अत एव प्राणः॥२३॥ अतिदेशत्वात्सैव सङ्गतिः । अथ वा अनन्तवस्तुपरत्वादुपक्रमोपसंहारयोरस्त्वाकाशवाक्यं ब्रह्मपरम्, अत्र तु ब्रह्मासाधारणधर्मपरोपक्रमोपसंहारादर्शनान्न ब्रह्मपरतेति सङ्गतिः । अथवा आकाशवाक्यानन्तर्यात्प्राणवाक्यस्येति सङ्गतयः । विषयप्रदर्शकभाष्य उद्गीथ इत्युक्तं तदुद्गीथप्रकरणे प्रासङ्गिकं प्रस्तावोपासनमिति कथयितुमित्याह —
उद्गीथेति ।
पुरस्ताद्धि “परोवरीयासमुद्गीथमुपास्त’’ इत्युक्तं, ‘‘परस्ताच्चाथातः शौल्क उद्गीथ’’ इति , अतः प्रस्ताववाक्यं यद्यपि विषयः, तथापि प्रकरणशुद्ध्यर्थमुद्गीथग्रहणमित्यर्थः ।
श्लोकस्य पूर्वार्धं व्याचष्टे —
ब्रह्मणो वेति ।
नह्याकाशाद्वायूदयः प्रत्यक्षादियोग्यः, अतो वाक्यशेषाद्व्यक्तो ब्रह्मनिर्णयः ।
उत्तरार्धं विवृणॊति —
इह त्वित्यादिना ।
इह सर्वाणि ह वेति वाक्ये इत्यर्थः । भोगप्रत्यासत्तेरिन्द्रियाणां भूतसारत्वं ततः पधानेन सर्वभूतलक्षणया भूतोत्पत्तिलयौ वायाविति प्रत्यक्षानुगृहीतया श्रुत्योक्तं तस्याः संवादलब्धबलाया बलात्सर्वाणीति वाक्यं वायुविकारपरं व्याख्येयमिति । ‘‘कतमा देवतोद्गीथमन्वायत्तेत्यादित्य इति होवाच कतमा प्रतिहारमित्यन्नमिति‘‘ देवते अभिहिते ।
कार्यकारणसंघातरूपे इति ।
शरीरिण्यावित्यर्थः । अन्नमपि तदभिमानिदेवता । स्वत एव निश्चायकत्वात्स्वविषयज्ञानोत्पादे मानान्तरं नापेक्षते, निश्चयपूर्वकत्वाद्व्यवहारस्य स्वविषयव्यवहारे नापेक्षते, असंवादिनो वाक्यस्य स्वविषये नादार्ढ्यं रूप इव चक्षुषः त्वगिन्द्रिय संवादिनो न दार्ढ्यं चक्षुष इव द्रव्ये इति । येन प्रमाणानां संवादविसंवादावप्रयोजकौ तेन । यदा वै पुरुष इति वाक्यादिन्द्रियमात्रस्य सुप्तिसमये वायुविकारे संवेशनोद्गमने भवेताम्, नत्वेतावता सर्वभूतोत्पत्तिलयौ तदाश्रयौ योजयितुं शक्यौ; तयोस्तत्र वाक्ये प्रतीत्यभावात् ।
अथ पुनरिन्द्रियसारत्वात्सर्वभूतलक्षणा, तत्राह —
प्रतीतौ वेति ।
ननु कथं ब्रह्मैव भवेद्यावता सुप्तौ वायुविकारे लयः प्रमाणान्तरसिद्ध, तत्राह —
नचेति ।
इन्द्रियमात्रलयः प्रमाणान्तरदृष्टो, न भूतलयस्तेनाकाशवाक्यवद् ‘यदा वै’ इति वाक्येऽपि यदि सर्वभूतलयः प्रतीयेत, तर्हि वाक्यशेषाद् ब्रह्मनिर्णय इत्यर्थः । एवं तावत्स्वापवाक्यस्य भूतलयपरत्वमाश्रित्य तदनुसारेण सर्वाणि ह वेति वाक्यं वायुविकारे सर्वभूतलयं वक्तीति शङ्का निरस्ता ।
इदानीं तस्य यथाश्रुतेन्द्रियलयमात्रपरत्वमाश्रित्य तदनुरोधेनेदमपीन्द्रियलयपरं व्याख्यायते , तथाच न ब्रह्मलिङ्गसिद्धिरित्याशङ्क्याह —
न च मानान्तरेति ।
सर्वभूतसंवेशनस्य वाय्वाश्रयत्वयोजनायामुक्तं दूषणमिन्द्रियमात्रलयपरत्वयोजनायामपि संचारयति —
स्वतःसिद्धेति ।
ननु वाक्यभेदमभ्युपेत्य संवादिवाक्यबलादितरसङ्कोचं न वदामोऽपि त्वेकवाक्यतामत आह —
नचास्येति ।
‘यदा वै पुरुष’ इत्यस्य संवर्गविद्यागतत्वात् सर्वाणि ह वेत्यस्योद्गीथविद्यागतत्वादित्यर्थः ।
अभ्युपेत्याह —
एकवाक्यतायां वेति ।
नन्वेकवाक्यत्वे कुतो विनिगमना यतस्तद् ब्रह्मपरं, न पुनरिदमिन्द्रियमात्रलयपरमित्यत आह —
इन्द्रियेति ।
अवयुत्यवादः — एकदेशस्य विभज्य कथनम् । सर्वोत्पत्तिलयौ हि सर्वाणि ह वेत्यत्र प्रतीतौ । तत्रत्यसर्वशब्दानुरोधेन इन्द्रियमात्रोत्पत्तिलयकथनमेकदेशानुवादत्वेन घटिष्यते॥ एकं वृणीत इत्यादावर्षेयवरणे सर्वत्रापूर्वत्वाद्विधिमाशङ्क्य वर्तमानापदेशत्वाद्विधिः कल्प्यः । सर्वत्र च तत्कल्पने सकृच्छ्रुतस्य ‘ न चतुरो वृणीत’ इत्याद्यर्थवादस्य प्रतिविध्यावृत्तिः स्यात्, सा मा भूदित्येकत्र विधिकल्पना तत्रापि त्रीन् वृणीत इत्यत्रेव । तथा सति हि शते पञ्चाशदितिवद् द्वौ वृणीत इत्याद्यन्तर्भावादनुवादः स्यादिति षष्ठे (जै.सू.अ.६.पा.१.सू.४३) राद्धान्तितमेवमत्रापीत्यर्थः ।
चिन्ताप्रयोजनमाह —
तस्मादिति ।
भाष्ये — वाक्यशेषशब्दः एकवाक्यत्वपरः ।
इहहि स्ववाक्ये ब्रह्मलिङ्गं दृश्यते, अन्नादित्यसन्निधानं वाक्यान्तरसापेक्षमतः स्ववाक्यस्थलिङ्गं प्रबलमिति भाष्यार्थमाह —
वाक्यादिति ।
वाक्यस्य सन्निधानादत्र प्राबल्यं निरूप्यत इति न भ्रमितव्यम्; अत्र ब्रह्मवाचिपदाभावेन वाक्यत्वाभावात् । ‘कतमा सा देवतेति’ चेतनवाचिदेवताशब्दोपक्रमात् सैषा देवतेत्युपसंहाराच्च चेतनपरं वाक्यं न वायुविकारपरम् । अथ प्राणाभिमानिनी देवता लक्ष्येत, तर्हि तवापि समः श्रुतित्यागः, मम तु वाक्यशेषः साक्षीत्यभ्युच्चयः॥ चाक्रायणः किल ऋषिर्धनाय राज्ञो यज्ञमभिगम्य ज्ञानवैभवमात्मनः प्रकटयितुकामः प्रस्तोतारमुवाच हे प्रस्तोत, या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् मम विदुषः सन्निधौ प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति । स भीतः पप्रच्छ कतमा सेति, प्रत्युक्तिः प्राण इति । प्राणमभिलक्ष्य संविशान्ति लयकाले , उत्पत्तिकाले उज्जिहते उद्गच्छन्ति । इति नवमं प्राणाधिकरणम्॥
अत एव प्राणः॥२३॥
सर्वाणीति वाक्यमिति।
ननु प्रत्यक्षानुग्रहनियमितार्थश्रुत्यन्तरसंवादेनेदं वाक्यं वायुविकारपरमित्येतदयुक्तम्। प्रत्युदाहरणसंगत्ययोगात्, वायुविकारस्य सर्वभूतसंवेशनोदमनहेतुत्वसंभवे हि तद्वारा तत्कारणस्य भूताकाशस्यापि तत्संभवतीति पूर्वाधिकरणोक्तस्तत्र तदसंभवः प्रत्युद्धृतः स्यात्; अवधारणोपबृंहितं तत्तत्र न संभवतीति चेद्, वायुविकारेऽपि तुल्यम्। इहापि प्राणादेवेत्यवधारणश्रवणात् इति चेत्, उच्यते; इह सर्वाणि भूतानीति शब्दः प्राणिवर्गपरः। भूतशब्दस्य महाभूतेषु प्राणिषु च रूढ्यविशेषेऽप्यत्र केषां ग्रहणं कार्यमिति विशये आदित्यान्नवाक्ययोः सर्वाणि भूतानीत्यस्य गातृत्वाभ्यवहेतुत्वलिङ्गेन प्राणिपरतया तत्प्रायपाठस्य निर्णायकस्य सत्वात्। तेषां च सर्वेषामपि प्राणे स्वापप्रबोधयोः उत्पत्तिलयौ दैनन्दिनौ श्रुत्यन्तरे तद्भोगसाधनेन्द्रियलयोत्पत्तिकथनद्वारोपलक्षिताविहाप्यर्थतया स्वीकार्यौ। अवधारणं त्वाकाशवाक्ये मूलकारणान्तरस्येवात्रावान्तरकारणान्तरस्य व्यवच्छेदकं स्यात्। प्राणवायंु विना अन्यस्य कस्यचिदिन्द्रियसंवेशनोद्गनाधारापादानभूतस्य ब्रह्मव्यतिरिक्तस्याभावात्। अयोगव्यवच्छेदकं वा; सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्तीत्यन्नवाक्यशेषगतायोगव्यवच्छेदकावधारणप्रायपाठात्। न ह्योदनमेवाभ्यवहरन्तः प्राणिनो जीवन्ति; व्यञ्जनादीनामप्यभ्यवहारात्। इहान्नशब्दो ह्योदनपरो, न तु अदनीयमात्रवाची; योगतो रूढेः प्राबल्याद्, भिस्सा स्त्री भक्तमन्धोऽन्नमिति कोशकारवचनेन “अन्नेन व्यजन"मिति पाणिनिव्यवहारेण चान्नशब्दस्यौदने रूढ्यवगमात्। न च सर्वप्राणिनामोदनाभ्यवहारायोगव्यवच्छेदोऽपि नास्ति, वृक्षादिष्वभावादिति वाच्यम्। अत्र सर्वाणि भूतानीत्यस्योदनाभ्यवहारयोग्यप्राणिपरत्वेन संकोचोपपत्तेः, सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्तीति पूर्ववाक्ये तस्य गातृत्वयोग्यप्राणिषु संकोचदर्शनात्, आकाशवाक्ये त्वेवंभूतप्रायपाठाभावाद् भूतशब्दः कार्यसामान्यपरो बालाक्यधिकरणन्यायात्। अवधारणं चान्ययोगव्यवच्छेदकम्; तस्य तत्रैव स्वारस्यादिति विशेष इति पूर्वपक्ष्याशयः।
अन्नमपि तदभिः मानिदेवतेति।
ननु इहान्नमोदन एव, न तु तदभिमानिदेवता; प्राणिभक्ष्यत्वोक्तेः। भाष्यविरुद्धं चान्नशब्दस्य देवतापरत्वमङ्गीकृत्यान्नादित्यदेवताप्रायपाठात् प्राणशब्दस्य देवतापरत्वसमर्थनम्। भाष्ये हि प्रसिद्ध्यतिशयप्रत्यक्षानुग्रहाभ्यां पूर्वपक्षः कृतः। न च प्राणशब्दस्य ब्रह्मापेक्षया देवतायां प्रसिद्ध्यतिशयोऽस्ति; तस्यां रूढेरभावाद्, निरूढेः ब्रह्मण्यपि तुल्यत्वात्। न च तस्यामचेतने वायुविकार इव सर्वभूतसंवेशनोद्गनसमर्थने प्रत्यक्षानुग्रहोऽस्ति; तस्या एव शास्त्रैकगम्यत्वात्, तस्माद्यथाभाष्यम् अन्नादित्यरूपाऽब्रह्मप्रायपाठात् प्राणोऽप्यब्रह्मेत्येव पूर्वपक्षः कर्तुं युक्तः। तथा सति निरस्तोऽप्ययमर्थं इत्यादिटीकोक्तप्रकारेण प्रायपाठस्य मूलयुक्त्युपोद्बलनमात्रार्थत्वं न वक्तव्यम्। ईक्षत्यधिकरणे (ब्र. सू. अ. १पा. १ सू. ५) गौणतापादकः प्रायपाठो निरस्तः। अयं तु प्राणशब्दस्य मुख्यार्थबोपपादकः प्रबलः। आनन्दमयमुख्यार्थत्वोपपादकान्नमयाद्यब्रह्मप्रायपाठवदित्यधिकशङ्कावकाशसत्वादिति चेत्, सत्यम्: टीकाकाराणामाचार्याणां च प्राणो वायुविकार इत्येव पूर्वपक्षोऽभिमतः। अत एव तेषां सन्देहटीकादिषु वायुविकारशब्देनैव व्यवहारः। तत्र यद्याकाशवाक्य इव ब्रह्मासाधारणधर्मोपक्रमोपसंहाराभावेऽपि प्राणवायुव्यावर्तकदेवताशब्दोक्तचेतनोपक्रमोपसंहारौ स्तः, तदनुसारेणानशब्दोऽपि तदभिमानिदेवतापर इति कश्चित् शङ्केत, तदाऽन्नादित्यदेवताप्रायपाठात् प्राणशब्दोऽपि प्राणदेवतापरोऽस्तु; प्रत्यक्षानुगृहीतश्रुत्यन्तरसंवादलब्धसर्वभूतसंवेशनोद्मनहेतुभावस्य प्राणवायुधर्मस्य तदमेदोपचारेण तदभेदाध्यासेन वा तदभिमानिदेवतायां व्यपदेश इत्युपपत्तेः, अन्नधर्मस्यापि तदभिमानिदेवतायां तथैवोपपादनीयवादिति टीकाकारैः कक्ष्यान्तरं दर्शितमिति तत्रत्यशङ्कापरिहारोभयोपपादनार्थमियम् अन्नशब्दस्य देवतापरत्वोक्तिः॥
इन्द्रियमात्रलयः प्रमाणान्तरदृष्टो न भूतलय इति।
भूतशब्दः प्रायपाठात् “विशये प्रायदर्शनात्' (जै. सू. अ. १ पा. ३ सू. १६) इति न्यायेन प्राणिवर्गपर इति भाष्ये यदा तु भूतश्रुतिर्महाभूतविषयेत्यतः प्राचीनग्रन्थेन दर्शितम्। यदा त्वित्यादिना तु प्राणशब्देन मुख्यार्थतया स्मारितो वायुस्तद्वर्ग्यमहाभूतरूढिमुन्मेषयति, तेन महाभूतपर इति दर्शितम्। द्वितीयपक्षे स्पष्टोऽर्थः। प्रथम पक्षे त्वयमर्थः। शरीरेन्द्रियसंपिण्डितश्चेतनो हि प्राणी, तत्रेन्द्रियाणां चेतनस्य च व्यापाराभावेन स्वापकाले तल्लयसद्भावेऽपि शरीरलयाभावान्न सर्वात्मना भूतलय इति। एवं चात्र सर्वशब्दः 'सर्वः पटो रक्तः' 'सर्वं वनं पुष्पितं' 'सर्वा पृथिवी वित्तस्य पूर्णा स्यादित्यादाविवावयवकार्त्स्न्यपरः।
सर्वत्राप्यपूर्वत्वादिति।
ननु 'आर्षेयं वृणीत' इत्युत्पत्तिवाक्यावगतमेकत्वम्। तच्च 'चमसाध्वर्यून् वृणीत' इत्युत्पत्तिवाक्यावगतं बहुत्वमिवोत्पाद्यगतत्वाद्विवक्षितम्, अतस्तदपूर्वं न भवति। द्वित्वत्रित्वे त्वपूर्वत्वेऽपि विधातुमशक्ये; उत्पत्तिशिष्टैकत्वविरोधादिति चेन्न। अपूर्वार्थविषयत्वात् "न चतुरो वृणीते" इत्यादिलाघवमूलस्तुतिसमभिव्याहाराच्च वाक्यवैयर्थ्यपरिहारार्थमुत्पत्तिशिष्टमपि विभक्तितः प्रतीतं संख्याविशेषाविवक्षायामेकवचनमुत्सर्ग इति शाब्दिकमर्यादयैकवचनप्रतीतत्वेनाविवक्षिततया नेतुं शक्यम्। एकलमुपमृद्य प्रातिपदिकार्थयोः विधाने सति ताभ्यां बाधितस्यैकत्वस्याप्राप्त्या तत्प्राप्त्यर्थमेकत्वस्यापि विधानमित्युपपत्तेः।
प्रतिविध्यावृत्तिः स्यादिति।
आद्ययोर्विध्योः स्तुत्याकाङ्क्षायां यातेऽग्ने अयाशया रजाशयेति मन्त्रयोः विशेष्याद्याकाङ्क्षया "तनूर्वर्षिष्ठत्यादेरिव चतुरादिसंख्यानिवृत्तिप्रयुक्तलाघवमूलस्तुतेः अच्छिद्रेणेत्यादिवाक्यशेषस्य पचनक्रियान्वयाविशेषेणेव न्यूनसंख्याविध्यन्वयाविशेषेण चावृत्तिः स्यात्। सा चैकत्र विधिकल्पनेनावृत्तिसंभवे न युक्तेति भावः। इदमुपलक्षणम् एकवाक्यत्वसंभवे वाक्यभेदो न युक्त इत्यस्यापि॥
भाष्ये वाक्यशेषेणेत्यस्य ब्रह्मलिङ्गाम्नानस्थलनिर्देशमात्रार्थत्वेन प्रतीयमानस्य स्ववाक्यगतत्वेन लिङ्गप्राबल्यार्थतया किमिति टीकाकृता व्याख्यानं कृतं? लिङ्गस्य सन्निधानतः स्वत एवं प्राबल्यसत्वादित्याशङ्क्याह –
अन्नादित्यसन्निधानमिति।
अन्नादित्यरूपाऽब्रह्मप्रायपाठः प्राणश्रुतिमुख्यतोपपादकतया श्रुत्यनुग्राहकत्वात् सदीक्षणगौणतापादकगौणेक्षणप्रायपाठतो मुख्यत्रितयलङ्घनापादकपुच्छशब्दोक्तावयवप्रायपाठतश्च प्रबलः। ततश्च प्रायपाठादब्रह्मरूपः प्राणो वायुविकार इति निश्चये सति तदधिकरणकसंवेशनतदपादानकोद्गमनरूपसमभिव्याहृतक्रियान्वययोग्येन्द्रियावस्थापन्नभूतपरतया सङ्कोचः स्यात्। अन्नादित्यवाक्यगतभूतशब्दयोः समभिव्याहृतगानाभ्यवहारक्रियान्वययोग्यभूतपरतया सङ्कोचदर्शनेन तत्प्रायपाठादन्नादित्यवाक्यगतसन्निधानद्वयालम्बनशङ्कानिराकरणार्थतया स्ववाक्यगतत्वेन शीघ्रोपस्थितिकस्य सर्वभूतोत्पत्तिलयकारणत्वस्य विलम्बितोपस्थितिकवाक्यान्तरगतसन्निधानानुसारेण सङ्कोचकल्पनं न युक्तम्। अत एवाकाशवाक्येऽपि स्वरप्राणायब्रह्मप्रायपाठेन तस्य न सङ्कोचकल्पनमिति परिहारवाचोयुक्तेः भाष्यारूढत्वप्रदर्शनार्थमेवं व्याख्यातमिति भावः। यद्यप्यत्र भूतशब्दस्यान्नादित्यवाक्यगतभूतशब्दसन्निधानात्प्राणिपरत्वेऽपि वाक्यशेषार्थस्य ब्रह्मलिङ्गत्वमविरुद्धं; तथापि भूतशब्दशक्तिपर्यालोचनायां रूढ्योः परस्परकलहेन योगोन्मेषात् कार्यसामान्यमेवार्थो भवतीत्याकाशवाक्यशेषवदस्यापि वाक्यशेषस्य सकलकार्यकारणत्वमेव ब्रह्मलिङ्गमर्थ इति द्रष्टव्यम्॥
ब्रह्मवाचि पदाभावेनेति।
ननु ब्रह्मवाचिपदसत्वे श्रुतिः स्याद्, न वाक्यम्। उच्यते; विषयवाक्ये विशेष्यपदं चेद् ब्रह्मवाचि, तदा श्रुतिः। विशेषणपदं चेत्, तदा ब्रह्मपरत्वेन निर्णिनीषितस्य विशेष्यपदस्य च समभिव्याहाररूपं वाक्यं प्रमाणमिति व्यवस्था। अत एवाग्रिमाधिकरणन्यायनिर्णये गायत्रीपदस्य ब्रह्मपरवनिर्णायकं यद्वै तद्ब्रह्मेत्येतद्वाक्यं प्रमाणत्वेन व्यवहृतम्। ननु मा भूदादित्य सन्निधानाद् अब्रह्म सन्प्राणो वायुविकारः, भूतानि च तत्संवेशनोद्गमनयोग्यानीन्द्रियाणीति निर्णयः प्राणश्रुतित एव स्यात्।
आकाशवाक्यगतानन्तत्ववदुपक्रमोपसंहाराभ्यां तात्पर्यविषयत्वेन निश्चितस्य प्राणश्रुतिमुख्यार्थप्रच्यावकस्य लिङ्गस्याभावादित्याशङ्क्य तथाभूतं लिङ्गमाह –
कतमेति।
टीकोपन्यस्तमुक्तम्। लिङ्गोपपादकं पूर्वपक्षिणः कक्षान्तरमुद्भाव्य दूषयति–
अथेति॥