पञ्चपादिका
वक्तव्यकाशिका
 
अत्राह यद्येवम् , एतावदेवास्तु भाष्यम् ‘अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते’ इति ; तत्र ‘अनर्थहेतोः प्रहाणाय’ इति प्रयोजननिर्देशः, ‘आत्मैकत्वविद्याप्रतिपत्तये’ इति विषयप्रदर्शनं, किमनेन ‘युष्मदस्मद्’ इत्यादिना ‘अहं मनुष्यः’ इति देहेन्द्रियादिषु अहं ममेदमित्यभिमानात्मकस्य लोकव्यवहारस्य अविद्यानिर्मितत्वप्रदर्शनपरेण भाष्येण ? उच्यते — ब्रह्मज्ञानं हि सूत्रितं अनर्थहेतुनिबर्हणम् । अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वभोक्तृत्वम् । तत् यदि वस्तुकृतं, न ज्ञानेन निबर्हणीयम् ; यतः ज्ञानं अज्ञानस्यैव निवर्तकम् । तत् यदि कर्तृत्वभोक्तृत्वम् अज्ञानहेतुकं स्यात् , ततो ब्रह्मज्ञानं अनर्थहेतुनिबर्हणमुच्यमानमुपपद्येत । तेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूचयता अविद्याहेतुकं कर्तृत्वभोक्तृत्वं प्रदर्शितं भवति । अतः तत्प्रदर्शनद्वारेण सूत्रार्थोपपत्त्युपयोगितया सकलतन्त्रोपोद्घातः प्रयोजनमस्य भाष्यस्य । तथा चास्य शास्त्रस्य ऐदम्पर्यं सुखैकतानसदात्मककूटस्थचैतन्यैकरसता संसारित्वाभिमतस्यात्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति प्रतिपादितम् । तच्च अहं कर्ता सुखी दुःखी इति प्रत्यक्षाभिमतेन अबाधितकल्पेन अवभासेन विरुध्यते । अतः तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपं अविद्यानिर्मितं आत्मन इति यावत् न प्रतिपाद्यते, तावत् जरद्गवादिवाक्यवदनर्थकं प्रतिभाति ; अतः तन्निवृत्त्यर्थम् अविद्याविलसितम् अब्रह्मस्वरूपत्वम् आत्मन इति प्रतिपादयितव्यम् । वक्ष्यति च एतत् अविरोधलक्षणे जीवप्रक्रियायां सूत्रकारः ‘तद्गुणसारत्वात्’ (ब्र. सू. २-३-२९) इत्यादिना ॥
यद्येवमिति ; अस्यानर्थेति ; तत्र अनर्थहेतोः प्रहाणायेतिरिति ; विषयप्रदर्शनमिति ; किमनेनेत्यादिना ; देहेन्द्रियादिष्वित्यादिलोकव्यवहारस्येत्यन्तेनहारस्येनान्तेन इति, ; अहं मनुष्य इति ; इत्यभिमानस्येति ; अविद्यानिर्मितत्वेति ; उच्यत इति ; अनर्थहेतुनिबर्हणं हीति ; ब्रह्मज्ञानं हीति ; ज्ञानं हीति ; अनर्थश्चेति ; तद्यदि वस्तुकृतमिति ; तद्यदि कर्तृत्वमिति ; तत्प्रदर्शनद्वारेणेति ; सकलतन्त्रोपोद्घातःमन्त्रोपोद्घात इति प्रयोजनमस्य भाष्यस्येति ; प्रयोजनमितियोजनेति शेषः ; तथा चास्य शास्त्रस्येति ; सुखैकतानेत्यादिना स्वरूपमित्यन्तेन ; सुखैकतानेति ; कूटस्थचैतन्येति ; सदात्मेति ; एकरसतेति ; संसारित्वेनाभिमतस्येति संसारित्वाभिमतस्येति पञ्चपादिकायाम् ; पारमार्थिकमिति ; वेदान्ताः पर्यवस्यन्तीति ; प्रतिपादितं - ; तच्चेत्यादिना ; अहं कर्तेत्यादिना ; अहमिति ; कर्तेति ; सुखीति ; दुःखीति ; प्रत्यक्षेति ; अभिमतेनेति ; अबाधितेति ; कल्पेनेति ; अवभासेनेति ; वक्ष्यति चैतदिति ; अविरोधलक्षण इति ; जीवप्रक्रियायामिति ;

यद्येवमिति ।

सूत्रितविषयप्रयोजनप्रतिपादकत्वात् युष्मदस्मदित्यादिभाष्यं भवति चेदित्यर्थः ।

एतावच्छब्देन प्रथमभाष्यस्योपादानं मा भूदिति दर्शयति -

अस्यानर्थेति ।

विषयप्रयोजनयोरनेनापि कण्ठोक्तताभावात् अभाष्यत्वेन त्याज्यत्वपरिहारार्थं चतुर्थ्या कण्ठोक्तं प्रयोजनमिति निर्दिशति -

तत्र अनर्थहेतोः प्रहाणायेतिरिति ।

चतुर्थ्या स्वयं प्रतिपन्नत्वात् तन्निर्दिश्यत इत्याअत्रापूर्णमेव दृश्यते (इत्युक्तिः ? ) व्यर्थेति चेत् तदुत्तरवाक्यस्थचतुर्थीवत् प्रयोजनानभिधायित्वशङ्कानिरासायोक्तेरर्थवत्वात् । उत्तरचतुर्थ्याश्च प्रयोजनवाचित्वं प्रकरणात् प्राप्तं व्यावर्त्य, वेदान्तारम्भम्अत्र न स्पष्टम्, प्रत्यवान्तरप्रयोजनज्ञानस्य निर्देशेऽपि तात्पर्येण विषयपरत्वं दर्शयति -

विषयप्रदर्शनमिति ।

अभिधायकत्वं विहाय तात्पर्येण विषयप्रतिपादकमपि भाष्यं चेत् प्रथमभाष्यस्यापि विषयप्रयोजने तात्पर्यवत्वेन भाष्यत्वमस्तीत्याशङ्क्य शक्तितात्पर्ययोरन्यतरेणापि तद्विषयप्रयोजनस्पर्शि न भवतीत्याह –

किमनेनेत्यादिना ।

देहे अहमित्यभिमानरूपमिन्द्रियादिषु ममाभिमानरूपं चाध्यासमभिधेयार्थत्वेन दर्शयतिदर्शने इति

देहेन्द्रियादिष्वित्यादिलोकव्यवहारस्येत्यन्तेनहारस्येनान्तेन इति,

देहोऽहमित्यभिमानाभावात् जात्यादिविशिष्टदेहे अहमभिमान इति दर्शयति -

अहं मनुष्य इति ।

अध्यासमाक्षिप्य लोकव्यवहारः समाधीयत इत्यसङ्गतत्वेन निरर्थकत्वादर्थवत्वसिद्धवत्कारेण विषयादिभ्यो नार्थान्तरपरत्वं प्रदर्शनीयमित्याशङ्क्याध्यासलोकव्यवहारयोः सामानाधिकरण्येनैक्यं दर्शयति -

इत्यभिमानस्येति ।

तात्पर्यविषयमाह –

अविद्यानिर्मितत्वेति ।

अध्यासो वादिभिरङ्गीकृताविवेकादिरूपो न भवति, किन्त्वनिर्वचनीयाविद्यानिर्मित इत्यस्मिन्नर्थे तात्पर्यमित्यर्थः ।

विषयप्रयोजनयोरनिर्दिष्टत्वेन स्वनिर्देशकग्रन्थेन केनचिद्भवितव्यमित्यपेक्षा उत निर्दिष्टत्वान्निर्देशकापेक्षाभावात्तयोः प्रसक्त्यसिद्धशङ्कायां साधकापेक्षा, यदि निर्देशकापेक्षा तदा अस्यानर्थहेतोरित्येतावतैवालम् , तस्य निर्देशकत्वात् । न तु निर्देशकापेक्षा । वेदान्तवाक्यविचारः कर्तव्यः विषयप्रयोजनवत्वात् कृष्यादिवत् इति सूचयता सूत्रकारेण शास्त्रारम्भे हेतुतया विषयप्रयोजनयोः निर्दिष्टत्वात् । किन्तु विचाररूपशास्त्रस्य विषयप्रयोजनवत्वंविषयप्रयोजनत्वमिति यत्सूत्रकारेणोक्तं तदसिद्धमित्यसिद्धिशङ्कायां साधकापेक्षैव विद्यते । अतः साधकापेक्षविषयप्रयोजनसिद्धिहेतुभूताध्यासाभिधायित्वात्अध्यासाध्यासेति युष्मदस्मदित्यादेःयुष्मदस्मदादित्यादेः इति सुतरां भाष्यत्वमस्तीत्यभिप्रेत्याह -

उच्यत इति ।

विषयप्रयोजनयोस्सूत्रेणानिर्दिष्टत्वात्ष्टत्वाभाष्येणेति भाष्येण साध्यतया प्राप्तत्वं तयोतेर्नभवतीत्याशङ्क्य ब्रह्मज्ञानमनर्थं तद्धेतुनिवृत्तिप्रयोजनं सूत्रितं हीत्याह -

अनर्थहेतुनिबर्हणं हीति ।

कथं विशेषितस्यविशेषतस्य इति सूत्रितत्वमित्याशङ्क्याह -

ब्रह्मज्ञानं हीति ।

किमिति भाष्यकारेण बन्धस्य मिथ्यात्वोपायेन विषयप्रयोजने साध्ये इत्याशङ्क्यानर्थतद्धेत्वोः ज्ञाननिवर्त्यत्वस्य सूत्रकारेण सूत्रितत्वात् । ज्ञाननिवर्त्यत्वाय मिथ्यात्वंमिथ्यात्वप्रसाध्येति प्रसाध्य तेन हेतुना विषयप्रयोजनेविषयप्रयोजन इति साधनीये इत्याह -

ज्ञानं हीति ।

तर्हि नरकपाताद्यनर्थस्य मिथ्यात्वं प्रसाध्यतामिति तत्राह –

अनर्थश्चेति ।

अत्र भोक्तृत्वमनर्थः, तद्धेतुत्वात् कर्तृत्वप्रमातृत्वयोरप्यनर्थतेति योजना । त्रयाणामनर्थत्वाभावात् । नरकपातकूपपातादीनामेवानर्थत्वे एकप्रयोजकस्यावक्तव्यत्वात् । भोक्तृत्वादीनां तद्धेतुकोशपञ्चकस्यैव अध्यासात्मकत्वं वर्णनीयमित्यभिप्रायो द्रष्टव्यः ।

वस्तुरूपमेव प्रमातृत्वादिज्ञानेन निवर्ततामिति तत्राह -

तद्यदि वस्तुकृतमिति ।

अत्र वस्तुना कृतं वस्तुत्वेन कृतमिति च योजना ।

अज्ञानस्यैव निवर्तकं चेदहङ्कारादेरनिवर्तकं ज्ञानमित्यापततीति तत्राह -

तद्यदि कर्तृत्वमिति ।

अज्ञानकार्यत्वेनाज्ञानात्मकत्वान्निवर्त्यत्वमस्तीत्यर्थः ।

तत्प्रदर्शनद्वारेणेति ।

अविद्यात्मकत्व प्रदर्शनद्वारेण सूत्रार्थोपपत्त्युपयोगितयाऽध्यासोउपभोगितयेति वर्णनीय इत्यध्याहृत्यान्वयःइत्यर्थः आहृत्येति । तत्र अर्थशब्देन विचारकर्तव्यतोच्यते, उपपद्यतेपपद्यते इति विचारकर्तव्यता याभ्यामिति व्युत्पत्त्या विषयप्रयोजने उच्येते । उपयोगितयेति विषयप्रयोजनसिद्धिहेतुतयेत्यर्थः ।

सूत्रेण मुखतः सूत्रितमर्थं विहाय आर्थिकमध्यासं भाष्यकारः प्रथमं किमिति वर्णयतीति तत्राह -

सकलतन्त्रोपोद्घातःमन्त्रोपोद्घात इति प्रयोजनमस्य भाष्यस्येति ।

अत्रानेन भाष्येण निर्णीतो योऽध्यासः स सकलतन्त्रार्थस्योपोद्घातो हेतुरित्येका योजना, इदं भाष्यं सकलतन्त्रस्य शास्त्रस्योपोद्घात इत्यपरा ।

प्रयोजनमितियोजनेति शेषः ।

भाष्यजन्यप्रमितिफलविशिष्टतया भाष्यस्य प्रयोजनमध्यास इत्यध्यास उच्यते । तन्त्रशब्देन लक्षणया तन्त्रार्थरूपब्रह्मात्मैकत्वमुच्यतेअत्रार्थेति, तन्त्र्यत इति तन्त्रमिति योगवृत्त्या वा तदेवोच्यत इति

अनर्थनिवृत्तिरूपप्रयोजनस्य जन्यत्वात् अध्यासस्य तद्धेतुत्वेऽपि ब्रह्मात्मताविषयरूपं प्रति हेतुत्वमयुक्तम् । तस्याजन्यत्वादित्याशङ्क्य सत्तासिद्धिहेतुत्वाभावेऽपि प्रतीतिसिद्धिहेतुत्वमस्तीति वदितुं तन्त्रार्थतात्पर्यविषयं दर्शयति -

तथा चास्य शास्त्रस्येति ।

ऐदम्पर्यंएन्दम्पर्यमिति प्रतिपादितमित्युत्तरेण सम्बन्धः ।

ऐदम्पर्यमित्यत्रेदंशब्दोक्तविषयंएन्दम्पर्यमिति प्रथमश्लोकोक्तप्रकारेण दर्शयति -

सुखैकतानेत्यादिना स्वरूपमित्यन्तेन ।

तत्र अनाद्यानन्देति पदोक्तार्थमाह –

सुखैकतानेति ।

कूटस्थज्ञानेति पदोक्तमर्थमाह –

कूटस्थचैतन्येति ।

अनन्तसदिति पदोक्तार्थमाह –

सदात्मेति ।

आप्नोतीत्यात्मेति निर्वचनादात्मशब्देन अनन्तसत्यत्वानन्तपदोक्तार्थः उच्यत इति द्रष्टव्यम् ।

अनन्तसदात्मन इत्यत्र आत्मशब्दार्थमाह –

एकरसतेति ।

संसारिण आत्मनो रूपमित्युक्ते विरुद्धस्वभावत्वाद् ब्रह्मणोऽसंसारिणो रूपमिति स्यात् , तद्व्यावृत्त्यर्थमाह –

संसारित्वेनाभिमतस्येति । संसारित्वाभिमतस्येति पञ्चपादिकायाम्

तर्हि संसारित्वेन अभिमतस्याभिमन्यमानसंसारित्वमेव रूपं भवेदित्याशङ्क्य, सत्यम् , कूटस्थचैतन्यैकरसताक.............न्यैकरसतेतितु पारमार्थिकीपारमानर्थकीति इत्याह –

पारमार्थिकमिति ।

ऐदम्पर्यमित्यत्र परशब्दार्थमाह -

वेदान्ताः पर्यवस्यन्तीति ।

प्रतिपादितं -

सूत्रभाष्याभ्यां प्रतिपादितमित्यर्थः ।

सत्यत्वेन प्रतिपन्नकर्तृत्वादि........त्पत्तिंअपूर्णं दृश्यते प्रतिबध्नाति स एव अध्यासात्मकत्वेन निर्णीतो न प्रतिबध्नातीत्येवमध्यासस्य विषयप्रतीतिसिद्धिहेतुत्वात् अध्यासः प्रथमं वर्णनीय इति दर्शयति -

तच्चेत्यादिना ।

तत्र सुखैकतानेत्यादित्रयेण विरुद्धाकारत्रयप्रतिभासनमात्मन्यस्तीति दर्शयति -

अहं कर्तेत्यादिना ।

तत्रापि ब्रह्मगतानन्तसत्वाकारविरुद्धं परिच्छिन्नत्वमाह –

अहमिति ।

कूटस्थचित्वविरुद्धाकारमाह –

कर्तेति ।

कर्तृत्वादेवकर्तात्वादेवेतिकर्तृत्वे प्रयोजकं परिणामिजडत्वं कार्यत्वं कल्प्यमस्तीत्यर्थः ।

सुखत्वविपरीतमाह –

सुखीति ।

एकतानत्वविपरीतकादाचित्कत्वं सुखस्य सूचयति -

दुःखीति ।

दुःखोत्पत्तिव्यवधानोऽहङ्कर्ता सुखी दुःखीत्यादिभासेन विरुद्ध्यत इत्युक्ते श्रुतिजन्यज्ञानेन बाध्यत्वात् । तत्प्रति विरोधकत्वाभाव इत्याशङ्क्याह –

प्रत्यक्षेति ।

तर्हि प्रत्यक्षत्वात् श्रौतज्ञानं प्रति विरोधकत्वंनिरोकत्वमितिविहाय बाधकत्वमेव प्राप्तमित्याशङ्क्याह –

अभिमतेनेति ।

प्रत्यक्षाभिमतस्य रूप्यज्ञानस्येव बाध्यत्वात् अविरोधकत्वमित्याशङ्क्याह –

अबाधितेति ।

तर्हि बाधकत्वमिति नेत्याह –

कल्पेनेति ।

व्यवहारावस्थायामबाधितत्वात् । प्रत्यक्षत्वाच्च अबाधितमेवापततिअबाधितत्वम् ? इति शङ्कां व्युदस्यति -

अवभासेनेति ।

अवमतःअवमतो भास ? भासोऽवभासः, वर्णह्रस्वादिवत् ह्रस्वत्वादिवत् ? औपाधिककर्तृत्वविषयः किं वा स्वाभाविककर्तृत्वविषय इति सन्दिह्यमानत्वं तस्यावमतत्वं नाम । अहं कर्तेत्यादिप्रत्यक्षमौपाधिकत्वेन सन्दिग्धार्थविषयतया सत्यार्थविषयत्वेन प्रतिपन्नतया च तत्त्वज्ञानोदयप्रतिबन्धकं भवति । तदेव न्यायतो मिथ्यात्वेन निर्णीतकर्तृत्वादिविषयं तत्त्वज्ञानेनतत्वज्ञाने इति बाध्यं स्यात् । अतोऽप्रतिबन्धकतया बाध्यत्वाय मिथ्यात्वनिर्णायकन्यायैरध्यासो वर्णनीय इत्यभिप्रायः । अतस्तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपमविद्यानिर्मितमिति प्रदर्श्यत इति प्रथममन्वयः । पश्चाद्यावन्न प्रदर्श्यत इति चान्वयो द्रष्टव्यः । जरद्गवः पादुककम्बलाभ्यां द्वारि स्थितो गायति मद्रकाणि । तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लशुनस्य कोऽर्घः ॥ इति वाक्यमिहोदाहृतमिति द्रष्टव्यम् ।

शास्त्रार्थसिद्धिहेतुश्चेत् अध्यासः सूत्रकारेण मुखतो वर्णनीय इति तत्राह -

वक्ष्यति चैतदिति ।

अत्र वक्ष्यति चैतत्सूत्रकार इति प्रथममन्वयः ।

सूत्रकारेण अध्यासात्मकत्वस्यात्रैव किमित्यनुक्तिरित्याशङ्क्य समन्वयाध्यायेन वेदान्तानां ब्रह्मात्मैक्ये समन्वये प्रतिपादिते पश्चादात्मनो ब्रह्मत्वप्रतिपादक श्रुतीनामात्मगतादिकर्तृत्वादिसाधकप्रमाणविरोध उद्भाविते कर्तृत्वादीनामध्यासात्मकत्वेनाभासत्वात् तद्विषयप्रतिभासस्य प्रमाणत्वं नास्ति, किन्तु प्रमाणाभासत्वमेव, अतस्तद्विरोधो नास्तीत्यविरोधोक्त्युपयोगादध्यासोऽविरोधाध्याये वक्तव्य इति मत्वा आह -

अविरोधलक्षण इति ।

तत्रापि जीवगतधर्माणां मिथ्यात्ववर्णनेन जीवस्वरूपप्रतिपादकजीवपादे अध्यासवर्णनस्य सङ्गतिरित्याह -

जीवप्रक्रियायामिति ।