पञ्चपादिका
वक्तव्यकाशिका
 

अत्राह यद्येवम् , एतावदेवास्तु भाष्यम्अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेइति ; तत्रअनर्थहेतोः प्रहाणायइति प्रयोजननिर्देशः, ‘आत्मैकत्वविद्याप्रतिपत्तयेइति विषयप्रदर्शनं, किमनेनयुष्मदस्मद्इत्यादिनाअहं मनुष्यःइति देहेन्द्रियादिषु अहं ममेदमित्यभिमानात्मकस्य लोकव्यवहारस्य अविद्यानिर्मितत्वप्रदर्शनपरेण भाष्येण ? उच्यतेब्रह्मज्ञानं हि सूत्रितं अनर्थहेतुनिबर्हणम्अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वभोक्तृत्वम्तत् यदि वस्तुकृतं, ज्ञानेन निबर्हणीयम् ; यतः ज्ञानं अज्ञानस्यैव निवर्तकम्तत् यदि कर्तृत्वभोक्तृत्वम् अज्ञानहेतुकं स्यात् , ततो ब्रह्मज्ञानं अनर्थहेतुनिबर्हणमुच्यमानमुपपद्येततेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूचयता अविद्याहेतुकं कर्तृत्वभोक्तृत्वं प्रदर्शितं भवतिअतः तत्प्रदर्शनद्वारेण सूत्रार्थोपपत्त्युपयोगितया सकलतन्त्रोपोद्घातः प्रयोजनमस्य भाष्यस्यतथा चास्य शास्त्रस्य ऐदम्पर्यं सुखैकतानसदात्मककूटस्थचैतन्यैकरसता संसारित्वाभिमतस्यात्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति प्रतिपादितम्तच्च अहं कर्ता सुखी दुःखी इति प्रत्यक्षाभिमतेन अबाधितकल्पेन अवभासेन विरुध्यतेअतः तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपं अविद्यानिर्मितं आत्मन इति यावत् प्रतिपाद्यते, तावत् जरद्गवादिवाक्यवदनर्थकं प्रतिभाति ; अतः तन्निवृत्त्यर्थम् अविद्याविलसितम् अब्रह्मस्वरूपत्वम् आत्मन इति प्रतिपादयितव्यम्वक्ष्यति एतत् अविरोधलक्षणे जीवप्रक्रियायां सूत्रकारः तद्गुणसारत्वात्’ (ब्र. सू. २-३-२९) इत्यादिना

अत्राह यद्येवम् , एतावदेवास्तु भाष्यम्अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेइति ; तत्रअनर्थहेतोः प्रहाणायइति प्रयोजननिर्देशः, ‘आत्मैकत्वविद्याप्रतिपत्तयेइति विषयप्रदर्शनं, किमनेनयुष्मदस्मद्इत्यादिनाअहं मनुष्यःइति देहेन्द्रियादिषु अहं ममेदमित्यभिमानात्मकस्य लोकव्यवहारस्य अविद्यानिर्मितत्वप्रदर्शनपरेण भाष्येण ? उच्यतेब्रह्मज्ञानं हि सूत्रितं अनर्थहेतुनिबर्हणम्अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वभोक्तृत्वम्तत् यदि वस्तुकृतं, ज्ञानेन निबर्हणीयम् ; यतः ज्ञानं अज्ञानस्यैव निवर्तकम्तत् यदि कर्तृत्वभोक्तृत्वम् अज्ञानहेतुकं स्यात् , ततो ब्रह्मज्ञानं अनर्थहेतुनिबर्हणमुच्यमानमुपपद्येततेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूचयता अविद्याहेतुकं कर्तृत्वभोक्तृत्वं प्रदर्शितं भवतिअतः तत्प्रदर्शनद्वारेण सूत्रार्थोपपत्त्युपयोगितया सकलतन्त्रोपोद्घातः प्रयोजनमस्य भाष्यस्यतथा चास्य शास्त्रस्य ऐदम्पर्यं सुखैकतानसदात्मककूटस्थचैतन्यैकरसता संसारित्वाभिमतस्यात्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति प्रतिपादितम्तच्च अहं कर्ता सुखी दुःखी इति प्रत्यक्षाभिमतेन अबाधितकल्पेन अवभासेन विरुध्यतेअतः तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपं अविद्यानिर्मितं आत्मन इति यावत् प्रतिपाद्यते, तावत् जरद्गवादिवाक्यवदनर्थकं प्रतिभाति ; अतः तन्निवृत्त्यर्थम् अविद्याविलसितम् अब्रह्मस्वरूपत्वम् आत्मन इति प्रतिपादयितव्यम्वक्ष्यति एतत् अविरोधलक्षणे जीवप्रक्रियायां सूत्रकारः तद्गुणसारत्वात्’ (ब्र. सू. २-३-२९) इत्यादिना

यद्येवमिति ; अस्यानर्थेति ; तत्र अनर्थहेतोः प्रहाणायेतिरिति ; विषयप्रदर्शनमिति ; किमनेनेत्यादिना ; देहेन्द्रियादिष्वित्यादिलोकव्यवहारस्येत्यन्तेनहारस्येनान्तेन इति, ; अहं मनुष्य इति ; इत्यभिमानस्येति ; अविद्यानिर्मितत्वेति ; उच्यत इति ; अनर्थहेतुनिबर्हणं हीति ; ब्रह्मज्ञानं हीति ; ज्ञानं हीति ; अनर्थश्चेति ; तद्यदि वस्तुकृतमिति ; तद्यदि कर्तृत्वमिति ; तत्प्रदर्शनद्वारेणेति ; सकलतन्त्रोपोद्घातःमन्त्रोपोद्घात इति प्रयोजनमस्य भाष्यस्येति ; प्रयोजनमितियोजनेति शेषः ; तथा चास्य शास्त्रस्येति ; सुखैकतानेत्यादिना स्वरूपमित्यन्तेन ; सुखैकतानेति ; कूटस्थचैतन्येति ; सदात्मेति ; एकरसतेति ; संसारित्वेनाभिमतस्येति संसारित्वाभिमतस्येति पञ्चपादिकायाम् ; पारमार्थिकमिति ; वेदान्ताः पर्यवस्यन्तीति ; प्रतिपादितं - ; तच्चेत्यादिना ; अहं कर्तेत्यादिना ; अहमिति ; कर्तेति ; सुखीति ; दुःखीति ; प्रत्यक्षेति ; अभिमतेनेति ; अबाधितेति ; कल्पेनेति ; अवभासेनेति ; वक्ष्यति चैतदिति ; अविरोधलक्षण इति ; जीवप्रक्रियायामिति ;

यद्येवमिति ।

सूत्रितविषयप्रयोजनप्रतिपादकत्वात् युष्मदस्मदित्यादिभाष्यं भवति चेदित्यर्थः ।

एतावच्छब्देन प्रथमभाष्यस्योपादानं मा भूदिति दर्शयति -

अस्यानर्थेति ।

विषयप्रयोजनयोरनेनापि कण्ठोक्तताभावात् अभाष्यत्वेन त्याज्यत्वपरिहारार्थं चतुर्थ्या कण्ठोक्तं प्रयोजनमिति निर्दिशति -

तत्र अनर्थहेतोः प्रहाणायेतिरिति ।

चतुर्थ्या स्वयं प्रतिपन्नत्वात् तन्निर्दिश्यत इत्याअत्रापूर्णमेव दृश्यते (इत्युक्तिः ? ) व्यर्थेति चेत् तदुत्तरवाक्यस्थचतुर्थीवत् प्रयोजनानभिधायित्वशङ्कानिरासायोक्तेरर्थवत्वात् । उत्तरचतुर्थ्याश्च प्रयोजनवाचित्वं प्रकरणात् प्राप्तं व्यावर्त्य, वेदान्तारम्भम्अत्र न स्पष्टम्, प्रत्यवान्तरप्रयोजनज्ञानस्य निर्देशेऽपि तात्पर्येण विषयपरत्वं दर्शयति -

विषयप्रदर्शनमिति ।

अभिधायकत्वं विहाय तात्पर्येण विषयप्रतिपादकमपि भाष्यं चेत् प्रथमभाष्यस्यापि विषयप्रयोजने तात्पर्यवत्वेन भाष्यत्वमस्तीत्याशङ्क्य शक्तितात्पर्ययोरन्यतरेणापि तद्विषयप्रयोजनस्पर्शि न भवतीत्याह –

किमनेनेत्यादिना ।

देहे अहमित्यभिमानरूपमिन्द्रियादिषु ममाभिमानरूपं चाध्यासमभिधेयार्थत्वेन दर्शयतिदर्शने इति

देहेन्द्रियादिष्वित्यादिलोकव्यवहारस्येत्यन्तेनहारस्येनान्तेन इति,

देहोऽहमित्यभिमानाभावात् जात्यादिविशिष्टदेहे अहमभिमान इति दर्शयति -

अहं मनुष्य इति ।

अध्यासमाक्षिप्य लोकव्यवहारः समाधीयत इत्यसङ्गतत्वेन निरर्थकत्वादर्थवत्वसिद्धवत्कारेण विषयादिभ्यो नार्थान्तरपरत्वं प्रदर्शनीयमित्याशङ्क्याध्यासलोकव्यवहारयोः सामानाधिकरण्येनैक्यं दर्शयति -

इत्यभिमानस्येति ।

तात्पर्यविषयमाह –

अविद्यानिर्मितत्वेति ।

अध्यासो वादिभिरङ्गीकृताविवेकादिरूपो न भवति, किन्त्वनिर्वचनीयाविद्यानिर्मित इत्यस्मिन्नर्थे तात्पर्यमित्यर्थः ।

विषयप्रयोजनयोरनिर्दिष्टत्वेन स्वनिर्देशकग्रन्थेन केनचिद्भवितव्यमित्यपेक्षा उत निर्दिष्टत्वान्निर्देशकापेक्षाभावात्तयोः प्रसक्त्यसिद्धशङ्कायां साधकापेक्षा, यदि निर्देशकापेक्षा तदा अस्यानर्थहेतोरित्येतावतैवालम् , तस्य निर्देशकत्वात् । न तु निर्देशकापेक्षा । वेदान्तवाक्यविचारः कर्तव्यः विषयप्रयोजनवत्वात् कृष्यादिवत् इति सूचयता सूत्रकारेण शास्त्रारम्भे हेतुतया विषयप्रयोजनयोः निर्दिष्टत्वात् । किन्तु विचाररूपशास्त्रस्य विषयप्रयोजनवत्वंविषयप्रयोजनत्वमिति यत्सूत्रकारेणोक्तं तदसिद्धमित्यसिद्धिशङ्कायां साधकापेक्षैव विद्यते । अतः साधकापेक्षविषयप्रयोजनसिद्धिहेतुभूताध्यासाभिधायित्वात्अध्यासाध्यासेति युष्मदस्मदित्यादेःयुष्मदस्मदादित्यादेः इति सुतरां भाष्यत्वमस्तीत्यभिप्रेत्याह -

उच्यत इति ।

विषयप्रयोजनयोस्सूत्रेणानिर्दिष्टत्वात्ष्टत्वाभाष्येणेति भाष्येण साध्यतया प्राप्तत्वं तयोतेर्नभवतीत्याशङ्क्य ब्रह्मज्ञानमनर्थं तद्धेतुनिवृत्तिप्रयोजनं सूत्रितं हीत्याह -

अनर्थहेतुनिबर्हणं हीति ।

कथं विशेषितस्यविशेषतस्य इति सूत्रितत्वमित्याशङ्क्याह -

ब्रह्मज्ञानं हीति ।

किमिति भाष्यकारेण बन्धस्य मिथ्यात्वोपायेन विषयप्रयोजने साध्ये इत्याशङ्क्यानर्थतद्धेत्वोः ज्ञाननिवर्त्यत्वस्य सूत्रकारेण सूत्रितत्वात् । ज्ञाननिवर्त्यत्वाय मिथ्यात्वंमिथ्यात्वप्रसाध्येति प्रसाध्य तेन हेतुना विषयप्रयोजनेविषयप्रयोजन इति साधनीये इत्याह -

ज्ञानं हीति ।

तर्हि नरकपाताद्यनर्थस्य मिथ्यात्वं प्रसाध्यतामिति तत्राह –

अनर्थश्चेति ।

अत्र भोक्तृत्वमनर्थः, तद्धेतुत्वात् कर्तृत्वप्रमातृत्वयोरप्यनर्थतेति योजना । त्रयाणामनर्थत्वाभावात् । नरकपातकूपपातादीनामेवानर्थत्वे एकप्रयोजकस्यावक्तव्यत्वात् । भोक्तृत्वादीनां तद्धेतुकोशपञ्चकस्यैव अध्यासात्मकत्वं वर्णनीयमित्यभिप्रायो द्रष्टव्यः ।

वस्तुरूपमेव प्रमातृत्वादिज्ञानेन निवर्ततामिति तत्राह -

तद्यदि वस्तुकृतमिति ।

अत्र वस्तुना कृतं वस्तुत्वेन कृतमिति च योजना ।

अज्ञानस्यैव निवर्तकं चेदहङ्कारादेरनिवर्तकं ज्ञानमित्यापततीति तत्राह -

तद्यदि कर्तृत्वमिति ।

अज्ञानकार्यत्वेनाज्ञानात्मकत्वान्निवर्त्यत्वमस्तीत्यर्थः ।

तत्प्रदर्शनद्वारेणेति ।

अविद्यात्मकत्व प्रदर्शनद्वारेण सूत्रार्थोपपत्त्युपयोगितयाऽध्यासोउपभोगितयेति वर्णनीय इत्यध्याहृत्यान्वयःइत्यर्थः आहृत्येति । तत्र अर्थशब्देन विचारकर्तव्यतोच्यते, उपपद्यतेपपद्यते इति विचारकर्तव्यता याभ्यामिति व्युत्पत्त्या विषयप्रयोजने उच्येते । उपयोगितयेति विषयप्रयोजनसिद्धिहेतुतयेत्यर्थः ।

सूत्रेण मुखतः सूत्रितमर्थं विहाय आर्थिकमध्यासं भाष्यकारः प्रथमं किमिति वर्णयतीति तत्राह -

सकलतन्त्रोपोद्घातःमन्त्रोपोद्घात इति प्रयोजनमस्य भाष्यस्येति ।

अत्रानेन भाष्येण निर्णीतो योऽध्यासः स सकलतन्त्रार्थस्योपोद्घातो हेतुरित्येका योजना, इदं भाष्यं सकलतन्त्रस्य शास्त्रस्योपोद्घात इत्यपरा ।

प्रयोजनमितियोजनेति शेषः ।

भाष्यजन्यप्रमितिफलविशिष्टतया भाष्यस्य प्रयोजनमध्यास इत्यध्यास उच्यते । तन्त्रशब्देन लक्षणया तन्त्रार्थरूपब्रह्मात्मैकत्वमुच्यतेअत्रार्थेति, तन्त्र्यत इति तन्त्रमिति योगवृत्त्या वा तदेवोच्यत इति

अनर्थनिवृत्तिरूपप्रयोजनस्य जन्यत्वात् अध्यासस्य तद्धेतुत्वेऽपि ब्रह्मात्मताविषयरूपं प्रति हेतुत्वमयुक्तम् । तस्याजन्यत्वादित्याशङ्क्य सत्तासिद्धिहेतुत्वाभावेऽपि प्रतीतिसिद्धिहेतुत्वमस्तीति वदितुं तन्त्रार्थतात्पर्यविषयं दर्शयति -

तथा चास्य शास्त्रस्येति ।

ऐदम्पर्यंएन्दम्पर्यमिति प्रतिपादितमित्युत्तरेण सम्बन्धः ।

ऐदम्पर्यमित्यत्रेदंशब्दोक्तविषयंएन्दम्पर्यमिति प्रथमश्लोकोक्तप्रकारेण दर्शयति -

सुखैकतानेत्यादिना स्वरूपमित्यन्तेन ।

तत्र अनाद्यानन्देति पदोक्तार्थमाह –

सुखैकतानेति ।

कूटस्थज्ञानेति पदोक्तमर्थमाह –

कूटस्थचैतन्येति ।

अनन्तसदिति पदोक्तार्थमाह –

सदात्मेति ।

आप्नोतीत्यात्मेति निर्वचनादात्मशब्देन अनन्तसत्यत्वानन्तपदोक्तार्थः उच्यत इति द्रष्टव्यम् ।

अनन्तसदात्मन इत्यत्र आत्मशब्दार्थमाह –

एकरसतेति ।

संसारिण आत्मनो रूपमित्युक्ते विरुद्धस्वभावत्वाद् ब्रह्मणोऽसंसारिणो रूपमिति स्यात् , तद्व्यावृत्त्यर्थमाह –

संसारित्वेनाभिमतस्येति । संसारित्वाभिमतस्येति पञ्चपादिकायाम्

तर्हि संसारित्वेन अभिमतस्याभिमन्यमानसंसारित्वमेव रूपं भवेदित्याशङ्क्य, सत्यम् , कूटस्थचैतन्यैकरसताक.............न्यैकरसतेतितु पारमार्थिकीपारमानर्थकीति इत्याह –

पारमार्थिकमिति ।

ऐदम्पर्यमित्यत्र परशब्दार्थमाह -

वेदान्ताः पर्यवस्यन्तीति ।

प्रतिपादितं -

सूत्रभाष्याभ्यां प्रतिपादितमित्यर्थः ।

सत्यत्वेन प्रतिपन्नकर्तृत्वादि........त्पत्तिंअपूर्णं दृश्यते प्रतिबध्नाति स एव अध्यासात्मकत्वेन निर्णीतो न प्रतिबध्नातीत्येवमध्यासस्य विषयप्रतीतिसिद्धिहेतुत्वात् अध्यासः प्रथमं वर्णनीय इति दर्शयति -

तच्चेत्यादिना ।

तत्र सुखैकतानेत्यादित्रयेण विरुद्धाकारत्रयप्रतिभासनमात्मन्यस्तीति दर्शयति -

अहं कर्तेत्यादिना ।

तत्रापि ब्रह्मगतानन्तसत्वाकारविरुद्धं परिच्छिन्नत्वमाह –

अहमिति ।

कूटस्थचित्वविरुद्धाकारमाह –

कर्तेति ।

कर्तृत्वादेवकर्तात्वादेवेतिकर्तृत्वे प्रयोजकं परिणामिजडत्वं कार्यत्वं कल्प्यमस्तीत्यर्थः ।

सुखत्वविपरीतमाह –

सुखीति ।

एकतानत्वविपरीतकादाचित्कत्वं सुखस्य सूचयति -

दुःखीति ।

दुःखोत्पत्तिव्यवधानोऽहङ्कर्ता सुखी दुःखीत्यादिभासेन विरुद्ध्यत इत्युक्ते श्रुतिजन्यज्ञानेन बाध्यत्वात् । तत्प्रति विरोधकत्वाभाव इत्याशङ्क्याह –

प्रत्यक्षेति ।

तर्हि प्रत्यक्षत्वात् श्रौतज्ञानं प्रति विरोधकत्वंनिरोकत्वमितिविहाय बाधकत्वमेव प्राप्तमित्याशङ्क्याह –

अभिमतेनेति ।

प्रत्यक्षाभिमतस्य रूप्यज्ञानस्येव बाध्यत्वात् अविरोधकत्वमित्याशङ्क्याह –

अबाधितेति ।

तर्हि बाधकत्वमिति नेत्याह –

कल्पेनेति ।

व्यवहारावस्थायामबाधितत्वात् । प्रत्यक्षत्वाच्च अबाधितमेवापततिअबाधितत्वम् ? इति शङ्कां व्युदस्यति -

अवभासेनेति ।

अवमतःअवमतो भास ? भासोऽवभासः, वर्णह्रस्वादिवत् ह्रस्वत्वादिवत् ? औपाधिककर्तृत्वविषयः किं वा स्वाभाविककर्तृत्वविषय इति सन्दिह्यमानत्वं तस्यावमतत्वं नाम । अहं कर्तेत्यादिप्रत्यक्षमौपाधिकत्वेन सन्दिग्धार्थविषयतया सत्यार्थविषयत्वेन प्रतिपन्नतया च तत्त्वज्ञानोदयप्रतिबन्धकं भवति । तदेव न्यायतो मिथ्यात्वेन निर्णीतकर्तृत्वादिविषयं तत्त्वज्ञानेनतत्वज्ञाने इति बाध्यं स्यात् । अतोऽप्रतिबन्धकतया बाध्यत्वाय मिथ्यात्वनिर्णायकन्यायैरध्यासो वर्णनीय इत्यभिप्रायः । अतस्तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपमविद्यानिर्मितमिति प्रदर्श्यत इति प्रथममन्वयः । पश्चाद्यावन्न प्रदर्श्यत इति चान्वयो द्रष्टव्यः । जरद्गवः पादुककम्बलाभ्यां द्वारि स्थितो गायति मद्रकाणि । तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लशुनस्य कोऽर्घः ॥ इति वाक्यमिहोदाहृतमिति द्रष्टव्यम् ।

शास्त्रार्थसिद्धिहेतुश्चेत् अध्यासः सूत्रकारेण मुखतो वर्णनीय इति तत्राह -

वक्ष्यति चैतदिति ।

अत्र वक्ष्यति चैतत्सूत्रकार इति प्रथममन्वयः ।

सूत्रकारेण अध्यासात्मकत्वस्यात्रैव किमित्यनुक्तिरित्याशङ्क्य समन्वयाध्यायेन वेदान्तानां ब्रह्मात्मैक्ये समन्वये प्रतिपादिते पश्चादात्मनो ब्रह्मत्वप्रतिपादक श्रुतीनामात्मगतादिकर्तृत्वादिसाधकप्रमाणविरोध उद्भाविते कर्तृत्वादीनामध्यासात्मकत्वेनाभासत्वात् तद्विषयप्रतिभासस्य प्रमाणत्वं नास्ति, किन्तु प्रमाणाभासत्वमेव, अतस्तद्विरोधो नास्तीत्यविरोधोक्त्युपयोगादध्यासोऽविरोधाध्याये वक्तव्य इति मत्वा आह -

अविरोधलक्षण इति ।

तत्रापि जीवगतधर्माणां मिथ्यात्ववर्णनेन जीवस्वरूपप्रतिपादकजीवपादे अध्यासवर्णनस्य सङ्गतिरित्याह -

जीवप्रक्रियायामिति ।