वेदान्तकल्पतरुः
कल्पतरुपरिमलः
 

आकाशस्तल्लिङ्गात्॥२२॥ लिङ्गाद् ब्रह्मनिर्णयस्य तुल्यत्वात्पुनरुक्तिमाशङ्क्याह —

पूर्वस्मिन्निति ।

श्रुतिप्राप्तनभसो लिङ्गेन बाधार्थो न्यायोऽधिक इत्यर्थः । इदमुक्तं — न भूताकाश उपास्यत्वेनेति । यद्यप्यस्मिन्ग्रन्थे पूर्वत्र सोपाधिब्रह्मण उपास्तिचिन्ता, अत्र तु तस्योद्गीथे संपत्तिचिन्तेति विशेषप्रदर्शनपरं भाति, तथापि न तथार्थो ग्राह्यः, हिरण्मयवाक्येऽपि तस्मादुद्गीथ इत्युद्गीथसंपत्तेस्तुल्यत्वात् । तस्मादेतदपि असाधारणधर्मतुल्यमेवानूदितम् । आकाशशब्दो नभ पर, उत ब्रह्मपर इति रूढिनिरूढप्रयोगाभ्यां विशये पूर्वत्राव्यभिचारिलिङ्गादन्यथासिद्धरूपवत्त्वादि नीतम्, इयं तु श्रुतिर्लिङ्गान्नान्यथयितव्येति प्रत्युदाहरणलक्षणसंगतिः ।

प्रधानत्वहेतुं व्याचष्टे —

अस्येति ।

तदानुगुण्येनेत्येतद्विवृणोति —

सर्वाणीति ।

प्रथमत्वे हेतुं व्याख्याति —

अपिचेति ।

ननु परबलीयस्त्वन्यायेन प्रथममाकाशं बाध्यताम्, अत आह —

एकवाक्यगतमिति ।

निरपेक्षं परं पूर्वं बाधते, एकवाक्यनिविष्टशब्दानां तु पूर्वानुरोधेनोत्तरार्थप्रतीतिः, तद्विरुद्धार्थसमर्पणे वाक्यभेदापत्तेरित्यर्थः ।

‘‘यदेष आकाश आनन्द’’ इत्यादौ ब्रह्मण्याकाशशब्दो गौणो दृष्टः, तद्वदिहापि स्यादित्याशङ्क्याह —

न च क्वचिदिति ।

यादांसि जलचराः ।

यादांसीति प्रयोगे गङ्गापदाभिधेयस्य वाक्यार्थान्वयसंभवान्मुख्यत्वं, न त्विह नभसो वाक्यार्थान्वयः, आनन्त्याद्ययोगादत आह —

संभवश्चेति ।

मुख्यानुगुण्येन गुणानां नयनस्योक्तत्वादित्यर्थः । अस्तु तर्हि ब्रह्मणि मुख्यः, तत्र वक्तव्यं किं ब्रह्मनभसोर्मुख्यः, उत ब्रह्मण्येवेति ।

नाद्य इत्याह —

अनेकार्थत्वस्येति ।

नहि द्वितीय इत्याह —

भक्त्या चेति ।

ननु नभसि गौणः, ब्रह्मणि रूढ किं न स्यात्तत्राह —

तत्पूर्वकत्वाच्चेति ।

प्रश्नोत्तरयोरेकार्थपर्यवसानसामर्थ्यलक्षणं सूत्रगतलिङ्गशब्दार्थमभिप्रेत्य सिद्धन्तयति —

सामानाधिकरण्येनेति ।

नन्वैकार्थेऽपि प्रश्नोत्तरयोः प्रतिवचनस्थाकाशशब्दानुरोधात्प्रश्नोऽपि मुख्याकाशपरोऽस्तु, तत्राह —

पौर्वापर्येति ।

प्रश्नोत्तरयोरर्थतः शब्दतश्च पूर्वापरत्वेनानुसंधानादसंजातविरोधप्रश्नानुसारेण चरममुत्तरं नेयमित्यर्थः । अनेन प्रथमत्वहेतोरसिद्धिरुक्ता, प्राधान्यं तूपक्रमविरोधे सत्यकिंचित्करमित्युक्तम् ।

प्रधानत्वेऽपीति ।

आकाशपदस्य प्रधानार्थत्वेऽपि गौणता, अपिशब्दान्न नभसः प्रधानत्वमपि तु पृष्टस्य सर्वकारणस्यैवेत्यर्थः ।

प्रधानत्वेऽपीत्येतद्व्याचष्टे —

यद्यपीति ।

सामानाधिकरण्येनेत्येतद्विभजते —

यत्पृष्टमिति ।

अस्तु प्रश्नोत्तरयोरेकविषयत्वं प्रश्नविषयस्तु नभ इति नेत्याह —

तदिहेति॥

यत्तु कश्चिदाह — दाल्भ्येन स्वर्गलोकः सामप्रतिष्ठेत्युक्ते शालवत्योऽप्रतिष्ठत्वेन तद्दूषयित्वा पृथिवीलोकः सामाश्रय इत्यूचे । प्रवाहणस्तु तमन्तवत्त्वेनादूदुषत् । तर्ह्यस्य लोकस्य का गतिरिति शालावत्योऽपृच्छत् । तत्र पृथिवीकारणमात्रं पृष्टं, न सर्वलोकगतिः; तस्मात् — पूर्वापरपरामर्शरहितैः प्राज्ञमानिभिः । कल्पितेयं गतिर्नैषा विदुषामनुरञ्जिका॥ इति ॥ तच्छ्रुतिभावानवबोधविजृम्भितम् । तथा हि — पृथिवीमात्रकारणस्यापां प्रसिद्धत्वेन प्रश्नवैयर्थ्यात्, अस्येति च सर्वनामश्रुतेः प्रकरणद्बलीयस्याः सर्वकार्यविषयत्वोपपत्तेः । यस्तु प्रथमप्रश्ने दाल्भ्यकृतेऽस्यशब्दः, स पृथिवीपरोस्तु; न प्रतिष्ठा लोकमतिनयेदिति पृथिव्या एव तदुत्तरेऽभिधानात् । द्वितीये तु शालावत्यकृते न तथा किंचिदस्ति संकोचकम् । किंचाभिधत्तामयमप्यस्यशब्दः पृथिवीमेव; तथाप्यन्तवत्त्वदोषापनिनीषया प्रश्नप्रवृत्तेः पृथिवीमात्रकारणनिरूपणे तदसिद्धे काकेभ्यो रक्षतामन्नमितिवदयमस्यशब्दः सर्वकार्यपरः । तथाच पूर्वापरेत्यादिरुपालम्भ उष्ट्रलकुटन्यायमनुसरतीति॥

पौर्वापर्येत्येतच्छङ्कोत्तरत्वेन विवृणोति —

न चोत्तरे इति ।

यद्यपि कारणविषयप्रश्नः ; तथापि तत्र विशेषणतया कार्यमप्युपात्तमिति कार्यमेव पृष्टमित्युक्तम् ।

कथं न युक्तमत आह —

प्रश्नस्येति ।

यथा हि ‘‘उच्चैॠचा क्रियत‘‘ इत्यत्र विध्युद्धेशगता अप्यृगादिशब्दाः ‘‘त्रयो वेदा अजायन्ते’’ — त्युपक्रमगतमर्थवादस्थमपि वेदशब्दमेकवाक्यत्वसिद्ध्यर्थमनुरुन्धाना ऋगादिजातिवचनतां मुञ्चन्तो वेदलक्षणार्था इति निर्णीतं वेदो वा प्रायदर्शना(जै.अ.३.पा.३.सू.२) दित्यत्र, एवमत्राप्येकस्मिन्वाक्ये ‘‘अस्य लोकस्य का गतिरिति’’ सर्वाकारणत्वावरुद्धायां बुद्धौ तद्विरुद्धार्थस्य वाक्यैक्यविनाशिनो निवेशायोगादाकाशपदं परमकारणे गौणमित्यर्थः ।

ननु निर्णीतार्थ उपक्रम उपसंहारमन्यथयेत्, न प्रश्नोपक्रमः; संदिग्धार्थत्वादिति, तत्राह —

नचेति ।

प्रश्नः स्वविषये व्यवस्थित एव न चेत् तत्र वक्तव्यं स निर्विषयः, पृष्टादन्यविषयो वा ।

नाद्य इत्याह —

अनालम्बनत्वेति ।

न द्वितीय इत्याह —

वैयधिकरण्येति ।

एवं तावत्प्रश्नप्रतिवचनवाक्यसामर्थ्यं तल्लिङ्गादिति सौत्रहेतुवचनार्थ इति व्याख्याय वाक्यशेषस्थलिङ्गपरतया व्याख्यान्तरमाह —

अपिचेत्यादिना॥

सर्वेषां लोकानामिति प्रश्नोपक्रमादिति ।

उत्तरे —

सर्वाणीति दर्शनात् प्रश्नस्थः षष्ठ्यन्तलोकशब्दोऽस्येति सर्वनामसहपठितो व्याख्याय निर्दिष्ट इति । इदंच प्रश्नस्य सर्वकारणविषयत्वे लिङ्गम्, इतरथा ह्युत्तरे पृथिव्याकाशात् समुत्पद्यत इति स्यात्तन्मात्रकारणस्य पृष्टत्वादिति । ननु साम्ये विरोधिनां भूयसामनुग्रहो न्याय्यः, इह तु प्रधानमाकाशशब्दार्थो नाप्रधानैर्भूयोभिरपि बाध्येत । यदाह कश्चित् — त्यजेदेकं कुलस्यार्थे इति राद्धान्तयन्ति ये । शेषिवाधे न तैर्दृष्टमात्मार्थे पृथिवीमिति॥

इति, तत्राह —

नचाकाशस्य प्रधान्यमिति ।

ननु शेष्यर्थत्वादाकाशपदं प्रधानार्थमत आह —

तथाचेति ।

उपक्रान्तं प्रधानं ब्रह्म विशिषम्नाकाशशब्दः प्रधानार्थो नतु गगनमभिदधदित्यर्थः ।

अपि चेति भाष्योक्तान्तवत्त्वप्रतिपादिकं श्रुतिमाह —

अन्तवदिति ।

आस्तां प्रश्नोपक्रमानुरोधः, प्रतिवचनेऽपि वाक्यशेषगताऽनन्यथासिद्धब्रह्मलिङ्गादाकाशपदं गौणार्थमिति भाष्यार्थमाह —

तत्रैव चेति ।

‘‘उद्गीथे कुशलास्त्रयः शालावत्यदाल्भ्यजैवलयः कथमारेभिरे । शालावत्या दाल्भ्यं पप्रच्छ का साम्नो गतिः; कारणमिति, इतर आह स्वर इति । स्वरस्य प्राणः, प्राणस्यान्नम्, अन्नस्याप, अपां स्वर्गः वृष्टेस्तत आगतेरिति’’ दाल्भ्ये प्रत्युक्तवति स्वर्गस्यापि मनुष्यकृतज्ञाद्यधीनस्थितिकत्वादप्रतिष्ठितं व किल ते दाल्भ्य सामेत्युक्त्वा अयं लोकः स्वर्गस्य गतिरिति शालावत्य प्रतिजज्ञे । तं राजा जैवलिराह ‘अन्तवद्धै किल ते शालावत्य साम कारणमिति’ ‘तर्ह्यस्य लोकस्य का गतिरिति’ पृष्टो राजा ‘आकाश’ इति होवाच । ज्यायान्महत्तर , परमयनमाश्रयः परायणं परोवरेभ्यः स्वरादिभ्योऽतिशयेन वरः परोवरीयान् । स चाकाश उद्गीथे संपाद्योपास्यत्वादुद्गीथः॥ इति अष्टममाकाशाधिकरणम्॥

आकाशस्तल्लिङ्गात्॥२२॥

तस्मादुद्गीथ इत्युद्गीथसंपत्तेस्तुल्यत्वादिति।

यद्यपि तस्मादुद्गीथ इत्येतत् पूर्वप्रकृतोन्नामकत्वेन ऋक्सामगेहण्यत्वेन च हेतुनाऽऽदित्यपुरुषस्योद्गीथ इति नामान्तरविधानार्थं, न तूगीथसंपत्त्यर्थं तत्र 'तस्मादिति" हेतोरनन्वयात्, 'उद्गेष्ण' इति नाम्नि विधातव्ये 'उद्गीथ' इति तद्विधानं देवानां परोक्षप्रियत्वात्। तथैव च छान्दोग्यविवरणे व्याख्यातम्। यन्नाम तन्नामेति नामातिदेशकवाक्यस्योदित्युद्गीथ इति च नामद्वयातिदेशकतया व्याख्यानेन चास्य नामान्तरविधानार्थत्वं स्थिरीकृतम्। पूर्वाधिकरणप्रदर्शितया रीत्या उद्गानकर्तुरुद्गातृनामवदुद्गीथभक्तेरुद्गीथनामापि ऋक्सामयोः उन्नामकदेवविषयगानपर्वत्वे प्रमाणपरतया नीयते चेदपि नेदमुद्गीथं संपत्तिपरम्, आदित्यपुरुषस्योद्गीथे सम्पत्तिस्तु प्राक् ओमित्येतदक्षरमुद्गीथ मुपासीत 'तस्योपव्याख्यान'मित्यादिनोगीथोपासनाप्रपञ्चनप्रतिज्ञानात्। उत्तरत्राकाशवाक्येऽपि स एष परोवरीयानुद्गीथ" इत्युद्गीथसंपत्त्यनुवृत्तः, हिरण्मयवाक्येऽपि तस्मादैवंविदुद्गाता ब्रूयात् कं ते काममागायानी'त्यक्षण्यादित्यपुरुषोपासनस्य उद्गातृकर्तृकत्वलिङ्गदर्शनाच्च लभ्यते। तल्लभ्यैव चोद्गीथसंपत्तिः छान्दोग्यविवरणे “य एवं विद्वान् साम गायती'त्यत्र य एवं विद्वानित्यस्य एवमुक्तरूपं देवमुद्गीथं विद्वानिति व्याख्यानेन दर्शिता। इह शारीरकेऽपि 'सैव हि सत्यादय' (ब्र. अ.३ पा. ३ सू. ३८) इत्यधिकरणे। छान्दोग्ये हि कर्मसंबन्धिन्युद्गीथव्यपाश्रया विद्या विधीयत इति वाक्येऽस्या अन्तरादित्यविद्यायाः स्वतन्त्रविद्यात्वशङ्कानिराकरणाय कर्मङ्गाश्रितत्वव्यवस्थापनार्थे उद्गीथव्यपाश्रयेत्यनेन सा दर्शिता। तत्र तदनन्तरम् “इयमेवर्गग्निः सामे"त्यन्तरादित्यविद्योपक्रमवाक्यवद् “य एवं विद्वान् साम गायती"ति तदुपसंहारवाक्यवच्च "तस्यक साम च गेष्ण्या तस्मादुद्गीथ' इति तन्मध्यपातिवाक्यमपि ऋक्सामसंबन्धरूपकर्माङ्गाश्रितबचिह्नमात्रप्रदर्शकतयोपन्यस्तम्, न तूगीथसंपत्त्यर्थत्वेन, अतस्तस्मादुद्गीथ इत्यस्योद्गीथसंपत्त्यर्थत्वोक्तिरयुक्तेति प्रतिभाति; तथापि "तस्मादुद्गीथ" इत्युद्गीथनाम विधानादुद्गीथभक्तरादित्यपुरुषस्य चोद्गीथनामकलरूपसाम्यसिद्धौ पूर्वापरसंदर्भपर्यालोचनया चोद्गीथसंपत्तौ हृदि विपरिवर्तमानायां "तस्य भूरिति शिशरः एक हि शिरः एकमेतदक्षर"मित्यादिश्रुतिषु प्रायेणारोप्याधिष्ठानयोर्यत्किंचित्साम्यावलम्बनमभेददृष्टिविधानमिति श्रुतिशैलीविदामिहाप्युगीथनामकलसाम्यावलम्बनाभेददृष्टिपर्यन्तार्थिकार्थेऽस्य वाक्यस्य तात्पर्यमस्तीति प्रतीयत एवेत्यभिप्रेत्येदं वाक्यमुद्गीथसंपत्तौ प्रमाणतयोपन्यस्तम्। एवमनया प्रणालिकयोद्गीथनाम विधानस्यार्थादुद्गीथसंपत्तौ पर्यवसानमभिप्रेत्यैव छान्दोग्यविवरणे "तस्यर्क् साम च गेष्णौ तस्मादुद्गीथ" इति वाक्यमवतारितम् तस्योद्गीथत्वं देवस्यादित्यादीनामिव विवक्षित्वाऽऽहेति। पूर्वं य एवासौ तपति तमुद्गीथमुपासीतेत्यादिष्वादित्यादीनामिवेत्यर्थः॥

आनन्त्याद्ययोगादिति।

शालावत्यपक्षोद्भावितान्तवत्वदोषापनिनीषयोपन्यस्तमनन्तत्त्वं चरमश्रुतमपि सकृत् श्रुतमपि लिङ्गं सदपि प्रथमश्रुताभ्यस्ताकाशश्रुत्यपेक्षया बलवत्। तथाभूताया अप्याकाशश्रुतेः लक्षणासहिष्णुत्वेनान्यथासिद्धत्वादनन्तत्वलिङ्गस्यान्तवति तपने प्रागुद्भावितदोषापनयनालाभादित्यनन्तत्वलिङ्गस्यानन्यथासिद्धत्वम्, सर्वकारणत्वादिलिङ्गान्तरापेक्षया प्रथमापेक्षितवं च। प्राबल्यातिशयमभिप्रेत्य विषयवाक्ये तेभ्यश्चरमश्रुतस्यापि तस्य प्रथममुपन्यासः।

मुख्यानुगुण्येनेति।

यथा दाल्भ्यपक्षोद्भाविताऽप्रतिष्ठितत्वदोषापनिनीषया शालावत्येनोपन्यस्तं प्रतिष्ठात्वलिङ्गं स्वर्गलोकवत् प्रतिष्ठान्तरसापेक्षायां पृथिव्यां निरपेक्षमुख्यमसंभवदपि स्वर्गलोकापेक्षया पृथिव्याः कथंचित्प्रतिष्ठात्वातिशयमपेक्ष्य मुख्यपृथिवीश्रुत्यानुगुण्येन पृथिव्यां संभवत्प्रतिष्ठात्वरूपतया नीतम्, एवमानन्त्यमपि मुख्याकाशश्रुत्यानुगुण्येन भूताकाशे पृथिव्यपेक्षया बहुकालवर्तिवरूपतया नेतव्यमित्याशयः।

तथा हि पृथिवीमात्रकारणस्येति।

नन्वपां कारणस्य तेजसः प्रसिद्धत्वेऽप्यपां का गतिरिति प्रश्नो दृश्यते 'अस्य लोकस्य का गतिरिति, दाल्भ्यकृतस्य प्रश्नस्य पृथिवीमात्रकारणविषयत्वं चाभ्युपगम्यते तद्वत् शालावत्यकृतस्यापि तस्य तन्मात्रविषयत्वं किं न स्यादित्यस्वरसादाह –

अस्येति च सर्वनामश्रुतेरिति।

ननु सर्वनाम्नः प्रकृतपरामर्शित्वस्वाभाव्यादसौ लोकः अयं लोक इत्यनयोः समभिव्याहारे अदइदंशब्दयोः स्वर्गलोकपृथिवीलोकपरत्वस्यैव श्रुतिषु सर्वत्र दृष्टवाचावास्येति सर्वनामश्रुतेः पृथिवीमात्रपरत्वेन संकोचो न दोष इत्यस्वरसादाह –

किंचेति।

ननु अस्यशब्दः पृथिवीपर इत्येतावता तन्मात्रकारणं पृष्टं न भवति येन तन्निरूपणे अन्तवत्वदोषो नापनीतः स्यात्, किन्तु पृथिवीकारणं पृष्टं भवति तत्कारणत्वं चानन्ते सर्वकारणेऽप्यस्तीति पृथिवीकारणप्रश्नेऽपि तन्निरूपणेनान्तवत्वदोषापनयः स्यादेवेत्यनुपपत्त्यभावादस्य लोकस्येत्यस्य दाल्भ्यकृतस्यैव शालावत्यकृतस्यापि प्रश्नस्य न सर्वलोकविषयत्वं कल्पनीयमिति चेत्, न; यथा शालावत्यप्रश्नैकरूपस्य दाल्भ्यप्रश्नस्यानन्तवस्तुपरत्वाभावेऽप्यन्तवत्वदोषमुद्भावितवान् जैवलिरनन्तं वस्तु पृथिवीकारणं विवक्षतीति निश्चयवतः शालावत्यस्य प्रश्नोयमनन्त वस्तुपर इति कल्प्यते, तथा सर्वकारणत्वाभावे त्रिविधपरिच्छेदराहित्यरूपतदानन्यं न स्यादतोऽनन्तं वस्तूपक्षिपता जैवलिना सर्वकारणमेव तदुपक्षिप्तं भवतीत्यपि शालावल्यस्य निश्चयसम्भवेन तदीयप्रश्नोयं तत्किं सर्वकारणमनन्तं वस्त्विति सर्वलोकगतिविषय इत्यपि कल्पयितुमुचितत्वादिति भावः॥

यथा ह्युच्चैरिति।

"उच्चैर्ऋचा क्रियते" "उपांशु यजुषा" "उच्चैः साम्नेत्यत्र विधेयमुच्चैष्ट्वादिकं किमृगादिधर्मों वेदधर्मों वेति संशयः। ऋगादिधर्मत्वे यजुर्वेदगता अपि सपादबन्धमन्त्ररूपा ऋच उच्चैष्ट्वधर्माणो भवन्ति, सामवेदगतान्यप्यपाबन्धमन्त्ररूपाणि यजूष्युपांशुत्वधर्माणि भवन्ति, वेदधर्मत्वे तु ऋग्वेदेन यत् क्रियते विधीयते कर्म, तदुचैष्ट्वधर्मकमित्येवमादिप्रकारेणोच्चैष्ट्वादिकं तत्तद्वेदविधेयकर्मधर्मतां प्राप्य तदङ्गेषु मन्त्रेष्ववतरतीति विशेषसूत्रे प्रायपदं प्राथम्यपरम्। अपि चास्यैवोपक्रम इत्यादिः शालावत्यस्येतीत्यन्तष्टीकाग्रन्थोऽनन्वित इव भातीत्याशङ्क्य, अन्तवत्वदोषप्रदर्शनार्थश्रुतिनिवेशनपूर्वक भाष्यप्रतीकग्रहणं तदित्याह –

अपि चेति भाष्योक्तेति।

अस्यैवोपक्रम इत्येतदपि भाष्य एव विवक्षितांशनिवेशनार्थम्। यद्यप्यनन्तत्वमानानतश्चरमश्रुतं; तथापि शालावत्यपक्षे अन्तवत्वदोषोद्भावनेन जैवलिः स्वयमनन्तं किंचिद्विवक्षतीत्येवमुपक्रम एवावगतमिति तात्पर्यम्। यत्तु प्रतिष्ठात्ववदनन्तत्वमपि यथाकथंचिनेतव्यम् इति। तन्न। प्रतिष्ठात्वस्यापि यथाकथंचिन्नयनाभावात्। प्रतिष्ठात्वं ह्यत्र नोपजीव्यवम्; "इतः प्रदानं देवा उपजीवन्ती"तिव"दमुतः प्रदानं मनुष्या उपजीवन्ती'त्यपि श्रवणेन स्वर्गपृथिव्योः परस्परमुपजीव्योपजीवकभावस्य तुल्यतया स्वर्गों न प्रतिष्ठा पृथिवी प्रतिष्ठेति व्यवस्थितोक्त्ययोगात्, किन्तु निश्चलत्वमिह प्रतिष्ठाशब्दार्थः। तत्तु ज्योतिश्चक्रान्तर्गतत्वेन भ्रमति स्वर्गे नास्ति, अस्ति तु पृथिव्यां, पृथिवी प्रतिष्ठितेति श्रुत्यन्तरात्, आर्यभट्टाद्यभिमतभूभ्रमणादिवादानां श्रुतिन्यायविरोधेन हेयत्वात्। किञ्च आनन्त्यादिगुणकाकाशप्रतिपादनार्थ प्रवृत्तेऽस्मिन् महावाक्ये मध्यगतं पृथिवीप्रतिष्ठात्ववर्णनं यथाकथंचिन्नीयतां नाम, न तावता तद्वदानन्त्यमपि नयनमर्हति; न ह्यग्निहोत्रद्रव्यत्वेन पयसो विधानार्थे महावाक्ये मध्ये श्रुतं जर्तिलगवीधुकयवागूविधानं सार्थवादं विधिसरूपार्थवादत्वेन नीतमिति पयोविधानमपि तथा नीयते।

अनन्यथासिद्धब्रह्मलिङ्गादिति

अनन्तवस्यानन्यथासिद्धिदर्शिता। सर्वाणि ह वेत्यादि वाक्येनाकाशः परायणमाकाशं प्रत्यस्तं यन्तीति वाक्याभ्यां च प्रदर्शितम्। सकलकार्योत्पत्तिस्थितिलयाधारत्वं मूलकारणान्तरव्यवच्छेदकेनावधारणेन लम्भितमुपादानातिरिक्तकर्तृराहित्यं चानन्त्यान्तर्गतवस्तुपरिच्छेदराहित्योपपादकत्वेनानन्यथा सिद्धम्। परोवरीयस्त्वमपि परोवरीयसो ह लोकान् जयतीत्यादिवाक्योक्तत्वानुगुणफलवत्वादनन्यथासिद्धम्॥

इत्यष्टममाकाशाधिकरणम्॥