारं लिङ्गप्रकरणालब्धाधिकारं चोदाहरणम् । निषेधे हि सामर्थ्यात्प्रवृत्तिक्रियोऽधिकारी लभ्यते, अङ्गविधिषु तु प्रकरणादिति न चिन्त्योऽधिकारः । एवं सतीह संदेहः किं नियोज्योऽध्याह्रियतां न वेति । तत्र लोके द्वारं द्वारमित्यादौ क्रियया विना कारकाभिधानापर्यवसानाद्युक्तोऽध्याहारः । इह तु विषयेण कार्यस्यान्विताभिधानपर्यवसानादनध्याहारे प्राप्ते, उच्यते; अत्राप्यभिधेयापर्यवसानद्वाराभिधानापर्यवसानमेव । कार्यं हि साध्यत्वेन कृतिनिरूप्यम् । नरव्यापाररूपा च कृतिः, सा च यथा स्वसाध्यधात्वर्थनिरूप्यैवं स्वाश्रयनरनिरूप्या । तदेवं कृतेः कर्तापि कार्ये कृतिद्वारा संबन्धित्वेन निरूपक इति तमन्तर्भाव्यैव नियोगधीः । नचासावबुद्ध्वाऽऽत्मनः कार्येण संबन्धं स्वतस्तेन संबध्यते । स्वसंबन्धिकार्यबोद्धा च नियोज्य इति सोऽध्याहार्य इति स्थिते चिन्ता — किं सर्वेषामध्याहारः, उत एकस्येति । तत्राविशेषात्सर्वेषामिति प्राप्ते — उच्यते; एकेनाकाङ्क्षाशान्तेरेकस्येति । एवं स्थिते विचारः किं यस्य कस्यचिन्नियोज्यस्याध्याहारः, उत स्वर्गकामस्येति । तत्राविशेषादनियम इति प्राप्ते — उच्यते; ‘स स्वर्गः स्यात्सर्वात्प्रत्यविशिष्टत्वात्’ । (जै.अ.४.पा.३. सू.१५) स्वर्गकाम एवाध्याहार्यः । विशेषो हि गम्यते, पुरुषाणां सुखाभिलाषित्वात् ।दुःखनिवृत्तेरपि तत्रैवान्तर्भावात् । दुःखनिवृत्तिस्तु न सुखाविनाभूता । सुषुप्ते सत्यामपि तस्यां सुखजन्मादर्शनात्, अनवच्छिन्नस्य सुखस्य स्वर्गत्वात्तस्य च सर्वसुखविशेषात् प्रत्यविशिष्टत्वाद्विशेषे च मानाभावात्स्वर्ग एव नियोज्यविशेषणं स्यादिति । कृत्वाचिन्तेयम् । यः सत्रायावगुरेत्स विश्वजिता यजेतेति सत्रप्रवृत्तस्यावगुरणोपरमे निमित्ते प्रायश्चित्ततया विहितत्वेन साधिकारत्वादिति ।

यत्किलेति ।

स्वाभाविकनित्यचैतन्यात्मकस्य ब्रह्मात्मत्वस्य साध्यत्वं व्याहतमित्यर्थः ।

भाष्ये कूटस्थनित्यमिति विशेषणं न परिणामिव्यवच्छेदाय, सिद्धान्ते तन्नित्यत्वासंमते; अतो वैयर्थ्यमित्याशङ्क्याह —

परे हीति ।

परभ्रान्तिर्व्यवच्छेद्येत्यर्थः ।

इदं तु पारमार्थिकमिति भाष्ये कूटस्थनित्यत्वे पारमार्थिकत्वं हेतूकृतं, तत्तदा घटेत, यदि यत्पारमार्थिकं तदविकृतमिति व्याप्तिः स्यात्, तदर्थं परिणामिनित्यस्य भ्रमसिद्धत्वमाह —

परिणामीति ।

परिणामो हि पूर्वरूपत्यागेन रूपान्तरापत्तिः ।

तत्र पूर्वरूपस्य सर्वात्मना त्यागेन रूपान्तरोत्पत्तौ जातस्य प्राक्तनरूपत्वं व्याहृतमतोऽनित्यत्वमित्युक्ते शङ्कते —

एकदेशेति ।

य एकदेशो नश्यति स धर्मिणः सकाशाद्भिन्न इति पक्षे न धर्मिणः परिणामः, किंत्वेकदेशस्य स चानित्य इति न परिणामिनित्यत्वसिद्दिरित्याह —

भिन्नश्चेदिति ।

नश्यतश्चैकदेशस्य धर्म्यभेदे सर्वात्मना वस्त्वपगमान्न नित्यत्वमित्याह —

अभेदे इति ।

पक्षद्वयोक्तदोषपरिहारायैकमेव कार्यकारणात्मकं वस्तु तस्य कार्याकारेण परिणामित्वं, तानि च कार्याणि भिन्नानि, कारणाकारेण च नित्यत्वं तच्चाभिन्नमिति शङ्कते —

भिन्नाभिन्नमिति ।

यत्प्रामाणविपर्ययेण विरोधेन वर्तते तत्र विरुद्धमिति संप्रत्यय इत्यनुषङ्गः ।

एकस्य कार्यकारणरूपेण द्व्यात्मकत्वे प्रमाणमाह —

कुण्डलमिति ।

द्विरवभासेति ।

हेम हेमेति वा कुण्डलं कुण्डलमिति वेत्यर्थः ।

अपार्यायानेकशब्दवाच्यत्वेन हेमकुण्डलयोर्भेदः सामानाधिकरण्याच्चाभेद इत्युक्ते हेमत्वस्य कुण्डलव्यक्त्यायाश्रितत्वाद्वा कुण्डलाकारसंस्थानस्य कनकत्वस्य चैकद्रव्याश्रितत्वेन वा सामानाधिकरण्यं नाभेदादित्याशङ्क्य व्यभिचारयति —

आधारेति ।

आधारेति दृष्टान्ते सिद्धौ भेदाभेदौ दार्ष्टान्तिके योजयति —

तथाचेति ।

लोके कार्यस्य कुण्डलादेः कारणात्मकत्वात्परमकारणस्य च सतः सर्वत्र हेमवदनुगमात् सन् घट इत्यादिसामानाधिकरण्यवशेन जगतः कार्यस्य सत्ता कारणरूपेणाभेदो व्यावृत्तकार्यरूपेण च भेद इत्यर्थः ।

भेद इति ।

किं रूपादिवद्भावरूपो धर्मः , उतैक्याभावः । नाद्यः; ऎकान्तिकाभेदानिषेधात् ।

द्वितीयमाशङ्क्याह —

किमयं कार्येति ।

तत्त्वेनेति ।

कटकत्ववर्धमानकत्वरूपेण तयोरितरेतराभेदप्रसङ्ग इत्यर्थः ।

कार्यस्य कारणाभेदे च सर्वकार्याणामेककार्यात्मकत्वप्रसङ्गः ; एककार्यस्य सर्वकार्याभिन्नेन कारणेनाभेदादित्याह —

अपिचेति ।

एवमेककार्यात्मकत्वादितरकार्याणां तस्य च कारणादभेदाद्भेदासिद्दावैकान्तिकाद्वैतापात इत्याह —

तथाच हाटकत्वमेवेति ।

कटकस्य हि द्वे रूपे स्तो हाटकत्वं कटकत्वं च ।

तत्र हाटकरूपेणास्य कुण्डलादिभिरभेद इष्ट एव, न कटकरूपेण; व्यावृत्तत्वात्तस्येति प्रस्मृतपराभिसंधिः स्वप्रक्रियया शङ्कते —

अथेति ।

सिद्धान्ती तु कटकहाटकयोरभेदाद्धाटकस्य कुण्डलादिष्वनुवृत्तेरभेदे कटकस्यापि तैरभेदः स्यादिति पूर्वोक्तमेव परिहारं स्मारयति —

यदि हाटकादिति ।

कटकस्य कुण्डलादिष्वनुवृत्त्यनभ्युपगमे तेष्वनुवृत्तहाटकादभेदभावः स्यादिति प्रतिजानीते नानुवर्तते चेदिति ।

अनुवृत्ताद्व्यावृत्तस्य भेदे व्याप्तिमाह —

येहीति ।

उपनयमाह —

नानुवर्तन्ते इति ।

अर्थाद्धेतुसिद्धिर्द्रष्टव्या ।

निगमयति —

तस्मादिति ।

कुण्डलादिषु हेमानुवृत्त्या यदि तदभेदात्कटकादीनामनुगमः; तदा सत्तानुवृत्त्या सर्ववस्तूनामितरेतराभेदापत्तेर्व्यवहारपरिप्लव इत्याह —

सत्तेति ।

इति विभागो न स्याद् इत्यस्य प्रत्येकं संबन्धः । इह क्षीरे इदं दधि नेदं तैलमिति संसर्गतदभावव्यवस्था न स्यात् । इदं पटादिकमस्मात्कुड्याद्भिद्यते इदं कुड्यमस्मात्कुड्यान्न भिद्यते इत्यसंकरो न स्यात् । इदानीं वसन्ते काले इदं कोकिलरुतमस्ति इदमम्बुदध्वानं नेति व्यवस्था न स्यात् । इदं कुम्भादि एवं कम्बुग्रीवत्वादिप्रकारमिदं पटादि नैवमिति प्रकारासङ्करो न स्यादित्यर्थः ।

उक्तास्ववस्थासु हेतुमाह —

कस्यचिदिति ।

कुतश्चिदित्यपि द्रष्टव्यम् ।

इतश्च कार्यस्य कारणेन न वास्तवमैक्यमित्याह —

अपिचेति ।

निश्चितकनकादभेदान्न कुण्डलादिषु संशय इत्युक्ते संशयसंभवं भेदप्रयुक्त्या शङ्कते —

अथेति ।

सिद्धान्त्यविनिगममाह —

नन्विति ।

हेमनिर्णयेन कटकादीनां निर्णये तदभेदः कारणं, तदभावाद्भेदरूपान्निर्णयकार्याभाव औत्सर्गिकः प्राप्तः, स कारणस्याभेदस्य भावादपोद्यते, घटसामग्रीत इव तत्प्रागभावस्ततः कनकनिश्चये कटकादिनिश्चयादविनिगम एव न, किंतु वैपरीत्यनिश्चय इत्याह —

प्रत्युतेति ।

तेषां कुण्डलादीनां जिज्ञासा तद्विषयज्ञानानि चेत्यर्थः ।  वस्तुतः कार्यकारणयोरभेदाभावं सप्रमाणकमुपसंहरति ।

तेनेति ।

यदि हेमकुण्डलयोर्न भेदाभेदौ, तर्हि सामानाधिकरण्यं न स्यात्, नह्यत्यन्तभेदे तद्भवति; कुण्डलकटकयोरदर्शनात् ।

नाप्यत्यन्ताभेदे; हेम हेमेत्यनुपलंभादिति पूर्ववाद्युक्तमनुवदति —

कथं तर्हीति ।

यदि हेम्नः सकाशात् कुण्डलादीनां भेदाभेदौ, तर्हि तेषामनुवृत्तहेम्नः सकाशाद् अभेदादितरेतरव्यावृत्तिर्न स्यान्न हेम्नि निर्णीते संशय इति प्रतितर्केण मिथो विरोधाख्येन सामानाधिकरण्यानुपपत्तितर्कं दूषयति —

अथेति ।

अत्यन्ताभेदे मा नामोपपादि हेमादेरनुवृत्तिव्यावृत्तिव्यवस्था, माच घटिष्ट हेम्नि ज्ञाते कुण्डलादिजिज्ञासा, भेदाभेदमते ते किं न स्याताम् , इत्याशङ्क्य पूर्वोक्तमविनिगममुत्सर्गापवादं च स्मारयति —

अनैकान्तिके चेति ।

एवं निरुद्धे ऽनेकान्तवादिनि स्वमतेन सामानाधिकरण्यमुपपादयति —

तस्मादिति ।

विरोधादन्यतरबाधेऽप्यभेदो बाध्य इति सौगतमतमाशङ्क्याह —

अभेदोपादानेति ।

भेदः किं धर्मिप्रत्तियोगिनोर्व्यासज्य वर्तते, उत प्रतियोगिनमपेक्ष्य धर्मिण्येव ।

आद्ये धर्मिप्रतियोगिनोः प्रत्येकवर्त्येकत्वापेक्षेत्युक्त्वा द्वितीये धर्म्यैक्यापेक्षेत्याह —

एकाभावे चेति ।

ततः स्वसत्तायामभेदापेक्षत्वाद्भेदस्य स एवाभेदेऽध्यस्त इत्यर्थः ।

प्रतीतावपि भेदस्यैवाभेदापेक्षेत्याह —

नायमिति ।

‘मृत्तिकेति’ श्रुतिः, कारणमेव सत्यमित्याह अतः —

अत्यन्ता भेदपरेति ।

अनंशत्वमाकारभेदराहित्यम् । नित्यतृप्तत्वादीनि श्रुत्युक्तान्येन भाष्येऽनूदितानीति नासिद्धानि; कार्यविलक्षणानधिगतविषयलाभात् स्वमते शास्त्रपृथक्त्वसिद्धिः अतस्तद्ब्रह्मेति भाष्ये उक्ता ।

प्राग्विमोक्षनित्यत्वान्नियोगायोग उक्तः, इदानीं तत्साधनज्ञानस्य केवलदृष्टार्थत्वाच्च स उच्यत इत्याह —

तदेवमित्यादिना ।

उपपाद्य इत्यस्य निवारिका इत्याह इत्यनेन संबन्धः ।

एवं फलस्वभावेन नियोगाभावमुक्त्वा फलिज्ञानस्वभावेनाप्युच्यत इत्याह —

अविद्याद्वयेति ।

स्वत इति ।

विहितक्रियारूपेणेत्यर्थः । न्यायसूत्रे — दोषो रागादिः । प्रवृत्तिः कर्म ।

आरोप्यत्वसाम्येऽप्यध्यासात्सम्पदो भेदमाह —

मन इति ।

आरोप्यप्रधाना संपत्, अधिष्ठानप्रधानोऽध्यासः । अरोपितस्तद्भावो ब्रह्मादिभावो यस्य तन्मनआदि तथा । वह्नादीनि । इत्यादिशब्दात्सूर्यचन्द्रादयो गृह्यन्ते ।

वागादीनिति ।

चक्षुःश्रोत्रमनांसि संवृज्य उद्यम्य लयं गमयितुं चालयित्वेत्यर्थः ।

संवरणादिति ।

उद्यमनादित्यर्थः । यो हि यदुद्यच्छति तत्स्ववशतया संवृणोतीति ।

सात्मीभावादिति ।

साम्येन कारणात्मत्वोपगमनादित्यर्थः । यद्यपि श्रुतौ स्वापे प्राणः संवर्ग उक्तः; तथापि न्यायसाम्याल्लयस्य चात्र प्रकटत्वात्प्रायणमुदाहृतम् ।

अग्न्यादेरुपलक्षणत्वात्सर्वाश्रयत्वं वायुप्राणयोरुपास्यमित्याह —

सेयमिति ।

दशाशागतं दशदिग्गतम् ।

संवर्गदृष्टान्तं निगमयति —

यथेति ।

दार्ष्टान्तिकमाह —

एवमिति ।

बृंहणक्रियया देहादिपरिणमनक्रियया ।

आत्मदर्शनोपासनादय इति ।

दर्शनं प्रमितिः । एतच्च प्रमाणज्ञानं विधेयमिति मतमवलम्ब्योक्तम् आदिशब्दो दृष्टान्तभूतमन आद्युपास्त्यर्थः ।

स्तुतशस्त्रवदिति ।

भेदलक्षणेऽभिदधे — स्तुतशस्त्रयोस्तु संस्कारो वाज्यावद्देवताभिधानत्वात् (जै.अ.२.पा.१.सू.१३) ‘आज्यैः स्तुवते’ ‘प्रउगं शंसतीति’ स्तुतशस्त्रे समाम्नाते । आज्यप्रउगशब्दौ स्तोत्रशस्त्रविशेषनामनी । प्रगीतमन्त्रसाध्यं देवतादिगुणसंबन्धाभिधानं स्तोत्रम् । शस्त्रमप्रगीतमन्त्रसाध्यम् । ते किं देवताप्रकाशनाख्यसंस्कारार्थत्वेन गुणकर्मणी, उतापूर्वार्थत्वेन प्रधानकर्मणी इति संदेहे, गुणसंबन्धाभिधानाद्गुणिन्या देवताया अभिधानेन याज्यावत्क्रतूपयोगिदेवतास्मरणस्य दृष्टत्वाद्गुणकर्मत्वे प्राप्ते — सिद्धान्तः; ‘अपि वा स्तुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पत्तिं  विदध्याताम्‘ (जै.अ.२.पा.१.सू.२४) स्तुतिरिह विहिता श्रूयते ‘स्तौति’ ‘संसतीति’ । स्तुतिश्च गुणाभिधानेन स्वरूपप्रकाशनम् । यथा विशालवक्षाः क्षत्रिययुवेति । यत्राभिधानविवक्षा न तत्र स्तुतिं प्रतीमो, यथा यो विशालवक्षास्तमानयेति । तस्मात् स्तौतिशंसती श्रौतार्थलाभाय प्रकरणे अपूर्वोत्पत्तिं प्रति स्तोत्रशस्त्रे विदध्यातामिति । एवमिहात्मोपासनं प्रधानकर्म आत्मा भूतो भव्यशेष इति । अवेक्षितमिति निष्ठया आज्ये कर्मण्यवेक्षणं गुणीकृतम् ।

भाव्युपयोगमाज्यस्याह —

दर्शपूर्णमासेति ।

पूषानुमन्त्रणमन्त्रवदुत्कर्षं वारयति —

प्रकरणिना चेति ।

ग्रहणे हेतुमाह —

उपांश्विति ।

‘सर्वस्मै वेति’ वाक्यात्सर्वार्थमप्याज्यमुत्पत्तावविहितद्रव्यकोपांशुयागाङ्गम्; आग्नेयादीनामुत्पत्तिशिष्टपुरोडाशाद्यवरोधात् । सत्यप्यत्राज्यभागाद्यङ्गेष्वाज्यनिवेशे न प्रधानहविष्ट्वमिति ।

द्रव्यसंस्कारकस्य गुणकर्मत्वे जैमिनीयसूत्रमुदाहरति —

यैस्त्विति ।

(जै.अ.२. पा.१ सू.८) यैरवघातादिभिर्द्रव्यं चिकीर्ष्यते, संस्कार्तुमिष्यते गुणस्तत्र प्रतीयेत, द्रव्ये गुणभूतं कर्म प्रतीयेतेत्यर्थः ।

आत्मोपास्त्यादेः संस्कारकर्मत्वं प्रकरणाद्वाक्याद्वा भवद्भवेत्, नाद्य इत्याह दृष्टान्तवैषम्यपूर्वकं —

दर्शपूर्णमासेति ।

न द्वितीय इत्याह —

न चानारभ्येति ।

यद्ययमिति ।

विधित्वाभावो हि पूर्वपक्षोपन्यासे वर्णित इति ।

सुवर्णं भार्यमितिवदिति ।

शेषलक्षणेऽभिहितम् – ‘अद्रव्यत्वात्तु शेषः स्यात्’ (जै.अ.३.पा.४.सू.२७) ‘तस्मात्सुवर्णं हिरण्यं भार्यं दुर्वर्णोऽस्य भ्रातृव्यो भवती’त्यनारभ्याधीते संशयः —

किं शोभनवर्णहिरण्यधारणं क्रत्वङ्गमुत पुरुषधर्मः इति । तत्र फलकल्पनाभयात्क्रतुनिवेशः, दुर्वर्ण इत्यादि त्वेवंकामशब्दविरहान्न फलपरम् । न च सत्रवद्विपरिणामः; क्रत्वङ्गत्वेन गतिसंभवात्॥ तथाच वैदिककर्मत्वसाम्यादग्निहोत्रादिप्रकरणनिवेश इति प्राप्ते — अद्रव्यत्वाद् द्रव्यदेवतासंबन्धराहित्यान्न स्वतन्त्रं कर्म, किंतु क्रतुशेष इति सूत्रार्थः । सिद्धान्तस्तु – ‘अप्रकरणे तु तद्धर्मस्ततो विशेषात्’ (जै.अ.३.पा.४.सू.२६) । तद्धर्मः पुरुषधर्म एवं जातीयकः । यतोऽप्रकरणेऽयमाम्नातः प्रकरणाधीताद्धर्माद्विशिष्यते । नचाहवनीये जुह्वतीति होमानुवादेनाहवनीयविधानवत्क्रत्वनुवादेन धारणं विहितं, येन साक्षाद्वाक्येन क्रतुसंबन्धि भवेत् । नाप्यव्यभिचारिक्रतुसंबन्धाश्रयद्वारा वाक्यात्पर्णमयी तावत्क्रतुमुपनिपतेत्; सुवर्णधारणस्य लोकेऽपि विद्यमानत्वेन क्रत्वव्यभिचाराभावात् । तस्माद्विनियोगभङ्गेन हिरण्यसाधनकं धारणं वाक्यशेषगतफलाय विधीयते इति पुरुषधर्म इति । एवमिहाप्यात्मसाधनकदर्शनेनामृतत्वं भावयेदिति विधानात् प्रधानकर्मतैवेति । अपूर्वं विषयो जन्यमस्येत्यपूर्वविषयम् । न केवलम् इक्षुक्षीरादिरसविशेष एवानभिधेयः प्रतीयते, अपि तु सर्ववाक्यार्थोपि ।

तथा सति ब्रह्माप्यनभिधेयमेव वेदान्ततात्पर्यगम्यमित्याह —

एवमन्यत्रापीति ।

गामानयेति हि वाक्ये गवानयनकर्तव्यतार्थः, सोऽपि साधारण इति न विवक्षितगवानयनं वक्ति वाक्यं, प्रकरणादिवशेन त्वर्थात्तत्सिद्धिरिति ।

अदूरविप्रकर्षेणेति ।

साक्षादनभिधानादस्ति विप्रकर्षः । स चादूरे वस्तुगतधर्मपरामर्शद्वारा वस्तुविशेषस्य लक्षणया प्रतिपादनादिति प्रत्यगात्मत्वेनाविषयतया प्रतिपादयति ।

भाष्यं व्याचक्षाणो वेदान्तानामदूरविप्रकर्षेण वस्तुबोधकत्वमुपपादयति —

त्वंपदार्थोहीति ।

व्याप्नोतीति ।

यत्तदविद्याविलसितमित्यर्थः । तत् तत्र सतीत्यर्थः । अविषयीभूतोदासीनतत्पदार्थस्य प्रत्यगात्मनश्च तत्त्वमसीति सामानाधिकरण्येनास्य संसारिणः प्रमातृत्वाभावात्तन्निवृत्तो प्रमित्या प्रमेयं व्याप्नोतीत्येवंभावस्य निवृत्तौ त्रयः प्रकारा निवर्तन्त इत्यर्थः ।

विगलितेति ।

विगलिता पराक्त्वेन वृत्तिर्वर्तनं यस्य स विगलितपराग्वृत्तिस्तादृशः प्रत्यक्त्वमापन्नो ऽर्थो यस्य तद्विगलितपराग्वृत्त्यर्थं तस्य भावस्तत्त्वमेतत् । तदः =तत्पदस्य ।

तदा काले भवति । कदेत्यत आह —

त्वमिति हीति ।

तदा तत्पदेन । एकार्थस्यैव व्याख्या विशुद्धेति । आन्तरश्लोकः— मध्यश्लोकः ।

परपक्षे इति ।

साध्यश्चेन्मोक्षोऽ भ्युपगम्येतानित्य एव स्यादिति भाष्येणापादितैवानित्यताऽनूद्यते, नित्येऽपि मोक्षेऽविद्यानिवृत्तिसंस्कारः कर्मसाध्य इति पक्षप्रतिक्षेपेणानित्यत्वं स्थापयितुमित्यर्थः । उपवेलं वेलायाः समीपे, विकृतः ।

तत्र हेतुः —

अतिबहुलेति ।

समुल्लसन्तः फेनपुञ्जस्तबका यस्य  तस्य भावस्तत्ता । पोतेन दीव्यति व्यवहरतीति पौतिकः । अशुद्धिर्ब्रह्मणि सती, उतासती । प्रथमस्तु भिन्नाभिन्नविकल्पनाभ्यां निरसनीयः ।

चरमं निरस्यति —

न त्विति ।

अनाद्यविद्यामलेति ।

शङ्कितुर्वास्तव्यविद्याऽभिमतेति ।

ननु नित्यशुद्धत्वादात्मनि न हेयत्वसंभव इत्युक्ते कथं शङ्काऽत आह —

एतदुक्तमिति ।

ब्रह्मणि नाविद्या, किंतु जीवे; सा चानिर्वाच्येत्युक्तमध्यासभाष्ये । तथाविधा च ज्ञाननिरस्येत्युपास्तिर्विफलेत्यर्थः ।

निघर्षणव्याख्यानम् —

इष्टकेति ।

एतच्च धात्वर्थः संयोगविभागावेवेति मतमाश्रित्य ।

अन्याश्रया त्विति ।

यद्यपि स्पन्दरूपा भावना चैत्राश्रिता दर्पणस्योपकरोति; तथापि संयोगविभागाख्यधात्वर्थद्वारा तौ च नात्मनीत्यर्थः । संयोगविभागातिरिक्तधात्वर्तपक्षेऽपि समानं, धात्वर्थस्य संयोगविभागद्वारातिशयजनकत्वात् । नचात्मनि क्रियाजन्यातिशयसंभव इति । तदा तच्छब्देन, बाध्येरन्नित्युक्तं बाधनं परामृशति, तद् अव्यवहितम् । अनित्यत्वमात्मनः प्रसज्येतेत्युक्तं त्वनित्यत्वं व्यवहितमिति ।

ननु देहादावहंविभ्रमवत एव संस्कार्यत्वमिति कथम्, स्वत एव किं न स्यात्? अत आह —

अनाद्यनिर्वाच्येति ।

ननु नाविद्यामात्रोपहिते सुषुप्तवद्व्यवहारसिद्धिरत आह —

स्थूलेति ।

स्थूलसूक्ष्माणि च तानि यथाक्रमं शरीरेन्द्रियाणि । आदिशब्दात्प्राणादयः ।

संहतत्वमपि न तटस्थत्वेन तत्संयोगित्वं, किंतु तत्र प्रविष्टत्वमित्याह —

तत्संघातेति ।

प्रवेशोऽपि न भेदेन प्रतिभासमानत्वेन, किंतु ऎक्याध्यासेनेत्याह —

तदभेदेनिति ।

अङ्गरागश्चन्दनादिः ।

फलितमाह —

तेनेति ।

देहादावैक्येनाध्यस्ते आत्मनि क्रियाऽरोप्यते, तज्जन्यसंस्कारश्च अतो नान्याश्रितक्रियाफलभाक्त्वमन्यस्येति न व्यभिचार इत्यर्थः ।

आरोपितसंस्कारान्न फलभाक्त्वमिति शङ्कामहम्प्रत्ययस्य रूप्याद्यध्यासवैलक्षण्येन परिहरति —

सांव्यवहारिकेति ।

स्रु प्रस्रवणे इति धातुमभिप्रेत्याह —

अविगलितमिति ।

क्रियानुप्रवेशद्वारान्तरं मोक्षे भवत्विति शङ्कायां भाष्ये तदभावप्रतिज्ञैव भाति, न हेतुरित्याशङ्क्याह —

एतदुक्तमिति ।

न च विदिक्रियाविषयत्वेनेति भाष्ये ज्ञानाविषयत्वस्योक्तत्वात्पुनः शङ्कोत्तरे व्यर्थे इत्याशङ्क्य परिहारान्तराभिप्रायतामाह —

अयमर्थ इत्यादिना ।

यदवादि पूर्वपक्षे ज्ञानस्य भावार्थत्वाद् विधेयत्वमिति तत्र क्रियात्वमभ्युपेत्य विधेयत्वं निराक्रियत इत्याह —

सत्यमिति ।

वस्तुतो विदिक्रियायाः कर्मभावानुपपत्तेरित्यर्थः । औपाधिकं तु कर्मत्वमनिष्टं नियोगवादिनाम् । यदा तु ज्ञानं क्रियैव न भवतीत्येवंपरतया भाष्यं व्याख्यायते, तदा पचतीतिवज्जानातीति पूर्वापरीभावप्रसिद्धिर्दुश्चिकित्सा स्यादिति ।

वैलक्षण्यान्तरमिति ।

ज्ञेयवैलक्षण्यं प्रागुक्तमिदानीं  ज्ञानस्याविधेयत्वं वैलक्षण्यमुच्यत इति ।

यत्र विषये या वस्त्वनपेक्षा चोद्यते तत्र सा क्रियेति तच्छब्दाध्याहारेण योजयितुं यत्रशब्दार्थमाह —

यत्र विषये इति ।

ध्यानयस्य वस्त्वनपेक्षामुक्त्वा पुरुषेच्छाधीनत्वमुपपादयति —

नहि यस्यै इति ।

वषट् करिष्यन् — होता । विध्यर्थानुष्ठानात्प्राक् प्रमाणवशाध्द्याने न सिद्ध्यति, ततः पुरुषेच्छावशवर्तीति ।

शब्दज्ञानाभ्यासो वा तस्यैव साक्षात्कारपर्यन्तता पुरुषेच्छाधीनेत्याशङ्क्याह —

नचेति ।

उपासनायाः साक्षात्कारेऽ नुभवपर्यन्तताशब्दोक्तसाक्षात्कारस्याविद्यापनये प्राप्तत्वादित्यर्थः ।

क्रियायाः क्वचिद्वस्तुस्वरूपविरोधित्वं प्रमाणज्ञानाद्वैलक्षण्यमाह—

क्वचिद्वस्तुस्वरूपविरोधिनीति ।

वस्तुतन्त्रत्वमपाकरोतीति ।

अनेन ‘ज्ञानमेव तन्न क्रिया’ इति भाष्ये क्रियाशब्देन क्रियागतमवस्तुतन्त्रत्वं लक्षयित्वा प्रतिषिध्यत इति व्याख्यातम् । अतएव हि भाष्यकारो ब्रह्मज्ञानं न चोदनातन्त्रमिति दार्ष्टान्तिके चोदनातन्त्रत्वं प्रतिषेधति, न ब्रवीति न क्रियेति । अतः क्रियात्वमभ्युपेत्य ज्ञाने विधेयत्वं न मृष्यत इति गम्यते । सांप्रदायिकं = गुरुमुखाद्ध्ययनादि । विधिः— कार्यं विषयो येषां ते विधिविषयाः । यः समर्थः शक्तः स कर्ता, यः कर्ता स कर्मण्यधिकृतः स्वामी, योऽ धिकृतः स नियोगं स्वकीयतया बुद्ध्यमानो नियोज्यः, स च तत्रैव वर्णितरूपे विषये भवति, तस्मिन्नसति न भवतीत्यर्थः ।

उक्तविषयत्वस्य श्रवणादावभावमाह —

नचैवमिति ।

श्रवणं हि ब्रह्मात्मनि तत्त्वमसिवाक्यस्य तच्छब्दश्रुत्यादिपर्यालोचनया तात्पर्यावगमः; अस्य च विषयविशेषावच्छिन्नप्रत्ययस्यानवगमे तत्कर्तव्यत्वबोधायोगात्, अवगमे च श्रवणस्यैव जातत्वात्पुनः कर्तुमकर्तुमन्यथा वा कर्तुमशक्यत्वात् । एवं मननस्यापि विषयविशेषनियतयुक्त्यालोचनस्यानवगतस्य कर्तुमशक्यत्वादिति । उपासनस्यापि यथाश्रवणमननं प्रत्ययावृत्तेरवगमे द्वित्रिवारावृत्तेरवश्यंभावाद्विधित्सितार्थस्य ज्ञातस्य न पुनः कर्तव्यत्वं, दर्शनस्य त्वशक्यत्वं स्फुटमिति ।

अन्यतः प्राप्ता इति ।

दर्शनार्थं कर्तव्यत्वेनान्वयव्यतिरेकावगतान् श्रवणादीननुवदन्ति वचांसि तद्गतप्राशस्त्यलक्षणया तेषु रुचिमुत्पाद्यानात्मचिन्तायामरुचिं कुर्वन्ति, प्रवृत्त्यतिशयं जनयन्तीत्यर्थः । प्रकृतसिद्ध्यर्थं=सिद्धे वस्तुनि वेदान्तप्रामाण्यसिद्ध्यर्थं । सिद्धे वस्तुनि सङ्गतिग्रहविरहादि दूषयितुमित्यर्थः ।

उपनिषदां सिद्धबोधकत्वे आक्षिप्ते पुरुषस्योपनिषद्गम्यत्वसिद्धवत्कारो भाष्येऽनुपपन्न इत्याशङ्क्य तदुपयोगिन्यायः सामर्थ्याद्दपोतित इत्याह —

इदमत्रेति ।

परनरवर्तिशब्दार्थावबोधलिङ्गस्य प्रवृत्तेः सिद्धवस्तुन्यसंभवान्न व्युत्पत्तिरित्युक्तम् —

अज्ञातसङ्गतित्वेनेति ।

तत्राह —

कार्यबोधे इति ।

यदुक्तमर्थवत्तयेति तत्सिद्धपुत्रजन्मादिबोधेऽपि हर्षादिप्रयोजनलाभान्न शब्दानां कार्यपरत्वं नियच्छतीत्याह —

अर्थवत्तैवमिति ।

आखण्डलादीनाम्  इन्द्रादीनाम् । चक्रवालं समूहः । धौतानि शोधितानि । कलधौतमयानि सौवर्णानि शिलातलानि यस्य स तथा । प्रमदवनानि प्रमदाभिः सह नृपाणां क्रीडावनानि, तेषु विहारिणां संचरणशीलानां । मणिमयशकुन्तानां रत्नमयपक्षिणां । निनदः शब्दः । अभ्यर्णं निकटम् । प्रतिपन्नं जनकस्य पितुरानन्दनिबन्धनं पुत्रजन्म येन स ततोक्तः । सिन्दूररञ्जितपुत्रपदाङ्कितः पटः पटवासः स एवोपायनमुपहारो लाटानां प्रसिद्धः । महोत्पलं पद्मम् ।

अर्थवेत्तैवमिति श्लोकभागं व्याचष्टे —

तथाचेति ।

अनेन सिद्धस्याप्यप्रतिपित्सितत्वाप्रतिपिपादयिषितत्वे प्रयुक्ते ।

शास्त्रत्वं हितशासनाद् इत्येतव्द्याचष्टे —

एवंचेति ।

प्रवृत्तिनिवृत्त्याश्रवणं हि शास्त्रे पुरुषार्थाय, तं तु वेदान्तान्तरेणाप्यायासं ज्ञानादेवानयन्तीति भवन्तितरां शास्त्राणीत्यर्थः ।

तत्सिद्धमिति ।

तच्छब्देन तस्मादर्थेन सिद्धशब्दव्युत्पत्त्यादि परामृशता वक्ष्यमाणहेतोरसिद्धिरुद्धृता ।

ज्योतिष्टोमादिवाक्ये बाधं परिहरति —

विवादेति ।

भूतार्थविषयाणीति ।

न कार्यविषयाणीत्यर्थः; इतरथा भूतार्थप्रतीतिमात्रजनकत्वसाधने सिद्धसाधनात्, प्रमितिजनकत्वस्य साधने हेतोः साध्यसमतापातात् । यत्तच्छब्दावपि प्रस्तुतभूतार्थं परामृशतः । उपोपसर्गः सामीप्यार्थमाह । नीत्ययं निश्चयार्थः ।

सदेरर्थमाह —

सवासनामिति । 

वस्त्वक्रियाशेषं वेदान्तविषयं दर्शयितुं भाष्ये विशेषणानि प्रयुक्तानि व्याचष्टे —

अहंप्रत्ययेत्यादिना ।

भाष्ये ‘असंसारि’ इति त्वंपदलक्ष्यनिर्देशः, ब्रह्मेति तस्य ब्रह्मत्वमुक्तम् । क्रियारहितत्वसंसारित्वं ।

व्यवहितमप्यनन्यशेषत्वमुत्पाद्याद्यभावे हेतुत्वेन संबन्धयति  —

अतश्चेति ।

उत्पत्त्यादिभिराप्यं साध्यम् । सक्तवो हि प्राड् न विनियुक्ताः । न च होमेन भस्मशेषा उपयोक्ष्यन्ते, अतो न संस्कार्या इति विनियोगभङ्गेन होमप्राधान्यमिति ।

अनन्यशेषत्वे स्वप्रकरणस्थत्वं हेतुत्वेन योजयति  —

कस्मादिति ।

एवं सिद्धार्थव्युत्पत्तिसमर्थनेनोपनिषदां ब्रह्मात्मैक्ये प्रामाण्यमुक्तम्, इदानीं भवत्वन्यत्र सिद्धे पुत्रजन्मादौ सङ्गतिग्रहः, न ब्रह्माणि; अविषयत्वात्; अतो न तत्रोपनिषत्प्रामाण्यमित्याशङ्क्य तत्परिहारपरत्वेन भाष्यमवतारयति —

स्यादेतदित्यादिना ।

स्वयंप्रकाशत्वेन स्फुरत्यात्मनि समारोपितदृश्यनिषेधेन लक्षणया शक्यं शास्त्रेण निरूपणमिति भाष्याभिप्रायमाह —

यद्यपीत्यादिना ।

ननु प्रमाणान्तरमिति तथाविधस्य निषेधात्कथमात्मन्युपाधिनिषेधद्वारा लक्षणाऽत आह —

नहि प्रकाश इति ।

भासमाने भासमानं निषेध्यमित्येतावत्, नतु मानेन भासमाने इति, वैयर्थ्यात्, तदिह स्वतो भात्यात्मनि तत्साक्षिक उपाधिः शक्यनिषेध इति तदवच्छेदकोऽपि न न भासत इत्यन्वयः ।

न केवलं निषेधमुखेनैवाविषयनिरूपणम्, अपि त्वात्मादिपदैरपि व्याप्त्याद्यभिधानमुखेन परिच्छेदाभावोपलक्षितस्वप्रभ अत्मा लक्षणीयः, स चात्मपदयुक्तात् ‘‘नेति’’ वाक्यादात्मेति निरूप्यते, ब्रह्मपदयुक्ताच्चायमात्मा ब्रह्मेत्यादेर्ब्रह्मेति निरूप्यत इत्याह —

तेनेति ।

इतिरिदमर्थे, य आत्मा इदं न इदं नेति चतुर्थे व्याख्यातः । स एष पञ्चमाध्याये निरूप्यत इत्यर्थः ।

न केवलमधिष्ठानत्वेन प्रपञ्चसत्ताप्रदत्वादात्मसत्यता, अपि तु तत्स्फुरणप्रदत्वाच्चेत्याह —

अपिचेति ।

संस्कार्यत्वनिरासप्रस्तावे ‘साक्षी चेता’ इति मन्त्रोदाहरणेन प्रत्युक्तत्वादिति भाष्यार्थः ।

नह्यहंप्रत्ययविषयेत्यादिभाष्यमात्मनोऽनधिगतत्वेनौपनिषदत्वोपपादनार्थं, तदवतारयति —

एतदेवेति ।

भाष्ये तत्साक्षीति विधिकाण्डानधिगतत्वमुक्तम् । सर्वभूतस्थत्वेन बौद्धसमयानधिगतिः । विनश्यत्सु सर्वेषु भूतेषु स्थितो न विनश्यतीत्यर्थः । सावयव आत्मेति विवसनसमयानधिगतिः । समत्वेन जीवोत्पत्तिवादिपञ्चरात्रतन्त्रानधिगतिः । कूटस्थनित्यत्वेन काणादादितर्कानधिगतिः । एकः सर्वस्यात्मेति वर्णितः, अन्यतोऽनधिगतिमुक्त्वा बाधाभाव उक्तः ।

अत इति ।

अधिगते हि बाधो नानधिगत इत्यर्थः । अथवा सर्वस्यात्मत्वेन प्रत्याख्यातुं न शक्यं , औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति भाष्यं ‘तद्योसावुपनिषत्स्वित्यादिना विवृतं । पुनरभिहितविशेषणस्यात्मनोऽहंप्रत्ययविरोधमाशङ्क्य तन्मिथ्यात्वेनौपनिषदत्वं विवृतम् ।

अनन्यशेषत्वविवरणाय विधिशेषत्वं वेति भाष्यं तदनुषङ्गेण व्याचष्टे —

न शक्य इति ।

विध्यशेषत्वे आत्मत्वादिति हेतुं व्याचष्टे —

कुत इत्यादिना ।

मा भूद्विधेयकर्मशेषत्वेन विधिविषयत्वमात्मनः, स्वत एव विधीयतां निषिध्यतां चेत्याशङ्कामपनेतुं न हेय इति भाष्यम्, तत्रापि हेतुत्वेनात्मत्वादित्येतद्योजयति —

अपिचेति ।

अनन्यशेषत्वे स्वतो विधेयत्वाभावे चात्मत्वं हेतुरिति ‘अपिच’ शब्दार्थः ।

अत इति ।

भाष्योक्तादेव हेतोरित्यर्थः ।

तमेवाह —

सर्वेषामिति ।

ननु घटादिविनाशस्य मृदादौ दर्शनात्कथं पुरुषावधिः सर्वस्य लयोऽत आह —

पुरुषो हीति ।

कल्पितस्याधिष्ठानत्वायोगादात्मतत्त्वमेव तत्तदवच्छिन्नमनिर्वाच्यविश्वोदयाप्ययहेतुरित्यर्थः ।

ननु पुरुषोऽप्यनिर्वाच्य इति नेत्याह —

पुरुषस्त्विति ।

अनन्तोऽनवधिः । विकारो नास्तीत्युक्तं भेदाभेदविचारे ।

धर्मान्यथात्वविक्रियाया अभावमुक्त्वा तद्धेत्वभावमप्याह —

अपिचेति ।

भाष्ये — यत एव धर्मान्यथात्वाभावोऽतएव नित्यशुद्धादिस्वभावः ।

पुरुषावधिः सर्वस्य लय इत्यत्र श्रुतिमाह —

तस्मात्पुरुषादिति ।

कल्पितस्याकल्पितमधिष्ठानमित्युक्तयुक्तिपरामर्शी तस्माच्छब्दः ।i

निरतिशयस्वतन्त्रतया विधिशेषत्वाभावे श्रुतिमुदाहृत्य मानान्तरागम्यतया वेदान्तैकवेद्यत्वे श्रुतिमुदाहरति —

तं त्वेति ।

तस्य वेदस्येत्यर्थः ।

ननु तर्हि धर्मावबोधनमिति वक्तव्यं, तत्राह —

धर्मस्य चेति ।

ननु प्रतिषेधानामनुष्ठेयाबोधकत्वात्कथं कर्मावबोधप्रयोजनताऽत आह —

प्रतिषिध्यमानेति ।

शाबरवचनवदाम्नायस्येति( जै.अ.१.पा.२.सू.१) सूत्रे आम्नायशब्दो विधिनिषेधपर इति सिध्यति ।

विकल्पमुखेन परिहारान्तरं चाह —

अपिचेति ।

द्रव्यगुणकर्मणां तच्छब्दानामित्यर्थः ।

क्रियार्थत्वादित्यत्रानर्थक्यमित्यत्र चार्थशब्दोऽभिधेयपरः, प्रयोजनपरो वेति विकल्प्याद्यं निरस्य द्वितीयं निरस्यति —

यद्युच्येतेत्यादिना ।

ननु चोदना हि भूतं भवन्तं भविष्यन्तमित्येवंजातीयकं शक्नोत्यवगमयितुमिति शाबरवचसि विधिवाक्यस्य भूतादिबोधिता भाति, न द्रव्यादिशब्दानां क्रियाप्रयोजनताऽ त आह —

कार्यमर्थमिति ।

कार्यान्वितभूतबोधित्वे  विधिवाक्यस्य कथं तन्न्यायेन ब्रह्मवाक्येष्वक्रियाशेषभूतवस्तुबोधित्वसिद्धिरत आह —

अयमभिसंधिरिति ।

कार्यान्वितबोधित्वनियमः शब्दानां किं व्युत्पत्तिबलादुत प्रयोजनार्थम् । तत्र केवलभूतवस्त्ववगमादपि  प्रयोजनसिद्धिमुत्तरत्र वक्ष्यति ।

न तावद्व्युत्पत्तिबलादित्याह —

न तावदिति ।

कार्यार्थे कार्यशेषे ।

ननु कार्यान्वितपरत्वनियमाभावे पदानामतिलाघवायान्वितपरत्वमपि त्यज्यतामत आह —

नापीति ।

तत्किमिदानीं विशिष्टे  पदशक्तिर्नेत्याह —

स्वार्थमिति ।

अयमभिसंधिः — पदैः पदार्था एवाभिधीयन्ते अर्थान्तरान्विततया उपलक्ष्यन्ते; अन्यथा स्वरूपमात्रातिरेकिविशिष्टाभिधाने गौरवं स्यात् । ननु — अभिहितार्थस्वरूपाणां विशिष्टैरनविनाभावात्कथं लक्षणा? नहि गवार्थस्यानयत्यन्वयाविनाभावः, चारयतिनाप्यन्वयात्, नचार्थान्तरमात्रान्वयो लक्ष्यः; तस्य व्यवहारानुपयोगात् इति — चेन्न; अनविनाभाविभिरपि मञ्चैः पुरुषलक्षणात् । ननु — मा भूदनविनाभावनियमः, तथापि वाच्यस्य लक्ष्येण संबन्धो वाक्यार्थे चानन्वयो वाच्यः, मञ्चा हि संबद्धाः पुंभिर्न च वाक्यार्थेऽन्वीयन्ते, यथाह शालिकनाथः – ‘वाच्यार्थस्य च वाक्यार्थे संसर्गानुपपत्तितः । तत्संबन्धवशप्राप्तस्यान्वयाल्लक्षणोच्यते॥‘ इति । तदिह गामानयेत्यादौ न श्रौतार्थस्य वाक्यार्थेनानन्वयः , नाप्यन्वितस्य लक्ष्यस्यास्त्यभिधेयेन संबन्धः अन्वितस्यान्वयान्तराभावात्, तत इह न लक्षणा इति । अत्रोच्यते; मुख्यार्थपरिग्रहेऽनुपपत्तिस्तावल्लक्षणाया निदानं, तत्र यथा पदेन पदार्थलक्षणायां वाच्यार्थस्य वाक्यार्थे संबन्धानुपपत्तिः, एवं वाक्यार्थप्रत्ययोद्देशेन प्रत्युक्तस्य पदवृन्दस्य येऽभिधेया अनन्वितपदार्थास्तेषां वाक्यार्थीभावानुपपत्तिरेवान्विलक्षणाया निदानम् । नचान्वितरूपस्याभिधेयस्वरूपेण संबन्धानुपपत्तिः; विशिष्टस्वरूपयोस्तादात्म्यस्य कस्यापि स्वीकारात् । नन्वेवमपि — अभिहितार्थैरर्थान्तरान्वितलक्षणायां कथं नियमः? अर्थान्तराणामानन्त्यात्, तदुच्यते – ‘आकाङ्क्षासत्तियोग्यत्वसहितार्थान्तरान्वितान् । पदानि लक्षयन्त्यर्थानिति नातिप्रसङ्गिता॥‘ प्रयोगस्तु गोपदं, गामानयेति वाक्येनानयत्यन्वितगोत्ववाचकम्, पदत्वात्, तुरगपदवदिति ।

एतत्सर्वमाह —

एकेति ।

एकप्रयोजनसिध्द्युपयोगित्वं हि पदार्थानामितरेतरवैशिष्ट्यमन्तरेण न घटतेऽतः प्रयोजनवत्त्वायैकवाक्यत्वाय च लक्षणयाऽन्वितपरत्वं पदानां वाच्यमित्यर्थः ।

ननु विशिष्टानामप्यर्थानां भेदात्कथमेकवाक्यता? अत आह —

तथाचेति ।

गुणभूतनानापदार्थविशिष्टप्रधानार्थस्यैक्यादेकवाक्यत्वमित्यर्थः ।

पदानामनन्वितार्थपर्यवसानेऽ न्वितपर्यवसाने च भट्टसंमतिमाह —

यथाहुरिति ।

यदा लक्षणया योग्येतरान्वितपरत्वं पदानां, पदार्थानां च लक्षणायां द्वारत्वेन तत्परत्वं, तदा वेदान्तानां कार्यानन्वितब्रह्मपरत्वोपपत्तिरित्याह —

एवचं सतीति ।

भाव्यार्थत्वेनेतिभाष्ये भव्यशब्दो भवनकर्तृवचनत्वादुत्पाद्यमात्रपरो मा भूदित्याह —

भव्यमिति ।

भाष्ये भूतस्य क्रियात्वप्रतिषेधस्य प्रसक्तिमाह —

नन्विति ।

भव्यसंसर्गिणा रूपेण भूतमपि भव्यमित्यत्र किं कार्यं भव्यं? उत क्रिया? उभाभ्यामपि भूतार्थस्य नैक्यमित्याह —

न तादात्म्येति ।

कार्यं हि साध्यतया प्रयोजनं, भूतं साधकतया प्रयोजनीति ।

प्रवृत्तिनिवृत्तिव्यतिरेकेणेत्यादिभाष्येण कार्यान्वयनियमभङ्गेन कूटस्थनित्यवस्तूपदेशस्य समर्थितत्वेऽपि कार्यान्विते व्युत्पत्तिनियममभ्युपेत्यापि परिहारान्तरं वक्तुमुक्तशङ्कामनुवदतीत्याह —

शङ्कत इति ।

अङ्गीकृते कार्यान्वितव्युत्पत्तिनियमे कूटस्थनित्योपदेशानुपपत्तिरित्याह —

एवंचेति ।

भवतु कार्यान्विते भूते सङ्गतिग्रहः, तथापि स्वरूपं तत्र प्रतीयत एव; विशिष्टेऽपि स्वरूपसद्भावात्, ततः किमत आह —

तथाचेति ।

स्वनिष्ठभूतविषया इति ।

कार्यानन्वितभूतविषया इत्यर्थः, नत्वनन्वितविषयत्वमेव; अन्विते पदातात्पर्यस्य समर्थितत्वात् । ते च वक्ष्यमाणोदाहरणेषु दृश्यमाना नाध्याहारादिभिः क्लेशेनान्यथयितव्या इत्यर्थः ।

स्यादेतत् — कार्यान्विते गृहीतसङ्गतेः पदस्य कथं शुद्धसिद्धाभिधायिता? नहि गोत्वे गृहीतशक्ति गोपदमभिदधाति तुरगत्वमत आह —

न हीति ।

एवं मन्मते कार्यान्वयो न शब्दार्थः, किंतूपाधिः । तथाहि — कर्तव्यतातदभावावगमाधीनत्वात् प्रवृत्तिनिवृत्त्योः, प्रवृत्तिनिवृत्तिसाध्यत्वात्प्रयोजनस्य, तदधीनत्वाच्च विवक्षाप्रयोगयोः, प्रयोगाधीनत्वाच्च वाक्यार्थप्रतिपत्तिव्युत्पत्त्योः, विवक्षादिवत्कार्यान्वयस्यापि शब्दार्थावगत्युपायतावगम्यते, अतो विरहय्यापि कार्यान्वयं प्रयोगभेदे भवति भूतं वस्तु पदवाच्यम्; कथमपरथा भवतां प्रमाणान्तरगृहीतकार्यान्वितगृहीतसङ्गतिकपदवृन्दस्य वेदेऽपूर्वान्विताभिधायिता? तदिदमुक्तम् – ‘‘उपहितं शतशो दृष्टमपि तदेव क्वचिदनुपहितं यदि दृष्टं भवति, तदा तददृष्टं नहि भवति, किंतु दृष्टमेव भवतीति’’ ।

अटवीवर्णकादय इति ।

तद्यथा — अस्ति किल ब्रह्मगिरिनामा गिरिवरः । ‘त्रैयम्बकजटाजूटकलनाय विनिर्मिता । पाण्डुरेव पटी भाति यत्र गोदावरी नदी॥‘ यस्य च – ‘सकुसुमफलचूतरुद्धघर्मद्युतिकरपातवनालिषूपजाते । तमसि हरकिरीटचन्द्रनुन्ने धवमनिशा इव भान्ति वासराणि॥‘ इत्यादय इति ।

क्रियानिष्ठा इति ।

अकारप्रश्लेषः ।

अभ्युपेत्य कार्यान्वयनियमं पर्यहार्षीत्, इदानीमभ्युपगमं त्यजति —

उपपादिता चेति ।

एवं तावद्व्युत्पत्तिविरोधं परिहृत्य निष्प्रयोजनत्वचोद्यमुद्भाव्य परिहरति —

यदि नामेत्यादिना ।

समुच्चयासंभवादप्यर्थश्चकारः शङ्काद्योती, तामेवाह —

यद्यपीति ।

एवं तावद्द्रव्यगुणादिशब्दानां विधिवाक्यगतानां केवलभूतार्थतामापाद्य तद्वद्ब्रह्मापि शब्दगोचर इत्युक्तम्, इदानीं तु निषेधवाक्यवद्वेदान्ताः सिद्धपरा इत्याह —

अपिचेत्यादिना ।

यत्र कृतिस्तत्रैव कार्यम्, निषेधेषु कृतिनिवृत्तौ तद्व्याप्तं कार्यं निवर्तत इत्युक्त्वा कृतेरपि तद्व्यापकधात्वर्थनिवृत्त्या निवृत्तिमाह —

कृतिर्हीत्यादिना ।

न घटवत्प्रतिक्षणं समाप्तः,  किंतु पचतीतिवत्पूर्वापरीभूतः । सच भवत्यादाविव नात्मलाभः, किंतु कर्तुरन्यस्योत्पाद्यस्यौदनादेरुत्पादनायामनुकूलः प्रयत्नविषयः ।

तत्र हेतुमाह —

साध्येति ।

न द्रव्यगुणौ कृतिविषयावित्यत्र हेतुः —

साक्षादिति ।

तत्रापि तदुत्पादनानुकूलो व्यापारः कृतिविषय इत्यर्थः । भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते (जै.अ.२.पा.१.सू.१) इति द्वितीयगतमधिकरणम् ।

अत्र गुरुमतेनार्थं संकलयति —

द्रव्येति ।

अत्रावमर्शेऽपीत्यन्तः पूर्वः पक्षः । अयमर्थः — पदस्मारितानन्वितार्थेषु निमित्तेषु  भावान्वितावस्था नैमित्तिकी, तस्यामस्ति सिद्धयोरपि द्रव्यगुणयोः क्रियान्वयेन साध्यता, अतो द्रव्यगुणभावार्थवाचकशब्दानामविशेषेण साध्यार्थवाचकत्वात्साध्यार्थविषयत्वाच्च नियोगस्याविशेषेण नियोगविषयसमर्पकत्वमिति॥

राद्धान्तमाह —

भावस्येति ।

भावशब्दस्येत्यर्थः । कार्यावमर्श इत्यनुषङ्गः । भावशब्दो हि स्वत एव साध्यरूपां क्रियामवमृशति, द्रव्यादिशब्दास्तु क्रियायोगद्वारा द्रव्यादीन्साध्यतयाऽवमृशन्ति ।

किमित्यत आह —

भावार्थेभ्य इति ।

नियोगो हि साक्षात्कृतेरविषयः संस्ताद्विषयत्वाय स्वावच्छेदकत्वेन साक्षात्साध्यस्वभावं भावार्थमाकाङ्क्षति । तल्लाभे च न क्रियायोगद्वारा साध्यस्य द्रव्यादेस्तद्विषयता युक्ता । अतो भावार्थशब्देभ्य एव यजतीत्यादिभ्यो विषयविशिष्टाऽपूर्वाधिगतिरिति भावनावाचिभ्योऽ पि भावो भावनेत्यादिभ्यो नापूर्वाधिगतिरिति कर्मशब्दा इत्युक्तम् । क्रत्वर्थवाचिभ्यः कर्मशब्देभ्योऽपि याग इत्यादिभ्यो नैवापूर्वाधिगतिरिति भावार्था इत्युक्तम् । अतो धात्वर्थोपरक्ताभावना येषु भाति यजेतेत्यादिषु तेभ्योऽपूर्वं प्रतीयेतैष हि भावनासाध्योऽपूर्वलक्षणोऽ र्थो विधीयत इति सूत्रार्थः ।

ननु द्रव्यगुणौ विधीयेते दधिसान्तत्ये, तत्र तयोरेव कार्यावच्छेदकता, अत आह —

न चदध्नेति ।

आघारः क्षारणम् । सान्तत्यमविच्छिन्नत्वम् ।

यदि दध्यादावपि भावार्थो विधेयः, तर्हि न्यायविरोध इत्याशङ्क्याह —

नचैतावतेति ।

ज्योतिष्टोमे श्रूयते – ‘सोमेन यजेते’ति । तथा ‘ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णाती’ति । तत्र संशयः — किमैन्द्रवायवादिवाक्ये विहितानां सोमरसानां यागानां च यथाक्रमं सोमेन यजेतेति सोमयागशब्दावनुवदितारौ, उत द्रव्ययुक्तस्य कर्मणो विधाताराविति॥ तत्रैन्द्रवायवादिवाक्येषु द्रव्यदेवताख्यरूपप्रतीतेर्यागानुमानादितरत्र रूपाप्रतीतेः समुदायानुवाद इति प्राप्ते — द्वितीये (जै.अ.२.पा.२.सू.१७ — २०) राद्धान्तितम्, नानुवादत्वं अप्रत्यभिज्ञानात् । लतावचनो हि सोमशब्दो न रसवचनः, ऐन्द्रवायवादिशब्दास्तु रसानभिदधतीति न तदनुवादी सोमशब्दः । न च यजेतेति प्रत्यक्षे यागे तदनुमा, अतः प्राप्त्यभावान्न यजिरप्यनुवादी । तस्मात्सोमवाक्ये यागविधिरितरत्र रसानमिन्द्रादिदेवताभ्यो ग्रहणान्युपकल्पनानि विधीयन्त इति । । एवं यथा सोमेनेति वाक्ये विशिष्टविधिः, एवं दधिसान्तत्यादिवाक्यानि यदि द्रव्यगुणविशिष्टहोमाघारविधायीनि, तर्हि अग्निहोत्राघारवाक्ये तद्विहितहोमानामाघाराणां च समुदायावनुवदेतां, तथाचाधिकरणान्तरविरोध इति शङ्का॥ तथाहि द्वितीये स्थितम् — आघाराग्निहोत्रमरूपत्वात्(जै.अ.२.पा.२.सू.१३) । ‘आघारमाघारयत्यूर्ध्वमाघारयति’ ‘सन्ततमाघारयति’ । तथा ‘अग्निहोत्रं जुहोति’ ‘दध्ना जुहोति’ ‘पयसा जुहोतीति’ श्रूयते । तत्र संशयः — किं सन्ततदध्यादिवाक्यविहितानामाघारहोमानामाघाराग्निहोत्रवाक्ये सुमुदायानुवादिनी, उतापूर्वयोराघारहोमयोर्विधातृणी इति॥ तत्रानुवादिनी; अरूपत्वात्, नह्यत्र दधिसान्तत्यादिवाक्यविहितहोमाघारेभ्यो विशिष्टं रूपमस्ति, होमाघारमात्रं तु प्रकृतमुपलभ्यते, अतोऽनुवादत्वे प्राप्ते राद्धान्तः; विधी इमौ स्याताम् ; आधारयतिजुहोतिशब्दाभ्यामनुष्ठेयार्थप्रतीतेः, तत्संनिधौ श्रुतस्य सान्तत्यवाक्यस्य दध्यादिवाक्यस्य च विशिष्टविधित्वे गौरवप्रसङ्गेन तद्विहितभावार्थानुवादेन गुणविधानार्थत्वादिति॥ हन्त नैतेन विरुध्यते सान्तत्यदध्यादिवाक्ये भावार्थविषयं कार्यमित्यभ्युपगमः ।

अत्र हेतुमाह —

यद्यपीति ।

यद्यपि सन्ततादिवाक्ये साक्षात्कृतिविषयत्वाद्भावार्थस्य तदवच्छिन्नमेव कार्यं; यद्यपि च कार्यं प्रति साक्षादविषयावनवच्छेदकौ द्रव्यगुणौ; तथापि भावार्थं प्रत्यनुबन्धतयावच्छेदकतया विधीयेते ।

तत्र हेतुमाह —

भावार्थो हीति ।

तत्किं भावार्थो द्रव्यादिश्च विधेयः, तर्हि वाक्यभेदः, नेत्याह —

तथाचेति ।

तर्हि सन्ततादिवाक्यानि विशिष्टविधयः स्युः, स्याच्चाग्निहोत्रादिवाक्यमनुवादः, तत्राह —

एवंचेति ।

यद्यप्यत्र विशिष्टविषयो विधिः प्रतीयते; तथापि भावार्थद्वारा द्रव्यादिकमपि विषयीकरोति । तत्र संक्रान्तो यदि भावार्थमन्यतो विहितं न लभेत, तर्हि गौरवमप्युररीकृत्य विशिष्टं विदधीत; अथ लभेत, तत उपपदाकृष्टशक्तिर्द्रव्यादिपरो भवत्यनुवदति तु भावार्थम् । तदाहुः – ‘सर्वत्राख्यातसंबद्धे श्रूयमाणे पदान्तरे । विधिशक्तियुपसंस्क्रान्तेः स्याद्धातोरनुवादता॥‘ इति । तदिहाग्निहोत्रादिवाक्यत एव भावार्थलाभाद्द्रव्यादिपरता । मीमांसकैकदेशिनः आग्नेय इत्यादौ द्रव्यदेवतासंबन्धो विधेय इत्याहुः ।

तत्रापि सिद्धस्य न विधेयत्वमित्युक्तमतिदिशति —

एतेनेति ।

एकदेशी संबन्धस्य भावनाऽवच्छेदकत्वेन विधेयत्वं शङ्कते —

नन्वित्यादिना ।

ननु यथाश्रुतभवत्यर्थ एव विधीयतां, किं संबन्धविधिनेत्याशङ्क्य भवत्यर्थस्य कर्ता सिद्धोऽसिद्धो वा ।

प्रथमे विधिवैयर्थ्यं, चरमे नियोज्याभावाद्विध्यभाव इत्युक्त्वा किं तर्हि विधेयमिति वीक्षायामाह —

तस्मादिति ।

प्रयोज्यः उत्पाद्यः । तद्व्यापारो हि भवनम् ।

तस्य हि व्यापारं भवतिधातुर्विशिनष्टि —

भवतीति ।

भवनं च नोत्पादकव्यापारमन्तरेणेति भवनाविनाभूतो भावकव्यापारो विधेय इत्यर्थः । नन्वित्यादिना चोद्यच्छलेन सिद्धान्ती मीमांसकैकदेशिनं दूषयति । भवतु लक्षितभावनाया विधानं, तस्यास्तु न संबन्धो विषयः, तस्य दध्यादिवत्साक्षात्कृतिविषयत्वायोगादित्यर्थः ।

नन्वव्यापारोऽपि घटादिः करोत्यर्थरूपभावनाविषयो दृश्यते, अत आह —

न हीति ।

यदि दण्डादिविषयो हस्तादिव्यापारः कृतिविषयः, तर्हि कथं घटं कुर्विति घटस्य कृतिकर्मता भात्यत आह —

घटार्थामिति ।

घटविषयव्यापार एव कृतिसाध्यो घटस्तूद्देश्यतया प्रयोजनमिति कर्मत्वनिर्देश इत्यर्थः ।

यदि संबन्धो न विधेयस्तर्ह्याग्नेयवाक्ये किं विधेयमत आह सिद्धान्त्येव —

अतएवेति ।

अत्यक्तस्य हविषो देवतासंबन्धासंभवाद्यागः संबन्धाक्षिप्तः ।

ननु यजेरप्यपुमर्थत्वात्कथं विधेयता? अत आह —

आग्नेयेनेति ।

यागेनेत्याग्नेयपदस्य लक्ष्यनिर्देशः, भावयेदिति भवतिपदस्य । यत एवाग्नेयवाक्ये यागविधिरत एवानुवादे यजेतेति श्रुतम्; अन्यथा संबन्ध एव श्रूयेतेत्यर्थः । उक्तं द्वितीये — प्रकरणं तु पौर्णमास्यां रूपावचनात् (जै.अ.२.पा.२.सू.३) । एवं समामनन्ति ‘‘यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति’’ ‘‘उपांशुयाजमन्तरा भवति’’ ‘‘ताभ्यामेतमग्नीषोमीयमेकादशकपालं पौर्णमासे प्रायच्छत्’’ ‘‘ऐन्द्रं दध्यमावास्यायाम्’’ ‘‘ऎन्द्र पयोऽमावास्यायामि’’ति । तथा ‘‘य एवं विद्वान् पौर्णमासीं यजते’’ ‘‘य एवं विद्वानमावास्यां यजते’’ इति । तत्र संदेहः — किमिमौ यजती कर्मणोरपूर्वयोर्विधातारावुत प्रकृताग्नेयादियागानां समुदायस्यानुवदिताराविति॥ तत्राभ्यासात्कर्मान्तरविधी । न च द्रव्यदेवते न स्तः; ध्रौवाज्यस्य साधारण्यान्मान्त्रवर्णिकदेवतालाभाच्च । आज्यभागक्रमे हि चतस्त्रोऽनुवाक्याः सन्ति । द्वे आग्नेय्यौ, द्वे सौम्ये । ते च क्रमाद्बलीयसा वाक्येनाज्यभागाभ्यामपच्छिद्यानयोः कर्मणोर्विधास्येते । एवंहि समामनन्ति । ‘‘वार्त्रघ्नी पौर्णमास्यामनूच्येते’’ “वृधन्वती अमावास्यायामिति’’ । वृत्रघ्नीपदवत्यौ वार्त्रघ्नी । वृधन्वत्पदवत्यौ वृधन्वती । तस्मात्कर्मान्तरविधिः; इत्येवं प्राप्ते — अभिधीयते । प्रक्रियत इति प्रकरणं प्रकृतानि कर्माणि पौर्णमास्यमावास्यासंयुक्तवाक्ययोरालम्बनम् । कुतः? रूपावचनात् । ध्रौवाज्यलाभेऽपि देवता न लभ्यते । न च मन्त्रवर्णेभ्यस्तल्लाभः; तेषां क्रमादाज्यभागशेषत्वात् । यत्तु वाक्यं बलीय इति, सत्यं; बलवदपि न क्रमस्य बाधकमविरोधात् । क्रमावगताज्यभागाङ्गभावस्यानुवाक्यायुगलद्वयस्य पौर्णमास्यमावास्याकालयोर्विभागेन प्रयोगव्यवस्थापकत्वात् । काले हीमौ शब्दौ रूढौ, न कर्मणि । कालद्वयोपहितकर्मसमुदायद्वायानुवादस्य च प्रयोजनं दर्शपूर्णमासाभ्यामित्यधिकारवाक्यगतद्वित्वोपपादनम् । तस्मात्समुदायानुवादाविति ।

उत्पत्त्यधिकारयोरविसंवादार्थमप्याग्नेयादिवाक्ये यागविधिरभ्युपेय इत्याह —

अतएवेति ।

अत्राप्यधिकारविधौ यजेत इति दर्शनात्प्रागपि यागविधिरित्यर्थः ।

कृतिनिर्वर्त्यस्य धात्वर्थस्यैव नियोगावच्छेदकतेत्युपसंहरति —

तस्मादिति ।

विधिर्नियोगः ।

एवं नियोगकृतिभावार्थानां व्याप्यव्यापकतामुक्त्वा व्यापकनिवृत्त्या व्याप्यनिवृत्तिनिषेधेष्वाह —

तथाचेत्यादिना ।

निषेधेषु भावार्थापादनमिष्टप्रसङ्ग इत्याशङ्क्याभ्युपगमे बाधकमाह —

एवंचेति ।

नामधात्वर्थयोगे हि नञः पर्युदासकता, न हन्यादित्यादौ त्वाख्यातयोगात्प्रतिषेधो भाति । तत्रानीक्षणवल्लक्ष्यः पर्युदास इत्येको दोषोऽपरश्च विधिनिषेधविभागलोप इत्यर्थः ।

प्रजापतिव्रतन्यायं (जै.अ.४.पा.१.सू.३ — ९) विभजते निषेधेषु तदभावाय —

नेक्षेतेति ।

तत्र हि तस्य ब्रह्मचारिणो व्रतमित्यनुष्ठेयवाचिव्रतशब्दोपक्रमादेकस्मिंश्च वाक्ये प्रक्रमाधीनत्वादुपसंहारस्याख्यातयोगिना नञ प्रतीतोऽपि प्रतिषेधोऽननुष्ठेयत्वादुपेक्ष्यते । धात्वर्थयोगेन च पर्युदासो लक्षणीयः । तथा चेक्षणविरोधिनी क्रिया सामान्येन प्राप्ता तद्विशेषबुभुत्सायां च सर्वक्रियाप्रत्यासन्नः संकल्प इत्यवगतम् । ईक्ष इति तु संकल्पः ईक्षणापर्युदासेन नाद्रियते; ततोऽनीक्षणसङ्कल्पलक्षणा युक्ता, नैवं निषेधेषु संकोचकमस्तीत्यर्थः ।

एवं निषेधेषु भवार्थाभावमभिधाय तद्व्याप्तकृतिनियोगयोरभावमाह —

तस्मादिति ।

तदयं प्रयोगः —

विमतं न नियोगावच्छेदकं, अभावत्वात्संमतवदिति ।

क्रियाशब्द इति ।

विभागभाष्येऽक्रियार्थानामानर्थक्याभिधानादिह क्रियाशब्दः कार्यवचनः । अकार्यार्थानां ह्यानर्थक्यं नियोगवादिनो मतं, न भावार्थाविषयाणाम्; नियोगस्याप्यभावार्थत्वादिति ।

निषेधेषु भावार्थाभावान्न कार्यमित्युक्तं, तत्र हेत्वसिद्धिं शङ्कते —

स्यादेतदिति ।

विधिश्रुतिसिद्धो नियोगो विषयं भावार्थमाक्षिपतु, स एव कः? न तावद्धननादिः; तस्य रागप्राप्तेः, अनुपात्तक्रियाविधौ च लक्षणाप्रसङ्गात्, अत आह —

न च रागत इति ।

लक्षणया हननविरोधी यत्नो विधेयः, प्रयोजनलाभे च लक्षणा न दोषायेत्यर्थः ।

इत्याहेति ।

अस्यां शङ्कायामाहेत्यर्थः ।

व्यवहितान्वयेन व्याकुर्वन् भाष्यमुदाहरति —

नचेति ।

भाष्ये नञ इति पदम् अनुरागेणेत्यधस्तनेनाप्राप्तक्रियार्थत्वमित्युपरितनेन च संबध्यते ।

स्वभावप्राप्तहन्त्यर्थानुरागेणेति ।

नेदमनुवादस्थं; तथा सति  हि सर्वमेव भाष्यं प्रतिज्ञापरं स्यात् – ‘स्वभावप्राप्तहन्त्यर्थानुरागेण यन्नञोऽप्राप्तक्रियार्थत्वं तन्नेति’ ।

तच्च न युक्तम्; नञश्चेत्युत्तरभाष्यस्य चशब्दयोगेन शङ्कानिरासित्वाद्धेत्वदर्शनात्, तन्मा भूदिति पृथक्कृत्य हेतुभागमाकाङ्क्षापूर्वकं योजयति —

केनेति ।

किमिह विधेयं हननादि वा नञर्थो वा विधारकप्रयत्नो वेति विकल्प्य क्रमेण दूषयति —

हननेत्यादिना ।

अत्र विधारप्रयत्नविधिराशङ्कितः, स एव च निराकर्तव्यः,  इतरत्तु पक्षद्वयं परस्य शाखाचंद्रमनिरासार्थं दूषितम् ।

ननु नञर्थश्चेन्न विधीयते, तर्हि हननं नास्तीत्यादाविव सिद्धतया प्रतीयेतेत्याशङ्क्याह —

अभावश्चेति ।

रागप्राप्तकर्तव्यताकहननलक्षणप्रतियोगिगतं साध्यत्वमभावे समारोप्यत इत्यर्थः ।

कर्तव्यत्वाभावबोधस्य निवर्तकत्वमयुक्तं; सत्यपि तस्मिन्हननगतदृष्टेष्टसाधनत्वप्रयुक्तकर्तव्यताया अनपायादित्युत्तरभाष्यस्य शङ्कामाह —

ननु बोधयन्विति ।

औदासीन्यस्य प्रागभावतया कारणानपेक्षत्वादध्याहरति —

पालनेति ।

निषेधेषु  नञ् समभिव्याहृतविधिप्रयत्नेन प्रकृत्यर्थभूतहननादिगतक्षुद्रेष्टोपायतामनपबाध्य तद्गतगुरुतरादृष्टानिष्टोपायता ज्ञाप्यतेऽतो निवृत्त्युपपत्तिरिति वक्तुं लोके विधिनिषेधयोरिष्टानिष्टोपायत्वबोधकत्वं व्युत्पत्तिबलेन दर्शयति —

अयमभिप्राय इत्यादिना ।

प्रवर्तकेषु वाक्येषु इत्यतः प्राक्तनेन ग्रन्थेन ।

इन्दूदयगतहितसाधनतायां न प्रवृत्तिहेतुता, प्राक्कृतभुजङ्गाङ्गुलिदाने च नाधुना निवृत्तिहेतुत्वं, ततो विशिनष्टि —

कर्तव्यतेति ।

कर्तव्यतया सहैकस्मिन् धात्वर्थे समवेताविष्टानिष्टसाधनभावौ  तौ तथोक्तौ ।

फलेच्छाद्वेषयोरुक्तविधसाधनभावावगमपूर्वकत्वाभावादनैकान्तिकत्वमाशङ्क्याह —

प्रवृत्तिनिवृत्तिहेतुभूतेति ।

दृष्टान्ते साध्यविकलतामाशङ्क्याह —

न जात्विति ।

शब्दादीनामपूर्वपर्यन्तानां ये प्रत्ययास्तत्पूर्वाविच्छाद्वेषौ बालस्य मा भूतां, प्रत्यक्षव्यवहारे सर्वेषामभावादित्यर्थः । पचतीत्यादौ प्रतीतापि भावना न प्रवर्तिकेति त्रैकाल्यानवच्छिन्नेत्युक्तम् । इत्यानुपूर्व्या सिद्धः कार्यकारणभाव इत्यन्वयव्यतिरेकप्रदर्शनपरम् । इष्टेत्यादि सिद्धमित्यन्तमिष्टानिष्टोपायतावगमस्य प्रवृत्तिनिवृत्ती प्रति हेतुत्वप्रदर्शनपरम् इति विवेक्तव्यम् ।

ननु कर्तव्यतेष्टासाधनत्वविशिष्टव्यापारपरः शब्दोऽस्तु, किं धर्ममात्रपरत्वेनात आह —

अनन्यलभ्यत्वादिति ।

व्यापारो लोकसिद्ध इति न शब्दार्थ इत्यर्थः ।

ननु हननादिषु प्रत्यक्षदृष्टेष्टसाधनत्वकर्तव्यत्वयोर्निषेद्धुमशक्यत्वात्कथमभावबुद्धिरिति भाष्यमत आह —

निषेध्यानां चेति ।

दृश्यमानमपीष्टं बह्वदृष्टानिष्टोदयावहत्वादनिष्टमित्यनर्थहेतुत्वज्ञापनपरं वाक्यम् । एवंच पर्युदासपक्षादस्य पक्षस्य न विशेष इति न शङ्क्यं; श्रुतेष्टसाधनत्वाभावोपपत्तयेऽनिष्टसाधनत्वकल्पनात्, त्वन्मते श्रुतं परित्यज्याश्रुतविधारकप्रयत्नविधिकल्पनादिति । आयतिर्भाविफलम् ।

प्रवृत्त्यभावमित्यस्य व्याख्या —

निवृत्तिमिति ।

उद्यमक्रियाया मयोपरन्तव्यमिति बुद्ध्या निवर्तते, नतु प्रवृत्तिप्रागभावमात्रमित्यर्थः ।

यथोक्ताभावबुद्धेरौदासीन्यस्थापकत्वेऽपि क्षणिकत्वात्तद्द्वंसे हननोद्यमः स्याच्छश्वत्तत्संततौ च विषयान्तरज्ञानानुदयप्रसङ्ग इति शङ्कते —

स्यादेतदिति ।

यथाग्निः पुनर्ज्वालोपजनननिदानमिन्धनं दहन्नुशान्तोऽपि भवति भाविनीनां ज्वालानामुदयविरोधी, एवमभावबुद्धिः क्षणिकतया स्वयमेव शाम्यत्यपि हननाद्यहितोपायतानवबोधं दग्ध्वा तन्निदाना उपरितनीः प्रवृत्ती रुणद्धीति ।

भाष्यार्थमाह —

तावदेवेति ।

नह्यभावबुद्धिरौदासीन्यस्यानादिनः स्थापनकारणं, येन तदभावे कारणाभावादिदं न भवेत्, अपित्वपवादनिरासिकेत्याह —

एतदुक्तमिति ।

अनादित्वादौत्सर्गिकमौदासीन्यं, तत्रापवादनिवर्तकारान्निधावप्यौत्सर्गिकस्थेम्नि दृष्टान्तमाह —

यथेति ।

कमठः कूर्मः ।

यदौदासीन्यं तत्प्रागभावरूपत्वादुक्तमपि न निवृत्तिहेतुः; ततः कर्तव्यत्वेन प्रसक्तक्रियाप्रतियोगिकनिवृत्तिरूपेण विशिष्टं निवृत्त्युपयोगि, यद्धन्यात्तन्नेति प्रसक्तक्रियानिवृत्तिरूपता चौदासीन्यस्य न; सर्वदा क्रियाप्रसङ्गाभावात्, अतः काकवदुपलक्षणम्, तादृश्या निवृत्त्योपलक्ष्यौदासीन्यं विशिनष्टि भाष्यकार इत्याह —

औदासीन्यमिति ।

ननु केयं प्रसक्तक्रियानिवृत्तिः? न तावद्धननादिप्रागभावः, अनादित्वादेव तद्बोधनस्यानुपयोगात् । नापि तद्ध्वंसः; प्रसक्तक्रियाया अनुदयेन ध्वंसायोगात्, उच्यते, ‘हननोद्यतखङ्गादेः परावर्तनमुच्यते । निवृत्तिरिति तस्मिन्हि हननं न भविष्यति’॥ एषा च निवृत्तिः नञर्थबोधफला, नञर्थस्तु हननगतेष्टसाधनत्वाभाव एवेति ।

भाष्ये जैमिनीयमानर्थक्याभिधानं क्रियासन्निधिस्यार्थवादादिविषयमित्युक्तम्, तदाम्नायस्य क्रियार्थत्वादिति हेतोस्तद्बलेनाक्रियार्थानामप्रामाण्यमिति पूर्वपक्षस्य विध्येकवाक्यत्वेन प्रामाण्यमिति सिद्धान्तस्य च तद्विषयत्वोपलक्षणार्थमित्याह —

पुरुषार्थानुपयोगीति ।

स्वयं पुमर्थब्रह्मावगमपरत्वमुपनिषदामसिद्धमित्याशङ्क्य भाष्यव्याख्याया परिहरति —

यदपीत्यादिना ।

अवगतब्रह्मात्मभावस्येति भाष्येऽवगतिशब्दाभिप्रायमाह —

सत्यमिति ।

साक्षात्कारस्य स्वरूपत्वान्न निवर्तकतेति, तत्राह —

ब्रह्मसाक्षात्कारश्चेति ।

आत्मानमपि स्वं साक्षात्कारमिति ।

श्रवणादिसंस्कृतमनोजन्यश्चेत्साक्षात्कारः कथं तर्हि वेदप्रमाणजनितेनि भाष्यमत आह —

अत्रचेति ।

अशरीरत्वं देहपातोत्तरकालमिति शङ्कायां सशरीरत्वस्य निमित्तवर्णनमयुक्तमित्याशङ्क्याह —

यदीति ।

सशरीरत्वं मिथ्यात्वाज्जीवत एव ज्ञानेन निवर्त्यं, तर्ह्यशरीरत्वमप्यभावत्वात्तथेत्याशङ्क्य न तत्त्वतः शरीरसंबन्धाभावोपलक्षितस्यातथात्त्वादित्याह —

यत्पुनरिति ।

भाष्ये तच्छब्देन नह्यात्मन इति प्रस्तुतात्मपरामर्श इत्याह —

तदितीति ।

शरीरसंबन्धस्येत्याद्यसिद्धेरित्यन्तं भाष्यं व्याचष्टे —

न तावदिति ।

‘शरीरसंबन्धस्य धर्माधर्मयोरि’त्यादि ‘प्रसङ्गा’दित्यन्तं भाष्यं विवृणोति —

ताभ्यां त्विति ।

आत्मनि स्वतोऽ सिद्धाभ्यां धर्माधर्माभ्यां जन्यशरीरसंबन्धं प्रति प्रीयमाणे वादिनी सिद्धे शरीरसंबन्धे धर्मादिसंबन्धः तत्सिद्धौ शरीरादिसंबन्ध इति परस्पराश्रयं स्वपक्षे प्रापयतीत्यर्थः ।

धर्माधर्मव्यक्त्योः शरीरसंबन्धव्यक्तेश्चेतरेतरहेतुत्वे यद्यपीतरेतराश्रयः, तथापि न दोषोऽनादित्वादिति सत्कार्यवादी शङ्कते —

यद्युच्येतेति ।

तत्र नित्यसत्योर्व्यक्त्योर्न हेतुहेतुमत्ता, अभिव्यक्त्योस्तु कादाचित्क्योरितरेतराधीनत्वे एकस्या अप्यसिद्धेरन्धपरम्परातुल्यानादित्वकल्पना स्यादित्याह —

अन्धपरम्परेति ।

असत्कार्यवादी व्यक्तिभेदेनेतरेतराश्रयं परिहरतीत्याह —

यस्त्विति ।

किं त्वेष इति ।

इदानीन्तनशरीरसंबन्धहेतुरित्यर्थः ।

पूर्व एवात्मशरीरसंबन्धो विशेष्यते —

पूर्वधर्माधर्मभेदजन्मन इति ।

पूर्वाभ्यां धर्माधर्मविशेषाभ्यां जन्म यस्य स तथोक्तः ।

एष त्विति ।

वर्तमान इत्यर्थः ।

आत्मन्यध्यासप्रस्तावोक्तयुक्तिभिर्नैकोपि क्रियासंबन्धः, कथमनन्तव्यक्तिसंभव इति परिहरतीत्याह —

तं प्रत्याहेति ।

देहात्मसंबन्धहेतुर्मिथ्याभिमानः प्रत्यक्ष इत्युक्तम्, तदाक्षिप्य समाधत्ते —

ये त्विति ।

अप्रसिद्धवस्तुभेदस्यान्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्ताविति प्रतिज्ञाय संशयनिमित्तशब्दप्रत्ययोदाहरणं भाष्येऽनुपपन्नमित्याशङ्क्य भ्रान्तिशब्देन समारोप उक्तः ।

अस्ति च संशयस्यापि समारोपत्वमित्याह —

तत्र हि पुरुषत्वमिति ।

भ्रान्तेरप्युचितनिमित्तापेक्षणादकस्मादित्ययुक्तमित्याशङ्क्याह —

शुक्लभास्वरस्येति ।

साधारणधर्मिणी दृष्टे किं तन्मात्रं विपर्ययकारणमुत सादृश्यादिदोषमिलितम् ।

नाद्यः; धवलभास्वररूपस्य शुक्तिरजतसाधारण्ये सति व्यवहितरजतनिश्चयात् प्रागेव सन्निहितशुक्तिनिश्चयप्रसङ्गादित्यभिधाय द्वितीयं दूषयति —

संशयो वेति ।

समानो धर्मो यस्य स तथोक्तः ।

दृष्टेऽपि साधारणे धर्मिणि निश्चयः स्याद्यद्यन्यतरकोटिनिर्णायकं प्रमाणं स्यात्, स्थाणुत्व इव शाखादिदर्शनं, बाधकं वा प्रमाणं कोठ्यन्तरमुपलभ्येत, यथा तत्रैव पुरुषत्वविपरीते निश्चेष्टत्वादि, नैवमिहेत्याह —

उपलब्धीति ।

उपलब्धिः साधकं प्रमाणम्, अनुपलब्धिर्बाधकं, तयोरभावोऽत्राव्यवस्था । ततः संशयो वा युक्त इत्यधस्तनेनान्वयः ।

ननु विशेषद्वयस्मृतौ संशयः, इह तु रजतमेव स्मृतमिति विपर्यय एवेति, तत्राह —

विशेषद्वयेति ।

अत्र हेतुमाह —

संस्कारेति ।

इतिशब्दो हेतौ । उद्बुद्धः संस्कारो हि स्मृतिहेतुः तदुद्बोधहेतुश्च सादृश्यम्, तस्य द्विष्टत्वेन शुक्तिरजतोभयनिष्ठत्वेन हेतुनोभयत्रैतत्सादृश्यं तुल्यमिति यतोऽतः संशय एव युक्तः । न च रागाद्विपर्ययः; विरक्तस्यापि शुक्तौ रजतभ्रमादिति । एषात्र संशयसामग्र्यक्षपादेन वर्णिता – ‘‘समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशय’’ इति । समानधर्मः साधारणधर्मः । अनेकस्माद्व्यावृत्तो साधारणोऽनेकधर्मः ।

एवमिह विपर्ययनियामकं दृष्टं नास्तीत्युपपाद्याकस्माच्छब्द एवमभिप्राय इत्याह —

अत इति ।

कथं तर्हि दृश्यमानविपर्ययनियमः ? तत्राह —

अनेनेति ।

दृष्टं हेतुं प्रतिषिध्य कार्यनियमं प्रतिजानता भाष्यकारेणादृष्टं कर्म हेतुत्वेनार्थादुक्तमिति ।

ननु तदपि समं किं न स्यात्? तत्राह —

तच्चेति ।

श्रुतिस्मृतीरिति ।

श्रुतिं स्मृतिं चेत्यर्थः ।

साक्षात्कारो हि दृष्टं फलं, तादर्थ्यं मननादेर्वदन्भाष्यकारो विधिं न मृष्यत इत्याह —

तदिदमिति ।

अत्रैके वदन्ति — न दृष्टा श्रवणादेरवगत्युपायता; कृतश्रवणादीनामपि केषांचिदिह साक्षात्कारासमुन्मेषात्, तात्कालिकश्रवणादिविधुरवामदेवादेरप्यपरोक्षज्ञानसमुदयाच्च, जन्मान्तरकृतस्य च विधिमन्तरेण साधनभावानवकल्पनात्, श्रवणादिविध्यनभ्युपगमे च तद्विध्युररीकारप्रवृत्तप्रथमसूत्रतद्भाष्यकदर्थनादयुक्तस्तदनभ्युपगमः — इति । तत्र न तावदनुष्ठितसाधनस्येह फलादर्शनं तद्विधिव्याप्तम्; अनवरतं वैशेषिकाद्यसच्छास्त्रश्राविणामप्यपटुमतीनां  केषांचित्तच्छास्त्रार्थानवबोधदर्शनेऽपि तच्छ्रवणविध्यभावात् । नापि भवान्तरकृतकर्मण इह फलजनकता तद्विधिव्याप्ता; जातिस्मरस्य प्राचि भवे धनमुपार्ज्य भुवि निखन्य प्रमीतस्येह जन्मनि तदादाय भोगान्भुञ्जानस्यापि प्राग्भवीयधनोपार्जनायाः संप्रतितनफलार्थमविहिताया अपि हेतुभावोपलम्भात् । प्रथमसूत्रं तु शास्त्रीयविषयफलनिरूपकं न विधिविचारपरमिति । किंच — प्राधान्यं श्रवणादेर्न भवतामपि संमतम् । गुणकर्मत्वमत्रैव भाष्यकृद्भिर्निजुह्वुवे॥

‘यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येतेत्यादिनेति’

इत्युक्तमधस्तादिति ।

गान्धर्वशास्त्राभ्यासवदपूर्वानपेक्षया साक्षात्कारहेतुतोक्तेत्यर्थः । गुणकर्म ह्युपयोक्ष्यमाणशेषः; यथाऽवघातादि, उपयुक्तशेषो वा; यथा कृतप्रयोजनप्रयाजशेषाज्यस्य हविष्षु क्षारणं ‘प्रयाजशेषेण हवींष्यभिघारयेदिति’ विहितम् ।

तदिहात्मन उपयुक्तोपयोक्ष्यमाणत्वाभावान्न तद्विषयं मननादि गुणकर्मेत्याह —

तदपीति ।

न च श्रवणादिसंस्कृतस्यात्मनः साक्षात्कारजन्मन्यस्तूपयोग इति श्रवणादिगुणकर्मत्वसिद्धिः; अपूर्वोपयोगिन एव गुणकर्मत्वाद्, दृष्टे तु साक्षात्कारेऽपूर्वाभावेन तदयोगादिति । ननु बाह्यक्रियाविधिः प्रथमकाण्डे गतो मानसज्ञानविधिविचाराय पृथगारंभ इति शङ्कापोहार्थमारभ्यमाणं चेति भाष्यम्॥

अहं ब्रह्मास्मीति वाक्यस्य तदर्थस्य चेतरप्रमाणावसानत्वमयुक्तं, नित्यनिवृत्तिप्रसङ्गादित्याशङ्क्य ज्ञानपर इतिशब्द इत्याह —

इतिकरणेनेति ।

विधीनामद्वैतज्ञानविरोधं दर्शयति —

विधयो हीति ।

त्र्यंशा भावना हि धर्मः । तद्विषया विधयः साध्यादिभेदाधिष्ठानास्तद्विषयाः ।

अपि चैतेऽनुष्ठेयं धर्ममुपदिशन्तस्तदुत्पादिनः पुरुषेण तमनुष्ठापयन्तीति साध्यधर्माधिष्ठानास्तत्प्रमाणानीति यावत्, अतो नित्यसिद्धाद्वैतब्रह्मावगमे तेषां विरोध इत्याह —

धर्मोत्पादिन इति ।

नहीति ।

हेतुभाष्यस्य प्रतीकोपादानम् ।

नहीत्यादिनिर्विषयाणीत्यन्तं भाष्यं व्याख्याति —

अद्वैते हीति ।

विषयनिषेधो वाक्यार्थभेदः साध्यसाधनादिपदार्थभेदस्तम्भाद्यर्थभेदश्चाद्वैतावगतौ न भवतीति भाष्यार्थः ।

अप्रमातृकाणीत्येतद्व्याचष्टे —

न च कर्तृत्वमिति ।

ज्ञानकर्तृत्वमित्यर्थः । निर्विषयाण्यप्रमातृकाणीति बहुव्रीही विशेषणपरौ । तथा सति हि विषयप्रमातृनिषेधयोर्हेतुत्वसिद्धिः ।

भाष्ये चकारः करणनिषेधार्थ इत्याह —

तदिदमिति ।

भाष्यस्थप्रमाणशब्दो भावसाधनत्वेन ज्ञानवाची ततश्चकारेण करणनिषेधः ।

पुत्रादावहमित्यभिमानो गौणात्मा चेत्तर्हि मुख्यात्मना किं गुणसाम्यमत आह —

यथेति ।

वाहीको नाम देशविशेषस्तन्निवासी तच्छब्दोक्तः ।

पुत्रादेरुपकारकत्वारोपाद्य आत्माभिमानस्तस्मिन्निवृत्ते ममत्वबाधनेत्याह —

गौणात्मन इति ।

श्रवणादिप्रमाणबाधमुक्त्वा प्रमित्यभावमाह —

न केवलमिति ।

बोधीतीनन्तपाठो व्याख्यातः । सप्तम्यन्तस्तु निगदव्याख्यातः ।

नियतप्राक्सत्त्वं हि कारणत्वं, प्रमात्रादिश्च ज्ञानकारणं, तस्मिन् सकृदुदिततत्त्वसाक्षात्कारान्निवृत्ते नोर्ध्वं ज्ञानानुवृत्तिरित्यर्थपरत्वेन प्रथमार्धं व्याख्याय प्रमातृलये फलिनोऽभावाद् मोक्षस्यापुमर्थतेति शङ्कां द्वितीयार्धव्याख्यया निरस्यति —

न च प्रमातुरिति ।

अन्वेष्टव्यः परमात्माऽन्वेष्टुः प्रमातृत्वोपलक्षिताच्चिदेकरसान्न भिन्नस्ततोऽध्यस्तप्रमातृत्वबाधेऽप्युपलक्षित आत्मैव पापदोषादिरहितोऽन्विष्टो विदितः स्यादतो नोक्तदोष इत्यर्थः ।

ननु यद्यन्वेष्टुरात्मभूतं ब्रह्म, किमिति तर्हि संसारे न चकास्ति? तत्राह —

उक्तमिति ।

प्रमात्रादेस्तत्त्वज्ञानहेतुतां सिद्धवत्कृत्य ज्ञानात्तन्निवृत्तौ हेत्वभावात्फलाभाव उक्तः ।

स न, बाध्यस्य प्रमात्रादेः प्रमानुत्पादकत्वापाताद् इति शङ्कोत्तरत्वेन तृतीयश्लोकं व्याख्याति —

स्यादेतदिति ।

यदलीकं तन्न प्रमाहेतुरिति व्याप्तिं प्रशिथिलयति —

एतदुक्तमिति ।

य उत्पद्यतेऽनुभवो न स पारमार्थिको यः पारमार्थिको न स उत्पद्यतेऽतश्चाप्रमाणात्कथं पारमार्थिकानुभवोत्पत्तिरित्ययमिष्टप्रसङ्ग इत्याह —

नचायमिति ।

वृत्तावपि प्रतिबिम्बितचिदंशः सत्यो ऽस्ति, तत उक्तम् —

एकान्तत इति ।

ननु वृत्तिरूपसाक्षात्कारोऽलीकत्वादविद्यात्मकः कथमविद्यामुच्छिन्द्यादविद्या वा कथं स्वविरोधिनं तं जनयेदत आह —

अविद्या त्विति ।

अलीकस्यापि सत्यविषयत्वादविद्यानिवर्तकत्वोपपत्तिः, दृष्टं च स्वप्नोपलब्धव्याघ्नादीनां स्वोपादानाविद्यानिवर्तकत्वमिति भावः । अविद्यामयी वृत्तिर्यद्यविद्यामुच्छिन्द्यात्तामेव स्वनिवर्तिकामविद्यां जनयेद्वोभयथाप्युक्तमार्गेण न काचिदनुपपत्तिरित्यर्थः । विद्यां वृत्तिमविद्यां च कार्यकारणभावेन सहिते यो वेद सोऽविद्योपादानत्वेन तन्मय्या वृत्त्या तदुपादानं मृत्युमविद्यां तीर्त्वा स्वरूपभूतविद्योपलक्षितममृतमनुत इति श्रुतेरर्थः॥ भाष्योदाहृतश्रुतयो व्याख्यायन्ते । उत्तरत्रापि तत्तदधिकरणसमाप्तौ श्रुतयो व्याख्यास्यन्ते ।

सदेवेति ।

सदित्यस्तितामात्रमुक्तम् । एवशब्दोऽवधारणार्थः ।

किं तदवध्रियत इत्यत आह —

इदमिति ।

यदिदं व्याकृतं जगदुपलभ्यते तत्, अग्रे प्रागुत्पत्तेः विकृतरूपपरित्यागेन सदेवासीत्, हे सौम्य प्रियदर्शनेति श्वेतकेतुः पित्रा संबोध्यते ।

मा भूत्स्थूलं पृथिवीगोलकादीदम्बुद्धिग्राह्यं प्रागुत्पत्तेः, अन्यत्तु महदादिकं किमासीत्? नेत्याह —

एकमेवेति ।

स्वकार्यपतितमन्यन्नासीदित्यर्थः ।

मृदो घटाकारेण परिणमयितृकुम्भकारवत् किं सतोऽन्यन्निमित्तकारणमासीत्? नेत्याह —

अद्वितीयमिति ।

आप्नोतीत्यात्मा परमकारणं, वै इति जगतः प्रागवस्थां स्मारयति । इदमित्यादिपदव्याख्या पूर्ववत् । तदिति प्रकृत आत्मा परामृश्यते, य इन्द्रो मायाभिः पुरुरूप ईयत इत्युक्तः । नपुंसकप्रयोगस्तु विधेयब्रह्मापेक्षः ।

तदेतदेव यद्ब्रह्म तद्वा किंलक्षणमित्यत आह —

अपूर्वमिति ।

नास्य पूर्वं कारणं विद्यत इत्यपूर्वम्, अकार्यमित्यर्थः । तथा नास्यापरं कार्यं वास्तवं विद्यत इत्यनपरम्, अकारणमिति यावत् । नास्यान्तरं जात्यन्तरम् अन्तराले विद्यत इत्यनन्तरम्, दाडिमादिवत्स्वगतरसान्तरविधुरमित्यर्थः । एवंविधमन्यदपि कूटस्थमेतदनात्मकतया बाह्यमस्य न विद्यत इत्यबाह्यमिति । यत्पुरस्ताद् दृश्यमविद्यादृष्टीनामब्रह्मेव प्रतिभासते, तत्सर्वमिदममृतं ब्रह्मैव वस्तुत इत्यर्थः । तथा पश्चाद्दक्षिणतः इत्यादिमन्त्रशेषेण सर्वात्मत्वमवगन्तव्यम्॥ संपतत्यस्मादमुं लोकं फलभोगायेति संपातः कर्म, तद्यावत्तावदुषित्वा आवर्तत इति । इष्टं श्रौतम् । पूर्तं स्मार्तम् । दत्तं दानम्॥ परमार्थतः शरीरसंबन्धरहितं वाव एव सन्तं भवन्तम् तमात्मानं वैषयिके प्रियाप्रिये न स्पृशतः । । एवं परमार्थतोऽशरीरं शरीरेष्वनवस्थेष्वनित्येष्ववस्थितं नित्यं, महान्तम् ।

??महत्त्वमापेक्षिकमित्याशङ्क्याह —

विभुम् ॥

मन्तृमन्तव्यभेदनिषेधार्थमाह —

आत्मानमिति ।

ईदृशमात्मानं मत्वा धीरो धीमान्न शोचति॥ प्राणः क्रियाशक्तिः परमार्थतो न विद्यते यस्य सोऽप्राणः । तथा ज्ञानशक्तिमन्मनो यस्य नास्ति सोऽमनाः । क्रियाशक्तिमत्प्राणनिषेधेन तत्प्रधानानि कर्मेन्द्रियाणि, ज्ञानशक्तिमन्मनोनिषेधेन तत्प्रधानानि ज्ञानेन्द्रियाणि च सविषयाणि निषिद्धानि । यस्मादेवं तस्माच्छुभ्रः शुद्ध इति । स्वप्नाद्यवस्थाकृतकर्मस्वकर्तात्मेत्युक्तं स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन भवतीति पूर्ववाक्ये ।

तत्र हेतुरुच्यते —

असङ्गो हीति ।

मूर्तं हि मूर्तान्तरेण संसृज्यमानं सृज्यते । आत्मा स्वयं पुरुषो न मूर्तः । अतो न केनचित्सृज्यत इत्यसङ्गः । अतो न कर्तेति॥ धर्मादधर्मात्तत्फलसुखदुःखाच्च कृतात् कार्यप्रपञ्चाद् अकृतात्कारणाद् अन्यत्र पृथक् भूतं भूतादेः कालादन्यत्र तेनानवच्छेद्यं, चेत्पश्यसि तद्वदेति मृत्युं प्रति नचिकेतसः प्रश्नः॥ अस्य विदुषोऽप्रवृत्तफलानि कर्माणि, तस्मिन् परावरे ब्रह्मणि आत्मत्वेन दृष्टे क्षीयन्ते । परं कारणम् । अवरं कार्यम् । तद्रूपे तदधिष्ठाने ॥ ब्रह्मणः स्वभावमानन्दं विद्वान् । यदस्मिन्देहे जलसूर्यवत् प्रविष्टं ब्रह्म जीवाभिधं तदाचार्येण बोध्यमानमात्मानमेव विधूतकल्पनमवेद् विदितवत् । किं साङ्ख्यमत इव द्वैतमध्ये? न, अपि तु अहं ब्रह्माद्वितीयमस्मीति । तस्मादेव विज्ञानादविद्याकृतासर्वत्वनिवृत्त्या तद् ब्रह्म सर्वमभवत्॥ यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानत इति यः सर्वात्मभावो विद्याभिव्यक्त उक्तः, तत्रात्मनि तत्र चाज्ञानकाले आत्मैकत्वं पश्यतः को मोहः । तत्पदलक्ष्यं ब्रह्म एतदात्मभावेनावस्थितमहमस्मीति पश्यन्नेतस्मादेव दर्शनादृष्टिः वामदेवाख्यः परं ब्रह्म अविद्यानिवृत्तिद्वारा प्रतिपन्नवान् किलेति । हशब्दो व्यवधानेन संबन्धनीयः । स एतस्मिन्दर्शने स्थितः सर्वात्मभावप्रकाशकानहं मनुरित्यादीन्मन्त्रांश्च ददर्श॥ भारद्वाजादयः षडृषयः परं विद्याप्रदं पिप्पलादं गुरुं विद्यानिष्क्रयार्थमनुरूपमन्यदपश्यन्तः पादयोः प्रणम्य प्रोचुः । त्वं ह्यास्माकं पिता ब्रह्मशरीरस्याजरामरस्य विद्याया जनयितृत्वाद्, इतरौ तु शरीरमेव जनयतः । जनयितृत्वमपि सिद्धस्यैवाविद्यानिवृत्तिमुखेनेत्याह — यस्त्वं नः । अस्मानविद्यामहोदधेः परमपुनरावृत्तिलक्षणं पारं तारयसि विद्याबलेनेति प्रश्नोपनिषत्॥ श्रुतं ह्येव मे इत्यादिच्छन्दोगश्रुतिः सनत्कुमारनारदसंवादरूपा । तत्रापि तारयत्वित्यन्तमुपक्रमस्थं वाक्यं शेषमाख्यायिकोपसंहारस्थं वाक्यान्तरम् । मे मम भगवद्दृशेभ्यो भगवत्सदृशेभ्यः । इदं श्रुतम् । यत्तरति शोकं मनस्तापमकृतार्थबुद्धिमात्मविदिति । सोऽहमनात्मवित्त्वाच्छोचामि अतस्तं मां शोकसागरस्य पारमन्तं भगवांस्तारयतु आत्मज्ञानोडुपेनेति । वल्कलादिवच्चित्तरञ्जको रागादिकषायो मृदितः क्षालितो विनाशितो यस्य ज्ञानवैराग्याभ्यासक्षारजलेन तस्मै नारदाय तमसोऽविद्यालक्षणस्य पारं परमार्थतत्त्वं दर्शितवान्॥ संवर्गविद्यायां श्रूयते । वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति उपशाम्यति वायुमेवाप्येति प्रलीयते यदा सूर्योऽस्तमेति वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति वायुमेवाप्येति । यदाऽप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान्संवृङ्क्ते इत्याधिदैवतम् । अथाध्यात्मम् — प्राणोवाव संवर्गो यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मन इति । तद् ब्रह्मविदि तत्कार्यादन्यदेव । अथो अपि अविदितात्कारणात् अधि उपरि अन्यदित्यर्थः । येन प्रमात्रा इदं सर्वं वस्तु विजानाति लोकः, तं केन करणेन विजानीयात्? करणस्य ज्ञेयविषयत्वात्प्रमातरि वृत्त्यनुपपत्तेः । तस्मात्प्रमातापि न ज्ञेयः किन्तु तत्साक्षीत्यर्थः । यद्वाचा शब्देनानभ्युदितम् अप्रकाशितम् ।

येन ब्रह्मणा सा वागभ्युद्यते प्रकाश्यते इत्यविषयत्वम् उपन्यस्याह —

??।

तदेवात्मभूतम् प्रमातृत्वादिकल्पना अपोह्येत्येवकारार्थः । ब्रह्म महत्तममिति त्वं विद्धि, हे शिष्य यदुपाधिविशिष्टं देवतादीदमित्युपासते जनाः इदं त्वं ब्रह्म न विद्धीति । यस्य ब्रह्मामतमविषय इति निश्चयः, तस्य तद् ब्रह्म मतं सम्यग् ज्ञातं यस्य पुनर्मतं विषयतया मतं ब्रह्मेति मतिर्न, स वेद ब्रह्मभेदबुद्धित्वात् । एतौ विद्वदविद्वत्पक्षावनुवदति — अनियमार्थम् । अविज्ञातमिति विषयत्वेनाविज्ञातमेव ब्रह्म सम्यग्विजानतां विज्ञातमेव विषयतया भवति यथावदविजानताम् । दृष्टेश्चक्षुर्जन्यायाः कर्मभूताया द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्ययाऽनया न पश्येः । विज्ञातेर्बुद्धिधर्मस्य निश्चयस्य विज्ञातारमिति पूर्ववत् । तयोर्जीवपरयोर्मध्ये एको जीवः पिप्पलं कर्मफलम् अन्यः परमात्माऽभिचाकशीति पश्यत्येव नात्ति । आत्मीयं शरीरम् आत्मा शरीरादिसंयुक्तमात्मानमित्यर्थः । एको देवो गूढः । छन्नः । सर्वव्यापित्वं न गगनवत्, किंतु सर्वभूतान्तरात्मा, कर्माध्यक्षः कर्मफलप्रदाता, सर्वभूतानामधिवासोऽधिष्ठानम् ।

साक्षित्वे हेतुश्चेतेति ।

चैतन्यस्वभाव इत्यर्थः । केवलो दृश्यवर्जितः निर्गुणो ज्ञानादिगुणवान् न भवति॥    स आत्मा, परितः समन्तात् अगात्सर्वगतः शुक्रमित्यादयः शब्दाः पुल्लिङ्गत्वेन परिणेयाः; स इत्युपक्रमात् । अकायो लिङ्गशरीरवर्जितः । अव्रणोऽक्षतः । अस्नाविरः शिररहितः । अव्रणास्नाविरत्वाभ्यां स्थूलदेहराहित्यमुक्तम् ।

शुक्र इति ।

बाह्यशुद्धिविरहउक्तः । शुद्ध इत्यान्तररागाद्यभावः । अपापविद्धो धर्माऽधर्मरहितः । भाष्येऽनाधेयातिशयत्वनित्यशुद्धत्वयोः पूर्वसिद्धवदुक्तहेत्वोः सिद्धिमेतौ मन्त्रौ दर्शयत इति बोद्धव्यम् । आत्मानं साक्षिणमयं परमात्माऽस्मीत्यपरोक्षतया जानीयाच्चेत्, कश्चित्पुरुषः चेच्छब्दः आत्मसाक्षात्कारस्य दुर्लभत्वप्रदर्शनार्थः । स स्वव्यतिरिक्तमात्मनः किं फलमिच्छुः कस्य वा पुत्रादेः कामाय प्रयोजनाय, तदलाभनिमित्ततया शरीरं संतप्यमानमनु तदुपाधिः सन् संज्वरेत् संतप्येत । निरुपाध्यात्मदर्शिनो नान्यदस्ति प्रयोजनं नाप्यन्यः पुत्रादिरित्याक्षेपः । य आत्मा चतुर्थेऽथात आदेशो नेति नेतीति वाक्येन विश्वदृश्यनिषेधेन व्याख्यातः स एष पञ्चमेऽध्याये निरुप्यत इत्यर्थः । यथेन्द्रियादिभ्यः परं परमासीन्नैवं पुरुषादस्ति किंचित्परं सा पुरुषलक्षणा काष्ठावधिः सूक्ष्मत्वमहत्वादेः सैव गतिः परः पुरुषार्थः । यस्योदाहृतसविशेषब्रह्मणा । पृथिव्येव यस्यायतनमित्युपक्रम्योपन्यस्तानामधिष्ठानं तमौपनिषदमुपनिषद्भिरेव विज्ञेयम् । विशेषणस्य व्यावर्तकत्वादयमर्थो लभ्यते । पुरुषं त्वा त्वां पृच्छामि हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः । ‘अत्र ब्रह्म समश्नुत’ इति  पूर्ववाक्ये जीवन्मुक्तिरुक्ता । तत्र देहे वर्तमानोऽपि पूर्ववन्न संसारीत्यत्र दृष्टान्तः । तत्तत्र यथाऽहिनिर्ल्वयिनी अहित्वग् वल्मीकादौ प्रत्यस्ता प्रक्षिप्ता मृता प्राग्वदहिनात्मत्वेनानभिमता शयीत वर्तेत एवमेवेदं विद्वच्छरीरं मुक्तेन पूर्ववदात्मत्वेनानभिमतं शेते । अथायं सर्पस्थानीयो जीवन्मुक्तः शरीरे वर्तमानोऽप्यशरीरः । अहिरपि हि त्यक्तत्वचा संयुक्तोऽपि तामहमिति नाभिमन्यते । अशरीरत्वादेवामृतः प्राणिति जीवतीति प्राणः निरुपाधिः सन्नित्यर्थः । एवंच ब्रह्मैव तच्च ब्रह्मतेज एव विज्ञानज्योतिः परमार्थविवेकतोऽचक्षुरपि बाधितानुवृत्त्या सचक्षुरिवेत्यादिश्रुत्यन्तरयोजना॥ इति वेदान्तकल्पतरौ चतुस्सूत्री समाप्ता॥

जैमिनीति ; तावन्मात्रार्थत्वे इति॥ ; भाव इति ; फलसंबन्धबोधनमिति ; विनियोगोऽत्रेति ; फलसंबन्ध इति ; अग्निहोत्रमिति ; तस्मादधिकारविधित इति ; अपि त्विति ; नत्वन्तरावाक्य इति ; आलस्य मिति ; उपांशुयाजमाज्यद्रव्यकं विधायेति ; तथाहीति ; कर्मतया च देवतात्वमिति ; तस्मादिति ; ऐतरेयके इति ; स एतमेवेति ; वेदान्ता यदीति ; अथ पुरुषबुद्धिप्रभवतयेति ; एवं तर्हीति ; यद्युच्येतेति ; तस्यैवेति ; कार्ये मानान्तरायोग्यत्वस्यासिद्धत्वादिति ; अकार्यार्थत्वं समानमिति ; स्मर्यमाण कर्तृकत्वेनेति ; सिद्धार्थवेदान्तेष्वपीति ; कार्यरूपेति ; व्याप्त्यभावेनेति ; निन्दा न भातीति ; अथवेति ; वृद्धैरिति ; पर्यायत्वमाशङ्क्येति ; नियोगाविनाऽभावादिति ; स्वप्रतीत्युपाधित्वेन विषयस्येति ; स्वनिवर्त्तकत्वेन करणस्येति ; न श्रौतत्वमात्मन इति ; श्रौतत्वे इति ; न च सत्यां गताविति ; अपूर्वदेवतेति ; एवं काम इत्यश्रवणादिति ; प्रतिष्ठाफलस्य निर्देशादिति ; नैमित्तिकाधिकारे इति ; यद्यपीति ; तत्र नयतेरिति ; तर्हि वाजिनमपीति ; तस्यामस्तीति ; वेदान्ता यद्युपासनाविधिपरा इति ; अधर्मफलं भोक्तव्यमिति ; देवदत्तशरीरेति ; कारीर्यादिनियोगा इति ; चित्रादिनियोगफलमिति ; नेह परमापूर्ववदिति ; विश्वजितेति ; इह तु विषयेणेति ; उच्यत इति ; किं सर्वेषामिति ; अन्तर्भावादिति ; अनवच्छिन्नस्येति ; विशेषे मानाभावादिति ; कृत्वाचिन्तेति ; अवगुरणोपरमे इति ; प्रायश्चित्ततयेति ; व्यभिचारयतीति ; ऐकान्तिकेति ; द्वितीयमाशङ्क्याहेति ; कटकत्वेति ; अनंशत्वमिति ; कार्यविलक्षणेति ; स्वमते इति ; तद्यदीति ; उपपाद्येत्यस्येति ; एवं फलस्वभावेनेति ; विहितक्रिया रूपेणेति ; आरोप्यप्रधानेति ; योहीति ; अन्यादेरुपलक्षणत्वादिति ; सर्वस्मै वेति ; फलकल्पनाभयादिति ; क्रतुनिवेश इति ; द्रव्यदेवतेति ; सिद्धान्तस्त्विति ; इत्युक्तमध्यासभाष्ये इति ; संयोगविभागातिरिक्तेति ; औपाधिकं त्विति ; तच्छब्दाध्याहारेण योजयितुमिति ; विध्यर्थेति ; श्रवणं हीति ; विषयविशेषावच्छिन्नस्येति ; युक्त्यालोचनस्येति ; उपासनस्यापीति ; न कार्यविषयाणीत्यर्थ इति ; प्रतीतिजनकत्वसाधन इति ; यत्तच्छन्दावपीति ; व्यवहितमपीति ; य आत्मेति ; निरूप्यत इति ; विनश्यत्स्विति ; औपनिषदस्येति ; अनुषङ्गेणेति ; भाष्योक्तादेव हेतोरित्यर्थ इति ; कल्पितस्येति ; वेदस्येति ; प्रतिषिध्यमानेतीति ; शाबरेति ; अयमभिसंधिरिति ; अनविनाभाविभिरपीति ; अत्रोच्यत इति ; आकाङ्क्षासत्तीति ; नन्वित्यादिना ; व्युत्पत्तिनियममिति ; तथाहीति ; कथमपरथेति ; अस्ति किलेति ; पचतीति ; उत्पादनायामिति ; प्रयत्नविषय इति ; तत्र हेतुमाहेति ; तत्रापीति ; पदस्मारितेति ; अत्रायमर्थ इति ; अविशेषेणेति ; भावार्थशब्देभ्यः एवेति ; भावो भावनेत्यादिभ्य इति ; कर्मशब्दा इत्युक्तमिति ; याग इत्येवमादिभ्य इति ; तेभ्योऽपूर्वं प्रतीयेत इति ; एष हीति ; इति न्यायात् इति ; द्रव्यदेवताख्येति ; इतरत्रेति ; समुदायानुवाद इति ; प्रत्यक्षे यागे इति ; अरूपत्वादिति ; नह्यत्रेति ; अनुष्ठयार्थप्रतीतेरिति ; गुणविधानार्थत्वादिति ; नन्वव्यापारोऽपीति ; उद्देश्यतयेति ; लक्ष्यनिर्देश इति ; वृत्रघ्ननपदवत्याविति ; वृधन्वत्पदवत्याविति ; प्रक्रियत इति ; अविरोधादिति ; काले हीति ; द्वित्वोपपादनमिति ; अविसंवादार्थमिति ; नामधात्वर्थेति ; तत्राप्रतीतोऽपीति ; लक्षणीय इति ; सर्वक्रियेति ; ईक्षतीति ; संकोचकमिति ; शाखाचंक्रमनिरासार्थमिति ; कर्तव्यत्वाभावबोधस्येति ; इष्टसाधनत्वप्रयुक्तकर्तव्यताया इति ; शब्दादीनामिति ; प्रत्यक्षव्यवहारे इति ; अन्वयव्यतिरेकेति ; व्यापारो लोकसिद्ध इति ; श्रुतेष्टसाधनत्वाभावोपपत्तये इति ; उद्यमक्रियाया इति ; यद्धन्यात्तन्नेतीति ; एषा चेति ; अभावत्वात्तथेति ; अनादित्वादिति सत्कार्यवादी शङ्कत इति ; अन्धपरम्परेति ; संशयनिमित्तेति ; उचितनिमित्तापेक्षणादिति ; साधारणधर्मणि दृष्टे इति ; द्वितीयं दूषयतीति ; समानो धर्मो यस्येति ; न च रागादिति ; समानानेकधर्मेति ; अनेकस्माद्यावृत्त इति ; तत्रेति ; कृतप्रयोजनेति ; अपूर्वेति ; त्र्यंशा भावना हि धर्म इति ; स्वप्नोपलब्धेति ; अविद्यामिति ;

तत्तु समन्वयात्॥४॥

जैमिनीति ।

जैमिनिना हि 'आम्नायस्य क्रियार्थत्वात्' ( जै. अ.१ पा. २ सू. १) इत्यादिसूत्रेण कृत्स्नस्याम्नायस्य प्रयोजनपर्यवसानाय क्रियार्थत्वावश्यंभावात् अक्रियार्थानामानर्थक्यं निष्प्रयोजनत्वं, तस्मादक्रियार्थम् अर्थवादजातमनित्यमप्रमाणमुच्यत इति पूर्वपक्षं कृत्वा, 'विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः' (जै, अ.१पा. २ सू. २) इति सूत्रेण विधिवाक्येनैकवाक्यत्वादर्थवादाः विधीनां स्तुतिरूपेणार्थेन सप्रयोजनाः स्युरिति अक्रियार्थानामानर्थक्यं पूर्वपक्ष्युक्तमङ्गीकृत्यैव अर्थवादानां विध्येकवाक्यतया प्रामाण्यमुपपादितम् । इदं तु जैमिन्यभिमतम् । अक्रियार्थानामानर्थक्यं न्यायविरुद्धमप्रामाणिकमिति सिद्धान्ते दूष्यमेव । अतो दूष्यसूत्रोपन्यासः सिद्धान्तिनस्तस्मिन्नर्थे विश्वासार्हो न भवतीत्यर्थः ।

ननूपायान्तरेणापि प्रयोगसमये स्मृतिर्भवतु, मन्त्रेणापि कदाचित् स्मृतिरुपपद्यत इति तदर्थे मन्त्राम्नानं स्यादित्याश माह –

तावन्मात्रार्थत्वे इति॥

भाव इति ।

भावयतेः घञि 'णेरनिटीति णिलोपे भावशब्दो भावनावाची स्याद् भवतेः घञि तु भावशब्दो भवनवाची स्यात् ।

फलसंबन्धबोधनमिति ।

फलपुरुषसंबन्धबोधनमित्यर्थः । अन्यगामिनि फले प्रेरणाऽयोगात् प्रवर्तकस्वभावो विधिः फलस्य पुरुषसंबन्धं गमयतीत्येवमधिकारो विध्यधीनः ।

विनियोगोऽत्रेति ।

क्रियायाः फलशेषत्वस्येवाङ्गानां प्रधानशेषत्वस्यापि बोधनं विनियोग एव, स्थालीपुलाकन्यायेन त्वेकोपादानम् ।

फलसंबन्ध इति ।

फलस्य कर्तृपुरुषगामित्वं तेनानुष्ठेयायाः क्रियायाः फलकरणत्वरूपं विनियोगमन्तरेण न भवतीत्यर्थः ।

उत्पत्तिविधिनाऽधिकारादिप्रतीतिमुदाहरति –

अग्निहोत्रमिति ।

उत्पत्तिविधे: अग्निहोत्रस्वरूपज्ञानमानपरत्वे किमग्निहोत्रं कर्तव्यमिति तदर्थः, उताग्निहोत्रमभूदित्यादिः । नाद्यः, क्लेशात्मके कर्मणि स्वतः प्रेरणानुपपत्तेः । न द्वितीयः, विधिविरोधात् । कालत्रयानवमृष्टे विधिप्रवृत्तेरित्यर्थः ।

तस्मादधिकारविधित इति ।

'अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यधिकारविधिरग्निहोत्रनामकेन होमेन स्वर्गं भावयेत् इत्येवमर्थकः । फलस्यान्यगामित्वे तदर्थं प्रेरणानुपपत्तेस्तस्य कर्तृसंबन्धं बोधयन्नेव तेनानुष्ठातुं शक्यायाः होमक्रियायाः फलशेषत्वरूपं विनियोगमपि बोधयतीत्येवनम् अधिकारविधिसिद्धविनियोगांशे अनुवादरूपोऽयमुत्पत्तिविधिः कर्मस्वरूपज्ञापनमात्रप्रयोजनो भवतीत्यर्थः ।

अपि त्विति ।

प्रत्यक्षविरुद्धार्थत्वरूपविपरीतार्थत्वदोषोऽपि परिहृतो भवतीत्यर्थः ।

नत्वन्तरावाक्य इति ।

यद्यपि यागविधौ स्थिते ध्रौवाज्यं द्रव्यं लभ्यते; तथापि देवताया अलाभाद् वर्तमानापदेशाच्च यागविध्यसंभवे द्रव्यलाभो दूरापास्त इति भावः ।

आलस्य मिति ।

दशमाध्याये "अजामिकरणार्थत्वाच्चेति" (ज. अ. १० पा. ८ सू. ६३) सूत्रभाष्ये जामिता सादृश्यमिति व्याख्यातम् । तत्रैव नयविवेके जामितासादृश्यमेकरूपा हि द्विःक्रियेति तेन कृताकृताननुसन्धिदोष इति सादृश्यस्य दोषपर्यवसायित्वमुपपादितम् । इह त्वेकरूपायाः क्रियायाः पुनः पुनरनुष्ठाने तन्द्रा स्यादिति भाष्योक्तस्यैव सादृश्यस्य दोषत्वपर्यवसानमात्रं प्रकारान्तरेणोक्तमिति न भाष्यविरोधः । न्यायसुधायामप्येवमेवोक्तम् । 'सादृश्यस्य नैरन्तर्यानुष्ठाने सत्यालस्य अपादकत्वेन दोषत्वादिति । किन्तु तत्र सौन्दर्यवाची जामिशब्दः, तस्य सादृश्ये लक्षणेत्युक्तमिति विशेषः ।

उपांशुयाजमाज्यद्रव्यकं विधायेति ।

अत्र अन्तरावाक्यविष्ण्वादिवाक्यसाधारण्येन उपांशुगुणकयागविधानमात्रं विवक्षितं, न त्वन्तरावाक्येन उपांशुयाजविधानम् । अन्तरावाक्यमेव यागविधायकं न विष्ण्वादिवाक्यत्रयमित्यस्य अर्थस्य प्रसाधयिष्यमाणकवाक्यतासियधीनत्वात् ततः प्राक् अन्तरावाक्यं विष्ण्वादिवाक्यत्रयं वा यत्किंचिद्ध्रौवाज्यप्राप्तिमदुपांशुधर्मकयागविधायकमस्ति इत्येतावत्येवांशे संप्रतिपत्तेः । ननु जामितादोषोपक्रमतत्प्रतीकारोपसंहाराभ्यामेकवाक्यता नावसीयते, येन तत्संरक्षणार्थमन्तरावाक्यं विधायकमिति निर्णीयेत, किन्तु विष्ण्वादिवाक्येषु प्रत्येकं जामिताप्रतीकारनिबन्धनात् वाक्यभेद एवावसीयते; तदनुसारेणोपक्रमे जामितादोषोक्तेरपि विष्ण्वादिवाक्यविधेययागत्रयस्तुत्यर्थत्वावगमात् ।

न खलु अस्मिन् जले स्नानेन प्रतिश्यायो भवति' नयनयोरञ्जनं कुर्यात् प्रतिश्यायपरिहाराय, 'पिप्पलीचूर्णयुक्तं नारिकेलोदकं सेवेत प्रतिश्यायपरिहाराय', "मरीचचूर्णयुक्तं क्षीरं पिबेत्प्रतिश्यायपरिहारायेति', प्रत्येकं प्रतिश्यायप्रतीकारार्थतया अञ्जनादिविधाने प्रतिश्यायदोषोपक्रमतत्प्रतीकारोपसंहारमात्रेण एकवाक्यता भवतीत्याशङ्कयाह –

तथाहीति ।

विष्ण्वादिवाक्येषु यागविधाने कर्मप्रधानतव्यप्रत्ययबलात् विष्ण्वादिदेवतासंस्कारार्थयागविधानं झटिति प्रतीतं स्यात्, अतः संस्कृतदेवताविनियोगादर्शनेन ततः परावृत्य यागानामर्थकर्मभावेन प्राधान्यं लक्षणीयमिति तेषु विलम्बिताः प्रधानभूतयागविधयः । अन्तरावाक्ये तु यागस्य अन्योपसर्जनत्वं न श्रुतमिति प्रधानभूतस्य तस्य पञ्चमलकारकल्पनेन विधिः शीघ्रतरः, जामिता दोषपरिहारोपयुक्तान्तरालकालयुक्तश्च; पुरोडाशद्वयनैरन्तर्यात् । जामितादोषोपन्यासेन ह्युपक्रम एवैतदवगतमुपन्यस्तदोषसमाधानार्थम् अन्तराले किंचिद्विधित्सितमिति । तद्यद्यन्तरावाक्यं विहाय विष्ण्वादिवाक्येषु विधिराश्रीयेत, तदोपक्रमानुगुण्यं न स्यात् । न हि नैरन्तर्यप्रयुक्तदोषस्य अन्तराले कर्मान्तरविधानेनेव विष्ण्वादियजनविधानेन समाधानं प्रतीयते । प्रतिश्यायादिवाक्येषु तु नैवं कर्मप्राधान्यप्रतीतिः । न च उपक्रान्तदोषसमाधानसामावगतिविषययुक्तविध्यन्तरवणमस्तीति तत्र वाक्यभेदेऽपि नात्र तद्भेदः समाश्रयणीयः । तस्मान्मन्नवर्णप्राप्तविष्ण्वादियागेन प्रशंसार्थेऽर्थवादत्रये प्रत्येकम् आम्नातमप्यजामिकरणं तदन्वयद्वारा विधायकेऽन्तरावाक्य एवान्वेति । अत एव तैत्तिरीयशाखायाम् उपांशुयाजमन्तरा यजतीत्यन्तरावाक्य एवाजामिकरणमाम्नातम् । इह त्वर्थवादत्रये अजामिकरणाभ्यासः तदृढीकरणाय भविष्यतीति न तदनुरोधेन वाक्यभेदशङ्कावकाशः ।

कर्मतया च देवतात्वमिति ।

लक्षणीयमित्यनुषङ्गः ।

तस्मादिति ।

अपूर्वत्वाद्यागे एव विध्यपेक्षा, न विष्ण्वादिदेवतास्वपि मन्त्रवर्णतः प्राप्तिसंभवादिति भावः॥ सामवेदे सार्वात्म्यविषयौ उपक्रमोपसंहारौ दर्शितौ ।

ऋग्वेदादिष्वपि तौ दर्शयति –

ऐतरेयके इति ।

ऐतरेये इति तु न पाठः, इतराया अपत्यमैतरेयः, तेन प्रोक्तां शाखामधीयत इति ऐतरेयिणः । तेन प्रोक्तमित्यर्थे "पुराणोक्तेषु ब्राह्मणकल्पेष्वि"ति सूत्रेण णिनिप्रत्यये सति तदधीत इत्यर्थे विहितस्य प्रत्ययस्य 'प्रोक्ताल्लगिति सूत्रेण प्रोक्तप्रत्ययान्तस्य लुग्विधायकेन लोपे सति निष्पत्तेः॥ ततश्च ऐतरेयिणामाम्नाय इत्यर्थे "गोत्रचरणावुञिति वुञ्प्रत्यये सति हि ऐतरेयके इति भाव्यम् ।

स एतमेवेति ।

अनेन वाक्येन प्रत्यगात्मैव ब्रह्मेत्युपक्रान्तम्, तदुपसंहारे च प्रज्ञानशब्दो जीवपरः । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानीति प्राक् प्रज्ञानशब्देन जीवस्य निर्दिष्टत्वात् ।

वेदान्ता यदीति ।

वेदान्तानां सापेक्षत्वप्रसंजकस्य भूतार्थत्वहेतोः पौरुषेयत्वेन सोपाधिकत्वम् । अयमभिसंधिरित्यारभ्य प्रवृत्तेन टीकाग्रन्थेनोच्यमानं, परिनिष्ठितवस्तुविषयत्वेऽपीति भाष्यगतापिशब्देन भूतार्थत्वस्य सापेक्षत्वव्यभिचारं दर्शयता उक्तसाध्यप्रयोजकान्तरसद्भावसूचनेन द्योत्यत इत्येतदभिसंधिशब्देनाहेत्यर्थः । ननु अयमभिसंधिः इत्यादिटीकाग्रन्थस्य उक्तरीत्या उपाध्युद्भावनपरत्वेनावतारणमयुक्तम् । तस्य ग्रन्थस्य सापेक्षत्वापादने भूतार्थत्वप्रसङ्गहेतुः पौरुषेयत्वं वेति विकल्प्य, प्रथमपक्षं व्यभिचारेण निरस्याथेत्यादिग्रन्थेन द्वितीयपक्षमुद्भाव्य, तं पक्षं वेदान्तानां पौरुषेयत्वं नास्तीति प्रसङ्गहेत्वसंमत्या दूषयित्वा, भूतार्थत्वे मानान्तरेण शक्यग्रहत्वात्पौरुषेयत्वमपि स्यादिति प्रसङ्गहेतोरप्यापादनशङ्कां यद्युच्येतेत्यादिग्रन्थेन उद्भाव्य, तर्हि कार्यार्थत्वेऽपि तत एव हेतोः तत्स्यादित्येतदर्थप्रतिपादकतयैव तस्य ग्रन्थस्य प्रवृत्तेः, तस्य पौरुषेयत्वोपाध्युद्भावनपरत्वे तमुपाधिमसहमानस्य पूर्वपक्षिणः सापेक्षत्वे पौरुषेयत्वं प्रयोजकम् इत्युक्त्यसंभवेन अथेत्यादिशङ्काग्रन्थस्य अनन्वयप्रसङ्गाच्च, यद्युच्येतेत्यादिशङ्काग्रन्थोपसंहारे । तस्मात् पौरुषेयत्वेन सापेक्षत्वं दुर्वारम् । ननु भूतार्थत्वेनेति भूतार्थत्वं हेतुं परित्यज्य पौरुषेयत्वस्य हेतुतयैवोपादानस्य स्पष्टीकरणाच्चेति चेत्, उच्यते, टीकायां भूतार्थतया खलु सापेक्षत्वमाशङ्क्यते इत्यनुवादानन्तरं भूतार्थतया वेदान्तानां सापेक्षत्वम्, उत पौरुषेयतयेति विकल्पो न प्रसरति । भूतार्थत्वहेतौ व्यभिचारेण दूषिते तत्रैव वाक्यत्वविशेषणाशङ्कां विहाय वाक्यत्वविशेषितभूतार्थत्वहेतुना प्रसाधनीयस्य पौरुषेयत्वस्य हेत्वन्तरस्य शङ्का च न सामाञ्जस्यमश्नुते । तस्मात् पौरुषेयत्वमुपाधिमुद्भावयिष्यतो गूढाभिसन्धेः सिद्धान्तिनोऽयं विकल्पः । दृष्टान्तीकृतेषु पुंवाक्येषु सापेक्षत्वे, त्वदीयसाधनं भूतार्थत्वं प्रयोजकम्, मदुद्भावनीयोपाधिरूपं पौरुषेयत्वं वेति । अत एव पक्षे हेतुविकल्पोऽयं न भवति । किन्तु दृष्टान्ते साध्यप्रयोजकधर्मविकल्प इति दर्शयितुमेव टीकायां 'पुंवाक्यनिदर्शनेन हीति' 'पुंवाक्यानामिति च विशेषितम् ।

ततः प्रथमपक्षे व्यभिचारेण दूषिते तत्र वाक्यत्वविशेषणे कृतेऽपि सिद्धान्ती पौरुषेयत्वमुपाधिं ब्रूयादिति तं पक्षं परित्यज्य तदभिमतमुपाधिं साधनव्यापकत्वेनानुपाधिं व्यवस्थापयिष्याम इति मन्यमानस्य पूर्वपक्षिणः पक्षान्तरपरिग्रहाशङ्का –

अथ पुरुषबुद्धिप्रभवतयेति ।

पौरुषेयत्वस्य सापेक्षत्वप्रयोजकत्वमङ्गीकृत्य तस्य वेदान्तेष्वभावेन साधनाव्यापकतयोपाधित्वोद्धाटनम् ।

एवं तर्हीति ।

वेदान्तानां भूतार्थवाक्यत्वहेतुना पौरुषेयत्वापादनेन साधनव्यापकतयाऽनुपाधिलशङ्का –

यद्युच्येतेति ।

तस्मात्पौरुषेयत्वेनेति तदुपसंहारवाक्येनाप्यनुपाधित्वशङ्काया एव तत्फलेन सहोपसंहारः । वेदान्तानां पौरुषेयत्वमापाद्य, उपाधेः साधनव्यापकत्वात् निरुपाधिकेन भूतार्थत्वेन सापेक्षत्वमापाद्यते, न तु तदनापाद्य सोपाधिकेन भूतार्थत्वेनेति ततः प्रतिबन्दिग्रहणेन वेदान्तानां भूतार्थत्वेऽप्यपौरुषेयत्वोपपत्त्योपाधेः साधनाव्यापकत्वव्यवस्थापनेन भूतार्थत्वहेतुकसापेक्षत्वाप्रसङ्गानुमानस्य सोपाधिकत्वप्रदर्शनपरोऽत्र ब्रूम इत्यादिग्रन्थः । अत एव तदुपसंहारवाक्यं तेनासिद्धे पौरुषेयत्वे भूतार्थानामपि वेदान्तानां न सापेक्षतया प्रामाण्यविघात इति । तस्मादुपाध्युद्भावनपरतया व्याख्यानं युक्तमेव । प्रमाणान्तरसिद्धार्थानुवादकतया स्वप्रामाण्यसिद्धौ तत्प्रामाण्यमुखनिरीक्षकत्वं सापेक्षत्वं, पूर्वानुपूर्व्यनपेक्षपुंविशेषबुद्ध्यधीनानुपूर्वीमत्त्वं पौरुषेयत्वमिति साध्योपाध्योः भेदः ।

तस्यैवेति ।

यस्य हेतोरुपाधिरुद्भावनीयः तस्यैव व्यभिचारं तावदाहेत्यर्थः । यद्यपि दृष्टान्तीकृतेषु पुंवाक्येषु भूतार्थत्वं सापेक्षत्वप्रयोजकं न भवतीत्येतदुपपादकः प्रत्यक्षादिषु सत्यपि भूतार्थत्वे सापेक्षत्वाभाव aaउपाध्युद्भावनोपयोगिप्रयोजकान्तरशङ्कावसरदानार्थमिहोच्यते; तथापि स एव हेतोः पक्षे साध्यासाधकत्वसिद्ध्यपयोगी व्यभिचारोऽपीत्यभेददृष्ट्या अनैकान्तिकतामाहेत्युक्तम् –q

कार्ये मानान्तरायोग्यत्वस्यासिद्धत्वादिति ।

ननु वेदान्तानां कार्यपरत्वेऽपि पौरुषेयत्वानुमानं प्रसरति; कार्यस्यापि मानान्तरयोग्यत्वाविशेषादिति पौरुषेयत्वानुमानमुक्त्वा तत्फलमुपाधेः साधनव्यापकत्वमप्यभिधाय ततश्चेत्यादिग्रन्थेन पुनरपि पौरुषेयत्वानुमानप्रसर एवोपसंह्रियते । उपाधिविधूनने निरुपाधिकेन वाक्यत्वेन सापेक्षत्वानुमानमेव खलूपसंहर्तव्यम् । सत्यम्: वाक्यत्वादिलिङ्गकं पौरुषेयत्वशब्देन पुरुषबुद्धिप्रभवत्वपरेण सापेक्षत्वमेवोक्तम् । अथवा पौरुषेयत्वं संभवतीति पूर्ववाक्येन पौरुषेयत्वानुमानस्य बाधाभावमात्रमुक्तम्, ततश्चेत्यादिग्रन्थेन । तत्फलतया पौरुषेयत्वानुमानप्रवृत्तिरुक्ता, प्रागेव साधनव्याप्युक्तिस्तु वक्ष्यमाणानुमानफलत्वाभिप्रायेणेति नेतव्यम् ।

अकार्यार्थत्वं समानमिति ।

निष्प्रत्यूहेन वाक्यत्वादिहेतुना पौरुषेयत्वेऽनुमिते सति मानान्तरागोचराऽपूर्वकार्यर्थत्वकल्पनैव न प्रवर्तते चैत्यवन्दनादिवाक्येषु । अतस्तत्कल्पना पौरुषेयत्वप्रत्याख्यानप्रत्याशा दुराशेति भावः ।

स्मर्यमाण कर्तृकत्वेनेति ।

चैत्यवन्दनादिवाक्येष्वपि पश्याम्यहं भिक्षवो दिव्येन चक्षुषा सुकृतं दुष्कृतं चेति तदागमकर्तृबुद्धवचसैव कर्तृप्रतीतिरस्तीति भावः ।

सिद्धार्थवेदान्तेष्वपीति ।

यथा वेदान्तानां कार्यार्थत्वपक्षे तेषां पौरुषेयवानुमानं कर्तृस्मर णोपाधिना निरस्यते, तथा तेषां सिद्धार्थवपक्षेऽपि तन्निरसितुं शक्यमित्यप्रयोजक कार्यार्थलकल्पनमित्यर्थः ।

कार्यरूपेति ।

कार्यं रूपयति, अनुष्ठेयं ज्ञापयति कार्यरूपः यागाद्यनुष्ठानप्रयोजकः, तद्गतस्वर्गादिश्रेयःसाधनत्वाकारस्तेन रूपेण यागादिर्धर्मः । अतो यागादेः स्वरूपतः प्रत्यक्षत्वेऽपि धर्मत्वाकारेणातीन्द्रियता । यथाहुः - श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रमीयते । ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः॥' इति ।

व्याप्त्यभावेनेति ।

वेदान्तानां सिद्धवस्तुपरत्वमनुमातुं न शक्यम्; वेदवाक्यत्वस्य तेन व्याप्त्यभावादित्यर्थः ।

निन्दा न भातीति ।

ननु अश्रुजं हि यो बर्हिषि ददाति, 'पुरास्य संवत्सराद्गृहे रुदन्तीति' वाक्यशेषेण यागे रजतदानस्य बलवदनिष्टानुबन्धित्वरूपा निन्दा भातीति चेत्, न; संवत्सरात्प्राग् रोदनस्य क्वचित्क्वचिद्दर्शनेन वाक्यशेषस्य पारलौकिकानिष्टानुबन्धित्वलक्षकतायाः समाश्रयणीयत्वात्॥ सिद्धार्थव्युत्पत्त्यनुपमर्दोपमर्दाभ्यां वर्णकयोः पूर्वपक्षभेदमुक्त्वा ब्रह्मणः शास्त्रप्रमाणकत्वप्रतिक्षेपाप्रतिक्षेपाभ्यां तद्भेदं यद्यपीत्यादिभाष्यसिद्धं दर्शयति –

अथवेति ।

लोकेन न प्रयुज्यन्ते इत्ययुक्तम् ।

पामरजने निरर्थकसिद्धार्थपदसंघातप्रयोगस्य संभावितत्वादित्याशङ्क्य, लोकेनेति पदं व्याचष्टे –

वृद्धैरिति ।

प्रेक्षावता उत्तमवृद्धजनेनेत्यर्थः ।

पर्यायत्वमाशङ्क्येति ।

न च कार्यान्विततदर्थविशेषपरत्वेनापोयत्वमुपपादयितुं शक्यम्; कार्यवाचिनि लिङादिपदे कार्यान्वितार्थान्तराभावेन कार्यान्विते पदानां शक्तिरित्युक्त्यसंभवादिति शङ्काभिप्रायः । कार्ये शक्तिरिति नियमः । तस्य नियमस्य कार्यवाचिपदानां तन्मात्रशक्त्या तदितरपदानां तदन्वितस्वस्वार्थशक्त्या च निर्वाह इति परिहाराभिप्रायः ।

नियोगाविनाऽभावादिति ।

मध्यमवृद्धप्रवृत्तिलिङ्गापेक्षप्राथमिककार्यव्युत्पत्तिग्रहोपजीविनां पाश्चात्यव्यवहाराणाम् उपजीव्यानुसारेण कार्याविनाभावादित्यर्थः । एतेन व्याकरणकोशाप्तवाक्यप्रसिद्धपदसमभिव्याहारैः सिद्धार्थेऽपि व्युत्पत्तिग्रहः संभवतीत्यपि शङ्का निरस्ता; तेष्वपि प्राथमिकव्युत्पत्तिग्रहानुसारेण कार्यवाचिपदाध्याहारावश्यंभावात् । ननु 'न च रज्जुरियमित्यादिर्निवृत्तिर्भवतीत्यन्तः सिद्धान्तिशङ्कानुवादग्रन्थः । तन्मध्ये कथं तदनभिमतनियोगाविनाभावोक्तिः । नैष दोषः, पूर्वपक्षिणापि संमतो हि दृष्टान्तीकर्तव्यः । न च तत्केवलसिद्धार्थपरमर्थवदिति पूर्वपक्षिणः संमतिरस्ति । तत्रापि कार्यवाचिपदाद्याध्याहाराभ्युपगमादिति पूर्वपक्ष्याशयानुसारेण यथाकथंचित् लक्षणयेति टीकातद्व्याख्यानयोरवतारणाद्, रज्जुवाक्यस्य परमते कार्यपरत्वेऽपि रज्जुरियं न भुजङ्ग इति सिद्धार्थांश एव भयादिनिवृत्युपयोगि, न तु कुलधर्मतया परकल्पितः कार्यांश इति सिद्धार्थपरतत्त्वमस्यादिवाक्यदृष्टान्तत्वसङ्गतिः ।

टीकायां स्वविषयस्य करणस्येत्यत्र स्वविषयस्येति पदं व्याचष्टे –

स्वप्रतीत्युपाधित्वेन विषयस्येति ।

लिङाऽपूर्व कार्यत्वेनाभिधेयं, कार्यत्वं च कृतिसाध्यत्वं, न चापूर्वस्य साक्षात्कृतिसाध्यत्वं संभवति, अतो यद्वारा तस्य कृतिसाध्यत्वं घटनीयं स धात्वर्थो यागदानहोमादिरनुबन्धोऽवच्छेदको विषय इति प्राभाकरैर्व्यवह्रियते ।

करणस्येति पर्द व्याचष्टे –

स्वनिवर्त्तकत्वेन करणस्येति ।

तदाहुः - 'कृतितत्साध्यमध्यस्थो यागादिविषयो मतः । कार्ये संघटिताकारे करणत्वेन संमतः॥' इति ।

न श्रौतत्वमात्मन इति ।

ननु आत्मानमुपासीतेति श्रुतकर्मकारकविशिष्टा खलु उपास्तिक्रिया विधिविषयत्वेनान्वेति, कथं तर्हि श्रुतस्यात्मनः कर्मकारकस्याश्रौतत्वशङ्का, कथं च तस्य विध्याक्षिप्ततया श्रौतत्वनिर्वहणेन तत्समाधानम् । न हि गामानयेत्यत्र श्रुतस्य गोः कर्मकारकस्य पिधेहीति प्रयोगे द्वारस्येवाक्षेप्यतास्ति । उच्यते; आत्ममात्रस्य विधिविषयक्रियाकर्मतयाऽन्वयः श्रौतः, न तु भाष्योदाहृतसर्ववेदान्तसमाहृतविज्ञानानन्दादिस्वभावस्यात्मनः । तथाभूतात्मस्वरूपाभिप्राये शङ्कासमाधाने । अत एव टीकायां-तादृशमात्मानमाक्षिपतीति तादृगात्मप्रतिपत्तिविधिपरेभ्यो वेदान्तेभ्य इति चोक्तम् । ननु तादृक्स्वभावोऽपि "विज्ञानमानन्दं ब्रह्मेत्यादिपदबोध्यः, मैवम्; कार्यान्विते पदानां व्युत्पत्तेः । कार्यान्वितार्थ एव पदसंघातोऽर्थवान् अन्यस्त्वनर्थक एव । एवं च ग्राहकग्रहणदशायां विज्ञानानन्दादिस्वभावस्योपास्तिनियोगेन सह प्रारब्धमन्विताभिधानं निर्वहति; आत्ममात्ररूपकर्मकारकावच्छिन्नोपास्तिक्रियाविषयविधौ पर्यवसिते पश्चात्पदान्तरैस्तद्विशेषणतया श्रवणस्यानुवादमात्ररूपत्वेन केवलं तत्तत्पदार्थस्मृतिमात्रहेतुत्वप्रसक्तेः । तस्मादुपास्तिनियोग एव प्रथमारब्धग्राहकग्रहणनिर्वाहार्थं पूर्वं ज्ञानानन्दादि स्वभावावच्छिन्नत्वमात्मकारकस्यापाद्य पश्चात्तद्विशिष्टोपस्तिक्रियाविषयो भवतीत्येवं विध्याक्षेपरूपोपादानप्रमाणप्रसादलभ्यैव ज्ञानानन्दादिरूपब्रह्मैक्यस्य प्रत्यगात्मनि तात्पर्येणानिश्चेयतारूपा विधेयता । एवमेव 'तथा द्रव्येषु गुणश्रुतिरुत्पत्तिसंयोगात् (जै. सू. अ.२ पा. २ सू.२५) इति पूर्वतन्त्राधिकरणे "सोमारौद्रं चरुं निर्वपेत् शुक्लानां व्रीहीणा'मित्यत्र पृथक्पदाभ्यां विशेषणतया श्रुतयोः व्रीहिद्रव्यशुक्लगुणयोरविवक्षामाशङ्क्य ग्राहकविध्याक्षेपबलात् तद्विवक्षा प्राभाकरैः समर्थिता ।

श्रौतत्वे इति ।

एवं च तद्विधेयमिति गुरुग्रन्थस्य प्रथमारब्धग्राहकग्रहणनिर्वाहाय यत्किंचिद्द्वारेण विध्यन्वयितया शब्दबोध्यमित्यर्थ इति तात्पर्यम् । एवं हि विध्याक्षिप्तस्य श्रौतत्वे संमतिर्दर्शिता भवति । विध्याक्षेपरूपविधिव्यापारात्मकमुपादानं शब्दप्रमाणान्तर्भूतं, न तु पीनो देवदत्तो दिवा न भङ्ग इति लौकिकवाक्यार्थज्ञानमूलश्रुतार्थापत्तिवत् शाब्दप्रमोपजीवि तदनन्तरं प्रवर्तमानं प्रमाणान्तरमिति गुरुमतमर्यादा ।

नन्वारोपितस्यापि विषयतया निरूपकत्वमस्त्येवेत्याशङ्क्याह –

न च सत्यां गताविति ।

गगनस्य तत्तत्कर्णपुटावच्छेदेन प्रति पुरुषव्यवस्थितश्रोतृभाववत् एकस्यैव व्यापकस्य ब्रह्मचैतन्यस्य तत्तदविद्योपाध्यवच्छेदेन प्रतिशरीरं व्यवस्थितप्रत्यगात्मभाव उपपद्यत इत्येवं गतौ सत्यां वाग्धेनुत्वादिवदारोपो न युक्त इत्यर्थः ।

अपूर्वदेवतेति ।

सौर्यादौ उदीच्याङ्गजन्योपकारसाहित्याय अधिकारविध्याक्षेप्यमौपादानिकं यदुत्पत्त्यपूर्व तद्विषयमिहापूर्वपदं, नत्वधिकारापूर्वविषयम् । प्रस्तुते गुरुमते तस्यैव लिङर्थस्य विधितया अन्यविधिपरेण शास्त्रेण सिद्ध्यभावात् ।

एवं काम इत्यश्रवणादिति ।

वर्तमानापदेशात् सिद्धरूपैव प्रतिष्ठा प्रतीयते, न साध्यरूपेति तस्या अपि फलत्वं कल्प्यं, ततो वरं विश्वजिन्न्यायेन (जै. अ. ४ पा. ३ सू. १५-१६) विधिशक्त्यवगतवर्गफलकल्पनमिति भावः ।

प्रतिष्ठाफलस्य निर्देशादिति ।

अत्यन्ताश्रुतफलकल्पनाद्वरं श्रुताया एव प्रतिष्ठाया विपरिणामेन फलत्वकल्पनम् । तथा च यत्तदोर्व्यत्यासेन योजनया प्रतितिष्ठन्तीत्यत्र सनर्थान्तर्भावनेन च ये प्रतितिष्ठासन्ति त एता रात्रीरुपेयुरिति वाक्यविपरिणामः कार्य इति भावः ।

नैमित्तिकाधिकारे इति ।

यः सत्रायावगुरते स विश्वजिता यजेतेति' विहितो विश्वजिनैमित्तिकाधिकारः । ननु 'पितृयज्ञः स्वकालत्वादनङ्गं स्यात्' (जै. अ. ४ पा. ४ सू. १९) "अङ्गं वा समभिव्याहारादिति” याज्ञिकाभिमतद्वितीयपक्षानुसारेण पितृयज्ञो यदि दर्शाङ्गमिष्यते, तदा सोऽपि नियोज्याकाङ्क्षाराहित्यात् स्थिरोदाहरणं न स्यात् इत्याशङ्कापरिहाराय तदनङ्गत्वव्यवस्थापकाधिकरणानुक्रमणं दर्शनकरणपठितत्वे प्रकरणात्तदङ्गत्वमेव स्यादित्यनारभ्याधीतत्वोक्तिः ।

ननु "पूर्वेद्युरमावास्यायां वेदिं करोती"ति कर्मणीव ऐन्द्रं पयोऽमावास्यायामिति कालेऽप्यमावास्या शब्दो दृश्यत इत्याशङ्क्याह –

यद्यपीति ।

ननु यदि प्रकृतं सा वैश्वदेवीति तत्पदेन परामर्शनीयं, तर्हि दध्यपि प्रकृतमिति तत्परामर्शनीयं कुतो न स्यात्? तस्माद्विनिगमनाविरहादुभयं विहायामिक्षां दधिपयोभ्यां निष्पन्नं द्रव्यान्तरमङ्गीकृत्य तत्परामर्शित्वकल्पनं युक्तम् ।

सर्वनाम्नः प्रकृतपरामर्शित्वासंभवेन प्रकरिष्यमाणपरामर्शिवस्य अथैष ज्योतिरित्यादौ दृष्टत्वादित्याशङ्क्याह –

तत्र नयतेरिति ।

द्विकर्मकधात्वर्थान्वयि पयोऽपि कर्मैव, तत्र कस्यानयनेन किं संस्कार्यमिति संदेहे दध्यानयनेन पयः संस्कार्यमिति पयसः प्रधानकर्मत्वद्योतनाय कर्मण्यपि तस्मिन् सप्तमीप्रयोगः । यच्च प्रधानं तदेव सर्वनाम्ना परामर्शनीयम् । अतः पयःपरामर्शितच्छब्दसामानाधिकरण्यात् आमिक्षाशब्दो दध्यानयनेन संस्कृतस्य पयस एव वाचको, न तदुत्पन्नस्य द्रव्यान्तरस्येत्यवसीयत इत्याशयः । रूपभेदेऽपि - द्रवलकठिनलधर्म भेदेऽपि ।

तर्हि वाजिनमपीति ।

दधिसंस्कृतं पय एवामिक्षावाजिनात्मतया रूपद्वयं प्राप्तमित्यपि कल्पनोपपत्तेः आमिक्षावद् वाजिनमपि पयस्त्वाविशेषात् दध्यानयनस्य प्रयोजकं भवेदेव । ततश्च वाजिनापचारे पयोन्तरमानीय दध्यानयनेन संस्कृत्य वाजिनं निष्पादनीयमिति शङ्कार्थः ।

तस्यामस्तीति ।

तादात्म्येनेति शेषः । रूपाभेदेऽपि - द्रवत्वधर्माभेदेऽपि । एतदुपलक्षणम् विनापि दध्यानयनम् अतिपाकेन पिण्डीभूतस्य पयसो रूपभेदेऽपि भेदाभावादित्यपि द्रष्टव्यम् । एवं रसानुवृत्तेरेव अभेदप्रयोजकत्वात् आमिक्षायामेव पयःपरामर्शितत्पदसामानाधिकरण्यं दृश्यते न वाजिने इति भावः । यद्विषया जिज्ञासेत्यादिभाष्यगतविशेषणैः प्रतीयमानवेदान्तानामुपास्तिविधिपरत्वे प्राचीनतन्त्रे विचारितत्वेनात्र विचारो विफलः स्यादित्युक्ति- वेदान्ता यद्युपासामिति श्लोकपूर्वार्धेन संगृहीता, सा न क्षोदक्षमा वैधफलविषयतया स्वर्गदेवतावद् विधिशेषैः ब्रह्मस्वरूपमात्रस्य प्राचीनतन्त्रन्यायैः कथंचित्सिद्धिसंभवेऽपि तन्निर्गुणत्वादेः विद्याभेदाभेदोपसंहाराभ्यामुपसंहारस्य विशेषस्य चैतत्तन्त्रव्युत्पादयिष्यमाणन्यायैकनिर्णेयस्य ततो निर्णयालाभात्, अतोऽभ्युच्चयमात्रं सा युक्तिः ।

मूलयुक्तिस्तु श्लोकोत्तरार्धसंगृहीता मोक्षस्य सातिशयत्वानित्यवापत्तिरित्येतत् सूचयितुं तत्रैव भाष्यस्य तात्पर्यं दर्शयति टीकाकार इत्यवतारयति –

वेदान्ता यद्युपासनाविधिपरा इति ।

अधर्मफलं भोक्तव्यमिति ।

तद्य इह कपूयचरणा” इत्यादिश्रुत्या धर्मफलभोगानन्तरं कदाचिदधर्मफलभोगस्याप्युक्तत्वादिति भावः । इदमभ्युच्चयमात्रम्; अहंग्रहोपासनाभिः तत्फलप्राप्तेः प्रागेव सर्वपापक्षयस्याङ्गीकृतत्वात् ।

देवदत्तशरीरेति ।

देवदत्तशरीरासमानकालीनत्वं प्रलयकालोत्पन्ने तदीयशरीरध्वंसेऽप्यस्तीति तद्वारणाय प्रागभावविशेषणम् । शरीरप्रागभावासमानकालीनत्वं चरममुक्तशरीरध्वंसादन्यत्र न संभवतीत्यव्याप्तिवारणाय आद्यदेवदत्तविशेषणम् । देवदत्तमुक्तिकाले तदन्यस्यापि कस्यचित्संसारिणः संभवति देवदत्तशरीरप्रागभावासमानकालीनः शरीरध्वंस आत्यन्तिको माभूदिति द्वितीयदेवदत्तविशेषणम् । एवमपि देवदत्तस्योपान्त्यशरीरचध्वंसो यद्यन्त्यशरीरोत्पत्तिकाले तदुत्पत्त्यनन्तरं वा स्यात, तदा सोऽप्यात्यन्तिको भवेदिति तद्वारणाय शरीरतत्प्रागभावासमानकालीनत्वं विवक्षितम् । ननु आत्यन्तिकमशरीरत्वम् इत्थं ध्वंसरूपतया निर्वक्तुमयुक्तम् । तस्य साध्यत्वेन वैधोपासनाफलत्वप्रसङ्गात्, किन्तु भाष्यटीकोक्तप्रकारेण तत्फलत्वासंभवनिर्वाहाय शरीरावभासकालेऽप्यनुवर्तमानस्तन्मिथ्यात्वशरीरघटको यस्तदत्यन्ताभावस्तद्रूपो वाच्यः । अन्यथा भाष्यटीकाविरोधः स्यादिति चेत्, उच्यते; यद्यात्यन्तिकाशरीरत्वस्य वैधफलत्वनिर्वाहायात्यन्ताभावत्वं परित्यज्य विद्योदयसमनन्तरभाविध्वंसरूपत्वं पूर्वपक्षी शङ्केत, तदाऽपि तस्य न वैधफलत्वप्रत्याशा । शरीरध्वंसमात्रस्यापुरुषार्थत्वेन शरीरस्यान्येषां चोपाधीनां ध्वंसेनोपलक्षितस्य ब्रह्मानन्दस्यैव पुरुषार्थत्वात् तस्य च नित्यत्वादिति दर्शयितुं ध्वंसपक्षोऽप्युपन्यस्तः । तथैव च तात्पर्यं सर्वोपाधीत्याद्यग्रिमवाक्येन स्फुटीकृतम् । ननु ब्रह्मानन्दस्य नित्यप्राप्तत्वेऽपि कर्णगतरुचकवत् भ्रान्त्या अनवाप्तकल्पस्य वास्याऽमुख्यफललमभ्यधायि टीकायां तस्य मुख्यफलत्वमप्यपि उपपादयितुं 'यस्मिन्सति अग्रिमक्षणे यस्य सत्त्वं यद्यतिरेके चासत्त्वं तत्तजन्य मिति'लक्षणानुसारेण । अस्ति हि विद्योदयात्प्राङ् मम निरतिशयानन्दो नास्ति न प्रकाशत इति व्यवहारालम्बनं, रजते रजतत्वाभाववद् भ्रान्तिसिद्धं विद्यानिवर्त्यनिरतिशयानन्दाभावरूपं तदसत्त्वम् । न च प्रतियोगिव्यधिकरणं प्राक् तदसत्त्वं यस्यास्ति तथाभूतमेव जन्यं वैधफलमिति नियमः । अतथाभूतस्यापि दुःखप्रागभावपरिपालनादेः प्रायश्चित्तादिफललसंप्रतिपत्तेः, तस्माद् ब्रह्मानन्दस्य नित्यत्वेऽपि वैधोपासनाफलत्वमुपपद्यत इति तन्नित्यत्वेन तत्फलवाभावोपपादनं नोपपद्यत इति चेत्, उच्यते । प्राक्सिद्धस्य फलत्वं द्वेधा, निवृत्तिप्रसक्तौ परिपाल्यत्वेन वा, असत्त्वभ्रान्तौ तदपनयेन वा । तत्राद्यमेव लौकिकेन वैदिकेन वा कर्मणा भवति, द्वितीयं तु विद्ययैव । सा च विद्या अत्राविहितोपासनया षड्जादिसाक्षात्कारवत् स्वयमेव भवतीति विध्यनपेक्षा टीकायामेवोपपादिता । तस्माद्युक्तमेव भ्रान्त्यानवाप्तकल्पस्य ब्रह्मानन्दस्य नोपासनाविधिफलत्वमिति ।

कारीर्यादिनियोगा इति ।

"यदि वर्षेत्तावत्येव होतव्यं, 'यदि न वर्षेत श्वोभूते हविर्निवपेत् इत्यादिलिङ्गात् कारीरी तात्कालिकसस्यार्थवृष्टिहेतुत्वात् ऐहिकफला । आदिशब्देन आग्नेयं कृष्णग्रीवमालमेत सौम्यं बभ्रुं ज्योगामयाव्यग्निं वा एतस्य शरीरं गच्छति सोमं रसो यस्य ज्योगामयत्यग्नेरेवास्य शरीरं निष्क्रीणाति सोमाद्रसमुत यदीतासुर्भवति जीवत्येवे"त्यादिश्रुतिविहितानि तच्छरीरगतव्याधिनिवृत्त्याद्यर्थानि कर्माणि गृह्यन्ते । ज्योगामयावी -दीर्घरोगी ।

चित्रादिनियोगफलमिति ।

इदं चतुर्थे योगसिद्ध्यधिकरणस्य द्वितीयवर्णके चिन्तितम् - तदेवं "चित्रया यजेत पशुकाम' इत्यादि विहितानां मनुष्यशरीरोपभोगयोग्यफलकानां कर्मणां किं नियमेन देहान्तरे फलम्, उत तस्मिन्देहे देहान्तरे वा इत्यनियम इति संशये, पूर्वपक्षः वर्तमानदेहारम्भककर्मणां यत्फलं तद्भोगार्थत्वात् वर्तमानदेहस्य तत्फलभोगावसाने तन्नाशावश्यंभावात्, अन्त्येष्टौ दक्षिणे हस्ते जुहूं सादयति इत्यादिवाक्यैर्यज्ञपात्राणां प्रतिपत्तिविधानेन तदपेक्षचित्राद्यदृष्टोत्पत्तिसमनन्तरभाविफलस्य वर्तमानदेहभोग्यत्वासंभवाच्च स्वर्गजनकादृष्टवत् चित्राद्यदृष्टस्यापि स्वफलभोगप्रदानार्थं तद्योग्यदेहारम्भकत्वनियमाच्च नियमेन देहान्तर एव चित्रादिफलमिति । सिद्धान्तस्तु ऐहिकमपि चित्रादिफलं भवत्यैव; चित्राद्यनुष्ठानानन्तरं पश्वादिफलदर्शने तदर्थं तदतिरिक्तादृष्टकल्पनाहेत्वभावात्, 'अनन्तरमेव फलादर्शने देशकालादिसहकार्यपेक्षया विलम्बः कल्प्यः । तस्मिन् देहे फलादर्शने तत्फलभोगविरोधिप्रबलप्रारब्धकर्मणा प्रतिबन्धः कल्प्यः । प्रतिबन्धेन च तेन देहान्तरारम्भपूर्वकं तत्र फलं दातव्यमिति कल्प्यम् । वर्तमानदेहारम्भककर्मणो देशकालाद्यपेक्षया यदा न फलप्रदत्वं, तदा तस्मिन् देहे तज्जन्मकृतचित्राद्यदृष्टस्यापि फलप्रदत्वमुपपद्यते । पात्रप्रतिपत्तिस्तु सकलकर्मानुष्ठानसमात्यनन्तरभावित्वात् पुरुषार्था । क्रत्वर्थत्वेऽप्यदत्तफलकतुमात्रार्था । 'आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेति" श्रुतेः दहने विनियोक्ष्यमाणानां यज्ञपात्राणां संस्कारार्था वा; अन्यथा कारीर्यादीनाम् ऐहिकफललाभावप्रसङ्गात् । एतेन कर्मणां फलप्रदानार्थं देहारम्भकत्वनियमोऽपि निरस्तः । तस्मादामुष्मिकलानियमः चित्रादिफलस्येति ।

नेह परमापूर्ववदिति ।

यद्यप्याचार्यमते अवघातादिनियमः प्रत्यासन्नाग्नेयाद्यवान्तरापूर्व प्रयुक्तः; तथापि गुरुमते फलवत्परमापूर्वप्रयुक्त इति तन्मतमनुसृत्य परमापूर्वेत्युक्तम् । न चावघातनियमस्य परमापूर्वप्रयुक्तत्वे तत्साधनत्वाविशेषात् आज्यसाज्य्यसान्नयोः अवघातप्रसङ्गः । तुषविमोकादिदृष्टप्रयोजनव्यवस्थया व्रीह्यादिषु तद्य्वस्थोपपत्तेः । अन्यथाग्नेयाद्यपूर्वप्रयुक्तत्वे अपि तत्साधनस्रुगादिसाधारण्यप्रसङ्गानिवारणादिति भावः ।

विश्वजिन्न्यायं गुरुमतेनोपन्यस्यति –

विश्वजितेति ।

प्रवृत्तक्रिया - प्रवृत्तचिकीर्षः । 'न कलंजं भक्षयेदित्यादिनिषेधवाक्यान्यपि फलतो विधिवाक्यानि । तत्र भक्षयत्यादिधातुसमभिव्याहृतनप्रतिपाद्यं भक्षणादिनिवृत्तिरूपमौदासीन्यं विषयः । तद्यद्यप्यभावार्थत्वात् स्वतः साध्यं न भवति; तथापि निषेध्योन्मुखतया प्रचलितावस्थे अनुत्पन्नतदनुकूलस्पन्दव्यापारे पुरुषे निषेध्यचिकीर्षापनयद्वारा परिपाल्यत्वेन तत् साध्यं भवतीति तस्य नियोगविषयत्वोपपत्तिः । तत्र च अर्थात् निषेध्यचिकीर्षुः नियोज्य इति गुरुमतम् ।

इह तु विषयेणेति ।

नियोगगतकृतिसाध्यतारूपकार्यताघटकत्वेन विषय एव तत्प्रतीत्यनुबन्धो, न तु नियोज्यः । तदभावेऽप्यध्ययननियोगस्य प्रयाजादिनियोगानां च प्रतीतेरिति भावः ।

उच्यत इति ।

अयमाशयः - कार्यत्वेन प्रतीयमानो नियोगः स्वस्य कार्यताघटके विषये प्रवर्तकस्वभावः, तत्र प्रवर्तनीयं पुरुषमपेक्षते; अन्यथा प्रवर्तकत्वव्याघातात्, अन्यतः प्रवृत्तिसिद्धौ तु न तमपेक्षते । तथा च आचार्यकनियोगेन अध्ययने माणवकस्य, दर्शपूर्णमासनियोगेन तन्नियोज्यस्य तदङ्गेषु प्रयाजादिषु च प्रवृत्तिसिद्धता, तन्नियोगानां कर्तृपुरुषविशेषानपेक्षायामपि विश्वजिदादावन्यतः प्रवृत्त्यलाभात् तदपेक्षास्तीति अतस्तदध्याहारो युक्त इति । स च फलकामोऽध्याहार्यः, पुरुषाणां कामप्रवणतया तत्र प्रयुक्तिलाघवात्, निषेधवाक्येषु तु न कामी नियोज्योऽध्याहार्यः; औदासीन्यस्य परिपाल्यत्वसिद्धये तत्प्रच्युतिप्रसक्त्यर्थं सामर्थ्यात् निषेध्योन्मुखस्य नियोज्यस्यावश्यं प्राप्त्या तत एव आकाङ्क्षाशान्तेः ।

किं सर्वेषामिति ।

किं सर्वफलकामानामध्याहारः, उतैकफलकामस्येत्यर्थः ।

अन्तर्भावादिति ।

यस्य यदा यदवच्छेदेन सुखं, तस्य तदा तदवच्छेदेन न दुःखमित्यविनाभावादित्याशयः । एतदुपलक्षणं सुखस्य भावरूपत्वेन लघूपस्थितिकत्वाच्च इत्यपि द्रष्टव्यम् ।

अनवच्छिन्नस्येति ।

पुत्रपश्वाद्येकैकविषयविशेषमाजानवच्छिन्नस्य देशविशेषदेहविशेषभोग्यस्य संकल्पोपनतसर्वविषयप्रयुक्तस्य स्वर्गसुखस्य पुत्रपश्वादिसुखविशेषान्प्रति सामान्यरूपत्वादित्यर्थः ।

विशेषे मानाभावादिति ।

सर्वसुखविशेषानुगतसामान्यमुल्लङ्घ्य किंचिद्विषयविशेषावच्छिन्नसुखग्रहणे मानाभावादित्यर्थः । इत्थं गुरुणा निबन्धने व्याख्यातम् । प्रायः सर्वपुरुषान्प्रति स्पृहणीयत्वेन अविशिष्टत्वादिति भाष्यकारादिव्याख्या । नन्वत्र विश्वजिदधिकरणे भाष्यकारैः 'तस्मात्पितृभ्यः पूर्वेद्युः क्रियत' इति पितृयज्ञवाक्यं यः सत्रायावगुरते' इति विश्वजिद्वाक्यं च विषयवाक्यत्वेनोदाहृतम् ।

तत्र द्वितीयोदाहरणमयुक्तं, विश्वजितो नैमित्तिकाधिकारत्वादित्याशङ्क्याह –

कृत्वाचिन्तेति ।

अवगुरणोपरमे इति ।

उद्यमनिवृत्तावित्यर्थः । 'गुरी उद्यमन' इति धातोः कुटादित्वेन ङित्त्वात् गुणभावः । ननूद्यमनिवृत्तौ विश्वजिदित्ययुक्तम् ।

'यः सत्रायेति' वाक्यात् सत्रं संकल्प्य तत्प्रयुञ्जानस्य विश्वजिदिति प्रतीतिरित्याशङ्क्याह –

प्रायश्चित्ततयेति ।

एवं हि श्रूयते-"यः सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः पृष्ठेभ्यः सर्वेभ्यश्छन्दोभ्य आत्मानमागुरते या सत्रायागुरते स विश्वजिताऽतिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेदसदक्षिणेन यजेत सर्वाभ्य एव देवताभ्यः सर्वेभ्यः पृष्ठेभ्यः सर्वेभ्यश्छन्दोभ्य आत्मानं निष्क्रीणीत" इति । एवं निष्क्रयद्वारेण संस्तवः सत्रप्रवृत्तौ न युज्यते, अतः सत्रं संकल्प्य दैवान्मानुषाद्वा प्रतिबन्धात् ततो निवृत्तस्य प्रायश्चित्ततयेदं विश्वजिद्विधानमित्यर्थः ।

व्यभिचारयतीति ।

ननु ययोः कयोश्चित् आधाराधेयत्वेन एकाश्रितत्वेन वा सामानाधिकरण्यमिति नात्र शङ्का, येन कुण्डबदरयोश्चैत्रमैत्रयोश्च व्यभिचार उच्यते, किं तु एकप्रवृत्तिनिमित्तस्य अपरप्रवृत्तिनिमित्ताधाराश्रितत्वेन वा प्रवृत्तिनिमित्तद्वयस्यापि एकाश्रितत्वेन वा सामानाधिकरण्यमिति; तथैव ह्याचार्यैरवतारिकाग्रन्थे शङ्काभिप्रायो लिखितः, तथैव च तदभिप्रायो वर्णयितुं युक्तः, भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यमिति प्रसिद्ध्यनुरोधात् । न च हेमकुण्डलयोरवयवावयविनोः भेदपक्षे हेमलस्य कुण्डलाश्रितत्वं हेमलकुण्डलत्वयोरेकाश्रितत्वं च नास्तीति वाच्यम्: हेमत्वस्यावयवावयविवृत्तिजातित्वेन तत्सत्त्वादिति चेत्, उच्यते; हेमावयवातिरिक्तं कुण्डलरूपम् अवयवि द्रव्यान्तरमभ्युपगम्यते चेत् तत्पीतरूपगुरुत्वकठिनत्वरहितमेव वाय्वादिसदृशमभ्युपगन्तव्यम्; अवयवावय विगतस्य पीतरूपद्वयस्य गुरुत्वद्वैगुण्यस्य चानुपलम्भात्, घटकुड्ययोरिव कठिनद्रव्ययोः अवयवावयविनोरेकत्र भूतलादौ समावेशासंभवाच्च, अवयवावयविभावानापन्नयोरेव असमावेश इति सविशेषणनियमकल्पनस्य गौरवपराहतस्य अप्रामाणिकत्वात् । एवं च कुण्डले पीतरूपाद्यभावेन तदभिव्यङ्ग्यस्य हेमत्वस्य तत्रासंभवेनैकप्रवृत्तिनिमित्तस्येत्यादेः सामानाधिकरण्यप्रयोजकत्वाभ्युपगमे तेन 'सुवर्ण कुण्डलमिति' सामानाधिकरण्यानिर्वाहात् तन्निर्वाहाय हेमकुण्डलानाम् आधाराधेयभावमात्रमेकाश्रितत्वमात्रं वा तत्प्रयोजकमास्थेयमित्यभिप्रेत्य टीकायां कुण्डबदरयोश्चैत्रमैत्रयोश्च व्यभिचार उक्त इति तात्पर्यम् । भेदो रूपादिवद् भावरूप इति पक्षे स किमभेदविरुद्धः तदविरुद्धो वा ।

आद्ये भावाभावरूपत्वपक्षे वक्ष्यमाणं दूषणं भविष्यतीत्यभिप्रेत्य द्वितीये दूषणमाह –

ऐकान्तिकेति ।

तथा च भेदे सत्यैवात्यन्ताभेदोऽपि स्यादित्यर्थः ।

द्वितीयमाशङ्क्याहेति ।

परस्पराभाव इति चेदिति पूर्वग्रन्थेनाशङ्क्येत्यर्थः ।

तत्त्वेनाभेदप्रसङ्ग इत्यस्य तात्त्विकाभेदप्रसङ्ग इत्यर्थो भाति, स तु नानिष्टः, कारणात्मना कटकवर्धमानयोरभेदाङ्गीकाराद् इत्याशङ्क्य, तत्त्वेनेति पदं व्याचष्टे –

कटकत्वेति ।

ननु भावाभावयोरुभयोरपि भेदाभेदयोः हाटकत्वकटकत्वावच्छेदभेदेन वृत्तिरभ्युपगम्यते, अतस्तयोर्न सहावस्थानासंभवः; न च भेदावच्छेदककटकत्वावच्छेदेन कटके वर्धमानभेदप्रसङ्गः, नापि कटकाभिन्नमुकुटे कटकत्वेनापि कटकाभेदप्रसङ्गः, नाप्यनुवृत्तिव्यावृत्तिव्यवस्थाऽभावप्रसङ्गः, नापि हाटकत्वेनावगते कटकत्वादिना जिज्ञासाद्यनुपपत्तिः, भेदाभेदमनङ्गीकुर्वद्भिरपि ह्येकस्मिन्धर्मिणि केनचित्प्रकारेण निश्चिते तदन्यप्रकारेण जिज्ञासासंशयादिकं समर्थ्यते, अभेदवद् भेदस्याप्यभ्युपगमे का जिज्ञासानुपपत्तिः । यत्तु हेमनिर्णयेन कटकादीनां निर्णये तदभेदः कारणमित्यादि । तत्र वैपरीत्यमपि वक्तुं शक्यम् । हेमनिर्णयेन कटकादीनामनिर्णये तदभेदः कारणं तदभावादभेदादनिर्णयकार्याभाव औत्सर्गिकः प्राप्तः, स कारणस्य भेदस्य सद्भावादपोद्यत इतिः अस्ति ह्यनिर्णयस्यापि निर्णयप्रतिबन्धकसद्भावाधीनं परिपाल्यत्वरूपं कार्यत्वम्, तस्मात्सर्वमिदं भेदाभेददूषणजातमयुक्तम् । युक्तत्वे वा स्वमतेऽप्येतत्प्रसज्येत; स्वमतेऽपि हि भेदाभेदाभ्यामेव सामानाधिकरण्यौपपादनम्, अभेदः सत्यो भेदस्तत्राध्यस्त इति परैः स्वमते विशेष उक्तः । तत्र भेदप्रतीतावभेदोपि सह प्रतीयते इत्युपगन्तव्यम्; भेदप्रतीतिमात्रेण सामानाधिकरण्योपपादनासंभवात् । तयोविरुद्धयोरेकत्र प्रतीतिः कथं? कथं च मुकुटे कुण्डलाभिन्नहाटकाभिन्ने कुण्डलत्वेनापि कुण्डलाभेदो न स्यात्? कथं च हाटके प्रतीते कुण्डलादिजिज्ञासा स्यात्? अपि च अभेदः सत्यः भेदोऽध्यस्त इत्यर्धजरतीयमप्ययुक्तम् । सह प्रतीत्यभ्युपगमे अन्यतरबाधावश्यम्भावकल्पकाभावात्, सत्यानृतयोः ब्रह्मतध्यस्तप्रपञ्चयोः सिद्धान्ते तात्त्विकाभेदानङ्गीकाराच्च, तथैव आरम्भणाधिकरणे (ब्र. अ.२ पा.१ सू.१४) टीकाकारैरपि वक्ष्यमाणत्वात्, इहानुपदमेव पूर्वग्रन्थे तस्मात्तेऽपि हाटकाद् भिन्ना एवेति तस्मात् ते हेम्नो भिद्यन्त इति च हाटककटकाभेदप्रतिक्षेपाच्च, तस्मात् सर्वमिदमनुपपन्नमिति चेत्, अत्र ब्रूमः - हाटकत्वं कटकत्वं च किमेकस्मिन्वर्तते, न वा; न चेद एकस्मिन्नवच्छेदभेदेन भेदाभेदयोः विरुद्धयोः वृत्तिसमर्थनं न लभ्यते । वर्तते चेत् किं कटकत्वं हाटकत्वादन्यदुत तदेव । अन्यच्चेत् प्रवृत्तिनिमित्तभेदेनैव सामानाधिकरण्योपपादनलाभात् नैकस्मिन्धर्मिणि अभेदवद्भेदोऽप्यनङ्गीकार्यः । अतः सामानाधिकरण्योपपादनार्थम्भेदाभेदमभ्युपगच्छता प्रवृत्तिनिमित्तभेदेन अन्यथोपपत्तिपरिहाराय हाटकत्वमेव कटकत्वं न ततोऽन्यदित्येष्टव्यमित्यभिप्रेत्य सहावस्थानासंभवादि सर्वमिदं दूषणमुक्तम् । इममेवाभिप्रायं सहावस्थानासंभवादिदूषणोक्तौ गर्भितं विस्मृत्य, अथ हाटकत्वेनैवाभेद इत्यादिशंकाग्रन्थः प्रवृत्त इत्याचार्यैरवतारितम् । प्रस्मृतपराभिसंधिः स्वप्रक्रियया शङ्कत इति । एवं चाभेदसत्तया कुण्डलादेः ज्ञातत्वापादनेऽपि न वैपरीत्यशङ्कावकाशः अभेदे सति, अवच्छेदकभेदाभावेन भेद एव न संभवतीति तात्पर्येण प्रत्युतेत्यादिटीकातद्व्याख्यानयोः प्रवृत्तेः, स्वमतेनाभेदव्यवस्थापनं तु व्यावहारिकाभेदविषयं न तात्त्विकाभेदविषयमिति नारम्भणाधिकरण-(ब्र.अ.२ पा.१ सू.१४) विरोधः । नाप्यभेदप्रतिक्षेपकपूर्वग्रन्थविरोधः; अतएवाभेदप्रतिक्षेपको यस्मिन् गृह्यमाणे यन्न गृह्यत इत्यादिटीकाग्रन्थो वस्तुतः कार्यकारणयोरभेदाभावं सप्रमाणकमुपसंहरतीति भेदाभेदवाद्यभिमतवास्तवाभेदप्रतिक्षेपपरतयावतारितः । भेदस्याध्यस्तत्वोक्तिस्तु प्रतिभासमात्रकल्पितत्वाभिप्राया । अत एवारम्भणाधिकरणटीकायां वाचा केवलमारभ्यते विकारजातं, न तु तत्त्वतोऽस्ति, यतो नामधेयमात्रमेतद् यथा पुरुषस्य चैतन्यं, राहोः शिर इति विकल्पनामात्रमित्यारम्भणश्रुतेः अर्थः उक्तः । भेदबाधावश्यम्भावोऽप्यारम्भणश्रुतिप्राप्तः, तदनुकूलन्यायमात्रमिह विरोधादन्यतरबाधादिप्रक्रियया दर्शितम् । ननु यद्युपादानहेमायतिरिक्तकटकमुकुटादिविकारभेदः कल्पनामात्रसिद्ध इति मतं, कथं तर्हि वाक्यान्वयाधिकरण (ब. अ. १ पा. ४ सू. १९) टीकायां "न तु मृद्विकारः शरावादिः शतशोऽपि मृन्मदिति चिन्त्यमानस्तज्जन्मना मृद्धावसाक्षात्कारेण शक्यो निवर्तयितुं; तत्कस्य हेतोः; तस्यापि मृदो भिन्नस्य तात्त्विकत्वात्, वस्तुनश्च ज्ञानेनोच्छेत्तुमशक्यत्वादि"त्युक्तम् । उच्यते; शरावादिसंस्थान विशेषस्य व्यावहारिकसत्यत्वाभिप्रायं तद्वाक्यम्, इह तूपादान एव पूर्वावस्थोपमर्देन तदवस्थान्तरं जायते, न तूपादानभिन्नं तदारब्धं तदागन्तुकावस्थाविशेषवदवयवि द्रव्यान्तरमस्तीत्युपादानविकारयोः सत्येवाभेदकल्पनामात्रमित्यारम्भणाधिकरणे वक्ष्यमाणं स्मारितम् । तत्स्मारणं च भेदाभेदाभ्यां सामानाधिकरण्यमुपपादयितुं; तस्य हेमत्वकुण्डलत्वयोरुपादानरूपैकद्रव्याश्रितत्वेनोपपत्तेः, तथैवात्र तदुपपादनस्य विवक्षितत्त्वात् । अत एवाचार्यैः वाक्यान्वयाधिकरणे (ब्र.अ.१ पा. ४ सू. १९) वक्ष्यते, "सामानाधिकरण्यं यद्धेमकुण्डलयोर्न तत् । भेदाभेदावगाहीति प्राग्वाचस्पतिनेरितम्॥" किन्तु सुवर्णकुण्डलाभेदे कथं वर्णेन कुण्डलं कृतं सौवर्णं कुण्डलमित्यादिभेदव्यवहार इत्याकाङ्क्षायां पुरुषस्य चैतन्यमितिवत् कल्पनामात्रसिद्धभेदालम्बनः स व्यवहार इति भेदव्यवहारमात्रोपपादनार्थं कृतमिति" इति सर्वमनवद्यम् । अस्मिन्संदर्भे 'कथं तर्हीति' टीकावतारिकाग्रन्थे 'न ह्ययन्तभेदे तद्भवति; कुण्डलकटकयोः अदर्शनादिति' कुण्डलकटकयोरत्यन्तभेदः सिद्धवत्कृत्य, उपन्यस्तः; तदुपन्यासो लोकदृष्ट्यनुसारेण वा भेदवादिमतानुसारेण वा कटकत्वकुण्डलत्वाद्यवच्छेदेन भेद एव नाभेदोऽपीत्यभिप्रायेण वा नेतव्यः; भेदाभेदवादिमते हाटकात्मना तयोरभेदात्, यथा हाटकात्मना कटकमुकुटकुण्डलादयो न भिद्यन्त इति टीकायामपि तथैव तन्मतस्थितिप्रदर्शनाच्च । सौगतमतमाशङ्क्येत्र गौतममतमिति पाठश्चेत्स निर्विशङ्कः । न्यायसूत्रकृता गौतमेन प्रत्यक्षपरीक्षायां "न चैकदेशोपलब्धिरवयविसद्भावात्" (न्यायसूत्र. अ. २ पा. आ. १सू.३०) इति घटाद्येकदेशसन्निकर्षे सति न तदुपलब्धिमात्रं, तद्भिन्नस्यावयविनः सद्भावात् तस्याप्युपलब्धिरस्तीति प्रतिज्ञाय साध्यत्वात् अवयविनि संदेहः (न्यायसू. अ. २ आ. १सू. ३१) इत्यवयवभिन्नोऽवयवी सिद्धो नास्तीति तत्र संदेहमुपन्यस्य, 'सर्वाग्रहणमवयव्यसिद्धेः' (न्यायसू, अ. २ आ. १ सू. ३२) 'धारणाकर्षणोपपत्तेश्चेति' (न्यायसू. अ.२ आ.१सू. ३३) सूत्राभ्याम् अवयवभिन्नावयव्यभावे परमाणूनाम् अन्यावयवानाम् अतीन्द्रियत्वात् तदाश्रितस्य गुणकर्मसामान्यादेः सर्वस्याप्यग्रहणं स्यात् । अतो गुणकर्मादिग्रहणाद अस्ति तदाश्रयः पटादिरवयवी । तथा एकदेशधारणे कृत्स्नधारणादेकदेशाकर्षणे कृत्स्नाकर्षणाच्च सोऽस्ति; अन्यथाऽवयवानां भिन्नत्वात् कस्यचिदवयवस्य धारणाकर्षणाभ्यामन्यस्य धारणाकर्षणानुपपत्तेः इत्यवयवभिन्नावयविप्रसाधनेन अवयवाभेदनिराकरणात् । सौगतमिति पाठस्तु सौगतैरवयविस्थाने अवयवसंघातस्याभिषिक्तत्वात् संघातस्यावयवभेदाभिप्रायो योज्यः ।

ननु अनंशेपि संस्कारः कर्मजन्यातिशयोस्तु इत्याशङ्क्याह–

अनंशत्वमिति ।

आकारभेद: - धर्मभेदः ।

तद्ब्रह्मेति वाक्ये यस्येयं जिज्ञासा प्रस्तुतेति विशेषणस्य तात्पर्यमाह –

कार्यविलक्षणेति ।

स्वमते इति ।

पूर्वपक्षिमते तु न शास्त्र पृथक्त्वसिद्धिः । उभयोरपि तन्त्रयोः कार्यविषयत्वाविशेषादिति भावः । शास्त्रपृथत्वसिद्धिस्तद्ब्रह्मेति भाष्ये उक्तेति पाठः । अतस्तब्रह्मेत्यतः शब्दः संपातायातः ।

टीकायां, तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्यादिभिरुपपाद्य क्रिया निष्पादास्य तु मोक्षस्यानित्यत्वं प्रसञ्जयति –

तद्यदीति ।

न चागमबाधः, आगमस्योक्तेन प्रकारेणोपपत्तेः । अपि च ज्ञानजन्यापूर्वजनितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इत्याहेति केषुचित्कोशेषु पाठः । कोशान्तरेषु तु तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्यादिभिरुपपाद्य ज्ञानजन्यापूर्वजनितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इति पाठः ।

अस्मिन्पाठ उपपाद्यैत्यस्य निवारिका इत्यव्यवहितनिवारणक्रिययाऽन्वयः प्रतिभाति, तदन्वयो न युक्तः, नैयोगिकत्वनिवारणार्थाभिः श्रुतिभिः श्रुत्यन्तरोदाहरणपूर्वकं मोक्षफलनित्यत्वस्य अप्रतिपादितत्वादित्याशङ्क्य, उपपाद्ययस्याहेत्यनेन संबन्धमाह –

उपपाद्येत्यस्येति ।

एवं फलस्वभावेनेति ।

तदेवमिति टीकावतारिकाग्रन्थे मोक्षस्य नित्यत्वेन नैयोगिकवासंभवस्य प्रागुपपादितस्यानुवादपूर्वकं मोक्षसाधनज्ञानस्य तात्कालिकब्रह्मप्राप्तिसाधनत्वाद् नैयोगिकत्वासंभव उच्यत इति तस्य टीकाग्रन्थस्य तात्पर्यमुक्तम्, इदानीं तु ब्रह्मभावप्राप्तिफलस्य प्राप्तप्राप्तिरूपस्य तात्कालिकफलस्वाभाव्येन नियोगासंभवं तदेवमित्यादिग्रन्थोक्तमनूद्य फलसाधनस्य तत्त्वज्ञानस्य अविद्योच्छेदद्वारकत्वस्वाभाव्येन नियोगद्वारकत्वासंभव उच्यत इत्येवमविद्याद्वयेत्यादिटीकाऽवतार्यते । अतो न पूर्वटीकाऽवतारिकाग्रन्थे नार्थैक्यशङ्का ।

न स्वत इत्ययुक्तं; स्वत एव हि विद्याया मोक्षसाधनत्वं, नान्यायत्तमित्याशङ्क्य व्याचष्टे –

विहितक्रिया रूपेणेति ।

आरोप्यप्रधानेति ।

यद्यपि बृहदारण्यकोपनिषदि अथ संपद' इति संपदुपासनानामुपक्रमे अल्पेषु कर्मसु महतां कर्मणां तत्फलाय बुद्ध्या संपादनं संपद्, अश्वमेधादीनि महान्ति कर्माणि कार्त्स्न्येनानुष्ठातुमशक्तानां संभवदङ्गमात्रसाहित्येन तान्यनुतिष्ठतां तदङ्गाश्रयोपासनाविशेषैः तत्फलसंपादनं वा संपदिति द्वेधा भाष्यकाराख्यातम् । वार्तिककारैरपि 'फलवत्कर्मणां क्वापि किंचित्सामान्यसंश्रयात् । संपत्तिमहतो संपदल्पीयः कर्मसूच्यते॥ यदि वा तत्फलस्यैव किंचित्सामान्यवर्त्मना । संपादनं भवेत्संपदग्निहोत्रादिकर्मणि । नातिभारोस्ति नो बुद्धेः शास्त्रं चेत्तत्परं भवेत् । विदुषां श्रेयसे ऽतोऽध्वा न क्वचित्प्रतिहन्यते॥ इति । 'अनन्तं वै मन' इति विहितविश्वेदेवोपासनाया इष्ट्यादिषु सर्वकर्मानुसंधातुः ब्रह्मणः तदनुसंधानकरणं मनोधिष्ठानमिति 'कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायती'त्याद्युपक्रमवशादवगतम् । अतस्तस्यापि कर्मसंबन्धः; तथापि तमर्थं सिद्धं कृत्वा संपदुपासनानामारोप्यप्राधान्यं प्रतीकोपासनानामधिष्ठानप्राधान्यं चानादिवृद्धव्यवहारसंप्रदायसिद्धमिह लिखितम् ।

ननु संवरणम् उद्यमनमिति व्याख्यानमयुक्तम्, तयोर्भेदादित्याशङ्क्य लक्षणाबीजं संबन्धमाह –

योहीति ।

ननु टीकायां संवृत इत्यस्य संवृज्य संहत्यात्मनि स्थापयतीत्यर्थमुक्त्वा तत्र संमतिरप्युदाहृता संवरणाद्वा स्वात्मीभावाद्वा वायुः संवर्ग इति । तत्र संवृत्य इत्यस्य संहरणार्थत्वं तावदुपपद्यते; 'वृजि वर्जन' इति लुग्विकरणपठितादिदितो धातोरात्मनेपदिनः सिद्धस्य संवृङ्क्त इत्यस्य वर्जयतीत्यर्थकस्य संहरणे पर्यवसानोपपत्तेः, तथैव संवरणार्थकत्वमप्युपपद्यते । 'वृजि वरणे' इति रुधादिगणपठितात् परस्मैपदिनो धातोः छान्दसेन पदव्यत्ययेन संवृङ्क्त इति रूपसिद्धेः । अस्ति च संवरणं संहृतस्योपादानेन स्वात्मभावापादने । किमर्थं संवरणेनोद्यमनं लक्षणीयम्, मुख्यार्थान्वयानुपपत्त्यभावात्, सत्यम्; वायुस्वभावात् चालनमपि संभवतीति द्योतनाय तात्पर्यतस्तथा व्याख्यातम् ।

अन्यादेरुपलक्षणत्वादिति ।

ननु 'वायुरग्निसूर्यचन्द्रापः संहत्य स्वात्मभावमापादयति' 'प्राणो वाक्चक्षुःश्रोत्रमनांसी'त्युक्त्वा 'ते वा एते पञ्चान्ये पश्चान्ये दश सन्तस्तत्कृतमिति' तेऽग्न्यादयो वागाद्यश्च वायुप्राणाभ्यां सह दशेति वाक्यशेषे परिगणिताः कथमग्न्यादिग्रहणं सर्वोपलक्षणं स्याद्, व्यवस्थिताग्न्यादिविषयदशसंख्योक्तिविरोधादिति चेत्, उच्यते । 'दश सन्तस्तस्कृत'मिति दशसंख्यावत्त्वं कृतायसादृश्येन ताद्रूप्यं चोक्तमुपजीव्यदशसंख्यावत्त्वेन 'दशाक्षरा विराडन्नं विरा डि'त्यर्थवादान्तरोक्तप्रक्रियया सर्वाशागतसकलान्नरूपत्वं कृतत्वेन, 'कृतायो यथा दशसंख्यान्तर्भाववत्त्वेन तामत्तीव, एवं वायुप्राणरूपैषा दशात्मिका देवता दशसंख्यासंस्तुतं सर्वमन्नमत्तीवेति सर्वान्नात्तृत्वं चोक्तं वाक्यशेषे, 'तस्मात्सर्वासु दिक्षु अन्नमेव सैषा विराडन्नादीति । एवं च इहारन्यादेरुपलक्षणत्वोक्तिर्वाक्यशेषतः सर्वाशागतभोग्यभोक्तरूपसकलजगदाश्रयत्वप्राप्तेः उपलक्षणार्था । अत एव ज्योतिरधिकरणे ( अ. १ पा. १ सू. २४) सकलान्नात्रादित्वरूपमिदं सार्वात्म्यं वाक्यशेषार्थमेवाचार्या वर्णयिष्यन्तीति । 'पूष्णोऽहं देवयज्ययेति' पूषानुमन्त्रणमन्त्रस्य पूषदेवताकेष्टिषु उत्कर्षः ।

सर्वस्मै वेति ।

सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यमिति" वाक्यात् ध्रौवाज्यमविहितद्रव्यकसर्वयागाङ्गं सदुपांशुयाजस्याप्यङ्गं भवतीत्यर्थः । सत्यप्यत्र आज्यभागाद्यङ्गेवाज्यनिवेशे न प्रधानहविष्ट्वमिति । ननु उपांशुयाजाज्यस्यैव प्रधानहविष्ट्वे अपि आज्यभागादीनामपि आज्यं हविरिति तद्वारेण आज्यसंस्काराणामाज्यभागाद्यर्थत्वमप्यस्त्येव; 'द्रव्यसंस्कारप्रकरणाविशेषात् सर्वकर्मणाम्' (जै. अ. ३ पा. ८सू. ३०) इति जैमिनिना तथा सूत्रितत्वात्, द्रव्यसंस्काराः न केवलं प्रधानार्थाः किं तु अङ्गप्रधानार्था इति निर्णयार्थं प्रवृत्तस्य 'प्रकरणविशेषादसंयुक्तं प्रधानस्य (जै. अ. ३ पा. ७ सू. १) इत्यधिकरणस्य लिङ्गदर्शनात् च (ज.अ.३ पा.सू.४) इति गुणसूत्रेण आज्यसंस्काराणाम् आज्यभागप्रभृत्यङ्गार्थत्वमप्यतीत्यत्र 'ध्रुवामेवाग्रेऽभिघारयति, ततो हि प्रथमम् 'आज्यभागौ यक्ष्यन् भवतीति ध्रौवाज्याभिधारणप्राथम्ये तद्धविष्काज्यभागप्राथम्यहेतूकरणस्य लिङ्गतयोपन्यासाच्च, तस्मादवेक्षणस्याज्यसंस्कारस्य प्रधानमानार्थत्वोक्तिरयुक्ता इति-चेत्, उच्यते । नात्र तस्य प्रधानमात्रार्थत्वमुक्तं, किन्तु टीकायाम् उपांशुयाजग्रहणम् अन्येषामप्याज्यहविष्कयागानामुपलक्षणमभिप्रेत्य, उपांशुयाजः किमित्याज्यहविष्कयागसामान्योपलक्षकतया निर्दिष्टः? प्राथमिकत्वात् आज्यभागावेव तथा निर्देशार्हौ इत्याशङ्कायां, प्राधान्यादुपांशुयाजस्तथा निर्दिष्ट इत्ययमर्थः सत्यप्यत्रेत्यादिग्रन्थेन दर्शितः, अतो न दोषः ।

फलकल्पनाभयादिति ।

उपलक्षणमेतत् । पुरुषार्थत्वे हिरण्यरूपसाधनविशिष्टस्य धारणस्य विधायकं वाच्यमिति कृत्यप्रत्ययोक्तकर्मप्राधान्यभङ्गभयात् इत्यपि द्रष्टव्यम् ।

क्रतुनिवेश इति ।

धारणसंस्कृतस्य हिरण्यस्य विनियोगाकाङ्क्षया कल्प्य इति भावः । सत्रवद्विपरिणाम इति स्थाने सक्तुवद्विपरिणाम इति कचित्पाठः । हिरण्यसाधनकेन धारणेनेष्टं भावयेदिति सक्तुन्यायाद्विपरिणामे सत्यनारभ्याधीतस्य तस्य क्रतुनिवेशकल्पकाभावात् फलविशेषाकाङ्क्षायाम् आर्थवादिकफलविपरिणामोऽपि कल्प्य इति भावः । क्रत्वङ्गत्वेन गतौ सत्यां कृत्यप्रत्ययावगतकर्मप्राधान्यभङ्गः फलविपरिणामः फलाय हिरण्यविशिष्टधारणविधिरिति त्रयमपि नाश्रयणीयमिति परिहारार्थः । नन्वनारभ्याधीतस्य कुतः क्रतुनिवेशसिद्धिः? संस्कृतविनियोगनियमात् चेत्, कुतः क्रतुसंबन्धावगतेः प्राक् संस्कारविधित्वनिर्णयः? तनिर्णयेऽपि लौकिककर्मसु वा निवेशः कुतो न स्यात्? तत्राह वैदिककर्मत्वसाम्यादिति । 'तप्ते पयसि दध्यानयति 'इत्यत्र पयसः क्रतुसंबन्धात्यागेव ध्यानयनसंस्कार्यत्वेऽवगते पश्चात् सा वैश्वदेवीति वाक्येन संस्कृतविनियोगाकाङ्क्षापूरणं दृष्टम्, एवमिहापि धारणसंस्कार्यत्वेनावगते हिरण्ये तद्विनियोगाकाङ्काप्रसूतार्थापत्त्या वैदिककर्मवसादृश्योपस्थितेष्वग्निहोत्रादिषु विनियोगकल्पनया तत्पूरणमिति भावः ।

द्रव्यदेवतेति ।

ननु द्रव्यदेवतासंबन्धराहित्येन धारणस्य यागत्वाद्यभाव एव सिद्ध्येत्, न तु धारणरूपतयैव स्वतन्त्रकर्मवस्याभावोऽपि । सत्यम्, धारणस्य स्वतन्त्रकर्मत्वं लक्षितयागरूपतया मुख्यधारणरूपतया वेति विकल्पं मनसि निधाय आद्यपक्षनिराकरणार्थत्वेन इदमद्रव्यसूत्रं (जै. अ. ३ पा. ४ सू. २७) योजितम् । द्वितीयपक्षनिराकरणं तु द्रव्यपरत्वात् चेति । (जै. अ.३ पा. ४ सू. २९) (द्रव्यसंयोगाच्चेति सौत्रः पाठः) तदन्तरसूत्रेण धारणस्य स्वातन्त्र्ये कृत्यप्रत्ययावगतद्रव्यप्राधान्यविरोधं दर्शयता कृतमित्यभिप्रायः । ननु अद्रव्यसूत्रस्य द्रव्यदेवतासंबन्धराहियेन यागनिराकरणार्थतायां अद्रव्यदेवतात्वात्तु शेषः स्यादिति शबरस्वामिलिखितसूत्रस्य पाठो लिखितुं युक्तः, न त्वद्रव्यत्वादिति वार्तिककारलिखितः पाठः, तस्मिन् पाठे ह्यद्रव्यत्वाद् विधेयद्रव्याभावाद्, धारणमात्रविधानसंभवेन द्रव्यस्यापि तद्विशेषणतया विधानाभावाद्, न हिरण्यसाधनकधारणरूपस्वतन्त्रकर्मविधिरित्येव सूत्रार्थो वर्णयितुं युक्तः । सत्यम्, देवतापदयुक्तो भाष्यकारलिखितसत्रपाठ: सांप्रदायिको न भवतीति वार्तिककारैः त्यक्तत्वात् । यथावार्तिकं सूत्रं पठित्वा तत्रैव भाष्यकारदर्शितोऽप्यर्थो योजितः । अस्मिन्नर्थे द्रव्यशब्दः संप्रदानत्वार्हदेवतारूपद्रव्यवाचीति तदभावेन द्रव्यदेवतासंयोगरहित्यरूपहेतुसिद्धिरित्यभिप्रायः ।

सिद्धान्तस्त्विति ।

न च आधानसंस्कृताहवनीयवत् दध्यानयनसंस्कृतपयोवच्च साक्षाद्वाक्येन क्रतुसंबन्धानवगमेऽपि पर्णतावत् अव्यभिचरितक्रतुसंबन्धाभावेऽपि हिरण्यस्य श्रुतधारणकर्मत्वान्यथाऽनुपपत्त्याऽग्निहोत्रादिषु निवेशः कल्प्यः स्यादिति वाच्यम् । तेषु हिरण्यस्येदृशो विनियोग इति तद्विशेषकल्पनायां विनिगमकाभावेन विनियोगविशेषं विना तेषु निवेशस्या निर्वाहात् । न च येषु क्रतुषु हिरण्यविनियोगः संप्रतिपन्नः, तेषु तद्वारा धारणस्य निवेशः कल्यतामिति वाच्यम् । 'हिरण्यं हस्ते भवति', 'हिरण्येन षोडशिनः स्तोत्रमुपाकरोति' 'हिरण्यस्रज ऋत्विजो भवन्ती'त्यादिहिरण्यविनियोगवत्सु क्रतुषु तद्धारणस्यापि प्राप्तेः, दक्षिणारूपहिरण्यवत्स्वपि दीयमानस्य प्रतिगृह्यमाणस्य च तस्य धारणप्राप्तेः, हिरण्यार्थतया धारणविधाने सुवर्णश्रुतिवैफल्यापत्तेश्च । तस्मात् शोभनवर्णहिरण्यसाधनकधारणविधिः पुरुषार्थ इत्येव युक्तम् । एवं सतीयमेव श्रुतिः 'दीक्षायणी ब्रह्मसूत्री कमण्डलुधरो द्विजः' इत्यादिपुरुषार्थहिरण्यधारणस्मृतेः मूलं भविष्यतीति तस्या मूलान्तरकल्पनागौरवमपि परिहृतं भवतीति ।

˜

इत्युक्तमध्यासभाष्ये इति ।

अन्तःकरणाद्यवच्छिन्न प्रत्यगात्मा इदमनिदरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारः इत्यध्यासभाष्यटीकायामुक्तमित्यर्थः । ननु घर्षणस्यानदर्शगतेष्टकाचूर्णसंयोगविभागप्रचयतया व्याख्यानमयुक्तम्, फलं हि तत्प्रचयः पुरुषव्यापाररूपाया घर्षणक्रियायाः, यथा तण्डुलविक्लित्तिः पचिक्रियाया इत्याशङ्क्याह -एतच्चेति । सर्वत्र फलमेव धात्वर्थः, न तु तदनुकूलव्यापारः; त्यजिगमिधात्वोः पर्यायतापत्तेः । एक एव हि पूर्वदेशविभागोत्तरदेशसंयोगरूपफलद्वयस्यप्यनुकूलो व्यापारः पुरुषस्पन्दः । यद्युच्येत फलविशेषावच्छिन्नो व्यापारो धात्वर्थः, ततः पूर्वदेशं त्यजति उत्तरदेशं गच्छतीत्यर्थभेदस्तयोरिति, तर्हि आवश्यकत्वात् लाघवाच्च तत्तत्फलमेव धात्वर्थोऽस्तु । न चैवं सति पचेः विक्लित्त्यर्थतायां विक्लित्त्युदयात्प्राक् पचतीति वर्तमानप्रयोगो न स्यात्, न स्यात् च तण्डुलान् पचतीति तण्डुलानां कर्मतया निर्देशः, धात्वर्थरूपविक्लित्तिक्रियाजन्यस्य तण्डुलेषु फलान्तरस्याभावात् परसमवेतत्वाभावात् चेति वाच्यम्; धात्वर्थरूपफलानुकूलव्यापारस्य आख्यातार्थत्वाङ्गीकारेण पचतीति लडर्थस्य वर्तमानत्वस्य एकप्रत्ययोपात्ते तस्मिन्नन्वयोपपत्तेः । तज्जन्यविक्लित्तिरूपफलभागित्वेन तण्डुलानां कर्मतया निर्देशोपपत्तेश्चेति मण्डनाचार्याणां मतमनुसृत्य संयोगविभागरूपस्य फलस्य घर्षतिधात्वर्थत्वमुक्तमिति भावः । ननु फलस्य धात्वर्थत्वे विक्लित्त्युदयात् प्राक् पाको वर्तत इति प्रयोगो न स्यात् । तत्र पचिधातोरुपरि तदर्थविक्लित्त्यनुकूलव्यापारवाचकस्य आख्यातस्याभावात्, तत्तत्फलानुकूलव्यापारसामान्यरूपेण आख्यातार्थत्वे च पचति यजतीत्यादौ अधःसंतापनद्रव्यत्यागादिव्यापारविशेषप्रतीतिर्न स्यात् । तत्र तत्राधःसंतापनादिव्यापारविशेषस्यापि तदर्थतायामाख्यातस्य नानार्थत्वं स्यात् ।

तस्मात् तत्तद्व्यापारविशेष एव धात्वर्थः, त्यजिगम्योरपर्यायता तु फलस्योपलक्षणतयाप्युपपद्यत इति मन्यमानानामन्येषां मते कथमिहोपपत्तिरित्याशङ्क्यमाह –

संयोगविभागातिरिक्तेति ।

दर्पणेष्टकाचूर्णसंयोगविभागफलकः पुरुषव्यापारो घर्षतिधात्वर्थ इति पक्षेऽपीत्यर्थः ।

वस्तुतो विदिक्रियाकर्मभावेत्यादिव्याख्याने बीजमाह –

औपाधिकं त्विति ।

वृत्त्युपरागोपाधिकं कर्मत्वमित्यर्थः । इदं तु पराननुगुण्यात् नेति भावः ।

तच्छब्दाध्याहारेण योजयितुमिति ।

यत्रेत्यस्य प्रतिनिर्देशार्थं तत्रेति शब्दाध्याहारेण योजयितुमित्यर्थः । एवंच टीकायां तत्रशब्दाश्रवणेऽपि तदध्याहारोऽभिप्रेत इति सूचितं भवति । यच्छब्दाघ्याहारेण योजयितुमिति पाठे सेति शब्दस्य प्राङ्निर्देशार्थं येति शब्दस्याध्याहारेण योजयितुमित्यर्थः । अनेनोभयमप्यध्याहार्यमिति सिद्धम् । अत एवाचार्यस्तत्रेति येति चोभयमप्यध्याहृत्य वाक्यं पूरितम् ।

ननु तां ध्यायेदिति विधितः प्राग् देवताध्यानमप्राप्तमित्यसिद्धं, तं विधिमनपेक्ष्यापि तत्तदर्थवादावगमितदेवतारूपाणां स्वेच्छया कदाचिदनुचिन्तनसंभवादित्यत आह –

विध्यर्थेति ।

वषट् कुर्यादिति विध्यर्थवषट्कारानुष्ठानात्प्राक्काले नियमेन ध्यानं तद्विधिं विना न प्राप्तमित्यर्थः । ननु अधीतवेदस्य विचारपूर्वकार्थज्ञानमपि विधि विना न प्राप्नोतीति चेद, न तस्याध्ययनविधिना फलवदर्थावबोधपरतां नीतैर्विशेषतः संदिह्यमानार्थर्वेदान्तैराक्षिप्ततया मुमुक्षूणां प्राप्तिसत्त्वादिति भावः । टीकाकारैः सर्वापेक्षाधिकरणे (व. अ. ३ पा. ४ सू. २६) चतस्रः प्रतिपत्तयो ब्रह्मणि । प्रथमा तावदुपनिषद्वाक्यनवणमात्राद् भवति, यां किलाचक्षते श्रवणमिति । द्वितीया मीमांसासहितात् तस्मादेवोपनिषद्वाक्याद्, यामाचक्षते मननमिति । तृतीया चिन्तासन्ततिमयी, यामाचक्षते निदिध्यासनमिति । चतुर्थी तु साक्षात्कारवती वृत्तिरूपेति । श्रवणादिरूपतयोक्तानां चतुर्णामपि ज्ञानानां प्राप्तत्वेन विधातुमशक्यत्वमुपपादितमेव ।

इदानीं न्यायतस्तत्तात्पर्यावधारणं श्रवणं तदनुग्राहकानुमानादिरूपयुक्त्यनुचिन्तनं मननमिति पक्षे विधान्तरेणापि तयोः निदिध्यासनस्य च विधानासंभवमाह –

श्रवणं हीति ।

विषयविशेषावच्छिन्नस्येति ।

ननु सामान्यतः तात्पर्यावगमो विधेयोऽस्तु इत्याशङ्क्य विशेषग्रहणं कृतम् । तथा च सर्वेषां वेदानाम् अर्थपरत्वमापादयता अर्थज्ञानफलकाध्ययनविधिनैव च वेदान्तानामपि कर्मकाण्डवत् सामान्यतोऽर्थतात्पर्यावगमसिद्धेः न तदवगमार्थं श्रवणविधिः अभ्युपेयः, किन्तु तेषामखण्डे ब्रह्मणि न्यायतः तत्तात्पर्यमवगच्छेदिति विषयविशेषावच्छिन्नतात्पर्यावगतिविषयः सोऽभ्युपेतव्यः । तथा च प्राक तदवगमानवगमयोरुक्तदूषणद्वयमापततीति भावः । ननु साङ्गाध्ययनवतो वेदान्तानां सगुणनिर्गुणरूपेषु नानाविधेष्वर्थेषु क्वैषां तात्पर्यमिति संदेहे च सति बुद्ध्यारूढनिर्गुणरूपविषयविशेषावच्छिन्नं तात्पर्यं न्यायतो निश्चिनुयादिति विधातुं शक्यत इति चेन्न, वेदार्थनिश्चयात् फलविशेषप्रतीतौ तदर्थतात्पर्यनिर्णयाय स्वत एव न्यायविचारे प्रवृत्त्युपपत्त्या कर्मकाण्डार्थविचार इव विध्यनपेक्षणात् ।

युक्त्यालोचनस्येति ।

युक्तिविशेषालोचनविधाने प्राक् तद्वगमानवगमाभ्यां प्राप्तिर्विधानाशक्तिश्च । सामान्यतो युक्त्यालोचनं तु न विधेयम्; असंभावनादिनिरासरूपदृष्टार्थत्वेन खत एव प्राप्तेरिति भावः ।

उपासनस्यापीति ।

उपासनं हि प्रत्ययावृत्तिः, सा श्रवणमननकालयोरेकैकप्रत्ययोत्पत्तावपि प्रत्ययद्वयरूपा सिद्धैव; विधेयनिदिध्यासनावगमकाले विधेयावृत्त्यवगमस्य ब्रह्मात्मैक्यविषयत्वस्यापि सद्भावात्, तमादाय प्रत्ययत्रयरूपाऽपि सा सिद्धा, आवृत्तिमात्रं हि ध्यानशब्दार्थो, न तु शतसहस्रादिसंख्याविशेषनियतावृत्तिः । तथा च द्वित्रप्रययोत्पत्तावपि आवृत्तिशास्त्रार्थो लब्ध एव भवति । यथा सकृन्मुसलपातनेऽपि 'सर्वौषधस्य पूरयित्वाऽवहन्ती'त्यत्र अवघातशास्त्रार्थः । यदि ध्यानस्य साक्षात्काररूपदृष्टफलकत्वमिष्यते, तदा परं दार्शपूर्णमासिकावघातस्येव यावद्दृष्टफलोदयमावृत्तिः लभ्यते । तथा दृष्टफलकत्वे तु न विध्यपेक्षा । उपायान्तरप्राप्त्यभावाद् नियमस्यापि नावकाशः । न च अविच्छिन्नप्रत्ययावृत्तिः ध्यानशब्दार्थः, सा न सिद्धेति वाच्यम्; यथा श्रवणमननं प्रत्ययावृत्तिरूपं ध्यानं कर्तव्यमिति विध्यर्थावगमकाले श्रवणे यथाभूतः प्रत्ययः मनने च यथाभूतः, तयोरपि क्रमेणानुसंधेयत्वेन नैरन्तर्यस्यापि प्राप्तेरिति भावः । आखण्डलादीनामित्यादि । ननु कुतूहलभयनिवृत्त्यादिप्रयोजनसत्त्वेऽपि आद्यव्युत्पत्तिग्रहानुसारेण कार्याध्याहारः स्यादिति चेत्, किमाद्यव्युत्पत्तिग्रहकाले गामानयेत्यादिवाक्यगतानां सर्वेषां पदानां कार्यवाचित्वमध्यवसितमिति तदनुसारेण द्वितीयादिप्रयोगेषु श्रुतैरपि सर्वैः पदैः कार्यसामान्ये बोधिते तद्विशेषजिज्ञासया कार्यविशेषवाचिक्रियापदाध्याहारः? उत आद्यव्यवहारस्य क्रियापदघटितत्वं दृष्टमिति तदनुरोधेन । नाद्यः, क्रियापदसमभिव्याहारात् कार्यस्येव गोपदसमभिव्याहारात् कर्मकारकस्य प्रतीत्युपपत्त्या पदान्तराणां कर्मकारक इव कार्येपि शक्तरकल्पनीयत्वात्, यथा प्रवृत्तिः कार्यावगतिपूर्विका तथा कार्यावगतिरपि प्रवृत्तिविषयशुद्धपदार्थगोचरज्ञानपूर्विकेति नियमस्य प्रत्यक्षाधीनस्वप्रवृत्तिस्थले दृष्टत्वेन प्रयोज्यस्य प्रवृत्त्या कार्यावगतेरिव कार्यावगत्या तदनन्वितशुद्धपदार्थज्ञानस्याप्यनुमितेरनिवार्यतया तस्मिन् उत्तमबुद्धवाक्यं विना कारणान्तराभावेन आद्यव्युत्पत्तिग्रहसमय एव शुद्धे गवादिपदार्थे शब्दसामर्थ्यग्रहणावश्यंभावाच्च । साक्षात्प्रवृत्तिजनकज्ञान एव शब्दस्य सामर्थ्यं कल्पनीयमिति चेत्, तर्हि ममेदं कार्यमिति ज्ञान एव तस्य सामर्थ्यं कल्प्येत, तस्यैव गामानयेति वाक्यजन्यमदंशरहितज्ञानानन्तरभाविनः साक्षात्प्रवर्तकत्वात् । नापि द्वितीयः; दण्डेन गामानयेत्यत्र आद्यव्युत्पत्तिग्रहे करणश्रवणेऽप्यग्रे घटं पश्येत्यादौ करणानध्याहारवत् कार्यानध्याहारस्याप्युपपत्तेः, आद्यव्युत्पत्तिग्राहकवाक्यस्य आनयनकार्यघटितत्त्वे द्वितीयादिप्रयोगेष्वपि तदध्याहारापत्तेः । आनयनं विनाऽग्रे कार्यान्तरघटितवाक्यश्रवणादानयननियमस्त्यज्यत इति चेत्, तर्हि कार्यवाचिपदरहितानां सिद्धार्थवर्णनपराणां काव्यादीनां बहुलमुपलम्भात् कार्यनियमोऽपि त्यक्तव्य इति तुल्यम् । एवमाद्यव्युत्पत्तिग्रहानुरोधेनाग्रे सिद्धार्थप्रयोगेषु कार्यमध्याहर्तव्यमित्यभिमाने भग्ने हर्षलिङ्गोपजीविसिद्धार्थव्युत्पत्तिमहोपपादनमपि निरवद्यम् । अन्यथा ह्यविदितार्यजनभाषार्थ इत्यादिटीकाप्रन्येन प्राक् स्वभाषायां शब्दार्थव्युत्पत्तिमतः प्रबुद्धस्य हर्षलिङ्गोपजीवि 'पुत्रस्ते जातः' इत्यत्र व्युत्पत्तिग्रहणमुपपादितमयुक्तम्; आद्यव्युत्पत्तिग्रहानुसारेण तत्र स्नानदानादिकं कुर्विति कार्यपरत्वस्फुरणादिति शङ्कावकाशः स्यात्, न च पुत्रस्ते जातः' इत्यत्र आद्यव्युत्पत्तिग्रहोऽप्युक्तरीत्या संभवतीति शङ्कनीयम्, स्तनन्धयस्य अतिबालस्य आद्यव्युत्पत्तिग्रहसमये 'जातः शिशुः 'चैत्रस्य पुत्रजन्म हर्षकारणमिति च बोधाभावात् । ननु तद्वोधवतः प्रबुद्धस्यापि पुत्रस्ते जातः' इति शब्दस्य पुत्रजननरूपार्थपरत्वग्रहणं न संभवति, मुखविकासानुमितहर्षकारणं पुत्रजन्मज्ञानं पुत्रपदाङ्कितपटवासप्रदर्शनलिङ्गजन्यमनुमितिरूपम्, 'पुत्रस्ते जातः' इति वाक्यं तु स्नानदानादिकर्तव्यतार्थकमिति चैत्रस्य हर्षजन्मजातं स्नानदानादिप्रवृत्तिं च पश्यतस्तद्भाषानभिज्ञस्य विपरीतार्थप्रतीतेरेव प्राप्तेरिति चेत्, उच्यते; लाटदेशे पटवासप्रदर्शनपुरःसरं पुत्रजननवार्ता वाचैव स्फुटं वदन्ति वार्ताहारा इति तद्देशप्रसिद्धिं जानन् वार्ताहारवाक्यस्य पुत्रजननमेवार्थ इति प्रत्येतीति न तस्यार्थान्तरप्रतीतिप्रसङ्गः । एवं च प्राग्भवीयसंस्कारोद्बोधेन पटवासप्रदर्शनकृतेन तद्देशप्रक्रियास्मरणमाश्रित्य आद्यव्युत्पत्तिग्रहोऽपि पुत्रस्त जात इत्यत्रोपपादयितुं शक्यः । अवश्यं च मातापित्रादिभिश्चन्द्रः, गौरित्यादिशब्देषु चन्द्राद्यभिमुखाङ्गुलीनिर्देशपूर्वकमुच्चार्यमाणेषु आद्यव्युत्पत्तिग्रहे बालस्य जायमाने सर्वसिद्धशब्दविशेषोच्चारणसहितार्थविशेषाभिमुखाङ्गुलीनिर्देशस्य तस्मिन्नर्थे तस्य शब्दस्य शक्तिग्रहार्थत्वं जन्मान्तरे प्रबुद्धेन तदाऽवगतं बालेन स्मर्यत इत्येवोपपादनीयम् । तत्र गत्यन्तराभावात्, तथेहापि भविष्यति । एवं जन्मान्तरानुभवसंभवमभिप्रेत्य लाटानां प्रसिद्ध इत्युक्तम् । प्रसिद्धःप्रकर्षेण सिद्धः । अनादि कालप्रवृत्त इत्यर्थः ।

न कार्यविषयाणीत्यर्थ इति ।

नन्वेवं सति कार्यविशेषणतया स्वर्गदेवतादिभूतार्थप्रमितिजनके सार्थवादविधिवाक्ये व्यभिचारः स्यात्, नैष दोषः, भूतार्थप्रमितिशब्देन स्वातन्त्र्येण भूतार्थप्रतीतेः विवक्षितत्वात्, प्रतीतौ याथार्थ्यविशेषणस्थानपेक्षितत्त्वात् । अत एव हेत्वसिद्धिपरिहारार्थं सिद्धव्युत्पत्तिप्रसाधनापेक्षा पूर्ववाक्ये दर्शिता । यथाश्रुतेः हेतोः हि न तदपेक्षास्ति: वेदान्तानां ज्ञानविधिशेषतया ब्रह्मप्रमितिजनकत्वस्य परेणाप्यङ्गीकृतत्त्वात् ।

प्रतीतिजनकत्वसाधन इति ।

कारणानां हि तत्तदर्थविषयत्वं फलद्वारकमुपपादनीयं, न साक्षात्तत्तदर्थविषयत्वमस्ति । एवं च फलरूपायां प्रतीतौ अनन्यशेषत्वरूपभूतार्थविशेषणाविवक्षायां सिद्धसाधनम्, सिद्धसाधनपरिहाराय तद्विवक्षायां हेतुसाध्याभेद इत्यर्थः ।

ननु यदनन्यशेषभूतार्थविषयप्रतीतिजनकं तत् कार्यविषयं न भवतीति विशेषव्याप्तिरेव संभवति; चक्षुरादीनामनन्यशेषभूतार्थविषयाणाम् आनयनादिकार्यविषयत्वाभावात्, किमर्थं सामान्यव्याप्तिप्रत्यायनार्थ यत्तच्छन्दावुपन्यस्तौ इत्याशङ्कामाह –

यत्तच्छन्दावपीति ।

यद्विषयेत्यत्र तद्विषयेत्यत्र च समस्तौ यत्तच्छन्दौ न समभिव्याहृतपरौ, किन्तु प्रकृतभूतार्थपरामर्शिनौ । तथा च तद्विषयमित्यस्य भूतार्थविषयमित्यर्थलाभे सति तेन लक्षणया कार्यविषयत्वाभावरूपमभिमतसाध्यं बोधनीयमिति भावः । उपोपसर्ग इत्यादि । तथा चाद्वितीयं ब्रह्माहमर्थनिष्कृष्टसाक्षिरूपत्वेन अहमर्थनिर्दिष्टं निश्चयरूपतया विषयीकृत्य सवासनामविद्यां शृणाति हिनस्तीत्युपनिषदिति निर्वचनं कृतं भवति । सदेरिह विशरणार्थत्वस्य टीकायामुक्तत्वात् ।

व्यवहितमपीति ।

ननु क्रियातच्छेषव्यतिरिक्तकेवलसिद्धवस्तुबोधको वेदभागो नास्तीति पूर्वपक्षिमतस्य निरासे तन्नेति प्रतिज्ञाते हेतुत्वेन उपन्यस्तमनन्यशेषत्वं संग्रहवाक्ये; तदुपपादनार्थं च योऽसावुपनिषत्सु इत्यादिवाक्यं, तत्र प्रयाजादिवत् प्रकरणेन जुह्वादिवद्वाक्येन वा विनियोगाभावेन उपपाद्यमानम् अनन्यशेषत्वं किमर्थं व्यवहितान्वयमाश्रित्य चतुर्विधद्रव्यविलक्षणत्वे हेतुत्वेन योजितं? किमर्थं च भाष्ये संग्रहवाक्यम् उपन्यस्तं तत्र उपन्यस्तयोः औपनिषदत्वानन्यशेषत्वयोरनुपपादकं चतुर्विधद्रव्यविलक्षणत्वं विवरणवाक्येऽस्मिन्नुपन्यस्तम्? उच्यते । यदि प्रकरणादिविनियोजकाभावेन क्रियाशेषतयान्वयो नास्ति, तर्हि कर्मकारकत्वेन तच्छेषतयान्वयोऽस्तु एवमपि क्रियान्वयनियमस्य न भङ्ग इत्याशङ्कान्तरनिराकरणार्थं चतुर्विधरव्यविलक्षणत्वमुपन्यस्तम् । तत्रापि अनन्यशेषत्वं हेतुभवनक्षममिति व्यवहितान्वयः समाश्रितः ।

स एष नेत्यात्मेति बृहदारण्यकपञ्चमाध्यायाम्नातवाक्ये विधेयानुवाद्यविभागमनुवाद्यस्य "अथात आदेशो नेति नेतीति तच्चतुर्थाध्यायाम्नातवाक्यतः प्राप्तिं च दर्शयति –

य आत्मेति ।

स एष' इत्यस्य कस्मिन्नु प्राणः प्रतिष्ठित इत्यपाने इती'त्यादिना प्रस्तुते प्राणादिपञ्चके वृत्त्यसंभवाद् 'अगृह्यो न हि गृह्यत' इत्यादिना प्रस्तोष्यमाणे वृत्तिप्रकटयितुमपेक्षितमध्याहरति –

निरूप्यत इति ।

विनश्यत्स्विति ।

"समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्वविनश्यन्तमिति” स्मृतौ सर्वभूतस्थत्वस्य तथा विवरणादिति भावः । अवधानस्वारस्यात् आत्मत्वादेव इत्यग्रिमवाक्यगतेवैकारस्वारस्याच्च अथवेति पक्षः ।

नन्वनन्यशेषत्वं प्रागुपपादितमेव, इहापि "विधिशेषत्वं वा नेतुमिति भाष्येण, किमर्थं पुनरुपपाद्यते? इत्याशङ्क्य तदपौनरुक्त्याय पूर्वोत्तमनुवदति –

औपनिषदस्येति ।

प्रागनन्यशेषत्वमुपनिषत्प्रतिपाद्यत्वं च संग्रहवाक्ये यदुपन्यस्तं तत्रानन्यशेषत्वं प्रकरणादिविनियोजकाभावेनोपपादितम् । औपनिषदत्वं कार्य एव व्युत्पत्तिग्रह इति शङ्कानिरासेनाविषये ब्रह्मणि व्युत्पत्तिग्रहासंभवशङ्कानिरासेन कर्तृत्वाद्यवगाह्यहंप्रत्ययविरोधशङ्कानिरासेन चोपपादितम् । इदानीं तदनन्यशेषत्वं विधिशेषत्वाभावरूपतया विवरीतुमात्मत्वरूपहेत्वन्तरेण चोपपादयितुमिदं भाष्यमित्यर्थः ।

अनुषङ्गेणेति ।

न शक्य इत्यनुषङ्गेणेत्यर्थः । न त्वतःशब्दस्याप्यनुषङ्गेणेत्यर्थः । अतःशब्दोक्तहेतोः पुनर्निर्देशरूपस्य आत्मत्वादेवेत्यग्रिमभाष्यगतहेतोः पूर्वत्राप्यन्वयस्य टीकायां वक्ष्यमाणत्वात् । अपि च सर्वेषामात्मत्वादेव न हेयो नाप्युपादेय इति टीकापाठो न व्याख्यानापेक्षः ।

अपि च अत एवेति पाठेऽप्यतःशब्दः सर्वात्मत्वादिति भाष्योक्तहेतुपरामर्शीति व्याचष्टे –

भाष्योक्तादेव हेतोरित्यर्थ इति ।

भाष्ये अत इत्युक्तादेव हेतोरित्यर्थ इति पाठेऽप्ययमेवार्थो भाष्ये उक्तादेव हेतोरित्यर्थ इति व्यवहितयोजनया ग्राह्यः ।

तस्मात्पुरुषादिति प्रतीकग्रहणे पुरुषादित्यादि श्रुतिवाक्यं, तस्मादिति भाष्यं, तस्यार्थमाह –

कल्पितस्येति ।

दृष्टो हि तस्यार्थः इति शाबरवचने तस्यशब्दार्थमाह –

वेदस्येति ।

प्रतिषिध्यमानेतीति ।

अथातो धर्मजिज्ञासेत्यत्र अकारप्रश्लेषेणाधर्मविचारोपि प्रतिज्ञात इत्यधर्मरूपं प्रतिषिध्यमानमपि भाष्ये कर्मशब्देन संगृहीतम् । तत्संग्रहार्थमेव धर्मशब्दमपहाय कर्मशब्दग्रहणमिति भावः ।

आम्नायस्येति सूत्रे (जै.अ.पा.२.१) कस्यचित्परिहारस्य अनुक्तत्वात्, अपि चेत्ययुक्तमित्याशङ्क्य, शाबरवचने कृतः परिहारस्तत्रापि साम्येन प्राक् सिद्ध इत्याह –

शाबरेति ।

ननु विशिष्टे पदशक्तिः नास्ति चेत्, कथमन्वितपदार्थप्रतीतिः, न हि वृत्त्यविषये शाब्दबोधो भवतीत्यत आह –

अयमभिसंधिरिति ।

अनविनाभाविभिरपीति ।

मञ्चाः क्रोशन्तीत्यत्र हि मञ्चशब्देन मञ्चेषु शयानाः शिशवो लक्ष्यन्ते ।

अत्रोच्यत इति ।

ननु लक्षकशब्दवाच्यस्य वाक्यार्थेन अनन्वयनियमशङ्कायाः किमुत्तरमिहोक्तम् । न च अन्वितं लक्ष्यमेव वाक्यार्थेनान्वितं भवति, न त्वविशिष्टं वाच्यस्वरूपमित्युक्तनियमाविरोधो विशिष्टस्वरूपयोः तादात्म्यस्य कस्यापि स्वीकारादिति वाच्यलक्ष्यसंबन्धप्रतिपादनेन द्योतित इति वाच्यम्, विशिष्टस्य विशेष्यघटितमूर्तेः वाक्यार्थान्वये तद्धटकस्य विशेष्यस्यापि तदन्वयानिवारणात् । न च विशिष्टस्वरूपयोः संबन्धोक्त्या स्वरूपभिन्नं तदघटितं विशिष्टमङ्गीकृतमिति शङ्कनीयम्; तादात्म्यसंबन्धस्य विशिष्टविशेष्यानुप्रवेशाविरोधित्वेन 'संबन्धः स्वीकृतः' इत्येतावता तदनुप्रवेशविरोधिभेदाप्रसक्तेः । अत एवाचार्यैः इहैव वक्ष्यते "भवतु कार्यान्विते भूते सङ्गतिग्रहः, तथापि स्वरूपं तत्र प्रतीयत एव; विशिष्टेऽपि स्वरूपसंभवादिति । तस्मात् वाच्यार्थानन्वयनियमाशङ्कायाः परिहारो न लब्ध इति चेत्, लब्ध एव; 'वाक्यार्थीभावानुपपत्तिरेवान्वितलक्षणाया निदानम् इत्यन्वयानुपपत्तिमनपेक्ष्य अनुपपत्त्यन्तरस्य लक्षणाबीजत्वप्रदर्शनेन लक्ष्यार्थग्रहणसमाधेयानुपपत्तिमात्रं लक्षणाबीजं, न तु वाच्यार्थस्य वाक्यार्थेऽन्वयानुपपत्तिरेव, येन वाच्यार्थानन्वयनियमः स्यात् । काकेभ्यो दधि रक्ष्यतामित्याद्यजद्दल्लक्षणास्थले मुख्यार्थान्वयानुपपत्त्यभावेऽपि तात्पर्यानुपपत्तेः लक्षणाबीजत्वाङ्गीकारादिति ।

आकाङ्क्षासत्तीति ।

ननु एवं सत्यवश्यापेक्षिताकालादिवशादेव वाक्यार्थरूपान्वयप्रतीत्युपपत्तेर्न तत्र लक्षणा कल्पनीया । न च प्रमाकरणप्रत्यासत्तिमन्तरेण संसर्गरूपस्यापि प्रमेयस्य भानं न संभवति, प्रत्यक्षे प्रकारविशेष्ययोरिव संसर्गांशेऽपि सन्निकर्षापेक्षादर्शनादिति-वाच्यम्; तथा नियमाभावात् । अनुमितिकरणे धूमे वहिव्याप्तिसत्त्वमात्रेण पर्वतसंबन्धिवह्न्यनुमितिदर्शनात्, पक्षधर्मताबलात् साध्यस्य पक्षसंबन्धभानमिति चेत्, इहाप्याकाङ्क्षादिबलात् प्रधानपदार्थे समभिव्याहृतगुणान्वयप्रतीतिरस्तु इति चेत्, मैवम्; एवमपि शब्दबोध्यस्य वृत्तिविषयत्वनियमाप्रत्याख्यानात्, करणप्रत्यासत्तिमनपेक्ष्यानुमितौ भासमानस्यापि पक्षसाध्यसंबन्धस्य शब्देन बोधने कर्तव्ये पर्वतो वह्निमानिति तदभिधायकमतुपप्रत्ययापेक्षादर्शनात् । घटः पटो न इत्यत्रान्योन्याभावे घटे पटो न इत्यत्र संसर्गाभावे च प्रतियोगिसंबन्धस्य शब्दवृत्तिविषयत्वं विनैव शाब्दबोधविषयत्वं दृष्टमिति चेद्, न । तदन्यवाचिनो नञः शक्तावधिकरणसंबन्धस्येव तदन्यवाचिनस्तदभाववाचिनश्च नञः शक्तौ प्रतियोगिसंबन्धस्यापि शक्यत्वेन अनुप्रवेशकल्पनात्, अन्याभावशब्दयोः शक्तौ तदननुप्रवेशात् । तदर्थवाचित्वेनाङ्गीकृतस्य नञः शक्तावपि न तदनुप्रवेश इत्यभ्युपगमे तयोः प्रयोगे इव नञः प्रयोगेऽपि प्रतियोगिनि पञ्चमीषष्ठ्योः नञः प्रयोग इव तयोः प्रयोगेऽपि प्रतियोगिनि प्रथमाया वा निवारयितुमशक्यखात्॥ तस्मादन्वयांशेऽपि वृत्तिकल्पनं युक्तमेव । न च तथापि प्राक् शक्यसंबन्धित्वेन अज्ञातस्यापूर्वस्य वाक्यार्थस्य लक्ष्यत्वं न युज्यत इति वाच्यम् । प्रागविज्ञातहरिद्रानामकनदीविशेषेण हरिद्रायां नद्यां घोषविशेष इति श्रुते वाक्ये नदीपदसमभिव्याहारेण तदानीमेव हरिद्राशब्दस्य नदीविशेषशक्तिग्रहणेन नदीलिङ्गात् तत्संबन्धित्वेन अनुमितस्य तीरस्येव आकाङ्क्षाद्युपस्थापितस्य वाक्यार्थस्य अन्वयस्य वृत्त्युपस्थापितत्वसिद्ध्यर्थं लक्ष्यत्वोपपत्तेः ।

एकवाक्यान्तर्गतानां सर्वेषां पदानां इतरपदार्थान्वितस्वस्वार्थलक्षकतायां वाक्यार्थान्वयभेदेन वाक्यभेदमाशङ्क्य समभिव्याहृतयावद्गुणान्वितप्रधानपदार्थरूप एक एव लक्षणीयो वाक्यार्थ इति परिहरति –

नन्वित्यादिना ।

इयं च वाक्यार्थलक्षणा समभिव्याहतसकलपदवृत्तिः प्रधानपदमात्रवृत्तिर्वा इत्यन्यदेतत् ।

व्युत्पत्तिनियममिति ।

प्रथमं कार्यान्वितप्रयोग एव शक्तिग्रह इति नियममभ्युपेत्येत्यर्थः ।

एतदेव विवृणोति –

तथाहीति ।

कथमपरथेति ।

प्राथमिकव्युत्पत्तिग्रहे कार्यान्वयनियमवत् कार्यस्य प्रमाणान्तरगृहीतत्वनियमोऽप्यस्ति व्युत्पित्सोः गवानयनबन्धनादर्शने व्युत्पत्तिग्रहासंभवात् । तदन्वयो यथा व्युत्पत्तिग्रहोपायमात्रतया अन्यथासिद्धस्तत्र न शब्दार्थकोटौ अनुप्रविशति, एवं कार्यान्वयोऽपीत्यर्थः ।

अस्ति किलेति ।

नासिकात्र्यम्बकस्थाने निवसद्भिराचार्यैरयं ग्रन्थः कृत इति प्रसिद्धिः । अतस्तत्रत्यगिरिनदीवनवर्णनं कृतम् । जटाजूटकलनाय जटाकलापबन्धाय । पाण्डुरा पटी उष्णीषरूपा । रहः तत्र नित्यसन्निहितः त्र्यम्बकदेवः ।

पचतीति ।

पाको हि पूर्वापरीभूताधःसन्तापनादितन्दुलविक्लिप्तिफलपर्यन्तक्रियासन्तानरूपः नैकक्रियात्मकः । अतो घटादिवत्प्रतिक्षणं पर्याप्तवृत्तिर्न भवतीत्यर्थः ।

उत्पादनायामिति ।

उत्पत्तावित्यर्थः । ओदनोत्पत्यनुकूलपुरुषव्यापारस्य पाकस्यैवोदनोत्पादनत्वेन तस्य तदनुकूलत्वाभावात् । यद्वा प्रज्वलनादिरूपः अग्न्यादिव्यापारोऽपि भवत्योदनोत्पादना, तदनुकूलश्च पुरुषव्यापार इति तदभिप्रायो णिचः प्रयोगः ।

प्रयत्नविषय इति ।

साध्यतयेति शेषः । उद्देश्यतया प्रयत्नविषयत्वस्य घटभवनादौ फलेऽपि सत्त्वेन तद्यावृत्तत्वाभावात् ।

तत्र हेतुमाहेति ।

हेतुभूतं साध्यत्वमिह चिकीर्षाविषयत्वं, न तु प्रयत्ननिर्वर्त्यत्वं; साध्याविशेषात् ।

ननु द्रव्यगुणयोरपि घटरूपादिकयोः कृत्यपेक्षोत्पत्तिकत्वात् अस्ति साध्यतया कृतिविषयत्वमित्याशङ्क्य तत्रापि तदुत्पत्त्यनुकूलस्य तदुत्पादनारूपदण्डचक्रादिव्यापारानुकूलस्य च पुरुषव्यापारस्यैव तथात्वमित्याह –

तत्रापीति ।

पदस्मारितेति ।

ननु गुरुमतेऽन्विताभिधानाङ्गीकारात् कथं कार्यान्विते गृहीतशक्तिकैः पदैरनन्वितार्थानां स्मारणं कथ्यते? उच्यते । शक्तिग्रहात् पूर्व तदर्था याऽनन्वितार्थोपस्थितिः, साऽत्र निमित्तत्वेन विवक्षिता । उक्तं हि निबन्धनपञ्जिकायामृजुविमलायां अनन्वितावस्था हि संबन्धग्रहणोपायतां गच्छन्ती वाक्यार्थप्रतिपत्तौ निमित्तम् । एवं हि संबन्धग्रहणम् अयमर्थोऽनेन शब्देन आकाङ्क्षितसन्निहितयोग्यार्थान्तरान्वितः सन्नभिधीयत इतीति ।

अत्रायमर्थ इति ।

अनन्वितावस्थस्य गवादेरुपस्थितिरुक्ता । एवं च पदस्मारितेत्यनेन शक्तिग्रहणार्थं पदश्रवणसमये कारणान्तरप्रत्यायितत्वं विवक्षितमिति न विरोधः । यद्वा कार्यसामान्ये गृहीतशक्तिकैः पदैः स्मारितास्तस्यामवस्थायां समभिव्याहृतकार्यविशेषानन्वितार्था विवक्षिता इति न विरोधः ।

अविशेषेणेति ।

ननु अविशेषेण द्रव्यगुणभावार्थवाचकाः सर्वेऽपि नियोगविषयसमर्पका इत्ययं प्रतिपदाधिकरण (जै. अ.२ पा. १सू.१) पूर्वपक्षः, तं वाक्यभेदतः प्रतीयमानक्रियाकारकभावरूपविनियोगविरोधेन अनेकापूर्वाभ्युपगमगौरवप्रसङ्गेन च निराकृत्य तेषु कश्चिदेव नियोग विषयसमर्पक इति निर्धारणेन तस्मिन्नधिकरणे स्थिते, तेषु भावार्थवाचकशब्द एव नियोगविषयसमर्पक इति निर्धारणार्थं हि भावार्थाधिकरणम् (जै.अ.२ पा.१ सू.१-४) । सत्यम् । इह अविशेषेणेत्यनेन द्रव्यगुणभावार्थानां त्रयाणामपि कार्यत्वमविशिष्टम् इत्यनध्यवसायेन पूर्वपक्षो विवक्षितः । अनध्यवसायपूर्वपक्ष एव निबन्धनटीकायां दर्शितः । भाष्यगतस्याविशेषेणेति पूर्वपक्षे हेतूपन्यासस्य च अनध्यवसाय एव तात्पर्यं वर्णितम् । यद्वा विवरणटीकानुसारेण प्रतिपदाधिकरणशरीरमत्र लिखितम् । तन्मते हि प्रतिपदाधिकरणं कर्मैव विषयो न द्रव्यगुणाविति निर्धारणम् । भावार्थाधिकरणं तु किं कर्म नाम्ना विषयतया समर्प्यते, उत आख्यातेनेति विशेषविचारार्थं; प्रतिपदाधिकरणस्य भावार्थसूत्र (जै. अ. २ पा. १ सू. १) व्यतिरेकेण सूत्रान्तराभावात्, तदेव सूत्रमिह लिखितमिति न कश्चिद्दोषः ।

भावार्थशब्देभ्यः एवेति ।

भावार्थशब्दा: यजत्यादिधातवः । तेभ्यो यद्यपि विषयमात्रस्याधिगतिः तथापि विषयाधीनप्रतिपत्तिकत्वात् अपूर्वस्य कार्यस्य विषयवाचकेभ्य एव तस्याप्यधिगतिरुक्ता । एवमेवोक्तमृजुविमलायां "विध्यर्थो लिडादिभिः प्रत्याय्यते, तस्य च तत्प्रतिपाद्यमानस्य विषयाधीनप्रतिपत्तित्वात् भावार्थानां च विषयबोधकत्वात् ततोऽपूर्वं प्रतीयत इत्युच्यते, न पुनरपूर्वस्यामी भावार्था वाचकाः" इतीति॥

भावो भावनेत्यादिभ्य इति ।

भवतेः णिजन्तात् 'एरजिति सूत्रेण भाववाचिन्यच्प्रत्यये 'णेरनिटी'ति सूत्रेण णिलोपे कृते निष्पन्नो भावशब्दो भावनाशब्दपर्यायः । ननु गुरुमते भावार्थशब्दस्य पूर्वापरीभाववैशिष्ट्यमर्थः । उक्तं हि निबन्धटीकायां, पूर्वापरभावे हि भावार्थत्वं भवति, भावशब्दस्य पूर्वापरीभाववाचित्वादिति, सत्यम् । ण्यन्ताद्भवतेरजन्तस्य भावशब्दस्य भावनावाचित्वमप्युपपद्यते । न च भावनाया धात्वर्थत्वासंभवः, कृतिसाध्यत्वेन नियोगवाचिनां लिङादीनामिव तत्संघटनार्थं तथात्वेन यागादिविषयसमर्पकाणां धातूनां विशेषभूतकृतिरूपभावनार्थत्वस्यापि सत्त्वात् ।

कर्मशब्दा इत्युक्तमिति ।

कर्मशब्दः क्रियत इत्यर्थे कृञ्धातोः औणादिके मनिन्प्रत्यये सति निष्पन्नः कृतिविषयवाची, न च कृतिः कृतिविषय इति तद्व्यावृत्तिः ।

याग इत्येवमादिभ्य इति ।

यागादिशब्दा भवन्ति वस्तुतः कृतिविषयाणां वाचका इति कर्मशब्दाः । तेभ्यो यागादीनां कृतिसाध्यत्वेन प्रतीत्यभावादिति तद्व्यावृत्तिः ।

तेभ्योऽपूर्वं प्रतीयेत इति ।

अनेन सूत्रे क्रियाशब्दः क्रियतेऽनेनेति व्युत्पत्त्या फलकरणखेन रूपेणापूर्वपर इति दर्शितम् ।

एष हीति ।

ननु 'एष ह्यर्थो विधीयत' इति सूत्रशेषस्येत्थं गुरुमते व्याख्यानं कथम् । अपूर्वस्य कृतिसाध्यतया प्राधान्येन प्रतिपाद्यस्य फलकरणतया तच्छेषत्वमित्याशङ्कानिराकरणार्थमेव हीत्यादिसूत्रशेषः । 'यजेत स्वर्गकाम' इत्यादिभिर्वाक्यैः यागेन स्वर्गकामः स्वकामनाविषयं स्वर्गं साधयेदित्येषोऽर्थो यस्माद्विधीयते तस्मात् तेनापूर्वं कृत्वा इत्यपूर्वस्यापि फलकरणत्वेन सिद्धिर्भवति । स्वसिद्ध्यर्थ फलं साधयतश्चापूर्वस्य न प्राधान्यभङ्गः । 'आत्मसिध्यनुकूलस्य नियोज्यस्य प्रसिद्धये । कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः॥

इति न्यायात् इति ।

सत्यम् । इहापि स एवार्थं उपन्यस्तः । अपूर्वलक्षणोऽर्थो विधीयत इत्यत्र करणत्वेनेति शेषाध्याहारेण सोऽर्थः स्पष्टीभवति । पशुसोमाधिकरणसूत्रस्य द्रव्यसंयोगाच्चोदना पशुसोमयोः (जै. अ. २ पा.२सू. १७) इत्यादेः महत्त्वादुदाहृतसोमवाक्यमात्रविषयत्वाभावाच्च तन्न लिखितम् ।

द्रव्यदेवताख्येति ।

ऐन्द्रवायवादिवाक्येषु गृह्णातेः सोममभिषुणोति सोमं पावयति इत्यादिसन्निहितवाक्यान्तरप्रकृतसोमरसविषयत्वात् द्रव्यप्रतीतिः ।

इतरत्रेति ।

सोमवाक्ये देवताख्यरूपाप्रतीतेरित्यर्थः ।

समुदायानुवाद इति ।

यजिर्यागसमुदायस्य, सोमशब्दस्तद्रव्यसोमरससमुदायस्य चानुवाद इत्यर्थः । अनुवादस्य च प्रयोजनं सोमशब्दस्य तत्प्रख्यन्यायेन (ज.अ. १ पा. ४ सू. ४) कर्मनामधेयत्वप्राप्त्या स एष यज्ञः पञ्चविधोऽग्निहोत्रं, दर्शपूर्णमासौ, चातुर्मास्यानि, पशुः, सोम इत्यादौ सोमशब्देनापि क्रतुव्यवहारसिद्धिरिति नानुवादवैयर्थ्यम् ।

प्रत्यक्षे यागे इति ।

ऐन्द्रवायवादिवाक्यैर्देवताविशिष्टेषु ग्रहणेषु चोदितेषु यागं विना ग्रहणमात्रेण द्रव्यस्य देवतासंबन्धासिद्धेर्यागापेक्षायां सोमेन यजेतेत्येतत्सर्वानेतान् द्रव्यदेवतासंबन्धान् उपपादयद् यागान्तरानुमानं निरुन्ध्यादित्यर्थः । एवं चोत्पत्तिवाक्यविहितस्य लताद्रव्यस्य अभिषवादिवाक्यपर्यालोचनेन रसद्वारा, साधनत्वमित्यवगतेस्तस्य रसस्येन्द्रवायवाद्युद्देश्यकग्रहणसंस्कारविधिसामर्थ्यादुत्पत्तिवाक्यविधेये यागे देवता लभ्यते । तत्तद्देवतोद्देशेन गृहीतस्य रसस्य तत्तद्देवतायै त्यागाभावे ग्रहणे देवतोद्देशांशस्यादृष्टार्थत्वापत्तेः । अतो न तत्र देवताख्यरूपाऽलाभदोषः ।

अरूपत्वादिति ।

रूपशब्दो न द्रव्यदेवतामात्रपरः, किन्तु सान्तत्यादिसाधारण्यार्थं गुणसामान्यपरः ।

नह्यत्रेति ।

'दध्ना जुहोति' 'पयसा जुहोति' 'तण्डुलैः जुहोती'त्यादिवाक्यविहितानां होमानां, 'सन्ततमाघारयति' 'ऊर्ध्वमाघारयति' 'ऋजुमाघारयती'त्यादिवाक्यविहितानामाघाराणां च यानि रूपाणि दध्यादीनि सान्तत्यादीनि च तेभ्योऽन्यदुपदिष्टमतिदिष्टं वा रूपं नास्ति । तेषां च कर्मान्तरगुणानां नान्यत्रान्वयः संभवतीत्यर्थः । ननु सान्तत्यादिवाक्यानि होमाघारविधायकानीति सिद्धान्ती न मन्यते, किंतु अग्निहोत्राघारवाक्यविहितहोमाघारानुवादेन गुणविधायकानीत्येव मन्यते, तं प्रति कथं तद्विहितहोमाघारेभ्य इति सिद्धवत्कृत्य कथनम्? उच्यते; अग्निहोत्राघारवाक्याभ्यां होमाघारयोर्विधानमेव न संभवति; होमक्षारणसामान्ययोः होमान्तरक्षारणान्तरविधिसिद्धत्वेन विशेषोपस्थितिं विना अननुष्ठेयत्वेन च विधानायोगात्, तद्विशेषयोश्च विशेषकरूपाश्रवणेनाप्रतीतेः । न च नामनी विशेषके स्यातामिति वाच्यम्; विशेषकान्तरानुपस्थितौ कयोः होमक्षारणविशेषयोरेते नामनी इति बोद्धुमशक्यखात् । न च 'उद्भिदा यजेत पशुकाम' इत्यत्र नामैव विशेषकं दृष्टमिति शङ्कनीयम्, पशुफलेन प्रकृतिवच्छब्दसन्निधापितसौमिकाङ्गजातेन च लब्धविशेषे एवोद्भिन्नामप्रवृत्तेः । न च दधि सान्तत्यादिगुणैरेव विशेषलाभः । तथा सति गुणविधिप्रवृत्त्यनन्तरं होमाघारविशेषविधी, तयोः विधाने सति तदनुवादेन गुणविधानमिति परस्पराश्रयापत्तेः । तस्माद् विशेषकसद्भावाद् दधिसान्तत्यादिसगुणवाक्येष्वेव होमविशेषाणामाघारविशेषाणां च विधानम् । निर्गुणवाक्ये तदनुवादकेऽनुवादप्रयोजनमग्निहोत्राघारनाम्नोः सन्निहितसर्वहोमाघारनामत्वसिद्ध्या अग्निहोत्रं जुहुयात् स्वर्गकाम इति फलवाक्येन सर्वेषां होमानां फलसंबन्धसिद्धिः । इन्द्र ऊर्ध्वोऽध्वर इत्याघारमाघारयतीति गुणवाक्येन सर्वेषामाघाराणां मन्त्रसंबन्धसिद्धिश्चेति पूर्वपक्षाशयः ।

अनुष्ठयार्थप्रतीतेरिति ।

विशेषकाश्रवणेऽप्यनुष्ठापकविधिसामर्थ्यादेवानुष्ठेयः कश्चन होमविशेष आघारणविशेषश्चात्र विवक्षित इति ज्ञायते । अतस्तयोः विधानं नामविशेषोपबन्धश्चेत्युभयमुपपद्यते । समुदायानुवादश्च निष्फलः । राजसूयनाम्नः इव फलवाक्यगतस्यैवाग्निहोत्रनाम्नः गुणवाक्यगतस्यैव चाघारनाम्नः सन्निहितसर्वधात्वर्थपरत्वोपपत्तेरिति भावः ।

गुणविधानार्थत्वादिति ।

गुणविशिष्टकर्मविधाने च दध्यादिवाक्यविहितहोमानां न देवतालाभः; 'यदग्नये च प्रजापतये च सायं जुहोति' 'यत्सूर्याय प्रजापतये च प्रातर्जुहोती ति वाक्यविहितहोमयोर्न द्रव्यलाभः, तयोरपि दध्यादिवाक्याविशेषेण पूर्वपक्षे होमान्तरविधायकत्वस्य वक्तव्यत्वादित्याद्यपि दूषणं द्रष्टव्यम्॥ पदान्तरे - गुणवाचिनि, न तु नामधेयरूपेऽपि । अत्र विधिशक्तेः गुणसंक्रमणेन धातोरनुवादतोक्तिस्तात्पर्यपर्यवसानविषयार्थाभिप्राया, न तु शब्दवृत्तिबोध्याभिप्राया; द्रव्यगुणयोः स्वतः सिद्धतया धावानुवादेन तन्मात्रविधानासंभवात् । उक्तं हि आधाराग्निहोत्राधिकरण (जै.अ.२ पा. २ सू. १३-१६)वार्तिके सर्वत्रैव च विशिष्टविधानोत्तरकालं कि प्राप्तं किमप्राप्तम् इत्यन्वेषणायाम् अप्राप्तमात्रविषयोपसंहारात् विधेः भावनाधात्वर्थयोरनुवाद इत्यभिधीयते, नत्वादित एव तावनूद्य द्रव्यं गुणो वा विधीयते; तत्र पश्चात्तने व्यापारे मन्दबुद्धिप्रतिपत्त्यर्थं स्थूलेन न्यायेन कथ्यमाने शास्त्रकृता एवैता वचनव्यक्तय इति भ्रान्तिरिति॥ इहापि टीकायां तथैवोक्तम् । न चैवं गुणमात्रविधानफलकवाक्येष्वपि विशिष्टविध्यभ्युपगमे प्राप्ते कर्मणि अनेकगुणविधानप्रयुक्तो वाक्यभेदो न स्यात्, प्रत्येकं गुणेषु विध्यनवतारादिति वाच्यम्; शब्दबोध्यस्यार्थस्य विशिष्टरूपेणैक्येऽपि तत्र तात्पर्यविषयार्थभेदसद्धावेन तदभिप्रायत्वात् अनेकगुणविधानप्रयुक्तवाक्यभेदवर्णनस्य । तदप्युक्तं वार्तिके 'विधित्वे भावनास्थेऽपि तादर्थ्यं प्रविभज्यते । विशेषणफले चास्मिन् वाक्यभेदो भविष्यति॥' इति । शब्दबोध्यार्थभेद इव तात्पर्यविषयार्थभेदेऽपि ह्यविशिष्टं गौरवम् । मीमांसकैकदेशिनः गुरुमते निबन्धनप्रस्थानानुवर्तिनः ।

नन्वव्यापारोऽपीति ।

होमसाधनस्य दध्यादेः होमद्वाराऽपि साध्यवासंभवान्मा भूद्विषयत्वं, द्रव्यदेवतासंबन्धस्य तु स्यात् । तस्य यागद्वारा साध्यत्वात्, किंचिद्वारा साध्यमपि हि साध्यमेव; अत एव हस्तादिव्यापारद्वारा घटस्य कृतिसाध्यत्वात् घटं करोतीति द्वितीयानिर्देश इति भावः ।

उद्देश्यतयेति ।

घटोत्पत्तिमुद्दिश्य हस्तादिव्यापारं कुर्वन् घटं करोतीत्युच्यते, घटस्थाप्युद्देश्यतया कृतिविषयत्वादित्यर्थः ।

लक्ष्यनिर्देश इति ।

आक्षेप्यस्यापि शाब्दत्वसिद्ध्यर्थं लक्ष्यतोक्तिः । ध्रौवाज्यस्य "सर्वस्मै वा एतद्यज्ञाय गृह्यते यद् ध्रुवायामाज्यम्" इत्युत्सर्गतः सर्वयज्ञार्थत्वेन विहितस्य ।

वृत्रघ्ननपदवत्याविति ।

वृत्रहननप्रकाशकपदवत्यावित्यर्थः । "अग्निवत्राणि जङ्घनत्" "त्वं राजोत वृत्रहेत्यग्नेः, सोमस्य च मन्त्रयोर्वृत्रघ्नपदाभावात् ।

वृधन्वत्पदवत्याविति ।

वृद्धिप्रकाशकपदवत्यावित्यर्थः । "कविर्विप्रेण वावृधे” "वर्धयामो वचोविदः" इति मन्त्रयो- वृधन्वत्पदाभावात् ।

प्रक्रियत इति ।

सूत्रे प्रकरणशब्दः कर्मणि व्युत्पन्नः, तत्रैकवचनमविवक्षितम् । पौर्णमासीशब्दो विद्वद्वाक्यद्वयोपलक्षणम् । आलम्बनशब्दस्याध्याहार इति दर्शितम् ।

अविरोधादिति ।

पौर्णमास्यमावास्याशब्दयोः कालवाचित्वमादाय क्रमाविरोधे शक्योपपादने न तद्विरोधिकर्मविशेषपरत्वम् अङ्गीकार्यम् । तदङ्गीकारेऽत्र विद्वद्वाक्यविधेयत्वेनाभ्युपगतयोः पौर्णमास्यमावास्यासंज्ञकयोः कर्मणोः पृथक्पृथगग्निप्रकाशकसोमप्रकाशकमन्त्रद्वयमनूच्येत इत्यनुवाक्यत्वेन विहितं स्यादिति मन्त्रविकल्पः तत्प्रकाश्यदेवताविकल्पश्च भवेत्, आज्यभागयोः पुरोनुवाक्यान्तरकल्पनागौरवं च भवेदिति भावः । बलवदपीत्यपिशब्देनाभ्युपगमवादं सूचयता क्रम एव लिङ्गसाहित्येनात्र वाक्यात् बलीयान् । अग्नेः सोमस्य च प्रागेवाज्यभागयोः देवतात्वेन क्लृप्ततया तदुभयप्रकाशिकानां वार्त्रघ्नीवृधन्वतीनां तयोः विनियोजकस्य लिङ्गस्यापि सद्भावादित्यपि व्यजितम् ।

काले हीति ।

विद्वद्वाक्यविधेयपौर्णमास्यमावास्यासंज्ञककर्मद्वयाभ्युपगमे तयोः संज्ञयोः कालयोगेन निमित्तेन लक्षणैव वाच्या, न त्वपूर्वा रूढिः कल्पनीया; "पौर्णमास्यां पौर्णमास्या यजेत'' "अमावास्यायाम् अमावास्यया यजेतेति" वाक्ययोरपि तत्रैव कर्मद्वये कालविधायकत्वप्राप्तेः । एवं च वार्त्रघ्नीवृधन्वतीवाक्यद्वयश्रुतयोः पौर्णमास्यमावास्याशब्दयोः मुख्यवृत्तिसंभवे लक्षणा नाश्रयणीयेति भावः । यद्युच्यते आज्यभागयोः कालयोगाश्रवणात् प्रधानद्वारा कालयोगाश्रवणे विकृतिषु "यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां पौर्णमास्यां वा यजेत" इति कालविकल्पविधानात् पौर्णमासीकालोपांशुयाजाग्नीषोमीयविकारो यदाऽमावास्यायां क्रियते, अमावास्याकालसानाय्यैन्द्रामविकारो वा पौर्णमास्या, तदा पौर्णमासीकालप्रधानाङ्गयोः आज्यभागयोः वृधन्वतीप्राप्तेः अमावास्याकालप्रधानाङ्गयोः वार्त्रघ्नीप्राप्तेः प्रकृतिवद्भावबाधः स्यात् । अतस्तदबाधाय पौर्णमास्याख्यकर्माङ्गयोः वार्त्रघ्न्यौ, अमावास्याख्यकर्माङ्गयोः वृधन्वत्याविति वार्त्रघ्न्यादिवाक्यद्वयस्य आज्यभागविषयत्वेऽपि कर्मलक्षणाश्रयणीयेति, तथापि क्रमाविरोधादिपूर्वोक्तन्यायैः आज्यभागविषयतयैवावतिष्ठत इति द्रष्टव्यम् ।

द्वित्वोपपादनमिति ।

"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"ति फलवाक्यगताग्नेयादित्रिकद्वयरूपसमुदायद्वयोपपादनं विद्वद्वाक्यद्वयेन समुदायद्वयकरणस्य प्रयोजनम्; तदुपपादनाभावे आग्नेयादीनां षण्णामिव प्रयाजादीनामपि फलसंबन्धेन अङ्गप्रधानव्यवस्था न सिध्येत् । तथाहि अप्रसिद्धार्थं नामाख्यातपरतन्त्रमाख्यातं स्वरसतो यावद् गृह्णाति तावति वर्तते; यथा बहूनामिष्टिपशुसोमयागानां सन्निधौ पठिते "राजा स्वाराज्यकामो राजसूयेन यजेते"ति वाक्ये श्रुतमाख्यातं विशेषकाभावात् सन्निधिपठितसर्वयागग्राहीति तत्समभिव्याहृतम् अप्रसिद्धार्थं राजसूयनामापि तावद्यागवृत्ति । अत एवेष्टिपशुसोमात्मकाः सर्वे यागा राजसूये समप्रधानभूताः, प्रसिद्धार्थं तु नाम नाख्यातपरतन्त्रं, किं त्वाख्यातमेव तत्परतन्त्रमित्याख्यातमपि स्वगृहीतार्थमात्रे व्यवस्थापयति । यथा "ज्योतिष्टोमेन स्वर्गकामो यजेते"ति वाक्ये श्रुतं नाम "त्रिवृत्पञ्चदशः सप्तदश एकविंशः एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा" इत्यर्थवादोपदर्शितज्योतिर्नामकत्रिवृदादिस्तोमचतुष्टयसंबन्धनिमित्तकं, ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकुर्यादिति वाक्येन तत्संबन्धितया प्रसिद्धे सोमयागे वर्तते इत्याख्यातमपि तन्मात्रे वर्तयति । अत एव सोमयाग एव प्रधानभूतः, तत्सन्निधिपठिता इष्टिपशवस्तदङ्गानि । एवं स्थिते यद्याग्नेयादिषु षट्सु समुदायद्वयं प्रागेव प्रसिद्धं न स्यात्, तदा फलवाक्यगतं दर्शपूर्णमासाभ्यामिति पदम् अप्रसिद्धार्थम् आख्यातपरतत्रं सत् सन्निहितसर्वयागानुवचनस्वरसप्रवृत्ताख्यातानुसारेण राजसूयनामवत् सन्निहितसर्वयागनाम स्याद्, द्विवचनं छान्दसेन वचनव्यत्ययेनोपपद्येत, द्विवचनान्तप्रतिरूपकमव्ययमिति वा कल्प्येत । न हि कालयोगिषु प्राक्सिद्धसमुदायद्वयाभावे दर्शपूर्णमासनाम द्विवचनान्तं प्रसिद्धार्थं भवेत्; येषामाग्नेयादीनामुत्पत्तिवाक्यावगतः कालयोगोऽस्ति; तेषां द्वित्वप्रसिद्ध्यभावात्, ययोराज्यभागयोः द्वित्वप्रसिद्धिरस्ति तयोः कालयोगावगत्यभावात्; तस्मादवगतकालयोगेष्वाग्नेयादिषु द्वित्वप्रसिद्ध्यर्थं समुदायद्वयकरणं सप्रयोजनम् । तथा सति ह्याग्नेयादीनामेव प्रसिद्धार्थेन नाम्नोपात्तानां फलसंबन्धेन प्राधान्यं, प्रयाजादीनां तदङ्गतेति व्यवस्था सिध्यति । ननु फलवाक्यस्थस्य द्विवचनान्तनाम्नः षट्स्विव विद्वद्वाक्यस्थयोरेकवचनान्तनाम्नोः त्रिषु त्रिष्वनन्वितार्थत्वेन अप्रसिद्धार्थतया यजतिपारतन्त्र्याऽविशेषात् अनयोरपि सन्निहितसर्वयागानुवतदनस्वरसयजत्यनुरोधेन तावन्नामत्वप्रसक्तिः अपरिहार्या यद्युच्येत, तथा सति पौर्णमासीत्यमावास्येति च विद्वद्वाक्ययोः नामपृथक्त्वं नोपपद्यते; अतस्तदेव परस्परव्यावृत्तनाम्नि व्यवस्थां गमयतीति तद्व्यवस्थासिद्धये तत्तत्कालयोगिष्वेव यागेषु तयोः प्रवृत्तिः कल्पनीयेति, एवं तर्हीयं युक्तिः विद्वद्वाक्यद्वयेन समुदायद्वयसंपादनमनपेक्ष्य दर्शपूर्णमासाभ्यामिति शब्द एव योजयितुं शक्यते । तत्रैव चेयं युक्ति:-दर्शपूर्णमासयोरिज्याप्राधान्यमविशेषात् (जै. अ. ४ पा. ४ सू. २९) इति चतुर्थोपान्त्याधिकरणे पृथक्त्वेन त्वभिधानयोर्निवेशः (जै. अ. ४ पा. ४ सू. ३५) इति सिद्धान्तसूत्रावयवेन केषुचिदित्यध्याहारवता दर्शिता । तस्य ह्ययमर्थः, दर्शपूर्णमासाभ्यामिति द्विवचनश्रुत्या दर्शाभिधानस्य, पूर्णमासशब्दवाच्यात् पूर्णमासशब्दस्य च दर्शाभिधानवाच्यात् पृथक्त्वेन निवेशः प्रतीयते, अतः प्रकृतयागमात्रवाचित्वे पृथक्त्वायोगात् केषुचिदेव यागेषु निवेशो युक्त इति । एवं तर्हि समुदायद्वयप्रसिद्ध्यर्थं विद्वद्वाक्यानुसरणेऽपि उक्तयुक्त्यन्वेषणे यथासूत्रं फलवाक्य एवेयमन्विष्यताम् । अथोच्येत द्विवचनश्रवणं छान्दसत्वादिना नेतुं शक्यमिति विद्वद्वाक्ययोः नामद्वयश्रवणमपि सर्वेषां सन्निहितयागानां नामद्वयाभ्युपगमेन नेतुं शक्यमिति तुल्यमिति चेत्, उच्यते; तैत्तिरीयशाखायां "य एवं विद्वान्पौर्णमासीं यजते यावदुक्थ्येनोपाप्नोति तावदुपाप्नोति" "य एवं विद्वानमावास्यां यजते यावदतिरात्रेणोपाप्नोति तावदुपाप्नोती"ति विद्वद्वाक्याम्नातयोः पौर्णमास्यमावास्ययोः व्यवस्थितफलार्थवादः श्रूयते, स तन्नाम्नोः नामिभेदाभावे नोपपद्यत इति स्पष्ट नामिभेदः प्रतीयते, अतो विद्वद्वाक्याभ्यां समुदायद्वयसिद्धिराश्रिता । एवं च फलवाक्ये एव समुदायद्वयसंपादनं, ततः समुदायान्तर्गतानां समुदायिनां फलसंबन्धबोधनं चेति प्रतिपत्तिगौरवमपि परिहृतं भवति । तस्माद्युक्तं विद्वद्वाक्ययोः प्रयोजनकथनम् ।

अविसंवादार्थमिति ।

उत्पत्तिवाक्येन यस्येष्टसामान्ये करणत्वं बोधितं, तस्यैव अधिकारवाक्येन आकाङ्क्षितेष्टविशेषकरणत्वबोधनायां संवादो भवति । उत्पत्तिवाक्येन यत्र फले द्रव्यदेवतासंबन्धस्य करणत्वं बोधितं, तत्रैव फले परित्यज्य तदाक्षिप्तस्य यागस्य करणबोधने तु तयोर्विसंवादः स्यादित्यर्थः ।

नामधात्वर्थेति ।

नामयोगे पर्युदासतायां तदन्यतद्विरोध्यन्यतरत्वरूपायाम् अब्राह्मणाऽधर्माद्युदाहरणम्, धात्वर्थयोगे तु नेक्षेतेति प्रदर्शयिष्यमाणमुदाहरणम् ।

तत्राप्रतीतोऽपीति ।

प्रधानभूताख्यातान्वयिना नञा प्रतीतोऽप्याख्यातार्थस्य कर्तव्यत्वस्याभावोऽननुष्ठेयत्वात् त्यज्यत इत्यर्थः ।

लक्षणीय इति ।

नञीक्षतिधातुभ्यामिति शेषः ।

सर्वक्रियेति ।

सर्वा हि पुरुषस्य क्रिया संकल्पपूर्विकेति तस्य तत्प्रत्यासत्तिः ।

ननु धातुर्लक्षकश्चेद् धात्वर्थसंकल्प एव किमिति न लक्ष्यत इत्याशंक्य नञा योगात् इत्याह –

ईक्षतीति ।

संकोचकमिति ।

हन्यादिति प्रकृतिविशिष्टप्रत्ययान्वयस्वरसस्य नञः प्रधानं प्रत्ययं परित्यज्य प्रकृतिमात्रान्वयरूपं संकोचापादकं नास्तीत्यर्थः ।

शाखाचंक्रमनिरासार्थमिति ।

विधारकप्रयत्नविधिपक्षे स्थिरशङ्कायोग्ये लक्षणाप्रसङ्गेन दूषिते तदपहाय तर्हि न हन्यादित्यत्र श्रुतधातुनञर्थमध्य एव किंचिद्विधेयमस्तु इत्युत्तानधीः शङ्केत, तन्मा भूदित्येतदर्थं तदपि पक्षद्वयं विकल्पमुखेनोद्भाव्य दूषितमित्यर्थः । ननु नञर्थविधिपक्षो विधारकप्रयत्नविधिपक्षादपि स्थिरशङ्कायोग्यः । तथाहि न हन्यादित्यत्र नञः सन्निधानात् धात्वर्थेन हननेनान्वय इति तस्य हननाभावोऽर्थः, स च प्रागभावरूपोऽनादिरपि हननचिकीर्षोद्यपनयद्वारा परिपाल्यत्वेन साध्यः, अतः स एव नियोगविषयोऽस्त्विति स्थिरैव शङ्का । न चैषा हननाभावस्य स्वतःसिद्धत्वहेतुना निराकर्तुमपि शक्या; स्वतःसिद्धस्यापि तस्य परिपाल्यखेन साध्यताया भाष्यटीकयोरनुपदमेव वर्णयिष्यमाणत्वात् । किञ्च गुरुमते न हन्यादित्यादिनिषेधवाक्येषु हननाद्यभावो नियोगविषय इत्येव सिद्धान्तः । तन्मते हि प्रतिषेधेष्वकर्मत्वात् (जै. अ.६ पा.२सू.१९) इति षष्ठाध्यायगताधिकरणे 'न कलञ्जं भक्षयेदित्यादिषु चतुर्थगतप्रजापतिव्रताधिकरण (जै. अ.४ पा.१ सू. ३-६) न्यायेन अभक्षणसंकल्पो विधिविषय इति पूर्वपक्षे प्राप्ते, श्रुतभक्षणाद्यभावात्मकस्य औदासीन्यस्यैव स्वतःसिद्धस्यापि प्रसक्तचिकीर्षाद्यपनयद्वारा साध्यत्वेन नियोगविषयत्वसंभवान्न लक्षणया भक्षणादिसंकल्पस्य तथात्वमङ्गीकर्तुं युक्तमिति सिद्धान्तः । इत्थंभूतः पक्षः कथं शङ्कायोग्यत्वेनापि नेक्षितः, उच्यते; हन्याद्भक्षयेदित्यादिपदं परिपूर्णं हि नञा संबध्यते, न पदैकदेशभूतं धातुमात्रम्, अतो धात्वर्थविशिष्टस्य प्रत्ययार्थस्याभावो लभ्यते, नोपसर्जनस्य धात्वर्थस्याभावः । एवं च नञर्थस्य प्रधानसंबन्धोऽपि भवति । गुणसंबन्धो हि गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात् (जै. अ. ३ पा. १ सू. २२) इति न्यायविरुद्धः । एवं च प्रत्ययार्थस्याभाव एव वाक्यार्थे स्थिते कोत्र विधिरस्तीति तं प्रत्यप्रतीतो हननाद्यभावो विषय इत्युपपाद्यते । यद्युच्येत व्युत्पत्या न्यायेन च प्राप्तोऽपि नञः आख्यातान्वयो न संभवति; रागप्राप्तहननादिविषयस्य नियोगस्याप्रसत्या तदभावबोधनासंभवात्, अतस्तस्य विशेष्यमतिलङ्घ्य तद्विशेषणधात्वर्थान्वय इष्यत इति, एवमपि हननाद्यभावो विषयो न लभ्यते; नामार्थान्वयिन इव धात्वर्थान्वयिनोऽपि नञः पर्युदासार्थत्वनियमेन प्रतिषेधार्थत्वासंभवात् । यथाहुः, 'नामधात्वर्थयोगे तु नैव नञ् प्रतिषेधकः । वदत्यब्राह्मणाऽधर्मावन्यमात्रविरोधिनौ॥' इति । एवं च धात्वर्थान्वयेन नञः पर्युदासार्थकत्वे सति हननादिविरोधी विधारकप्रयत्नो विषयो भवेदिति तृतीयपक्ष एवान्तर्भवेत् । यथाकथंचिद् नञो हननाभावाद्यर्थत्वसमर्थनेऽपि तस्य साक्षात्कृतिसाध्यत्वाभावात् तदवस्थितिमुद्दिश्य कर्तव्यस्तदाक्षेप्यो विधारकप्रयत्न एव यदाग्नेयवाक्ये श्रुतद्रव्यदेवतासंबन्धाक्षेप्यो याग इव विधेयः स्यादिति तृतीयपक्षान्तर्भावदोषो नातिवर्तते । एवं हननाद्यभावस्य विधेयत्वासंभव आचार्यैर्नामधात्वर्थयोगे हि नञः पर्युदासतेत्युक्त्या यदाग्नेयवाक्ये श्रुतद्रव्यदेवतासंबन्धाक्षेप्यस्य यागस्यैव विधिरिति समर्थनेन च सिद्धः । अतो नञर्थविधिविकल्पोत्र आख्यातार्थाभावविषयः पर्यवस्यतीति तस्यापुरुषतन्त्रस्य स्वतःसिद्धतया प्राप्तत्वादिति टीकायां दोष उक्तः । तत्र चौदासीन्यरूपस्येत्येतदभावरूपत्वाभिप्रायम् । यद्वा यथा पुरुषस्यानीप्सितेष्वौदासीन्यं स्वतःसिद्धमेवमयमपि नञर्थ इत्यौदासीन्यसादृश्याभिप्रायमिति सर्वमनवद्यम् । ननु नार्थश्चेत्यादिना अभावश्चेत्यादिटीकावतारिकाग्रन्थेन स्वमते हननाभावमर्थमङ्गीकृत्य तथात्वे न हन्यादित्यस्य हननं नास्तीत्यतो विशेषो न स्यादिति शङ्का-तदवतारितव्याख्याग्रन्थेन । न हन्यादित्यस्य प्रतियोगिनो लिङा कर्तव्यतया प्रतीतेस्तदभावेऽपि प्रतियोगिच्छायानुपातिनि कर्तव्यताभ्रमाविशेष इति परिहाराभिप्रायकथनं च न युक्तम् । न हि स्वमते न हन्यादित्यत्र हननाभावो वाक्यार्थः, किन्तु हननकर्तव्यत्वाभावः, स च हननस्य बलवदनिष्टानुबन्धित्वपर्यवसायी; तथाऽनुपदमेव टीकाकारैराचार्यश्च वक्ष्यमाणत्वात्, किन्तु टीकाग्रन्थे इत्थमवतारयितुं युक्तः । ननु हननाभावो न विधेयश्चेत् कथं न हन्यादित्यत्र हननाभावः कर्तव्यतयोच्यत' इति प्रतिभातीति, परिहाराभिप्रायश्चेत्थं वर्णनीयः, न हन्यादित्यव्यवधानाद् नञो धात्वर्थान्वयेन हननाभावोऽर्थ इति कश्चन भ्रमः, ततः प्रतियोगिच्छायानुपातिनि तस्मिन् कर्तव्यतोच्यत इति कश्चन भ्रमः, एवं भ्रमद्वयावलम्बन एव केषांचिद् हननाभावस्य विधेयत्वेन व्यवहार इति । सत्यम्, टीकाग्रन्थस्यैवमर्थः स्पष्ट इति प्रौढ्यार्थान्तरमपि दर्शितम् ।

कर्तव्यत्वाभावबोधस्येति ।

कर्तव्यत्वविशिष्टेष्टसाधनलाभावबोधस्येत्यर्थः । इष्टसाधनत्वाभाव एव हि नञर्थ इति वक्ष्यते ।

इष्टसाधनत्वप्रयुक्तकर्तव्यताया इति ।

इष्टसाधनत्वावगतिकार्यप्रवृत्तेरित्यर्थः ।

शब्दादीनामिति ।

विधिनिषेधात्मकः शब्द एव पुरुषस्य प्रवृत्तिं निवृत्तिं च भावयन् शब्दभावनेत्युच्यत इति लिङादियुक्तेषु वाक्येषु द्वे भावने अवगम्येते शब्दात्मिका चार्थात्मिका चेति यथाश्रुतवार्तिकग्रन्थानुसारी कश्चित्पक्षः । स मीमांसकैरेव 'तत्र शब्दः स्वरूपेण वायुवच्चेत्प्रवर्तकः । प्रमाणत्वं विहन्येत नियमाच्च प्रवर्तयेत् । (जै. अ. १ पा.२ सू. ७) इत्यादिन्यायैर्निराकृतः ॥ लिङादिभिः नञ्समभिव्याहृतलिङादिभिश्च बोधितः प्रवर्तनानिवर्त्तनात्मकशब्दस्य व्यापारः शब्दभावना । लोके हि प्रैषाध्येषणादिः प्रवर्तकस्य पुरुषस्य व्यापारो गामानयेत्यादिवाक्येषु प्रवृत्तिनिवृत्तिहेतुत्वेनावगतः । अपौरुषेये वेदे वक्तृपुरुषव्यापारासंभवात् शब्दस्यैव स व्यापार इत्यन्यः पक्षः॥ वेदस्यैश्वरकर्तृकत्वात् तदभिप्राय एवाज्ञारूपः प्रवर्तको निवर्त्तकश्च लिङादीनां नञ्युक्तलिङादीनां चार्थ इत्युदयनादितार्कि कपक्षः॥ त्रैकाल्यानवच्छिन्नरूपेण लिङादिनञ्युक्तलिङाद्यसाधारणार्थभूतार्थभावनैव प्रवर्तिका निवर्तिका चेति शब्दभावनामनङ्गीकुर्वतां मीमांसकैकदेशिनां पक्षः॥ विधिनिषेधलिङादिबोध्यापूर्वरूपो नियोगः प्रवर्तको निवर्त्तकश्चेति प्राभाकरपक्षः ।

प्रत्यक्षव्यवहारे इति ।

न च स्वेच्छाधीने प्रत्यक्षव्यवहारे प्रवर्तनाद्यभावेऽपि परप्रेरितव्यवहारे प्रेरयितृपुरुषप्रेरणात्मकं प्रवर्तनादिकमस्तीति शङ्कनीयम् । तत्रापि स्वेष्टानिष्टसाधनताज्ञानं विना चेतनस्य प्रवृत्तिनिवृत्त्यसंभवेन आवश्यकस्य तस्यैव प्रवृत्तिनिवृत्तिहेतुत्वे प्रेरयितृव्यापारस्य तेनान्यथासिद्धेः, न च यागस्य स्वर्गकारणत्वनिर्वाहार्थम् अपूर्वमिव प्रैरयितृपुरुषव्यापारस्य प्रवृत्त्यादिकारणवनिर्वाहार्थं इष्टसाधनतादिज्ञानद्वारत्वेन कल्प्यते; यतस्तै नान्यथासिद्धिर्न स्यात्, क्लृप्तमेव हि तस्य स्वेच्छाधीनव्यवहारस्थले प्रवृत्यादिकारणत्वम् ।

अन्वयव्यतिरेकेति ।

टीका या कार्यकारणभावशब्दः तद्भाहकान्वयव्यतिरेकपर इति भावः ।

व्यापारो लोकसिद्ध इति ।

साध्यत्वेष्टसाधनत्वयोः धर्मो व्यापारो ह्यत्र यागादिकः, स च यज्यादिधात्वर्थत्वेन लोकप्रसिद्ध इति यज्यादिधातुसमभिव्याहारादेव तयोर्धर्मिसंबन्धसिद्धेः न धर्म्यपि लिङादिशब्दार्थ इत्यर्थः । यद्वा कृतिसाध्यत्वेष्ठसाधनत्वविशिष्टयागस्वर्गयोः व्यापारेऽपूर्वे शक्तिरिति शङ्का । व्यवहितयोः कार्यकारणभावद्वारापेक्षाया लोकसिद्धत्वेन आक्षेपादेव तत्सिद्धेः नापूर्वरूपो व्यापारः शब्दार्थः । अतो न तत्र शाब्दयोः कृतिसाध्यत्वेष्टसाधनलयोरन्वयः, किन्तु यज्यादिधात्वर्थ एवान्वय इति भावः । ननु यदि यागादिः समभिव्याहारलभ्यत्वाद् अपूर्वव्यापारो लौकिकन्यायलभ्यत्वाच्च न लिङाद्यर्थः, तर्हि कर्तव्यत्वमपि तदर्थो न भवेत, तदपि हिं कृतिसाध्यत्वरूपं लोकत एवावगन्तुं शक्यं, यागादिः कृत्या साधयितुं शक्यो न तु चन्द्रमण्डलहरणादिवदशक्य इति ॥ स्यादेतत्, यः स्वर्गादिफलकामादिरधिकारी तत्कृत्यैव साधनीयत्वं न लोकतः सिद्धमित्यन्यकृत्या साधितानामपि तेषामन्यफलार्थत्वं प्रसज्येत, तन्माभूदिति कर्तव्यत्वस्यापि लिङाद्यर्थानुप्रवेशः कल्प्यः; तथा सति हि सममिव्याहृतस्य स्वर्गकामादेः यदिष्टतत्साधनत्ववत् तत्कृतिसाध्यत्वमपि सिध्यति । न च यजेतेत्यादिकर्त्रभिप्रायार्थकात्मनेपदवत्वात् तत्सिद्धिः स्यादिति वाच्यम्, आत्मनेपदस्यासार्वत्रिकत्वात्, आग्नेयमष्टाकपालं निर्वपेद्रुक्काम इत्यादौ तदभावात् । न च तत्राग्नीनादधीतेत्याधानवाक्यगतात्मनेपदबलात्तत्सिद्धिः स्यात्, तत्र साक्षात् आधानफलस्य अग्निसंस्कारस्य आहवनीयादिगतत्वेनाग्निसाध्यक्रतुफलानां परम्परया आधानसाध्यानां कर्तृगामित्वमपेक्ष्यैव तत्रत्यात्मनेपदस्य निर्वाह्यत्वादिति वाच्यम्, अग्निनिरपेक्षजपादिविधिश्चतफलानां कर्तृगामित्वस्य ततो निर्वाहाभावात्, येनाधानं कृतं तस्याग्निषु तेन स्वफलकामनया क्षेत्रजपुत्रोत्पादनन्यायादन्येन यागानुष्ठापनप्रसङ्गस्यैवमप्यपरिहाराच्च । तस्मात्फलकामकर्तव्यत्वं न लोकसिद्धमिति तल्लाभाय कर्तव्यत्वं लिङाद्यर्थ इत्यभ्युपेयमिति चेत्, न; कर्तव्यत्वस्य तदर्थलाभ्युपगमेऽपि तच्छङ्कानपायात्, यः पुत्रगतपूतत्वादिवत्पित्रादिगतं स्वर्गं कामयते सोऽपि स्वर्गकाम इति तत्कृत्या साधितस्य यागस्य पित्रादिगतस्वर्गजनकत्वशंका हि तथैवानुवर्तेत । यद्युच्येत, प्रवर्तको विधिः कर्तृगतफलपर्यवसायिन्येव पुरुषं प्रवर्तयतीति नियमः । पुत्रगतपूतत्वादिकमपि सत्पुत्रेण भाविफलमालोचयतः स्वगतफलपर्यवसायीति परम्परया स्वफलोपयोगि । इह स्वर्गकाम इत्यादौ पूतत्वादाविव परम्पराश्रयणे प्रमाणाभावादौत्सर्गिकं साक्षात्त्वं न त्यक्तव्यमिति स्वकीयस्वर्गकामादिरेव तदर्थः, अतो नातिप्रसङ्गः भवतीति, एवं तर्हि कर्तव्यत्वस्य लिङाद्यर्थत्वाभावेऽपि स्वर्गकामो यजेतेति सामानाधिकरण्येन स्वकीयस्वर्गकामस्यैव यागकर्तृत्वप्रतीतेस्तस्य न तदर्थत्वमभ्युपगन्तव्यम् । यजेतेत्यत्र ह्याख्यातसामान्यार्थकृत्याक्षिप्तस्तदाश्रयः कर्ता प्रतीयत एव यत्रैकवचनाद्यर्थसंख्यान्वयः । तस्मात्कर्तव्यत्वं लिङाद्यर्थ इति नाभ्युपेयमिति चेत्, सत्यम् । यद्यपि सूक्ष्मदृष्ट्या अन्यलभ्यमपि कर्तव्यत्वं प्रवर्तकज्ञानविषयत्वात् प्रवृत्तिप्रयोजकस्य लिङादेरर्थोऽभ्युपेयते; तथापि कर्तव्यत्वेष्टसाधनत्वयोः धर्मः यागादिस्तदर्थो नाभ्युपेयः; धातुसमभिव्याहारादेव तयोस्ताद्धर्म्यसिद्धेः स्पष्टत्वादित्यत्र तात्पर्यम् ।

श्रुतेष्टसाधनत्वाभावोपपत्तये इति ।

ननु इष्टसाधनत्वाभावः श्रुत इत्ययुक्तम् । तस्य न हन्यादित्यैतदर्थत्वाभावात्, सांदृष्टिकष्टोपायत्वे विद्यमाने तदभावस्य बाधितत्वात् । हननेष्टसाधनतामनपबाध्य तद्गुरुतरादृष्टानिष्टोपायता ज्ञायत इति पूर्ववाक्ये तदबाधनस्योक्तत्वाच्च । एवंच श्रुतेष्टसाधनत्वाभावोपपत्तये गुरुतरानिष्टसाधनत्वं कल्प्यत इत्यप्ययुक्तम् । गुरुतरानिष्टसाधनत्वे कल्पितेऽपि सांदृष्टिकष्टोपायत्वस्य प्रत्यक्षसिद्धस्य अपनेतुमशक्यत्वेन तदभावोपपादनायोगादिति चेत्, उच्यते; गुरुतरानिष्टसाधनत्वे कल्पिते तत्प्रतिसन्धानेन सांदृष्टिकफलादिच्छा निवर्तेत, तन्निवृत्तौ च तस्येष्टत्वं नास्तीति इष्टसाधनत्वाभावस्य न हन्यादित्येतदर्थतायां न काचिदनुपपत्तिः । गुरुतरानिष्टसाधनत्वकल्पनायाश्च न तदुपपादकत्वासंभवः । पूर्ववाक्ये तात्कालिकादेष्टसाधनत्वानपबाधनोक्तिस्तु तात्कालिकफलत्वाभिमतसाधनत्वयोग्यतायाः स्वरूपतो बाधनाभावपरा, न तु तस्य फलस्येच्छाविषयत्वबाधनाभावपरापीति न विरोधः । न आस्तिककामुकस्य रागान्धस्य सत्यपि भाविनरकदुःखावश्यंभावावगमे तात्कालिकफलेच्छा नापैतीति तं प्रति इष्टसाधनलाभावबोधकस्य निषेधवाक्यस्याप्रामाण्यं स्यात्, सर्वान्प्रति प्रमाणभूतस्य च वेदवाक्यस्य पुरुषभेदेन प्रामाण्याप्रामाण्यवैलक्षण्यं न युक्तमिति चेत्, यद्येवमत्रापरितोषः तदैवमुपपादनीयम् । इष्टोपायत्वमात्रं लिङाद्यर्थः, किन्तु बलवदनिष्टाननुबन्धित्वविशेषितम् । तथा च निषेधवाक्यैर्विशिष्टाभावबोधने नास्ति बाधः । विशेष्यवति विशिष्टाभावो विशेषणाभावेनोपपादनीय इति तदुपपादनार्थं विशेषणाभावात्मकबलवदनिष्टानुबन्धिलकल्पनेति श्रुतेष्टसाधनत्वाभावोपपत्तय इत्यादिग्रन्थस्य तात्पर्यम् । सत्यपि तात्कालिकेष्टाद्वस्तुतो भाविनरकानिष्टस्याधिक्ये रागान्धस्य तात्कालिकसुखमेव ततोऽधिकमिति मोहानिषिद्धाचरणं निषेधवाक्यप्रामाण्यं चोपपद्यते । ग्रन्थे गुरुतरादृष्टानिष्टसाधनत्वकल्पनोक्तिः निन्दार्थवादरहितेषु निषेधवाक्येषु, निन्दार्थवादसत्त्वे तु तत एव तल्लाभः । हननादिषु निषेध्येषु तात्कालिकेष्टापेक्षया भाव्यनिष्टस्य गुरुतरत्ववचनं निन्दार्थवादः, यागादिषु तात्कालिकक्लेशापेक्षया भाविन इष्टस्य गुरुतरत्ववचनं स्तुत्यर्थवाद' इति हि वृद्धाः । न च यागादीनां विधेयानां लिङादिना बलवदनिष्टाननुबन्धित्वबोधने स्तुत्यर्थवादवैयर्थ्यमिति शङ्कनीयम् । तद्बोधनेऽपि इष्टानिष्टयोः साम्येन तुल्यायव्ययत्वशङ्कापरिहारेण स्तुत्यर्थवादसाफल्यादित्येषा दिक् ।

ननु निवृत्तिशब्देन प्रवृत्त्यभावः केन प्रकारेण व्याख्यातो भवतीत्याकाङ्क्षायां तेन लभ्यं विशेषमाह –

उद्यमक्रियाया इति ।

प्रवृत्त्यभावमवबुध्य इत्येतावता अनादिसिद्धप्रवृत्तिप्रागभावबोधमात्रम् उक्तं स्यात्, न तद्बोधमात्रात् निवर्त्तते, किन्तु खड्गोद्यमनादिरूपा या हननोद्यमक्रिया तस्या उपरन्तव्यमिति कर्तव्यत्वेनानुसंधीयमाना या खड्गादिपरावर्तनक्रिया तदुपलक्षितत्वेन निवृत्तिरूपा । तत्र प्रवृत्त्यभावमबुध्य निवर्त्तते निवृत्तिरूपापन्नप्रवृत्त्यभावात् भवतीत्यर्थः ।

यद्धन्यात्तन्नेतीति ।

इदं वाक्यं प्रसक्तक्रियानिवृत्तिप्रतिपादकतया नोपात्तं; खड्गादिपरावर्तनरूपतया वक्ष्यमाणायाः प्रसक्तक्रियानिवृत्तेः च हन्यादित्येतदर्थत्वाभावात्, किन्तु निवृत्तिरूपा खड्गादिपरावर्त्यताबुद्धिः केन भवतीत्याकाङ्क्षायां न हन्यादित्येतदर्थभूतानिष्टसाधनत्वज्ञानेन भवतीत्येतदर्थप्रतिपादकतयोपात्तम् ।

एषा चेति ।

न हन्यादित्यनेन हननगतबलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभावावगतिः, ततो बलवदनिष्टानुबन्धित्वकल्पनं, तेनोद्यतं खड्गादिकं परावर्तनीयमिति बुद्धिः, ततस्तत्परावर्तनवैशिष्ट्येन लब्धपरिपालनतया निवृत्तिरूपापन्नौदासीन्यप्राप्तिरिति क्रमः॥

अभावत्वात्तथेति ।

अभावो हि ब्रह्मस्वरूपे नान्तर्भवति । अतः प्रपञ्चान्तःपातित्वान्मिथ्येत्यर्थः । अतथात्त्वात् अशरीरस्वरूपत्वात् ।

अनादित्वादिति सत्कार्यवादी शङ्कत इति ।

उभयोः सादित्वे खलु परस्परहेतुहेतुमद्भावाधीनः परस्पराश्रयः प्रसज्यते, उभयोरनादित्वे तदभावाद् न परस्पराश्रयप्रसक्तिरित्यर्थः । टीकायां यस्तु मन्यत इत्यग्रिमग्रन्थेनासत्कार्यवादमवलम्ब्य प्रवाहानादित्वशङ्कायाः करिष्यमाणत्वात् इयं शङ्का सत्कार्यवादावलम्बस्वरूपाऽनादित्वविषया योजिता ।

अन्धपरम्परेति ।

स्वरूपनित्यत्वपक्षेऽपि अभिव्यक्त्योरनित्ययोः परस्परहेतुहेतुमद्भावेन तत्कृतपरस्पराश्रयानपायाद् उत्पत्तिस्थानीयां कादाचित्कीम् अभिव्यक्तिमङ्गीकृत्यापि स्वरूपनित्यत्वकल्पनेयमन्धपरम्पराप्राप्तपटशौक्ल्योपदेशवदप्रामाणिकीत्यर्थः ।

संशयनिमित्तेति ।

संशयशब्देन विशेषादर्शनादिसंशयकारणकलापो विवक्षितः; संशयस्य प्रत्ययशब्देन तत्कार्यतया ग्रहणात्, संशयशब्दस्य मुख्यार्थत्वे तु संशयमूलकशब्दप्रयोगजन्यप्रत्ययान्तरपरः प्रत्ययशब्दो योज्यः ।

उचितनिमित्तापेक्षणादिति ।

करणदोषादिबहुनिमित्तापेक्षणादित्यर्थः ।

साधारणधर्मणि दृष्टे इति ।

धवलभास्वरवर्णरूपसादृश्यविशिष्टे धर्मिणि दृष्टे । किं सादृश्यविशिष्टधर्मिज्ञानमात्रं विपर्ययकारणम्? उत सादृश्येनेव अन्यैश्च दोषैर्मिलितमित्यर्थः ।

द्वितीयं दूषयतीति ।

सादृश्यवद्दोषस्यापि प्रवेशितत्वात् । यद्यपि शुक्तिप्रमा न भवति, दोषस्य प्रमाप्रतिबन्धकत्वात्; तथापि संशयः किं न स्यात् । तस्यापि भ्रान्तिवद्दोषजन्यत्वादिति दूषयतीत्यर्थः ।

समानधर्मधर्मिण इति विशेषणं व्याचष्टे –

समानो धर्मो यस्येति ।

न च रागादिति ।

रागः संशयव्यावृत्तो भ्रानत्येकपक्षपाती दोष इति भावः ।

समानानेकधर्मेति ।

अत्राव्यवस्थात इत्येतदन्तेन सूत्रांशेन त्रिविधा संशयसामग्री वर्णिता । विशेषापेक्ष इत्यनेनान्यतरविशेषानवधारणात्मकत्वमुक्तम् । तेन विशेषापेक्षो विमर्श (गौतमस. अ.१ आ. १ सू. २३) इति सूत्रांशेनानवधारणज्ञानं संशय इति तल्लक्षणं दर्शितम् ।

अनेकस्माद्यावृत्त इति ।

अनेकशब्दस्य धर्मपदेन समासे शाकपार्थिवादिवन्मध्यमपदलोपेनानेकस्मात् सजातीयविजातीयात् व्यावृत्तोऽसाधारणो धर्म इत्यर्थेनैकधर्मलाभ इति भावः । कार्यनियमं प्रतिजानानेनेति पाठः साधुः । "संप्रतिभ्यामनाध्याने" इत्युत्कण्ठापूर्वकस्मरणरूपाध्यानव्यतिरिक्तार्थे संप्रतिपूर्वात् जानातेरात्मनेपदविधानात् । प्रति जानतेति पाठस्तु कथंचिदाध्यानार्थविवक्षया समर्थनीयः ।

तत्रेति ।

ननु अनुष्ठितस्य फलादर्शनं जन्मान्तरकृतकर्मणः फलजनकत्वं च तद्विधिव्याप्तमिति शङ्कितुः नाभिप्रायः, येन तद्व्याप्तिभञ्जनतः परिह्रियेत, किन्तु अन्वयव्यतिरेकव्यभिचारात् लोकतः कारणत्वं ग्रहीतुं न शक्यम् । अतो विधिबोध्यकारणत्वंमङ्गीकृत्य तन्निर्वाहार्थं फलप्रतिबन्धकरितनिवृत्त्यादिवैकल्यकल्पनयान्वयव्यभिचारो जन्मान्तरकृतश्रवणादिकल्पनया व्यतिरेकव्यभिचारश्च परिहरणीय इत्यभिप्रायः । न च विध्यभावे केवलमुदाहृतदृष्टान्तद्वयेनायं व्यभिचारः परिहृतो भवति; श्रुतवैशेषिकादिशास्त्राणां केषांचिवबोधानुत्पत्तौ हि मतिमान्द्यालस्यानभ्यासादिरूपकारणवैकल्यं स्पष्टं दृष्टमस्ति, शब्दमात्रस्य शाब्दप्रमाजनकखं चान्यत्र सामान्यतः सिद्धमस्ति अतस्तत्रान्वयव्यभिचारस्य प्राक्सिद्धकारणत्वाविरोधित्वेऽप्यत्र बहुशः कृतश्रवणमननानां सम्यक्सकलवेदान्तार्थनिर्णयवतां साक्षात्कारानुदयः किंचिद्दृष्टकारणवैकल्यप्रयुक्तत्वेनादृश्यमानः कथं प्रागसिद्धस्य साक्षात्कारे शब्दप्रमाणकारणत्वस्य ग्रहणे विरोधी न स्यात् ! जन्मान्तरोपाजितनिधिखननेनोपभोगे च पूर्वानुभूतम्मरणं दृष्टं कारणं सिद्धमस्ति; अतस्तत्र व्यतिरेकव्यभिचारसमाधानसंभवेऽप्यत्र जन्मान्तरकृतश्रवणादेरन्यतः सिद्ध्यभावेन तत्कल्पकस्य विधेरप्यभावे जाग्रद्व्यतिरेकव्यभिचारश्च कथं कारणत्वग्रहविरोधी न स्यात् । तस्माद्विधिव्यभिचारोद्भावनं कृतशङ्कापरिहारानुपयुक्तमयुक्तम् । तथा प्राधान्यं श्रवणादेः न भवतामपि संमतमित्येतदप्ययुक्तम्; अर्थज्ञानफलकाध्ययनविधेरिव साक्षात्कारफलश्रवणविधेरपि प्रधानकर्मत्वस्यैव प्राप्तेरिति चेत्, उभयतो व्यभिचारेण श्रवणस्य साक्षात्कारकारणत्वं लोकत इव बाधेन विधितोऽपि ग्रहीतुं न शक्यमिति प्रागेव शब्दापरोक्षनिराकरणेनोक्तप्रायम् । अतो विधिना कारणत्वं निश्चित्य व्यभिचारः परिहरणीय इति शङ्कितुरभिप्रायो न संभवतीत्यभिप्रेत्य यद्यनयोक्तिभङ्ग्या विधिव्याप्तिराशङ्किता तदेदमपि दूषणान्तरमिति विधिव्याप्तौ व्यभिचार उपन्यस्तः । अथ यदि श्रवणस्य प्रधानकर्मत्वेऽर्थबाधात् तत्परित्यज्य श्रवणादिनिर्णीतम् आत्मतत्त्वमन्द्रियकस्वसाक्षात्कारोत्पादनसमर्थं भवति; 'लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् । मर्दितमपि शालितुषैः यदविकृतं तत्तु मौक्तिकं जात्यम्॥ घृष्टं सदात्मनः स्वच्छां छायां यन्निकषोपले । स्फुटं प्रदर्शयेत् वैडूर्यं जात्यमुच्यते॥' इत्यादिशास्त्रोक्तपरीक्षाप्रकारनिर्णीतमिव रत्नतत्वम् इत्युपयोक्ष्यमाणसंस्कारतया गुणकर्मत्वमिष्यते, तदा न चेत्यादिना दूषणमुक्तमिति न किंचिदनुपपन्नम् । ननु प्रयाजशेषवाक्यस्य 'प्रयाजशेषं हविष्षु क्षारये'दित्यर्थकल्पनं न युक्तम् ।

क्षारणेन प्रतिपाद्यतया प्रयाजशेषस्य शेषितायाः क्षारणदेशतया हविषां शेषतायाश्च प्रसङ्गात्, नैतद्युक्तम्, तथा सति हि चात्वाले कृष्णविषाणं प्रास्यतीतिवद् हविष्षु प्रयाजशेषे च सप्तमीद्वितीये स्याताम्, इह तु द्वितीयया हविषां संस्कार्यत्वेन प्राधान्यं, तृतीयया प्रयाजशेषस्य तत्संस्कारार्थद्रव्यत्वेन शेषत्वं च प्रतीयत इत्याशङ्क्य विशेषयति –

कृतप्रयोजनेति ।

निर्वृत्तप्रयोजनस्य हिशेषः प्रतिपत्तिमपेक्षते, करिष्यमाणाज्यभागार्थग्राह्यमाज्यं प्रयाजशेषाज्येनासंसर्गसिद्ध्यै तस्य क्वचित् क्षारणमपेक्षते । तस्मादपेक्षितप्रतिपत्त्यर्थत्वमेव युक्तं, न त्वनपेक्षितहविःसंस्कारार्थत्वंम् । एवं च क्षारणस्य दृष्टार्थत्वमपहाय अदृष्टार्थत्वस्वीकारश्च परिहृतो भवति । प्रयाजेषु विनियुक्तस्य पुनः क्षारणे विनियोग इति विनियुक्तविनियोग विरोधोपि परिहृतो भवति । तस्माद् द्वितीयातृतीययोः सप्तमीद्वितीयार्थतैव युक्तेति भावः॥

अपूर्वेति ।

अदृष्टपर्यवसायिन एव गुणकर्मणो विध्यपेक्षणात् श्रवणादेस्तु दृष्टद्वारेणैव साक्षात्कारोपयोगित्वात् नादृष्टानुप्रवेशोऽस्तीति न तत्र अप्राप्तार्थविषयविध्यपेक्षेत्यर्थः ।

त्र्यंशा भावना हि धर्म इति ।

कौमारिलमतानुसारेण साध्यसाधनेतिकर्तव्यताभेदो मतान्तरेष्वष्यविशिष्टः ।

स्वप्नोपलब्धेति ।

स्वप्नेषु पर्यापतन्तो दृष्ट्वा व्याघ्रादय आकुलतामुत्पाद्य स्वप्नदृशमुत्थापयन्तो भवन्ति स्वोपादानाविद्यानिवर्त्तकाः । इह श्रुतिव्याख्यानेष्वस्नाविरं सिरारहितमिति व्याख्यातं, तत् स्नावाः सिरा अस्य सन्तीति स्नाविरं न स्नाविरम् अस्नाविरम् इतीशावास्योपनिषद्विवरणानुसारेण ।

प्राक्तु स्नाविरमविगलितमिति टीकानुसारेण अन्यथा व्याख्यातम् । एवमन्यत्रापि मतभेदेनाविरोधो द्रष्टव्यः॥ टीकायां विद्याऽविद्ययोः कार्यकारणभावं निवर्त्य निवर्त्तकभावं चोपपाद्य तदर्थविषयत्वेन विद्यां चाविद्यां चेति मन्त्रस्योदाहृतत्त्वात् तदनुसारेण मन्त्रं योजयति –

अविद्यामिति ।

अत्रेदं सकलमूलपूर्वापरग्रन्थगतजीवविषयप्रतिबिम्बावच्छेदव्यवहारद्वयतात्पर्यावधारणाय चिन्तनीयम्, अनयोः पक्षयोराचार्याणां कतरः पक्षः सिद्धान्त इति । द्वितीय एव; आद्यस्य आचार्यैः दूषितत्वादिति चेत्, न, अध्यासपूर्वपक्षे हि तद्दूषणं कृतम् । सिद्धान्ते तस्यासमाहितत्वात् सिद्धान्ताभिमतमेव तद्दूषणमिति चेत्, न; असारं तद्दूषणमित्यनादरेणापि तदनुद्धारोपपत्तेः । तथाहि रूपवत एवं प्रतिबिम्ब इति नास्ति नियमः, रूपसंख्यापरिमाणसंयोगविभागपरत्वापरत्वचलनसुखत्वादिजातीनां प्रतिबिम्बदर्शनात् । द्रव्यस्य सत इति विशेष्यत इति चेद्, न; पृथिव्यादिनवकानुगतस्य द्रव्यत्वस्यासिद्धेः, द्रव्यं द्रव्यमिति तत्र तत्र लौकिकानामनुगतप्रत्ययाभावात्, तार्किकपरिभाषाया निष्प्रमाणकत्वात् । गुणाश्रयस्य सत इति विशेष्यत इति चेत्, न; संख्याया एव संख्यारूपगुणाश्रयभूताया नीरूपायाः प्रतिबिम्बदर्शनात् । अस्ति हि संख्यायामपि संख्या; एकत्वं प्रथमसंख्या द्वित्वं द्वितीयसंख्या बहुत्वेषु त्रित्वं प्रथमसंख्या चतुष्ट्वं द्वितीयसंख्येत्यादिव्यवहारात् । अत एव वसन्ताय कपिञ्जलानालभेतेत्यत्र त्रित्वमेव बहुवचनार्थो, न तु चतुष्ट्वादिकं, प्रथमातिकमे कारणाभावादिति न्यायविदः । अत एव च द्वावेकत्वसंख्यारूपाववयवौ अस्या द्वित्वसंख्याया इत्याद्यर्थे ब्राह्मणद्वितयं ब्राह्मणद्वयम् इत्यादिशब्दनिष्पत्त्यर्थे "संख्याया अवयवे तयप्" इत्यादिसूत्रैस्तयप्प्रत्ययायो विहिताः । अत एव च रक्षसां निहतान्यासन् सहस्राणि चतुर्दशे'त्याद्यभियुक्तव्यवहाराः । ननु संख्यासु वस्तुतो नास्ति संख्यान्तरं, किन्तु द्वित्वसंख्या द्वितीयेत्यादिसजातीयसंख्याव्यवहाराः सत्ता सतीतिव्यवहारवदभेदेऽपि धर्मधर्मिभावकल्पनया, सहस्राणि चतुर्दशेत्यादिविजातीयसंख्याव्यवहाराः सहस्रादिसंख्याश्रयगतचतुर्दशसंख्यादिसामानाधिकरण्येन तत्कल्पनया, अतो न संख्याया मुख्यं गुणाश्रयसमिति चेत्, उच्यते, तुल्यमेतदात्मनोपि । आनन्दादिधर्मास्तदभिन्ना इति तस्यापि हि न मुख्यं गुणाश्रयत्वं; तस्माद्रूपवत एवं प्रतिबिम्ब इति नियममवलम्ब्य, आत्मप्रतिबिम्बनिराकरणं तावदयुक्तम्॥ तथा रूपवत्येव प्रतिबिम्ब इति नियममवलंब्यापि निराकरणमयुक्तम् । किं प्रतिबिम्बोपाधेर्वस्तुतो रूपवत्वं प्रतिबिम्बने प्रयोजकृमिष्यते, उत रूपवत्त्वेन ग्रहणम् । आद्ये, अनात्मनोऽन्तःकरणे प्रतिबिम्बनानुपपत्तिः, अन्तःकरणस्य त्रिवृत्करणेन पञ्चीकरणेन वा रूपवत्त्वात् । न द्वितीयः, निजरूपवत्त्वेनागृह्यमाणेऽपि स्फटिके सन्निहितजपाकुसुमप्रतिबिम्बनेन अरुणः स्फटिक इति व्यवहारदर्शनात् । तस्मात् निरवद्या प्रतिबिम्बपक्षः । प्रतिबिम्बपक्षे एव च जीवतदन्तर्यामिभावेनान्तःकरणे द्विगुणीकृत्य वृत्तिरुपपद्यते । ननु प्रतिबिम्बपक्षे केन दृष्टान्तेन द्विगुणीकृत्य वृत्त्युपपत्तिः । अम्भस्याकाशस्य प्रतिबिम्बो नाभ्युपगतः, आलोकस्य तु प्रतिबिम्ब एव नावच्छेदोऽपि । न च जलान्तर्गतसिकतादिप्रहणार्थं तदन्तरालोकप्रवेशस्य अवश्यंभावात् तेन तस्या अवच्छेदोऽप्यङ्गीकरणीय इति वाच्यम्; आलोकप्रतिबिम्बेनैव सिकतादिप्रकाशोपपत्तेः । न च समारोपितस्य प्रतिबिम्बालोकस्य सिकतादिभिः संयोगो नास्तीति वाच्यम्; सद्योऽपवरकप्रविष्टस्य समारोपितेन तमसा तत्रत्यघटादिप्रकाशप्रतिबन्धवत् समारोपितेनालोकेन सिकतादिप्रकाशजननोपपत्तेरिति चेत्, मैवम्, जलेनाकाशस्यावच्छेद एव तत्रालोकस्य प्रतिबिम्ब एवेति कल्पने दृष्टान्तसंप्रतिपत्त्यभावेपि प्रतिबिम्बाश्रयान्तःकरणेन सर्वगतस्य आत्मनोऽवच्छेदस्याप्यवश्यंभावेन स्वत एव द्विगुणीकृत्य वृत्तिसिद्धेः । प्रतिबिम्बपक्ष एव च सूत्रकारादिसंमतः । अंशो नानाव्यपदेशादित्यधिकरणे (ब्र.अ.२पा.३सू.४२) ऐकात्म्यवादे कर्मतत्फलव्यतिकरशङ्कापरिहारार्थं प्रवृत्तेन आभास एव च (व. अ.२पा.३सू. ५०) इति सूत्रेण जीवस्य ब्रह्मप्रतिबिम्बत्वमुक्तम् । तथैव च भाष्यकारैः व्याख्यातम् - आभास एवैष जीवः परस्यात्मनो जलसूर्यकादिवत् प्रतिपत्तव्यः, न स एव साक्षाद्, नापि वस्त्वन्तरम् । अतश्च यथा नैकस्मिन् जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिन्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्धः; एवमव्यतिकर एव कर्मफलयोः इति" । टीकाकारैरपि तस्मिन्नधिकरणे जीवब्रह्माभेदे सकलजीवगतदुःखभाक्त्वं ब्रह्मणः स्यादिति शङ्कापरिहार एतत्सूत्रसिद्धं प्रतिबिम्बत्वमाश्रित्यैव समर्थितः । न च मोक्षस्य अनर्थबहुलता यतः प्रतिबिम्बानामेव श्यामतावदातते, न बिम्बस्य, एवं जीवानामेव नानावेदनाभिः संबन्धः, ब्रह्मणस्तु बिम्बस्येव न तदभिसंबन्ध' इति । आचार्यैरप्येतदभिप्रायः स्पष्टीकृतः 'बिम्बप्रतिबिम्बयोः अवदातत्वश्यामत्वादिव्यवस्थानात् न धर्मसांकर्यमित्यर्थ इति । तस्मात् प्रतिबिम्बपक्ष एवाचार्याणामभिमतः । अत एव अनिर्वाच्याविद्याद्वितयसचिवस्येति प्रथमश्लोकगतचराचरपव्याख्यानसमये एव जीवस्य प्रतिबिम्बत्वमुक्तं 'जीवानामपि चराचरोपाधिकानां तत्प्रतिबिम्बत्वेन तद्विवर्ततेत्याहेति । अवच्छेदपक्षस्तु भाष्यटीकागतघटाकाशादिदृष्टान्तस्वरसप्राप्तो न दूषितः परं, न तु स्वतन्त्रेषु स्ववाक्येषु जीवोऽवच्छेद इति क्वचिदप्युक्तम् । तस्मात् प्रतिबिम्बपक्ष एवाचार्याणां सिद्धान्त इति । एवं प्रतिबिम्बपक्षः श्रेयानिति मन्यमानानां मतानुसारेणाचार्याणां तात्पर्यं योजितम्॥ अथ अवच्छेदपक्षमभ्युपगच्छतां मतमनुसृत्योच्यते । प्रतिबिम्बपक्षो भाष्यकारैरेव न स्थानतोपि (ब्र. अ. ३ पा. २ सू. ११) इत्यधिकरणे निराकृतः । तत्र ह्यत एव चोपमा सूर्यकादिवत् (ब्र. अ.३ पा. २ सू. १८) इति सूत्रेण सूर्यादिप्रतिबिम्बदृष्टान्ते श्रुत्युदाहृते दर्शिते सूर्यादिवदात्मनः प्रतिबिम्बो न युज्यत इति तदाक्षेपकत्वेन अम्बुदवग्रहणात्तु न तथात्वम् (ब्र. अ. ३ पा. २ सू. १९) इति सूत्रं व्याख्यातम् । "यथाम्बु सूर्यादिभ्यो मूर्तेभ्यो विप्रकृष्टदेशं गृह्यते न तथात्मनो विप्रकृष्टदेशं प्रतिबिम्बनयोग्यं वस्तु गृह्यते । अतो न क्वाप्यात्मनः सर्वगतस्य प्रतिबिम्बो युक्त" इति । ततो वृद्धिहासभाक्त्वमन्तर्भावात् उभयसामञ्जस्यादेवम्(ब्र.अ.३ पा.२सू.२०) इति सूत्रमुक्तानुपपत्त्या सूर्यादिवदात्मनः प्रतिबिम्बनमनुपपन्नम् इत्यङ्गीकृत्यैव श्रुतिषु सूर्यादिप्रतिबिम्बोपादानस्य तात्पर्यान्तरवर्णनपरतया व्याख्यातम् । "यथा सूर्यादिप्रतिबिम्बस्य जलाधुपाधिगतवृद्धिहासाद्यधीनवृद्धिहासादिभाक्त्वमेवमात्मनोऽप्यन्तःकरणादिगतवृद्धिह्रासाद्यधीनवृद्धिहासादिभाक्त्वमित्येतावता जलसूर्यादिदृष्टान्तीकरणं, न तु प्रतिबिम्बनेन; दृष्टान्तदार्ष्टान्तिकयोः सर्वथा साम्यस्यानपेक्षितत्वादिति" । बृहदारण्यकभाष्येऽपि "स एष इह प्रविष्ट आ नखाग्रेभ्य' इति वाक्यव्याख्यानावसरे सर्वगतस्यात्मनः कः प्रवेशो नामेति विमृश्य प्रतिबिम्बप्रवेश इति पक्षमम्बुवदग्रहणात्त्विति सूत्रोक्तेन विप्रकृष्टदेशीपाध्यभावेनैव दूषयित्वा देहादावात्मन उपलभ्यमानत्वं प्रवेशः । न हि पाषाणादाविव देहादावात्मनोऽनुपलब्धिरस्तीति प्रवेशपदार्थस्य अन्यथोपपादनेन प्रतिबिम्बपक्षदूषणं स्थिरीकृतम् । न हि लोकेपि जलाद्विप्रकृष्टदेशस्यैव चैत्रादेस्तदन्तर्निमग्नत्वेन विप्रकृष्टदेशस्यापि जले प्रतिबिम्बो दृश्यते । न च सावयवस्य चैत्रस्य जलान्तर्निमग्नाधरकायस्य ऊर्ध्वकायप्रतिबिम्बवदन्तःकरणादिगस्य आत्मनः तदभिमुखप्रदेशान्तरप्रतिबिम्ब उपपादयितुं शक्यः; निरवयवत्वशब्दकोपापत्तेः । तस्माद् बहुषु जलपात्रेषु चन्द्रस्य यावत एकत्र प्रतिबिम्बस्तावतोऽप्यन्येष्विव कृत्स्नस्यैवात्मन एकत्रान्तःकरणे प्रतिबिम्बिस्थान्येष्वपि प्रतिबिम्बो वकव्यः । ननु बहूनां दर्पणानां पुरतस्तिर्यक्प्रसारितस्य वंशदण्डस्य दर्पणेषु भिन्नभिन्नप्रदेशानामिव अन्तःकरणेष्वात्मनस्तत्तदन्तःकरणाभिमुखभिन्नभिन्नप्रदेशानां प्रतिबिम्बो वाच्यः । सावयवत्वे हि तथा वक्तुं शक्यम् । न च निदाघार्त्तस्य जाह्नवीजलनिमग्नसर्वकायस्य सर्वाङ्गीणसुखोत्पत्त्यर्थमा केशादा नखाग्रादन्तःकरणव्याप्तौ सत्यां व्यवधानरहितः तदभिमुखात्मप्रदेशो लभ्यते यस्य तत्र प्रतिबिम्बो वर्ण्येत । एवमविप्रकृष्टदेशरूपं दूषणं भाष्ये व्यक्तमिति दूषणान्तरमाचार्यैः पूर्वपक्षिमुखेनोद्घाटितम् । रूपवत एव रूपवत्येव प्रतिबिम्ब इत्यस्य चाक्षुषस्यैव चाक्षुष एव प्रतिबिम्ब इत्यर्थः । न ह्यस्य नियमस्य क्वचिद्भङ्गोऽस्ति; मुखादिप्रतिबिम्बे तदीयचाक्षुषसर्वगुणानुभवात्, कस्तूरिकादिप्रतिबिम्बे तदाघ्राणेऽपि सौरभाननुभवात् च । गुहादिषु प्रतिध्वनिर्ध्वनेः प्रतिबिम्ब इति केचित् । तन्न; स एव हि गगनगुणः शब्दः; दुन्दुभिसमुद्रदावानलझञ्झामारुतादिध्वनीनां पृथिव्यादिशब्दत्वात् । एवं च यद्यप्याभास (व.अ. २ पा.३ सू. ५०) इति सूत्रेण प्रतिबिम्बपक्ष उक्त इति प्रतिभाति; तथापि एकत्र जीवस्य प्रतिबिम्बत्वाभ्युपगमोऽन्यत्र तद्दूषणं च परमाप्तस्य सूत्रकारस्य न संभवतीति किंचिदनुसारेण कस्मिंश्चिन्नेतव्ये प्रतिबिम्बदूषणस्य अविप्रकृष्टदेशत्वादियुक्तिपूर्वकं कृतत्वाद् आभास एव चेति सूत्रे भाष्यकारैरपि श्रुत्योपपत्त्या वा प्रतिबिम्बत्वस्य समर्थितत्वात्तदेव सूत्रं वृद्धिहासभाक्त्वं (अ.पा.२.२०) इति सूत्रोक्तन्यायात् प्रतिबिम्ब सादृश्यप्रतिपादनपरं योज्यं; तावताप्यव्यतिकरसिद्धेः । तदधिकरणटीकायां बिम्बप्रतिबिम्बयोः ब्रह्मजीवदृष्टान्तत्वेनोपादानात् च । वस्तुतस्वाभास एव चेति सूत्रं प्रतिबिम्बत्वरूपस्य प्रतिबिम्बसादृश्यरूपस्य वाभासत्वस्य प्रतिपादनपरमेव न भवति; षड्विंशतिरित्येव ब्रूयादितिवदेवकारोपहतविधिशक्तिकत्वेन यथाप्राप्तानुवादत्वात्॥ तथा हि प्रकृतावग्नीषोमीयपशावध्रिगुप्रैषे 'षड्विंशतिरस्य वङ्क्रय" इति श्रुतम् । अस्य च्छागस्य पशोरेकैकस्मिन् पार्श्वे त्रयोदश त्रयोदशास्थीनीति षड्विंशतिः वङ्क्रिशब्दोक्तानि पार्थास्थीनीत्यर्थः । अश्वमेधे त्वश्वस्य पशोरेकैकस्मिन् पार्श्वे सप्तदश सप्तदशास्थीनीति चतुस्त्रिंशद्वङ्क्रयः । तत्प्रकाशको वैशेषिको मन्त्रः पठ्यते 'चतुस्त्रिंशद्वाजिनो देवबन्धोः वङ्क्रीरश्वस्य स्वधितिः समेतीति" । तेनोपदिष्टेन षड्विंशतिमन्त्रस्य सर्वथा निवृत्तौ प्रसक्तायां पुनरपि तत्र पठ्यते षड्विंशतिरित्येव ब्रूयात्, न चतुस्त्रिंशदिति । तेन प्राकृतमन्त्रः प्राप्यमाणः किं षड्विंशतिपदयुक्त एव प्राप्नोति, उत अश्ववङ्क्रिसंख्यानुसारेण षड्विंशतिरिति पदस्थाने चतुस्त्रिंशत्पदोहयुक्त इति संशये "षड्विंशतिरित्यैव ब्रूयादिति" वचनान्नास्ति वचनस्यातिभार इति न्यायात्, षड्विंशतिपदयुक्त एवेति प्रापय्य, राद्धान्तितं नवमे (जै. अ. ९ पा. ४ सू. १-२१) "षड्विंशतिरित्येव ब्रूया"दिति वाक्यं न षड्विंशतिपदयोगेन प्राकृतमन्त्रविधायकम् । एवकारोपहतविधिशक्तिकत्वेन तस्य चतुस्त्रिंशन्मन्त्रनिषेध एव तात्पर्यात् । ततश्च निषेधेन वैशेषिकमन्त्रनिवृत्तौ प्राकृतमन्त्रोऽतिदेशेनैव प्राप्नोतीति षड्विंशतिरितीत्येतत्प्राप्तानुवादकम् । यथाप्राप्ति चानुवादो भवति प्राप्तिश्च चतुस्त्रिंशत्पदोहेनैव, यथा द्विपशुके पशुबन्धे द्विपञ्चाशत्पदोहेनैव । तस्मादश्वमेधे चतुस्त्रिंशत्पदोहयुक्त एव षड्विंशतिमन्त्रः प्रयोक्तव्य इति । एवमाभास एवेति सूत्रस्यापि एवकारोपहतविधिशक्तित्वेन जीवः साक्षाद् ब्रह्मैव न भवतीति भाष्यदर्शिते निषेध एव तात्पर्यम् । आभास इति तु यथाप्रातानुवादकम् । प्राप्तिश्च वृद्धिहासभाक्त्वमिति सूत्रोक्तन्यायात् प्रतिबिम्बसादृश्यस्येति तस्यैवानुवादकम्, न तु कस्यचिदर्थस्य विधायकम् । तस्मादवच्छेदपक्षे न सूत्रादिविरोधशङ्का॥ तत्र तत्र प्रतिबिम्बत्वव्यवहारस्तु वृद्धिहासभाक्त्वसूत्रक्लृप्तसादृश्य मूलो गौणः । न हि ज्वलनाद्भिन्नत्वेनावगते माणवके अग्निरधीतेऽग्निरागच्छतीत्यादिप्रयोगसहस्रसत्त्वेऽप्यग्निशब्दो माणवके मुख्यत्वमश्नुवीत, अन्तःकरणकृतस्यैवात्मनो जीवान्तर्यामिभावेन भेदस्तु अविद्याश्रयत्वतद्विषयत्वान्तःकरणसंवलितत्वाद्युपाधिभेदादुपपद्यते; अन्यथा 'षडस्माकमनादय' इति सिद्धान्ते जीवेश्वरभिन्नत्वेनाभ्युपगतस्य जीवेश्वरतद्भेदादिसकलप्रपञ्चविवर्ताधिष्ठानत्वेन सर्वगतस्य शुद्धचैतन्यस्यापि अन्तःकरणे सत्वमवर्जनीयं, तत्तु प्रतिबिम्बपक्षमाश्रित्य द्विगुणीकृत्य वृत्त्युपपादनेनापि न निर्वहतीति त्रिगुणीकृत्य वृत्तिरुपपादनीया भवेत्; प्रतिब्रह्मोपासनमुपास्यधर्मिभेदस्य आचार्यैः आनन्दमयाधिकरणारम्भे (ब्र. अ. १ पा.१ सू. १२) वक्ष्यमाणत्वात् । दहरशाण्डिल्यविद्याद्युपास्यभिन्न भिन्नसगुणन्नमसत्वमपि तस्मिन्नभ्युपगन्तव्यमिति तदर्थं चतुःपञ्चगुणादिवृत्तिरप्युपपादनीया भवेत् । न च तदुपपादनं शक्यम्; दृष्टान्ताभावात् । तस्मात् जीवेश्वरोपाधिभ्यां वास्तवतदुभयाभावेन तत्तद्गुणोपाधिभेदेन चावच्छेदकभेदेन जीवेश्वरशुद्धचैतन्यादीनां भेद आस्थेयः । एवं जीवेश्वरयोरप्यवच्छेदकभेदेन भेदो भविष्यतीति नानुपपन्नमत्र किंचिदिति॥

इत्थं सत्संप्रदायाध्वप्राप्तयोः पक्षयोः द्वयोः ।
समर्थनं यथाबुद्धि कृतं प्रीत्यै विपश्चिताम्॥

इति कल्पतरुपरिमले चतुस्सूत्री समाप्ता॥