ज्योतिश्चरणाभिधानात्॥२४॥ यदिदमित्यनुभूयमानत्वमुक्तं तद्व्याचष्टे —
त्वग्ग्राह्येणेति ।
तस्यैषा दृष्टिर्यत्रैतदस्मि शरीरे स्पर्शेनोष्णिमानं विजानाति, तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिधाय निनदमिव शृणोतीति वाक्यं व्याचष्टे —
तत्र शारीरस्येति ।
नन्वौष्ण्यघोषोपलब्ध्योः कथं तस्येति ज्योतिः संबन्धनिर्देशोऽत आह —
तल्लिङ्गेनेति ।
औष्ण्यघोषलिङ्गेनेत्यर्थः । गमकसंबन्धिनोर्गम्यसंबन्दोपचार इत्यर्थः ।
श्लोकं पूरयति —
गौणेति ।
नन्वौत्सर्गिकोऽपि मुख्यसंप्रत्यय आकाशप्राणशब्दवदपोद्यतामत आह —
वाक्यस्थेति ।
तत्राहि वाक्यशेषस्य ब्रह्मलिङ्गाद्गौणता, अत्र तु वाक्ये ब्रह्मलिङ्गं नोपलभ्यते, प्रत्युत तेजोलिङ्गमेवोपलभ्यते, अत उत्सर्गोऽनपोदित इत्यर्थः । अनेन सङ्गतिरुक्ता ।
ननु पूर्वत्र गायत्रीवाक्ये तावानस्येति ब्रह्मलिङ्गमस्त्यत आह —
वाक्यान्तरेणेति ।
नहि वाक्यान्तरस्थालिङ्गात्स्ववाक्यस्था श्रुतिर्मुख्यार्थात्प्रच्यावयितुं शक्येत्यर्थः ।
अभ्युपेत्य वाक्यान्तरेण नियममाह —
तदर्थेति ।
दिवि दिव इति च सप्तमीपञ्चमीभ्यां प्रत्यभिज्ञानविच्छेदान्न वाक्यान्तरार्थ इह ग्राह्य इत्यर्थः ।
वाक्यस्थेत्येतद्व्याचष्टे —
बलवदिति ।
तेजोलिङ्गमेव दर्शयति —
दीप्यत इत्यादिना ।
किमुपोद्बलनाय इह तन्निरासेति । निरासकारणं हि प्राप्तिः । नचान्तस्तद्धर्मोपदेशात् (ब्र.अ.१.पा.१.सू.२०) इति निरस्तस्यात्र प्राप्तिरित्यर्थः ।
भवत्वेकदेशस्य मर्यादा न समस्तस्येत्याशङ्क्याह —
तस्य चेति ।
न समस्तं तेज उपास्यं, किं त्ववयव इत्यर्थः ।
वाक्यान्तरेणेत्येतद्व्याख्याति —
न च पादोऽस्येति ।
तदर्थाप्रतिसन्धित इत्येतद्व्याचष्टे —
न च वाक्यान्तरे इति ।
अस्यैव व्याख्यानान्तरमाह —
अपिचेति ।
गायत्र्याश्छन्दोवचनत्वेन सन्देहाद्वाक्यान्तरस्य ब्रह्मार्थत्वं साध्यं न सिद्धम् । अप्रतिसन्धित इत्यस्याप्यनिश्चयादित्यर्थः । तेन वाक्यान्तरेण यदतः पर इति वाक्यं ब्रह्मपरतया नियन्तुं कथं शक्यमिति योजना ।
तमो ज्योतिरिति भाष्ये तमोग्रहणप्रयोजनमाह —
तेज इति ।
अर्थावकरत्वेनेति ।
अनुद्भूतस्पर्शत्वेन तमसो नयनरश्मिनिर्गमनप्रतिबन्धकत्वायोगादर्थप्रकाशनप्रतिबन्धकत्वेन निरोधकत्वं तमस इत्यर्थः । सिद्धान्त्येव पूर्वपक्षाक्षेपक आक्षेप्ता । एकदेशी पूर्वपक्ष्येकदेशी । न प्रयोजनान्तरेति भाष्यस्यायमर्थः । प्राणिकर्मनिमित्ता सृष्टिः सप्रयोजना तत्रात्रिवृत्कृतं तेज उपास्त्यर्थं सृष्टमिति न शक्यं वक्तुं; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादिवदुपास्यत्वसम्भवे तस्य सृष्टिं प्रत्यप्रयोजकत्वाद्वाजिनस्येव दध्यानयनं प्रतीति ।
तासां त्रिवृतं त्रिवृतमिति भाष्यं व्याचष्टे —
एकैकामिति ।
तेजआदिभूतं प्राति सामान्यप्रवृत्ता त्रिवृत्करणश्रुतिरुपास्यमानतेजोविषयत्वेन संकोचयितुं न युक्ता; ततोऽन्यत्र नेतुमयुक्तेत्यर्थः । तेजआदीनि परोक्षत्वसाम्याद्देवताः । त्रिवृतं त्रिवलितम् ।
न वयं वाक्यान्तरस्थलिङ्गात्तेजः श्रुतिं बाधामहे, अपि तु तदुपबृंहितश्रुत्येत्याह —
सर्वनामेति ।
प्रसिद्धं प्रज्ञातम् । प्रसाध्यं नाद्यापि ज्ञातम् ।
यदा यच्छब्दः प्रज्ञातवचनस्तदा गायत्रीवाक्यनिर्दिष्टं ब्रह्म परामृशतीत्याह —
प्रसिद्धीति ।
तद्बलादिति ।
यच्छब्दश्रुतिबलादित्यर्थः ।
तेनेति ।
येन पूर्ववाक्यस्थमपकर्षति तेनेत्यर्थः ।
ननु दिवि दिव इति रूपभेदान्न पूर्ववाक्यस्थब्रह्मण इह प्रत्यभिज्ञा, अतः सर्वनाम तं न परामृशेदत आह —
प्रधानं हीति ।
प्रातिपदिकार्थं इत्यध्याहार्यम् । प्रातिपदिकार्थो द्यौस्तावदुभयत्र समा, सा हि प्रधानं, गुणस्तु विभक्त्यर्थः । तस्माद्गुणे त्वन्याय्यकल्पनेति विभक्तिवैरूप्यं नेयमित्यर्थः ।
यदवादि छन्दोभिधानात्सन्दिग्धं प्राचि वाक्ये ब्रह्मेति तत्राह —
ब्रह्मेति ।
तत्र गायत्रीवाक्ये त्रिपाद् ब्रह्म नतु च्छन्द इत्यर्थः । ‘‘यस्याहिताग्नेरग्निर्गृहान् दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदि’’त्यत्र दहेदिति विधिविभक्तिः प्रसिद्धार्थयच्छब्दोपहता गृहदाहलक्षणनिमित्तपरा । आर्च्छेदिति च विधिविभक्तिः स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदिति विधास्यमाननिर्वापनिमित्तं हविरार्तिमनुवदति । उभयं दधिपयसी ।
वचनानि त्विति ।
ज्योतिष्टोमगतसोमेषु शेषभक्षो विध्यभावान्न विद्यत इति प्राप्ते सर्वतः परिहारमाश्विनं भक्षयति तस्मात्सर्वा दिशः शृणोतीत्याद्यर्थवादा अप्राप्तत्वाद्भक्षानुवादायोगाद्विधायकानि वचनानीत्युक्तं तृतीये । एवं प्राप्त्यभावे प्रसिद्धार्थत्वं सर्वनाम्नोऽपनीयत इति यदाग्नेय इति तुल्यन्यायत्वादुदाहृतम् ।
कार्यज्योतिरुपलक्षित इति भाष्योक्तलक्षणायां सम्बन्धमाह —
ब्रह्मविकार इति ।
ननु वाक्यस्थज्योतिर्लाभे प्रकृतहानं न दोषोत आह —
प्रसिद्ध्यपेक्षायामिति ।
यच्छृतेर्विषयगवेषणायां प्रकरणप्राप्तमपि प्रसिद्धं ग्राह्यं, न स्ववाक्यगतमपि प्रस्तोष्यामाणमपूर्वम्, अप्रसिद्धेरित्यर्थः । शास्त्रवशादन्यदृष्ठ्यालम्बनं प्रतीकम् ।
कौक्षेयज्योतिषो ब्रह्मप्रतीकत्वे ब्रह्मसंबन्धमाह —
कौक्षेयं हीति॥२४॥
न च भूतपृथिवीति ।
एवं हि श्रूयते । ‘‘गायत्री वा इदं सर्वं भूतं यदिदं किं च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च या वै सा गायत्री, इयं वाव सा येयं पृथिवी, या वै सा पृथिवीयं वाव सा यदिदं शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिताः, यद्वै शरीरम् इदं तद्धृदयमस्मिन् हि प्राणाः प्रतिष्ठिता’’ इति । पृथिव्या भूताधारत्वात्सर्वभूतभयगायत्रीत्वं शरीरहृदययोर्भूतात्मकप्राणाश्रयत्वाद्गायत्रीत्वम्, एवमन्यर्थोक्तवाक्प्राणसहितैर्भूतादिभिः षड्विधा गायत्रीति॥
गायत्र्याः सर्वच्छन्द इति ।
एवं हि श्रूयते — चतुरक्षराणि छन्दांस्यग्रे समभवन् तेषु जगती सोमाहरणाय गता त्रीण्यक्षराणि हित्वा आगच्छत् । एकं हित्वा त्रिष्टुबागता । गायत्री तु गत्वा तानि गलितानि चत्वार्यक्षराणि सोमं चाहृतवती । ततः साऽष्टाक्षराऽभवत्तयैव सवनत्रयमतन्वत याज्ञिकाः । माध्यन्दिने सवने त्रिष्टुभा प्रार्थिता गायत्री तामुपाह्वयत् । सा च गायत्र्यक्षरैरष्टभिः स्वीयैरेव शिष्टैस्त्रिभिरक्षरैरेकादशाक्षराभवत् । ततो जगत्या प्रार्थिता गायत्री तां तृतीयसवने उपाह्वयत् । सा च स्वीयेनैकेन प्राचीनैश्चैकादशभिरक्षरैर्द्वादशाक्षराऽभवदित्युक्त्वोपसंहृतं । तस्मादाहुर्गायत्राणि वै सर्वाणि सवनानीति । द्विजातीनां द्वितीयजन्मजननीत्वं श्रुतं गायत्र्या ब्राह्मणमसृजत्, त्रिष्टुभा राजन्यं, जगत्या वैश्यम् इति॥ केनचिदत्र प्रसिद्धा त्रिपादा गायत्री न प्रत्यभिज्ञायते; अस्याश्चातुष्पात्त्वादित्युक्तम् । तन्न; षडक्षरैश्चतुष्पदोप्यष्टाक्षरैस्त्रिपात्त्वोपपत्तेरिति ।
स्वात्मनीति ।
यावत् ।
त्रयः पादा इति ।
अल्पं प्रपञ्चं पादमपेक्ष्य स्वरूपमपरिच्छिन्नत्वात् त्रयः पादा इति॥
दिवीति वाक्यशेषवशात् त्रिपादिति मन्त्रपदस्य व्याख्यान्तरमाह —
अथ वेति ।
पद्यते ज्ञायते एभिस्तुरीयमिति विश्वतैजसप्राज्ञास्त्रयः पादाः एते यस्य तस्त्रिपात्तुरीयं स्वपादद्वारा गगनेऽवस्थितमिति मन्त्रार्थः ।
ननु त्रिपाद् ब्रह्मणः ‘‘अयं वाव स’’ इति कथं भूताकाशैक्योपदेशोऽत आह —
तद्धीति ।
उपलब्धिस्थानस्तुत्यर्थं ब्रह्मत्वोक्तिरित्यर्थः ।
बाह्यानिति ।
शरीराद्बहिष्ठानिति ।
ननु चतुष्पात्त्वगुणयोगाद्गायत्रीशब्दो ब्रह्म गमयति, कथमभिहितमिति भाष्यनिर्देशोऽत आह —
ब्रह्मपरत्वादिति ।
ननु पूर्वत्रापि विकारानुगतं ब्रह्म गायत्रीपदेन लक्षणया तात्पर्येण गमितमतः को विशेषः । उच्यते; गौणे प्रयोगेऽभिधेयगतो गुणस्तात्पर्याल्लभ्यते, लक्षणायां तु संबन्धं निमित्तीकृत्यार्थान्तरे तात्पर्यमिति ।
गायत्र्याख्यस्य ब्रह्मणो हृदि स्थितस्योपासनाङ्गत्वेन द्वारपालानादिगुणविध्यर्थं तस्य हेत्यादि वाक्यं, तदर्थतोऽनुक्रामति —
हृदयस्येत्यादिना ।
प्रागादिदिग्गता हृदयकमलसुषयो द्वाराणि तत्स्थाः प्राणादिवायवो द्वारपालास्ते च चक्षुरादिकरणयुक्ता आदित्यादिदेवैरधिष्ठिता इति समुदायार्थः ।
प्राणशब्दं निर्वक्ति —
प्रायणकाले इति ।
स आदित्य इत्यनन्तरनिर्दिष्टचक्षुष आदित्यत्वं नोच्यते किंतु प्राणस्येत्याह —
स एवेति ।
कारणमाह —
आदित्य इति ।
अधिष्ठात्रधिष्ठेययोरैक्योपचारः । श्रोत्रद्वारा चन्द्रमा व्यानस्याधिष्ठाता । एवमुत्तरत्रापि करणद्वारा वाय्वधिष्ठातृत्वं देवतानां द्रष्ठव्यम् । अधःश्वासस्याऽपानस्य मुखे वाक्संबन्धाद्वाक्त्वमित्यर्थः ।
सोऽग्निरिति श्रुतौ वाचोग्नित्वमुक्तं , तत्र हेतुमाह —
वाग्वा इति ।
तत्पर्जन्य इति ।
पर्जन्यो वृष्ट्यात्मको देवस्तन्निमित्ता आपः , तथा मनोनिमित्ताश्च ; “मनसा सृष्टा आपश्च वरुणश्चे’ति श्रुतेः , अतो मनसः पर्जन्योऽधिष्ठाता । उदानवायुः ; सामान्यात्मकः सहायकत्वे वर्तते , तस्य च वाय्वाधार आकाशः परमेश्वरो देवतेत्यर्थः । हार्दस्य ब्रह्मणः पुरुषाः प्राणादयः ।
यदादावुक्तं प्रधानप्रकृत्यर्थप्रत्यभिज्ञानुरोधेन प्रत्ययार्थवैषम्यं नेयमिति, तदुपदर्शकं भाष्यं व्याचष्टे —
यदाधारत्वमिति ।
अर्वाग्भागेति ।
यदा मुख्यमाधारत्वं वृक्षाग्रस्य विवक्षितं, तदा वृक्षाग्रात्परतः श्येन इति प्रयोगे श्येनशब्दो वृक्षाग्रलग्रश्येनावयवावच्छिन्नावयविलक्षक इत्यर्थः ।
अस्मिन्पक्षे दार्ष्टान्तिके ब्रह्मणः श्येनवदवयवाभावाद्दिव इति श्रुतिं लक्षणया व्याचष्टे —
एवमिति ।
शक्यते च दृष्टान्तेऽपि वृक्षाग्रादित्यवधिश्रुतिर्लक्षणया नेतुम्, अग्रभागादीषदर्वाग्भागपरत्वेन, तदा दार्ष्टान्तिकेन साम्यमिति । यदा त्वनौपाधिकं ब्रह्माकाशास्पृष्टं विवक्षित्वा पञ्चम्येव मुख्या, तदा सप्तमी सामीप्यसंबन्धं लक्षयतीत्याह —
यदा त्विति ।
अतएवेति ।
यतः सर्वमर्यादा मुख्या, अत एवेत्यर्थः । या तु दिवि द्योतनवतीति व्याख्या, तस्यां नामी व्याख्या विकल्पाः । अतएव तदपरितोषादथवेत्युक्तमिति॥
तावानस्य महिमेति ।
गायत्री वा इदं सर्वं भूतमित्यादिना भूतपृथिवीशरीरहृदयवाक् प्राणमयी षड्विधा चतुष्पदा गायत्रीत्युक्तम् । अस्य गायत्र्यनुगतस्य ब्रह्मणस्तावान्महिमा विभूतिः । परमार्थतस्त्वयं पुरुषस्ततो ज्यायान्महत्तरः, तदेवाह — सर्वाणि भूतान्यस्य पादः । अस्य त्रिपादमृतं दिवि द्योतनवति स्वात्मन्येव स्थितम् । यथा कार्षापणश्चतुर्धा विभक्त एकस्मात् पादात्पादत्रयीकृतो महान्, एवं पुरुषः पुरुषार्थरूपः प्रपञ्चान्महानित्यर्थः॥
ते वा एते इति ।
संवर्गविद्यायामधिदैवमग्निसूर्यचन्द्रांभांसि वायौ लीयन्ते । अध्यात्मं च वाक्यचक्षुःश्रोत्रमनांसि प्राणे सन्नियन्त इत्युक्तम् । ते वायुना सह पञ्च आध्यात्मिकेभ्योऽन्ये । प्राणेन च सहाधिदैविकेऽभ्योऽन्ये पञ्च । एवं दशसन्तस्तत्कृतम् । अत्रापि चतुरयकद्यूतगतचतुरङ्कव त्सन्ति चत्वारः पदार्थाः त्र्यङ्कायवत् त्रयः द्व्यङ्कायवद्द्वौ एकायवदेकः । द्यूते च चतुरङ्कः कृतसंज्ञः स च दशात्मकः । चतुर्ष्वङ्केषु त्रयोऽन्तर्भवन्ति; एवं सप्त त्रिषु द्वौ , तथा सति नव, द्वयोरेकः इति दश । वाय्वादयोपि दशसंख्यत्वादेवं कृतम् । सैषेति विधेयाभिप्रायः स्त्रीलिङ्गनिर्देशः । दशसंख्यत्वाद्विराट् अन्नम् । ‘दशाक्षरा विराडन्न’मिति हि श्रुतिः । कृतत्वादन्नादीनि, कृते ह्यन्नभूता दशसंख्यान्तर्भूता । अतस्तामत्तीव, अतोऽन्नादत्वेनापि गुणेन वाय्वादय उपास्या इत्यर्थः । इति दशमं ज्योतिरधिकराणम्॥
ज्योतिश्चरणाभिधानात्॥२४॥ तन्निरासकारणाभावादित्येतदयुक्तम्। सार्वात्म्यादिवदिह ब्रह्मलिङ्गाश्रवणेऽप्युपासनावाक्यत्वेनाधारमर्यादाकल्पनोपपत्तेस्तन्निरासकहेतोः तत्र व्युत्पादितस्यात्राप्यविशिष्टत्वादित्याशङ्क्य, तद्वाक्यमन्यथा व्याख्यातुं तदानुगुण्येनावतारयति–
किमुपोद्वलनायेति।
भवत्वेकदेशस्यति।
समस्तं ते जगदुपास्यं, तस्य द्युमर्यादा न सिद्धेति शङ्कितुः हृदयम्। एकैकामित्यादिप्रतीकग्रहणं तेजःप्रभृतीत्यादि तद्व्याख्यानमिति प्रतिभाति तदयुक्तम्। भाष्ये श्रुतौ वा तथाभूतप्रतीकाभावादुत्तरग्रन्थस्य तद्व्याख्यानत्वासंभवाच्चेत्याशाङ्क्य, भाष्योदाहृतश्रुतिगतपदयोजनार्थत्वेनकैकामित्यादिकं भिन्नवाक्यतया व्याचष्टे –
तासामिति।
गुणस्तु विभक्त्यर्थ इति।
प्रत्ययार्थप्राधान्यप्रसिद्धिः कृत्तद्धितार्थविषयेति भावः।
न स्ववाक्यगतमपि प्रस्तोष्यमाणमिति।
स्ववाक्यगतवरूपप्रत्यासत्यपेक्षयापि सर्वनाम्नामौत्सर्गिकी प्रसिद्धार्थपरत्वव्युत्पत्तिबलवती। अत एव "तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति" श्रुतावामिक्षापदवाच्यं पयसोऽर्थान्तरं दधिपयस्संसर्गजन्यं मधुराम्लत्वेन तदुभयविलक्षणं द्रव्यमभ्युपेयम्; पयो दध्यामिक्षेति व्यपदेशभेदादिति तस्यैव द्रव्यान्तरस्य वैश्वदेवयागद्रव्यत्वे आमिक्षापदसमानाधिकृततत्पदस्यापि तद्द्रव्यपरत्वे च प्राप्ते सर्वनाम्नः प्रकृतपरस्ववाभाव्यात्तत्पदं द्विकर्मिकामानयनक्रियां प्रति प्रधानकर्मतया दध्यानयनाधिकरणत्वेन निर्दिष्टं पयः परामृशतीति पय एव यागद्रव्यम्। तत्पदे स्त्रीलिङ्गमामिक्षापदसामानाधिकरण्यकृतम्। आमिक्षापदमस्मादेव वैदिकव्यवहारादम्लद्रव्यघनीभूतपयोवाचकम्। अम्लरसो न यागद्रव्यगतः, किन्तु तत्संस्कारकद्रव्यगत इति पयोरूपामिक्षाप्रयुक्तमेव दध्यानयनं न वाजिनप्रयुक्तमपीति निर्णीतं चतुर्थे (जे.अ. ४ पा.१सू. २२-२४) दधि मधु घृतं पयो धाना उदकं तण्डुला स्तत्संसृष्टं प्राजापत्यमिति चित्रायागविधी दध्यादिसप्तद्रव्यमेलनरूपसंसृष्टकद्रव्यक एको यागस्तत्पदं च संसृष्टद्रव्यपरमिति प्राप्ते तत्पदं प्रकृतपरामर्शित्वस्वाभाव्यादसंसृष्टदध्यादिसप्तद्रव्यपरमिति दध्यादिद्रव्यकाः सप्त यागाः। संसृष्टपदं यागभेदेप्येकदेवत्यतया सानाय्यवद्दध्यादीनां सह प्रक्षेपे संसर्गसत्वादनुवादकम्। नपुंसकैकवचनं "नपुंसकमनपुंसकेनैकवचास्यान्यतरस्या"मिति व्याकरणानुशिष्टमुपपाद्यमिति निर्णीतं टुप्टीकायाम् अष्टमे द्वादशे च। ननु-यत्र सर्वनाम्नः प्रस्तुतपरत्वं न संभवति, तत्र प्रस्तोष्यमाणपरत्वमपि द्वितीये संज्ञाधिकरणे (जै. अ. २ पा. २ सू. २२) व्युत्पादितम्। तत्र हि "अथैष ज्योतिरेतेन सहस्रदक्षिणेन यजेत" इत्यत्र सर्वनाम्नः प्रकृतज्योतिष्टोमपरत्वं न संभवति; ज्योतिज्योतिष्टोम इति नामभेदस्यार्थान्तरपरत्वस्वारस्यात्, अथेत्यनेनाधिकारार्थेन प्रकरणविच्छेदावगमात्, प्रकृते ज्योतिष्टोमे एवास्य वाक्यस्य सहस्रदक्षिणालक्षणगुणविधानार्थतायामेतेनेत्यादिमन्त्रस्य अपर्याप्ततया अथैष ज्योतिरित्यनुवादवैयर्थ्याच्च। तस्माद् ज्यातिर्नामके सहस्रदक्षिणे प्रस्तोष्यमाणे यागान्तर एव सर्वनाम्नो वृत्तिरभ्युपेयेति निरूपितम्, तदिहापि ज्योतिः पुरुषः इति संज्ञाभेदः। अथशब्देन प्रकरणविच्छेदावगमः। अस्य वाक्यस्य प्रकृतमेव त्रिपाद् ब्रह्मानूद्य तस्य कौक्षेयज्योतिष्युपासनविधानार्थतायां "इदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः इत्येतावत एव पर्याप्ततया “अथ यदतः परो दिवः" इत्याद्यनुवादवैयर्थ्यप्रसङ्गश्चेति समान एव संज्ञाधिकरणन्यायः। किञ्च “अथ यदतः परः" इत्यादियदुपबन्धयुक्तं वाक्यं न केवलं यत्पदनिर्दिष्टस्य द्युसंबन्धमात्रं कीर्तयति, येन द्युसंबन्धिप्रकृतसद्भावमात्रोपपादनेन चारितार्थ्यं स्यात्, किन्तु दिवः परेषु लोकविशेषेषु दीप्यमानत्वमपि कीर्तयति। न च तदपि तावानस्येति ऋचा प्राप्तम्। अतो यदुपबन्धयुक्तवाक्यनिर्दिष्टयावद्विशेषविशिष्टप्रसिद्धेः यत्पदेनानुवदितुमपेक्षितत्वात् तस्याश्चासंभवादत्र यत्पदस्य प्रस्तोष्यमाणपरत्वमेव युक्तमिति चेत्, उच्यते; दिवः पर इत्यत्र द्युशब्दः स्वर्लोकपर्यायः, स्वर्लोकश्चात्र भूर्भुवःस्वरिति लोकत्रयपक्षानुसारेण भूमिसूर्यान्तररूपाद् भुवर्लोकादुपरितनसत्यलोकान्तो विवक्षितः, तस्योपरिभागरूपः सत्यलोकान्तर्गतहिरण्यगर्भादिभोगभूमिमेदाः। तेषु ब्रह्मलोकेषु परा य एव ते वसन्तीत्यादि श्रुतिप्रसिद्धाः। तेषु सर्वस्मादपि लोकादुपरि स्थितेषु सर्वोत्तमेषु लोकेषु हिरण्यगर्भादिमूर्त्यभिव्यक्तं ब्रह्म दिवः परमित्यनुत्तमेषूत्तमेषु लोकेषु स्थितमिति चानूद्यते। हिरण्यगर्भादिमूर्तिप्रभावच्छेदेन दीप्यत इत्यप्यनूद्यते। एतावद्यद्यपि त्रिपादस्यामृतं दिवीत्यतो न प्राप्तम्, तथापि तस्य दिवमनूद्य तत्र स्थितिविधानाय द्युस्वरूपावगत्यर्थं वचनान्तरमुखनिरीक्षणावश्यंभावेन ततः सूर्यादिसत्यलोकोपरि भूम्यन्तद्युस्वरूपादिप्राप्तिः। अथवा - माभूत्पुरोवादान्तरं, त्रिपादस्यामृतं दिवीत्ययमेव दुरूपाधिकरणविशेषविशिष्टत्रिपाद्ब्रह्मप्रतिपादको यदतः पर इत्यादेः पुरोवादोस्तु। तत्र किं द्युशब्द आकाशपरः स्वर्लोकपरो वा। द्वितीयेऽपि ध्रुवलोकान्तपरः सत्यलोकान्तपरो वा। दिवीति सप्तमी यत्किंचिद्भागावच्छेदेनाधिकरणत्वपरा उपरिभागावच्छेदेन वेति संभवदनेकतात्पर्यस्य पुरोवादस्यास्मादेवानुवादादर्थविशेषव्यवस्थितिरस्तु। अस्ति हि पुरोवादस्यानुवादवशादर्थविशेषव्यवस्थितिः। तथा हि "यज्ञायज्ञीयेन स्तुवीते "ति प्रकृत्य न गिरा गिरेति ब्रूयाद् यद्गिरा गिरेति ब्रूयादात्मानमेव तदुद्गाता गिरेदैरं कृत्वोद्गेय"मिति यज्ञायज्ञीयसान्नः ऋचि "गिरा गिरा च दक्षसे" इत्यत्र गिरापदप्रतिषेध इरापदविधिश्च श्रूयते। तत्र गिरापदप्रतिषेधोऽनुवादः; तस्यापि विधाने वाक्यभेदापत्तेः। इरापदस्य प्रकरणेन यज्ञायज्ञीयसंबन्धे दृष्टार्थस्य तस्य यज्ञायज्ञीयगतकिंचित्पदकार्यावगत्यवश्यंभावे चावगतेः कस्य पदस्य स्थाने तदित्याकाङ्क्षायां गिरापदप्रतिषेधानुवादसामर्थ्यात् तस्य स्थाने इत्यवसीयत इति नवमे निर्णीतम् (जै. अ. ९ पा. १सू. ५०)। तथेहापि भविष्यति। एवमुपासनोपयुक्तार्थविशेषनिर्णयोपयोगिवान्नानुवादवैफल्यशङ्कापि। संज्ञाभेदेनार्थभेदशङ्का तु न प्रवर्तते; ज्योतिश्शब्दस्य प्रकाशवाचिनस्त्रिपाद्रूपेण प्रकृते ब्रह्मणि वाचकतयैव वृत्तिसंभवात्, श्रुत्यन्तरेषु ब्रह्मणि प्राचुर्येण दृष्टप्रयोगत्वाच्च। अथशब्देन प्रकरणविच्छेदशङ्कापि नास्ति; तस्य पूर्वप्रकृतापेक्षवाचित्वोपपत्तेः। तेन पूर्वोपासनान्वितब्रह्मगुणानां ज्योतिरुपासनायामप्यन्वयसिद्ध्या तद्वाचित्वस्यात्र सफलत्वात्, प्रकृतं ब्रह्माऽविहायैव तस्योपासनान्तरारम्भार्थत्वसंभवेनाधिकारार्थत्वेऽप्यविरोधाच्च॥
शेषभक्षो विध्यभावान्न विद्यत इति।
ननु “सर्वतः परिहारमाश्विन"मित्यादिषु सार्थवादेषु प्रत्यक्षवचनेषु जाग्रत्सु कथं विध्यभावपूर्वपक्षोत्थानम्। इत्थम्। “आश्विनं गृह्णाती'त्यादि विधिभिः तत्तद्देवतोद्देशेन गृहीतः सोमरसः कृत्स्नोऽप्युपांशुयाज्यावद्धोतव्य इति तत्र शेषाभावाद्भुतशेषस्येदं न भक्षणविधानं, किं त्वाश्विनग्रहादिधर्मकसोमगुणविशिष्टार्थकर्मरूपभक्षणविधानं, कथंचिच्छेषसद्भावसमर्थनेऽपि रागप्राप्ततद्भक्षणानुवादेन गुणमात्रस्य विधानं, न भक्षणस्यापि; विशिष्टविधिगौरवापत्तरिति पूर्वपक्षी मन्यते। अल्पं जुहोतीति वचनसामर्थ्यादस्ति तावच्छेषः। न चास्य विधायकत्वे संभवति पात्राल्पत्वप्रयुक्ताल्पत्वानुवादकतया वैय्यर्थ्याश्रयणं युक्तं तद्भक्षणस्याप्राप्तस्य गुणविशेषविशिष्टस्य विधानेन वचनानां चारितार्थ्ये संभवति नाश्विनादिधर्मकसोमगुणविशिष्टार्थकर्मरूपभक्षणविधिगौरवसमाश्रयणं युक्तम्। न चात्यन्तलाघवार्थं गुणमात्रविधानमपि युक्तम्। भक्षणस्याप्राप्तवाद्, रागतः पक्षप्राप्तस्य नित्यवदाम्नातगुणाश्रयत्वायोगादिति सिद्धान्तः॥ "सर्वतः परिहारमाश्विनं भक्षयति तस्मात् सर्वतः श्रोत्रेण शृणोती"त्यस्यायमर्थः। आश्विनं सर्वतःपरिहार शिरः परितो भ्रमयित्वा भक्षयति तस्मात्सर्वतः सर्वासु दिक्षु स्थितं शब्दं श्रोत्रेण शृणोतीति "उपयामगृहीतोऽसि श्रुत सदसि श्रोत्रभ्यां त्वे"ति मन्त्रे ह्यश्विनोः श्रोत्रसंरक्षकत्वमाम्नातम्। तदीयसोमशेषस्य च 'श्रोत्राय मे वर्च्चोदा वर्चसे पवस्वेति' श्रोत्रवर्चःप्रदत्वमाम्नातम्। तदीयसोमशेषस्य सर्वतो भ्रमणे सति सर्वदिगभियुक्तशब्दश्रवणं भवतीति तात्पर्यम्। सर्वतः परिहारमिति णमुलन्तः शब्दः।
अर्थवादा इति।
भक्षणवचनानां तस्मात्सर्वत इत्यादिभिः स्वयमर्थवादैर्युक्ततया स्वतन्त्रत्वेन प्रतीयमानानामन्यार्थवादत्वप्रतीत्यभावेऽपि तत्प्रतीतिमभ्युपेत्य तथाप्युपरिधारणवाक्यवदपूर्वखाद्विधायकख मङ्गीकर्तव्यमित्यभिप्रैल्यार्थवादत्वोक्तिः॥२४॥
न च भूतपृथिवीति।
ननु भूतपृथिवीशरीरहृदयानि निर्दिश्य सैषा चतुष्पदेति ऋगनुशिष्टटाबन्तचतुष्पादशब्दप्रयोगात् गायत्र्यामृच्येव स्तावकतया भूतादिपादत्वं तत्समभिव्याहृतं षाड्विध्यं च योजनीयमिति चेद्, न। गायत्र्यनुगतब्रह्मलक्षणायां गायत्रीसदृशे ब्रह्मणि गौणवृत्तौ च प्रथमं गायत्र्युपस्थितिसत्वेन तद्विषयतया टाबन्तत्वोपपत्तेः। गायत्री वा इदं सर्वमित्यादिश्रुतिवाक्यलेखने येयं पृथिवीत्याद्यनन्तरमाम्नातस्य "अस्यां हीदं सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयत” इत्यादेरलेखनं प्रकृतानुपयोगात्। प्रसिद्धा त्रिपदा गायत्रीत्यादिपाठः साधुः, न तु त्रिपाद्वायत्रीत्याविपाठः।
षडक्षरैरिति।
पादैरिति शेषः।
दिवीति वाक्यशेषवशादिति।
दिवीति सप्तमीस्वारस्यादित्यर्थः। प्राग्विश्वतःपृष्ठेषु सर्वतःपृष्ठेष्वित्यस्य टीकाकारकृतव्याख्यानानुसारेण तत्पुरोवादस्य दिवीत्यस्य सत्यलोकान्तर्गतब्रह्मविष्णुशिवभोगभूमिपरत्वं त्रिपादित्यस्य ब्रह्मादिमूर्तित्रयाभिव्यक्तिपरत्वं चार्थ इत्यर्थात् स्थितमेव। वैभवादिदं व्याख्यानद्वयम्। ननु-व्याख्यानत्रयेऽपि सैषा चतुष्पदा षड्विधा गायत्रीयेतदनन्तरं तदेतदृचाभ्यनुक्तमिति ऋगवतारिकायाः कथं संगतिरिति-चेत्, गायत्र्याख्यस्य ब्रह्मणः सर्वभूतात्मत्वादिरूपो यो महिमा वर्णितः स सर्वोऽपि तावानस्य महिमेति प्रथमपादेन कीर्त्यत इति संगतिः। नन पुरुषसूक्तपठितोऽयं मन्त्रः, तत्र प्रकृतं महिमानं कीर्तयेत् तस्यैतत्प्रकरणगतमहिमकीर्तने कः प्रसङ्गः। नैष दोषः। उभयत्रापि महिमवर्णनस्यार्थत एकत्वात्। पुरुषसूक्तेऽपि “स भूमिं सर्वतो वृत्वा" "पुरुष एवेदं सर्वं यद्भूतं यच्च भव्य"मित्याम्नानात्। एवं प्रथमपादस्य प्रकृतार्थविषयत्वे स्थिते द्वितीयपादेन ततो ज्यायस्त्वं ब्रह्मणः प्रतिज्ञायोत्तरार्धन यत्तदुपपादनं कृतं तस्य पादचतुष्टयवत्वेन सादृश्येन गायत्रीपदस्य ब्रह्मणि प्रवृत्त्युपपादकतया प्रकृतसङ्गतिः। अभिहितमित्युक्तमिति टीका न युक्ता; लक्षणापक्षेऽपि ब्रह्मपरत्वस्याविशिष्टवादित्याशङ्कते–
नन्विति।
गौणे प्रयोगे इति।
ननु-गौण्यां तात्पर्याधीनो गुणलाभः लक्षणायां संबन्धाधीनस्तात्पर्यलाभ इति नायं नियमः। मुखमिदं कमलमिति कविसमयप्रसिद्धायां कर्णोऽयं राजेत्यादिलोकव्यवहारसिद्धायां च गौण्यां मुख्यार्थप्रसिद्धकान्तिमत्वदातृत्वगुणलाभस्य तात्पर्यावेक्षणानपेक्षत्वाद्, यष्टीः प्रवेशयेत्यादौ तात्पर्यानुपपत्तिमूलकलक्षणायाः तात्पर्यान्वेषणापेक्षत्वाच्च, तत्रापि प्रकरणाद्यवगतभोजनप्रवेशनान्वयानुपपत्तिलक्षणाबीजं न तात्पर्यानुपपत्तिरिति चेन्न; गङ्गायां घोष इत्यत्र सामीपिकाधिकरणविवक्षायां मुख्यार्थान्वयसंभवेऽप्यौपश्लेषिकाधिकरणे तात्पर्यमिति तात्पर्यानुपपत्तिरेव लक्षणाबीजं नान्वयानुपपत्तिरिति वैपरीत्यस्यापि वक्तुं शक्यत्वादिति चेत्, उच्यते; प्रकृताभिप्रायमिदं विशेषकथनम्। प्रकृते सार्वात्म्याद्यन्वययोग्ये ब्रह्मणि गायत्रीपदस्य तात्पर्येऽवधृते तन्निर्वाहार्थं तत्र तस्य गौणवृत्तिमूले गुणे वाच्ये ब्रह्मगायत्र्योः सादृश्यरूपस्य गुणविशेषणस्याप्रसिद्धत्वात्तदन्वेषणे ब्रह्म चतुष्पादिह निर्दिष्टम्। प्रसिद्धाया गायत्र्याः "तेषामृग्यत्रार्थवशेन पादव्यवस्थेति" प्रकारेण त्रिपदत्वेऽपि यथा “षष्टिस्त्रिष्टुभो माध्यन्दिने सवने” इत्यर्थवादोत्तरीत्या माध्यन्दिनसवनगताः गायत्रीबृहत्यादयोऽक्षरसंख्यामात्रेण त्रिष्टुभः, एवमिह गायत्री षड्भिः षड्भिरक्षरैश्चतुष्पदेति पादचतुष्टयवत्वरूपो गुणो लम्भनीयः। लक्षणायां तु प्राथमिकत्वादभ्यर्हितत्वात् चोपादानोपादेयभावसंबन्धः शीघ्रं स्फुरतीति संबन्धनिमित्तकं तात्पर्यमिति॥
आकाशः परमेश्वर इति।
तस्यान्ते सुषिरं सूक्ष्ममित्यादिश्रुतावूर्ध्वसुषिरवर्तिलेनाम्नातो दहराकाशरूपः परमेश्वर ऊर्ध्वद्वारपालस्याधिष्ठातृदेवतेत्यर्थः। उपास्यस्य द्वारपालाधिष्ठातुश्च परमेश्वरस्य हृदयकमलमध्यतदूर्ध्वसुषिररूपावच्छेदकभेदेन भेदः। आकाशपदस्य तदभिमानिदेवतापरत्वे वक्तुं शक्येऽपि दहरकमलोर्ध्वसुषिरे तदभिव्यक्तिरप्रसिद्धा कल्पनीया, परमेश्वरस्य तु प्रसिद्धा क्लृप्तास्तीत्येवं व्याख्यातम्।
यदा मुख्यमाधारत्वमित्यादि।
इयं क्लिष्टयोजना परत इत्येतदपि पञ्चम्यन्तमित्यभ्युपेत्य। यदि तु दिवः पर इति श्रुत्यनुसारेण दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यत इति भाष्यानुसारेण च प्रथमार्थस्तसिल्प्रत्यय आश्रीयते तदा दिव उपरिभागे स्थितं ब्रह्म दिवः परमेव भवतीति न काचिदनुपपत्तिरिति विस्पष्टत्वान्नोक्तम्।
ननु दश सन्तस्तत्कृतमिति प्रकृतेषु दशसु कथं कृतशब्द इत्याशङ्क्य तदुपपादयितुमाह –
अत्रापि चतुरयकेति।
लोकेऽक्षनिपातनरूपं द्यूतं द्विविधम्, एकाक्षनिपातनं बह्वक्षनिपातनं च। तत्र बह्वक्षनिपातनं द्विविधं नियतसंख्यबह्वक्षनिपातनं अनियत संख्यबह्वक्षनिपातनं च। एकाक्षनिपातनरूपस्य अनियतसंख्यबह्वक्षनिपातनरूपस्य च द्यूतस्यायसंज्ञकाः सन्ति प्रकारविशेषाः। ले चतुर्विधाः, कृतत्रेताद्वापरकलिभेदात्। कृतायरूपेऽक्षनिपातने जय इति द्यूतशास्त्रमर्याद।। तत्रैकाक्षनिपातनरूपे द्यूते य एकोऽक्षश्चतुरश्रः तस्याश्रिद्वयमश्रिद्वयमन्तरा चत्वारि स्थानानि क्रमाच्चतुस्त्रिद्व्येकसंख्यबिन्दुरूपाङ्कयुक्तानि भवन्ति। तेषु यच्चतुरङ्कस्थानं तस्योपरिभवेनाक्षनिपातनं कृतायः। त्रिद्व्येकाङ्कयुक्तस्थानानामुपरिभावेन पतनानि तु त्रेताद्ययाः। अनियतसंख्यबह्वनिपातनरूपे तु द्यूते न्युप्तेष्वक्षेषु चतुष्कशो विभज्यमानेष्ववसाने चत्वारोऽवशिष्यन्ते चेत्, तदक्षनिपातनं कृतायः। त्रिद्व्येकाक्षावशेषे तु त्रेताद्ययाः। अमुमर्थं श्रुतिरप्यनुवदति। ये वै चत्वारः स्तोमाः कृतं तत्। अथ ये पञ्च कलिः स इति। एवं लौकिकस्य द्यूतस्य प्रकारः। वैदिकं तु नियतसंख्यबह्वक्षनिपातनरूपं नियमेन कृतायरूपमत एव व्यवस्थितजयफलकम्। एवं चाग्न्याधाने राजन्यस्य कर्तव्यमापस्तम्बसूत्रे शतमक्षान्यजमानाय प्रयच्छन्नाहेत्युपक्रम्य दर्शितं कृतं यजमानो विजिनातीति। न्युप्तेषु शतसंख्येष्वक्षेषु चतुष्कशो विभज्यमानेष्ववसाने यः पञ्चविंशो भागः सोऽपि चतुरक्ष एव। अतस्तदक्षनिपातनं कृतमिति यजमानो विजिनाति जयतीत्यर्थः। अत्र चतुरयकेति विशेषणं लौकिकग्रहणाय। अयेति ह्रस्वयुक्तपाठः साधुः, न तु चतुरायकेति दीर्घयुक्तपाठः। इह जानश्रुत्युपाख्यान एव यथाकृतायविजितायाधरेऽयाः संयन्तीति प्रयोगात्। यजुर्वेदे कृतायानां त्रेतायानां द्वापरायानामास्कन्दीयानामित्यादिप्रयोगात् "अयः शुभावहे दैवे गतौ द्यूताक्षपातने” इत्यादिनैघण्टुकव्यवहाराच्च ह्रस्वादेरेव द्यूतप्रकारवाचित्वावसायात्। यद्यप्याधानगतवैदिकमपि द्यूतं कृतं भवतीति दश सन्तस्तत्कृतमित्यत्रत्यकृतशब्दव्याख्यानाय विशिष्य लौकिकद्यूतं नान्वेषणीयम्। तथापि यत्र त्रिबिन्दूपरिभावादियुक्ताः अक्षावशेषादियुक्ता वा त्रेतादयोऽपि सन्ति तत्र चतुर्बिन्दूपरिभावयुक्ते चतुरक्षावशेषयुक्ते वा द्यूते कृतशब्दो धर्मपादचतुष्टययुक्तयुगवाची समुचितम् इति ज्ञायते। यथा कृतायविजितायेत्यत्रत्य विजयवचनं च विजयनिमित्तकृतप्रतिद्वन्द्विपराजयनिमित्तत्रेतादिविमिश्रितलौकिकोदाहरण एव स्पष्टं भवतीत्याशयेन छान्दोग्यविवरणे भगवत्पादैः लौकिकमुदाहृतम्। अतस्तदनुसारेणाचार्यैरपि लौकिकग्रहणेन वैदिकं व्यावर्तयितुं चतुरयकत्वेन द्यूतं विशेषितम्। अनेनैव यत्र लौकिकेऽपि नियतसंख्यपश्चाक्षपातनादिरूपे सर्वेषामुत्तानतया पातने जयः, अन्यथा पराजय इति व्यवस्थावति द्यूतशास्त्रप्रसिद्धे द्यूतान्तरे कृतत्रेतादिकं नास्ति तस्यापि व्यावृत्तिः। एवं चायं वाक्यार्थः। चतुरयके लौकिके द्यूते यथा चत्वारोङ्काः सन्ति, तद्वत्प्राणादिदशके चत्वारोऽपि पदार्थाः सन्ति, तदन्तर्गता यथा अङ्करूपा अवयवाः तद्वत् त्रयोऽपि सन्ति, यथा च द्व्यङ्करूपावयवौ तद्वद् द्वावपि स्तः। यथैकाङ्करूपोऽवयवः तद्वदकोऽप्यस्तीति। त्र्यङ्कायवद् एकाङ्कायवदिति केषुचित्कोशेषु पाठो दृश्यते। तस्मिन्पाठे सप्तमीसमर्थात् 'तत्र तस्यैवेति' सूत्रेण वतिर्वाच्यः, न तु तेन तुल्यं क्रियां चेद्वतिरिति सूत्रेण। तथा च अङ्कस्थानो परिभावयुक्त त्रेताये यथा त्रयोऽङ्काः सन्ति, तद्वत् त्रयोऽपि सन्तीत्यादिरर्थो लभ्यत इति तेन प्राणादिदशके त्रेतादिशब्दप्रवृत्तिनिमित्तं प्रस्तुतानुपयोग्येवोक्तं स्याद्, न तु श्रुतिगतकृतशब्दप्रवृत्तिनिमित्तम्। तस्मादयुक्तः स पाठः। चतुरङ्कवदिति पूर्ववाक्यस्थेन यथा चत्वारोऽङ्काः सन्तीत्येवमर्थकेनार्थसारूप्यालाभाच्च स पाठो न युक्तः। अत्र सर्वेऽप्यङ्कशब्दाश्चिह्नवाचिनः। एकाक्षनिपातने बिन्दूनां बह्वक्षनिपातने अवशिष्टाक्षाणां च साधारणः। उभयेषामपि चतुस्त्रिद्व्येकसंख्यात्वेन कृतायादिचिह्नत्वाविशेषात्॥
ननु सन्तु प्राणादिदशके चतुरङ्काय इव चतुस्त्रिद्व्येकरूपाः पदार्थाः, प्रकृते किमायातमित्याशङ्क्य दशस्वेतेषु कृतशब्दप्रवृत्तिं प्रकृतार्थं कृतशब्दप्रसिद्धार्थसादृश्येनोपपादयितुं तस्य प्रसिद्धमर्थमाह –
द्यूत इति।
ननु कृतसंज्ञेन चतुरङ्कायेन वायुप्राणादीनां किं सादृश्यम्? प्रागुक्तं चतुस्त्रिद्व्येकसंख्यासंख्येयत्वमिति चेद्, न तत्सादृश्यं श्रुतौ विवक्षितम् दश सन्तस्तत्कृतमिति श्रुतौ दशशब्दसंकीर्तनेन दशसंख्यया सादृश्यविवक्षोन्नयनादित्याशङ्क्य, चतुःसंख्यायाः तदन्तर्गतत्रिद्व्येकसंख्यानां च संयोजनेन तस्मिन् दशसंख्यां संपादयति - ॢ
स च दशात्मक इत्यादिना।
ननु दशसंख्ययैव सादृश्यविवक्षायां द्यूते चतुरङ्कायः कृतसंज्ञ इत्यादिग्रन्थ एव पर्याप्तः किमर्थः तत्प्राचीनः प्रकृतेषु दशसु चतुस्त्रिद्व्येकसंख्यपदार्थवत्वरूपचतुरङ्कायसादृश्यकथनपरग्रन्थ इति चेत्, उच्यते। चतुरङ्काये दशसंख्यावत्वमवयवसंख्यासंयोजनेनौपचारिकं, न तु संख्येयव्यक्तितावत्वप्रयुक्तं मुख्यं, कथममुख्यगुणवद् मुख्यगुणवत उपमानं स्यादित्याकाङ्काक्षायाँ गुणगतमुख्याऽमुख्यविवेकोऽत्र न विवक्षितः। किन्तु चतुस्त्रिद्व्येकसंख्याघटनीयत्वमात्रं, तत्तु मुख्यामुख्यसाधारणमिति दर्शयितुं प्राचीनग्रन्थः। एवं दशसंख्यावत्वादेव तेषु दशाक्षरच्छन्दोविशेषवाचको विराच्च्छब्दश्च, स प्रकृते दृष्टान्तः॥