वेदान्तकल्पतरुः
कल्पतरुपरिमलः
 

अन्तस्तद्धार्मोपदेशात्॥२०॥ निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः॥१॥ वशीकृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम्॥२॥ समन्वयस्य सविशेषपरत्वमपोद्यानन्दमयाधिकरण उत्सर्गः स्थापितः । इदानीमपवादचिन्तार्थत्वेनाधिकरणमवतारयन् प्रघट्टकसङ्गातिमाह —

पूर्वस्मिन्निति ।

यद्यप्यपवादापवादत्वात् पुच्छब्रह्मचिन्ता प्रातर्दनविचारसन्निधौ कर्तुं युक्ता; तथाप्यवान्तरसङ्गतिमालोच्य कामाच्च नानुमानापेक्षे (ब्र.अ.१.पा.१.सू.१८) ति प्रधाननिरासस्येक्षत्यधिकरणा(ब्र.अ.१.पा१.सू.५) नन्तरं बुद्धिस्थतां चापेक्ष्य प्रथमं कृता । उतादित्यपदवेदनीयो जीव उपास्यत्वेन न तूपक्षिप्यत इत्यनुषङ्गः ।

इह रूपवत्वसर्वपाप्मविरहाभ्यां संशये पूर्वत्र मुख्यत्रितयाख्यबहुप्रमाणानुसारान्निर्विशेषनिर्णयवद् रूपवत्त्वादिबहुप्रमाणवशात्संसारी हिरण्मयः पुरुषः इत्यवान्तरसङ्गतिमभिप्रेत्य पूर्वपक्षं सङ्कलयति —

मर्यादेति ।

सर्वपाप्मविरहस्यान्यथासिद्धिमाह —

कर्मेति ।

इन्द्रस्य वृत्रवधेन ब्रह्महत्याश्रवणादस्ति देवानां कर्माधिकार इति भारतिविलासः । तन्न ; गवां सत्रासनश्रवणात् (तासां) तेषामप्यधिकारप्रसङ्गात् । असंभवस्तूभयत्र तुल्यः । नह्यैन्द्रे दधनि इन्द्रस्याधिकारसंभवः । न च निषेधाधिकारः; ‘‘न ह वै देवान् पापं गच्छती’’ ति श्रुतेः । अथ  प्राकृतस्यैव । पापस्य फलानारम्भकत्वमेतच्छ्रुत्यर्थः, तर्हि तदेव पाप्मोदयस्यालम्बनमस्तु, कर्मानधिकृतत्वोक्तेः तत्प्रदर्शनार्थत्वादिति अमुष्मादादित्यात्पराञ्चः ।

नह्यनाधारस्येति भाष्यं व्याचष्टे —

अनाधारत्वे चेति ।

नित्यत्वमिति स्वमहिमप्रतिष्ठितत्वस्य व्याख्या ।

कथं नित्यत्वेनाऽनाधारत्वसिद्धिस्तत्राह —

अनित्यं हीति ।

तर्हि तत एवानाधारत्वसिद्धौ किं सर्वगतत्वेनात आह —

नित्यमपीति ।

नित्यमपि असर्वगतं चेत्तन्न भवत्याधाररहितं, यतो यद्वस्तु तस्मान्नित्यादधरभावेनावस्थितं, तदेव तस्य नित्यस्योपरिस्थितस्याधारो भवति । तस्मात्सर्वगतत्वमपि नित्यत्वविशेषणत्वेनानाधारत्वे हेतुर्वक्तव्य इत्यर्थः ।

सर्वात्मत्वसर्वदुरितविरहयोः रूपवत्त्वादिभ्यः किं बलमत आह —

अव्यभिचारिभ्यामिति ।

न ब्रह्मणोऽन्यत्र तयोः संभव इत्यर्थः ।

ब्रह्मणि सर्वात्मत्वसंभवमाह —

सर्वेति ।

रूपवत्त्वादेर्ब्रह्मण्यपि सम्भवद्व्यभिचारमाह —

विकारवदिति ।

कार्योपहितमित्यर्थः ।

सर्वदुरितविरहमुदाहृतवाक्येनापि प्रमिमीते —

नामेति ।

पाप्मभ्य इति अपादाने पञ्चमी । ततः सर्वे पाप्मनोऽपादानां यस्योदयस्य तस्य भावस्तत्ता तद्रूपेणोदय उद्गम उच्यत इति । रूपवत्त्वं तादृशेन रूपविशेषेणोपदिश्यत इत्यन्वयः ।

ननु हिरण्मयत्वं कथं? तद्धि शरीरस्यात आह —

विकारस्य चेति ।

नन्वविकारिब्रह्मणो मायामयं रूपं वक्तव्यं, तश्च मिथ्यार्थप्रकाशकतया शास्त्राप्रामाण्यमत आह —

नचेति ।

यथा लोके मायाविदर्शितमायानुवादिवाक्यं प्रमाणमेवं शास्त्रमपि ।

अप्रामाण्यं तर्हि कदा स्यादत आह —

अपित्विति ।

मायां मिथ्याबुद्धिं कुर्वदशास्त्रं स्याद्, नतु तां करोति; तस्याः प्रागेव सिद्धत्वादित्यर्थः ।

विभूतिमत्स्वेवेश्वरावस्थाने सार्वात्म्यविरोधमाशङ्क्याभिव्यक्तिमात्रं तत्र, सत्ता तु सर्वत्रेत्याह —

सर्वेति ।

लोककामेशितृत्वश्रवणाद्देवमनुष्यैरीश्वराज्ञा विनाऽशितुमपि न शक्यमित्यन्तः पारार्थ्यन्यायः । सैवर्क् तत् सामेति तच्छब्दैश्चाक्षुषपुरुषपरामर्शः । ऋगादिविधेयापेक्षया स्त्रीलिङ्गनिर्देशः । उक्थं शस्त्रविशेषः । तत्साहचर्यात्सामस्तोत्रं ऋगुक्थादन्यच्छस्त्रं ब्रह्म त्रयो वेदाः पृथिव्यग्न्याद्यात्मके चेत्यादिभाष्यम् । तत्र ऋगाधिदैवं पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा साम चाग्निवाय्वादित्यचन्द्रम आदित्यगतपरकृष्णाख्यातिकृष्णरूपादिकमाम्नातमियमेवर्गग्निः सामेत्यादिना । अध्यात्मं च ऋग्वाक्चक्षुः श्रोत्रादिगतशुक्लभालक्षणा तावदुक्ता । साम च प्राणच्छायात्ममनोक्षिस्थकृष्णभारूपमाम्नातम् — वागेवर्क् प्राणः सामेत्यादिना । एवमात्मके ऋक्सामे तस्य गेष्ण्यौ पर्वणी॥ इति सप्तममन्तरधिकरणम्॥

अन्तस्तद्धर्मोपदेशात्॥२०॥ अपवादचिन्तायाः शास्त्रसङ्गत्यर्थप्रस्तुतशास्त्रोपयोगिफलमाह –

निर्विशेषमिति।

न तूपक्षिप्यत इति।

श्रुत्येति शेषः। तासामप्यधिकारप्रसङ्गादिति पाठः साधुः; श्रुतौ गाव इत्यस्याः शृङ्गाः सन्तीत्यादिवाक्यशेषतः स्त्रीलिङ्गत्वात्। यद्वा तेषामपि पाठ इत्थं योज्यः, श्रुतौ गाव इत्यनेन स्त्रीगव्य इव पुङ्गवा अपि संगृहीताः; "ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्रीत्यनुशासनात् तत्र स्त्रीलिङ्गशेषता, इह तु ग्रन्थे तेषामित्यनेन निष्कृष्य पुङ्गवानामेव परामर्शः। मनुष्येषु जायापत्योः दिवि ज्योतिरजरमारभेता"मित्यादि लिङ्गात्कर्मसु सहाधिकारेऽपि “युक्ता मे यज्ञमन्वासाता"मित्यादिलिङ्गात् पत्युर्मुख्याधिकारो दृष्ट इति तदनुरोधेन पुङ्गवानां तत्र मुख्याधिकारापादनार्थ इति। ननु "न ह वै देवा"नित्यादिश्रुतेः आगामिपापाप्राप्तिर्नार्थः, किन्तु विद्यमानपापफलाप्राप्तिः। इत्थं पापशब्दस्य फललक्षणा त्वयाप्येष्टव्या, अन्यथा पुण्यमेवामुं गच्छतीति तदनन्तरवाक्यस्य विध्यधिकारपरत्वं स्यात्, तच्च तव नेष्टमित्याशाङ्क्य तथा तदर्थाभ्युपगमे सर्वपाप्मोदयवाक्यस्यापि स एवार्थो भविष्यती लाह –

अथेत्यादिना।

पूर्वस्मिन्नप्यथें नास्माकमनुपपत्तिः,

पुण्यमेवामुमिति

वाक्यस्य देवतान्तरोद्देश्यकत्वरहित-परमेश्वरपूजा-तदुद्देश्यक-तपश्चर्यादिविषयत्वोपपत्तेः, प्रत्युत भारतीविलासस्यैवास्मिन्नप्यर्थेऽनुपपत्तिस्तुल्या। "पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति श्रुतेः ब्रह्महत्याया एव पापफलत्वात्। "तस्याञ्जलिना ब्रह्महत्यामुपागृह्णात्" इत्यर्थवादश्रद्धावतस्तस्य "तं भूतानि अभ्यक्रोशन् ब्रह्महनिति” तदनन्तरवाक्यश्रुतस्य लोकगर्हणस्य "तस्मादिन्द्रोऽबिभेदि"ति तत्पूर्वसंदर्भश्रुतस्य भयस्य चाङ्गीकृतत्वेन तयोरपि पापफलत्वात्।

तत्प्रदर्शनार्थत्वादिति।

सर्वपाप्मोदयवाक्यस्य या या गतिर्वक्तुं शक्यते, तस्याः सर्वस्या अप्युपलक्षणत्वेन कर्मानधिकारत्वोक्तेरित्यर्थः। तत्र रविरिति विशेष्यपदेन गत्यन्तरमपि सूचितम्। रविः खलूत्पन्नसाक्षात्कारो जीवन्मुक्तः स्वाधिकारावसाने मुक्तो भविष्यतीति यावदधिकारमित्यधिकरणे (ज. अ.३ पा.३ सू. ३२) भाष्यकृद्भिर्वक्ष्यते। ततश्चोत्पन्नब्रह्मसाक्षात्कारस्य तस्य तदधिगम उत्तरपूर्वाघयोरित्यधिकरणे (ब्र. अ. ४ पा. १ सू. १३) वक्ष्यमाणेन न्यायेन सर्वस्य पूर्वाघस्य नाशः उत्तराघस्याऽश्लेषश्चास्तीति तदन्यतरविषयं सर्वपाप्मोदयवाक्यमिति तस्य यथेदं प्रदर्शनार्थं, तथा पूर्वपापानां देवतासु फलानारम्भकत्वरूपस्याप्यर्थस्य प्रदर्शनार्थमिदं भविष्यतीति भावः॥

ननु नानाधारस्य स्वमहिमप्रतिष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्यतेति भाष्ययोजनार्था, अनाधारत्वे च नित्यत्वं सर्वगतत्त्वं च हेतुरिति टीका न युक्ता, भाष्ये नित्यत्वाविशेषणादित्याशङ्क्य, आह –

नित्यत्वमिति स्वमहिमप्रतिष्ठत्वस्य व्याख्येति।

अनित्यस्य स्वकारणप्रतिष्ठत्वावश्यंभावेन स्वमहिमप्रतिष्ठत्वायोगात् तेन नित्यत्वमाक्षिप्यत इत्याक्षेप्यनित्यत्वतात्पर्यकं तत्, न त्वनाधारखतात्पर्यकम्। अनाधारपदेन पौनरुक्त्यापत्तैरिति भावः॥

नित्यमपीति।

नित्यमसर्वगतं वस्तुतः सिद्धान्ते नास्तीति तर्कितमभिप्रेत्य चेच्छब्दः। सर्वगतत्त्वं सकलवस्त्वन्वयित्वं, तन्मायायामप्यस्ति साधारणम्, अतो नित्यत्वविशेषणमिति स्पष्टत्वान्नोक्तम्। यदि सर्वगतत्त्वं ब्रह्मासाधारणं परिपूर्णत्वं, तदा तावदेव हेतूभवनक्षममिति न नित्यत्वविशेषणमपेक्षितम्। स्वमहिमप्रतिष्ठस्येत्येतच्च न नित्यपरतया व्याख्येयं, किं त्वनाधारस्येवेतद्व्याख्येयपरतया योजनीयम्। तेन भाष्ये स्वे महिम्नीत्युदाहरिष्यमाणा श्रुतिरनाधारत्वपरतया भाष्ये एव विवृता भवति; अन्यथा तया स्वकीये महिमशब्दोक्ते क्वचिद्वस्तुनि प्रतिष्ठितत्वमुच्यत इति प्रकृतविरोधः शङ्क्येत। एवं च स्वमहिमप्रतिष्ठपदप्रतिपादितेन अनाधारत्वेनाक्षिप्तं नित्यत्वं कथमनाधारत्वे हेतुरित्यपि शङ्का निरवकाशा भवति। सर्वगतत्त्वं सकलवस्त्वन्वयित्वमित्येव निरुच्य नित्यत्वविशेषणापेक्षणे तु तत्स्वमहिमप्रतिष्ठपदेन कथंचिल्लक्ष्य, न प्रागुक्तक्रमेणाक्षेप्यमित्यन्योन्याश्रयपरिहारो द्रष्टव्यः। टीकायां नित्यत्वस्याकाशवदिति भाष्योदाहृतश्रुत्युक्तस्य हेतुता विवक्षितेति व्याख्याने तु तस्य नाक्षेपो न लक्षणेति न कथंचिदप्यन्योन्याश्रयशङ्का॥

ब्रह्मणि सर्वात्मत्वसंभवमाहेति।

अनेनादित्यपुरुषे अक्षिपुरुषे च तत्संभवशङ्का निरस्ता। सा चैवम्, आदित्यपुरुषे पृथिव्यग्न्यादिदृष्टिविशिष्ट-ऋक्सामगेष्णत्वं मण्डलतदर्च्चिस्तदभिमानिपुरुषाणामादित्यो वा एष एतन्मण्डलम्" इत्यादिश्रुतौ ऋक्सामयजुरात्मतया वर्णितत्वादुपपन्नम्। आदित्यपुरुषस्यैवाक्षण्यपि सन्निहितत्वात्तत्रापि सैव ऋक्सामेत्यादिनोक्तऋक्सामाद्यात्मत्वं तत एवोपपन्नमिति। तत्रायं परिहारो विवक्षितः। ऋक्सामादिरूपत्वं मण्डलादीनां स्तुत्यर्थमुपासनार्थं वोक्तं, ब्रह्मणि तु सर्वोपादाने 'सन् घट' इत्यादिव्यवहारालम्बनं व्यावहारिकप्रमाणगम्यमस्ति सर्वप्रपञ्चतादात्म्यमिति।

तद्रूपेणोदय इति।

आदित्यपुरुषस्य सर्वपाप्मापादानतयोपलक्षितः उदय उद्गमनमुच्यत इत्यर्थः।

ननु पाप्मापादानकमुद्गमनं प्राक्पाप्मसंबन्धिनो जीवस्यैव संभवतीति नेदं ब्रह्मलिङ्गमिति चेत्, न; जीवस्यापि नीडात् शकुन्तस्येव पापाद् मुख्यस्योद्गुमनस्यासंभवेन नीडादुगतः शकुन्तो यथा सर्वात्मना नीडसंबन्धरहितः, एवमयं सर्वात्मना पापसंबन्धरहित इत्येतदर्थलक्षकत्वात्। ततश्चासङ्कुचितसर्वपापराहित्यं क्वचिदपि जीवे न संभवति; "न ह वै सशरीरस्य सत" इति श्रुत्युक्तरीत्या शरीरे सति कियतोऽपि दुःखस्यावश्यंभावेन तद्धेतुपापसद्भावनियमात्। ननु 'तां कुर्वदि'त्ययुक्तं, न हि शब्दः स्वयं मायां करोतीत्याशङ्क्य तां कुर्वदित्यनेनानुवादत्वं विहाय स्वातन्त्र्येण मिथ्याबुद्ध्युत्पादकत्वं विवक्षितमिति व्याचष्टे –

मायां मिथ्यावुद्धिं कुर्वदिति।

गेष्ण्यो पर्वणी इति।

गानक्रियासाधनपर्वणी इत्यर्थः। एतदुक्तं भवति – 'तस्योदिति नामे'त्यादिभिः वाक्यैरुन्नामविधानतन्निर्वचनतवेदनफलसङ्कीर्तनानन्तरं "तस्यर्क् साम च गेष्णा"विति ऋक्सामयोः प्रकृतोन्नामकपुरुषगेष्णत्वमभिधाय "तस्मादुद्गीथस्तस्मात्वेवोद्गातैतस्य हि गातेति" वाक्याभ्यां ऋक्सामयोः उद्गेष्णात्वादेव सामभक्तिविशेषस्योत्कर्मकगानसाधनवाच्युद्गीथ शब्दवाच्यत्वं तस्मादेव च हेतोरुद्गीथभक्तिगातुरुत्कर्मकगानकर्तृवाच्युगातृशब्दवाच्यत्वं चेति श्रूयते। तत्रोन्नामकपुरुषस्य गानकर्मत्वं सामरूपगीतिक्रियाभिव्यङ्ग्यं ऋक्साध्यस्तुतिकर्मत्वं, यथा “तद्य इमे वीणायां गायन्त्येतं ते गायन्ती"त्यत्र लौकिकपुरुषस्य लौकिकगानकर्मत्वं वैणिकगीयमानलौकिकशब्दसाध्यस्तुतिकर्मत्वम्। एवं चोन्नामकपुरुषस्य स्तुतावृक्साक्षात्साधनं, साम ऋगभिव्यक्तिद्वारा; 'साम्ना स्तुवीतेति' साम्नोपि स्तुतिसाधनत्वश्रवणात्। अतः स्तुतौ साध्यायां सामद्वयं सोपानपर्वद्वयवत् क्रमिकमास्त इति गानपर्वत्वमृक्सामयोरिति। ततश्च लौकिकगानविषयराजादिरूपतयेवादित्यपुरुषस्याक्षिपुरुषस्य च ऋक्सामसाध्यस्तुतिविषयानीन्द्रसोमादिरूपतया सार्वात्म्यसिद्धिः। यद्यपि प्रस्तावादिसामभक्त्यवयवरूपे सामगानां पर्वेत्येव प्रसिद्धे साम्नामवच्छेदे गेष्ण्याख्या तेषां प्रसिद्धा, औक्थिक्याख्ये सामपर्वलक्षणग्रन्थेऽपि तथैव व्यवहारः; तथापि स्तोत्रसाधनक्रमिकपर्वद्वयत्वसादृश्याद् ऋक्सामयोः गेष्णद्वयत्वारोपः। गेष्ण्यौ शरीरावयवपर्वणी इत्यप्याचचक्षते॥

इति सप्तममन्तरधिकरणम्।