पञ्चपादिका
वक्तव्यकाशिका
 

ननु ग्रन्थकरणादिकार्यारम्भे कार्यानुरूपं इष्टदेवतापूजानमस्कारेण बुद्धिसन्निधापिताथवृद्ध्यादिशब्दैः दध्यादिदर्शनेन वा कृतमङ्गलाः शिष्टाः प्रवर्तन्तेशिष्टाचारश्च नः प्रमाणम्प्रसिद्धं मङ्गलाचरणस्य विघ्नोपशमनं प्रयोजनम्महति निःश्रेयसप्रयोजने ग्रन्थमारभमाणस्य विघ्नबाहुल्यं सम्भाव्यतेप्रसिद्धं `श्रेयांसि बहुविघ्नानि' इतिविज्ञायते च-'तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः' इति, येषां यन्न प्रियं ते तद्विघ्नन्तीति प्रसिद्धं लोकेतत् कथमुल्लङ्घ्य शिष्टाचारं अकृतमङ्गल एव विस्रब्धं भाष्यकारः प्रववृते? अत्रोच्यते —'युष्मदस्मद्' इत्यादि `तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः' इत्यन्तमेव भाष्यम्अस्य अयमर्थः—सर्वोपप्लवरहितो विज्ञानघनः प्रत्यगर्थः इतितत् कथञ्चन परमार्थतः एवम्भूते वस्तुनि रूपान्तरवदवभासो मिथ्येति कथयितुम् तदन्यपरादेव भाष्यवाक्यात् निरस्तसमस्तोपप्लवं चैतन्यैकतानमात्मानं प्रतिपद्यमानस्य कुतो विघ्नोपप्लवसम्भवः? तस्मात् अग्रणीः शिष्टाचारपरिपालने भगवान् भाष्यकारः

विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् इति

कोऽयं विरोधः? कीदृशो वा इतरेतरभावः अभिप्रेतः? यस्य अनुपपत्तेः—'तमःप्रकाशवत्' इति निदर्शनम्यदि तावत् सहानवस्थानलक्षणो विरोधः, ततः प्रकाशभावे तमसो भावानुपपत्तिः, तदसत् ; दृश्यते हि मन्दप्रदीपे वेश्मनि अस्पष्टं रूपदर्शनं, इतरत्र स्पष्टम्तेन ज्ञायते मन्दप्रदीपे वेश्मनि तमसोऽपि ईषदनुवृत्तिरिति ; तथा छायायामपि औष्ण्यं तारतम्येन उपलभ्यमानं आतपस्यापि तत्र अवस्थानं सूचयतिएतेन शीतोष्णयोरपि युगपदुपलब्धेः सहावस्थानमुक्तं वेदितव्यम्उच्यते परस्परानात्मतालक्षणो विरोधः, जातिव्यक्त्योरिव परमार्थतः परस्परसम्भेदः सम्भवतीत्यर्थः ; तेन इतरेतरभावस्य-इतरेतरसम्भेदात्मकत्वस्य अनुपपत्तिःकथम्? स्वतस्तावत् विषयिणः चिदेकरसत्वात् युष्मदंशसम्भवःअपरिणामित्वात् निरञ्जनत्वाच्च परतःविषयस्यापि स्वतः चित्सम्भवः, समत्वात् विषयत्वहानेः ; परतः ; चितेः अप्रतिसङ्क्रमत्वात्

तद्धर्माणामपि सुतराम् इति

एवं स्थिते स्वाश्रयमतिरिच्य धर्माणाम् अन्यत्र भावानुपपत्तिः सुप्रसिद्धा इति दर्शयतिइति शब्दो हेत्वर्थःयस्मात् एवम् उक्तेन न्यायेन इतरेतरभावासम्भवः,

अतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके इति

अस्मत्प्रत्यये यः अनिदमंशः चिदेकरसः तस्मिन् तद्बलनिर्भासिततया लक्षणतो युष्मदर्थस्य मनुष्याभिमानस्य सम्भेद इव अवभासः एव अध्यासः

तद्धर्माणां इति

यद्यपि विषयाध्यासे तद्धर्माणामप्यर्थसिद्धः अध्यासः ; तथापि विनापि विषयाध्यासेन तद्धर्माध्यासो बाधिर्यादिषु श्रोत्रादिधर्मेषु विद्यते इति पृथक् धर्मग्रहणम्

तद्विपर्ययेण विषयिणस्तद्धर्माणां इति

चैतन्यस्य तद्धर्माणां इत्यर्थःननु विषयिणः चिदेकरसस्य कुतो धर्माः ? ये विषये अध्यस्येरन् , उच्यते ; आनन्दो विषयानुभवो नित्यत्वमिति सन्ति धर्माः, अपृथक्त्वेऽपि चैतन्यात् पृथगिव अवभासन्ते इति दोषःअध्यासो नाम अतद्रूपे तद्रूपावभासः

सः मिथ्येति भवितुं युक्तम् इति

मिथ्याशब्दो द्व्यर्थः अपह्नववचनोऽनिर्वचनीयतावचनश्चअत्र अयमपह्नववचनःमिथ्येति भवितुं युक्तम् अभाव एवाध्यासस्य युक्तः इत्यर्थःयद्यप्येवं ;

तथापि नैसर्गिकः

प्रत्यक्चैतन्यसत्तात्रामानुबन्धी

अयं

युष्मदस्मदोः इतरेतराध्यासात्मकः

अहमिदं ममेदमितिलोकव्यवहारः

तेन यथा अस्मदर्थस्य सद्भावो उपालम्भमर्हति, एवमध्यासस्यापि इत्यभिप्रायःलोक इति मनुष्योऽहमित्यभिमन्यमानः प्राणिनिकायः उच्यतेव्यवहरणं व्यवहारः ; लोक इति व्यवहारो लोकव्यवहारः ; मनुष्योऽहमित्यभिमानः इत्यर्थः

सत्यानृते मिथुनीकृत्य इति

सत्यम् अनिदं, चैतन्यम्अनृतं युष्मदर्थः ; स्वरूपतोऽपि अध्यस्तस्वरूपत्वात् । ‘अध्यस्य’ ‘मिथुनीकृत्यइति क्त्वाप्रत्ययः, पूर्वकालत्वमन्यत्वं लोकव्यवहारादङ्गीकृत्य प्रयुक्तः ; भुक्त्वा व्रजतीतिवत् क्रियान्तरानुपादानात् । ‘अध्यस्य नैसर्गिकोऽयं लोकव्यवहारःइति स्वरूपमात्रपर्यवसानात्उपसंहारे एवमयमनादिरनन्तो नैसर्गिकोऽध्यासःइति तावन्मात्रोपसंहारात्

ननु ग्रन्थकरणादिकार्यारम्भे कार्यानुरूपं इष्टदेवतापूजानमस्कारेण बुद्धिसन्निधापिताथवृद्ध्यादिशब्दैः दध्यादिदर्शनेन वा कृतमङ्गलाः शिष्टाः प्रवर्तन्तेशिष्टाचारश्च नः प्रमाणम्प्रसिद्धं मङ्गलाचरणस्य विघ्नोपशमनं प्रयोजनम्महति निःश्रेयसप्रयोजने ग्रन्थमारभमाणस्य विघ्नबाहुल्यं सम्भाव्यतेप्रसिद्धं `श्रेयांसि बहुविघ्नानि' इतिविज्ञायते च-'तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः' इति, येषां यन्न प्रियं ते तद्विघ्नन्तीति प्रसिद्धं लोकेतत् कथमुल्लङ्घ्य शिष्टाचारं अकृतमङ्गल एव विस्रब्धं भाष्यकारः प्रववृते? अत्रोच्यते —'युष्मदस्मद्' इत्यादि `तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः' इत्यन्तमेव भाष्यम्अस्य अयमर्थः—सर्वोपप्लवरहितो विज्ञानघनः प्रत्यगर्थः इतितत् कथञ्चन परमार्थतः एवम्भूते वस्तुनि रूपान्तरवदवभासो मिथ्येति कथयितुम् तदन्यपरादेव भाष्यवाक्यात् निरस्तसमस्तोपप्लवं चैतन्यैकतानमात्मानं प्रतिपद्यमानस्य कुतो विघ्नोपप्लवसम्भवः? तस्मात् अग्रणीः शिष्टाचारपरिपालने भगवान् भाष्यकारः

विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् इति

कोऽयं विरोधः? कीदृशो वा इतरेतरभावः अभिप्रेतः? यस्य अनुपपत्तेः—'तमःप्रकाशवत्' इति निदर्शनम्यदि तावत् सहानवस्थानलक्षणो विरोधः, ततः प्रकाशभावे तमसो भावानुपपत्तिः, तदसत् ; दृश्यते हि मन्दप्रदीपे वेश्मनि अस्पष्टं रूपदर्शनं, इतरत्र स्पष्टम्तेन ज्ञायते मन्दप्रदीपे वेश्मनि तमसोऽपि ईषदनुवृत्तिरिति ; तथा छायायामपि औष्ण्यं तारतम्येन उपलभ्यमानं आतपस्यापि तत्र अवस्थानं सूचयतिएतेन शीतोष्णयोरपि युगपदुपलब्धेः सहावस्थानमुक्तं वेदितव्यम्उच्यते परस्परानात्मतालक्षणो विरोधः, जातिव्यक्त्योरिव परमार्थतः परस्परसम्भेदः सम्भवतीत्यर्थः ; तेन इतरेतरभावस्य-इतरेतरसम्भेदात्मकत्वस्य अनुपपत्तिःकथम्? स्वतस्तावत् विषयिणः चिदेकरसत्वात् युष्मदंशसम्भवःअपरिणामित्वात् निरञ्जनत्वाच्च परतःविषयस्यापि स्वतः चित्सम्भवः, समत्वात् विषयत्वहानेः ; परतः ; चितेः अप्रतिसङ्क्रमत्वात्

तद्धर्माणामपि सुतराम् इति

एवं स्थिते स्वाश्रयमतिरिच्य धर्माणाम् अन्यत्र भावानुपपत्तिः सुप्रसिद्धा इति दर्शयतिइति शब्दो हेत्वर्थःयस्मात् एवम् उक्तेन न्यायेन इतरेतरभावासम्भवः,

अतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके इति

अस्मत्प्रत्यये यः अनिदमंशः चिदेकरसः तस्मिन् तद्बलनिर्भासिततया लक्षणतो युष्मदर्थस्य मनुष्याभिमानस्य सम्भेद इव अवभासः एव अध्यासः

तद्धर्माणां इति

यद्यपि विषयाध्यासे तद्धर्माणामप्यर्थसिद्धः अध्यासः ; तथापि विनापि विषयाध्यासेन तद्धर्माध्यासो बाधिर्यादिषु श्रोत्रादिधर्मेषु विद्यते इति पृथक् धर्मग्रहणम्

तद्विपर्ययेण विषयिणस्तद्धर्माणां इति

चैतन्यस्य तद्धर्माणां इत्यर्थःननु विषयिणः चिदेकरसस्य कुतो धर्माः ? ये विषये अध्यस्येरन् , उच्यते ; आनन्दो विषयानुभवो नित्यत्वमिति सन्ति धर्माः, अपृथक्त्वेऽपि चैतन्यात् पृथगिव अवभासन्ते इति दोषःअध्यासो नाम अतद्रूपे तद्रूपावभासः

सः मिथ्येति भवितुं युक्तम् इति

मिथ्याशब्दो द्व्यर्थः अपह्नववचनोऽनिर्वचनीयतावचनश्चअत्र अयमपह्नववचनःमिथ्येति भवितुं युक्तम् अभाव एवाध्यासस्य युक्तः इत्यर्थःयद्यप्येवं ;

तथापि नैसर्गिकः

प्रत्यक्चैतन्यसत्तात्रामानुबन्धी

अयं

युष्मदस्मदोः इतरेतराध्यासात्मकः

अहमिदं ममेदमितिलोकव्यवहारः

तेन यथा अस्मदर्थस्य सद्भावो उपालम्भमर्हति, एवमध्यासस्यापि इत्यभिप्रायःलोक इति मनुष्योऽहमित्यभिमन्यमानः प्राणिनिकायः उच्यतेव्यवहरणं व्यवहारः ; लोक इति व्यवहारो लोकव्यवहारः ; मनुष्योऽहमित्यभिमानः इत्यर्थः

सत्यानृते मिथुनीकृत्य इति

सत्यम् अनिदं, चैतन्यम्अनृतं युष्मदर्थः ; स्वरूपतोऽपि अध्यस्तस्वरूपत्वात् । ‘अध्यस्य’ ‘मिथुनीकृत्यइति क्त्वाप्रत्ययः, पूर्वकालत्वमन्यत्वं लोकव्यवहारादङ्गीकृत्य प्रयुक्तः ; भुक्त्वा व्रजतीतिवत् क्रियान्तरानुपादानात् । ‘अध्यस्य नैसर्गिकोऽयं लोकव्यवहारःइति स्वरूपमात्रपर्यवसानात्उपसंहारे एवमयमनादिरनन्तो नैसर्गिकोऽध्यासःइति तावन्मात्रोपसंहारात्

ननु च ग्रन्थकरणादिकार्यारम्भे इति ; कार्यानुरूपमिति ; इष्टदेवतेत्यादिना ; बुद्धिसन्निधापितेति ; शिष्टाचारश्च नः प्रमाणमिति ; प्रसिद्धं चेति ; महति चेति ; प्रसिद्धं चेति ; विज्ञायते चेति ; तत्कथमिति ; अत्रोच्यत इति ; युष्मदिति ; अस्य चेत्यादिना ; विज्ञानघन इति ; सर्वोपप्लवरहित इति ; प्रत्यगर्थ इति ; प्रत्यगिति ; अर्थ इति ; विज्ञानघन इति ; घन इति ; तत्कथंञ्चनेति ; तदन्यपरादिति ; भाष्यवाक्यादिति ; अग्रणीरिति ; कोऽयं विरोध इति ; कीदृशो वेति ; यस्यानुपपत्तेरिति ; तत इति ; तदसदिति ; इतरत्र च स्पष्टमिति ; तथा छायायामपीति ; तारतम्येनेति ; एतेन शीतोष्णयोरपीति ; उच्यते परस्परेत्यादिना ; न जातिव्यक्त्योरिति ; परमार्थतः ; तेनेति - ; इतरेतरसम्भेदात्मकत्वस्येति ; कथमिति ; स्वतस्तावदित्यादिना ; अपरिणामित्वादिति ; निरञ्जनत्वादिति ; न परतः ; विषयस्यापीति ; समत्वात् ; - प्रत्यक्षगोचरगोचत्व इतित्वहानेरित्यर्थः ; न परतश्चितेरिति ; चितेरप्रतिसङ्क्रमत्वादिति ; एवं स्थित इति ; इतिशब्दो हेत्वर्थ इति ; यस्मादेवमिति ; अस्मत्प्रत्यये योऽनिदमंशमंशत्यत्रेति इति ; अनिदमंश इति ; चिदिति ; एकरस इति ; अनिदमंश इति ; तस्मिन्निति ; तद्बलेति ; मनुष्याभिमानस्य ; सम्भेद इवावभास इति ; स एवेति ; विषयाध्यास इति - ; विना विषयाध्यासेनेति ; चैतन्यस्य तद्धर्माणां चेत्यर्थ इति ; चैतन्येति ; एकरसस्येति ; नित्यत्वमिति ; पृथगिवेति ; अध्यासो नामेति ; स मिथ्येति भवितुं युक्तमिति ; मिथ्याशब्दो द्व्यर्थ इति ; मिथ्येति ; भवितुं युक्तमिति ; अभाव एवेति ; यद्यप्येवमिति ; तथापि नैसर्गिक इति ; प्रत्यगनुबन्धीति ; चैतन्येति ; सत्तेति ; मात्रेति ; अनुबन्धीति ; अयमिति ; अहमिदं ममेदमिति ; युष्मदस्मदोरितरेतराध्यासात्मको लोकव्यवहार इति ; लोक इति ; मनुष्योऽहमितीति ; व्यवहरणं व्यवहार इति ; लोक इतीति ; मनुष्योऽहमिति अभिमान इत्यर्थ इति ; सत्यानृते मिथुनीकृत्येति ; सत्यमिति ; अनिदमिति ; चैतन्यमिति ; अनिदमिति ; युष्मदर्थम् इति ; स्वरूपतोऽपीति ; अध्यस्य मिथुनीकृत्येति ; `भुक्त्त्वा व्रजतीतिवद्’ इति ; अध्यस्य नैसर्गिकोऽयमिति ; तावन्मात्रोपसंहारादिति ;

भाष्यमनाप्तप्रणीततयाभाष्यमानाप्तेति व्याख्येयं न भवतीति प्रसज्यत इत्यभिप्रेत्य चोदयति -

ननु च ग्रन्थकरणादिकार्यारम्भे इति ।

कृतमङ्गलाः शिष्टाः प्रवर्तन्त इति ग्रन्थाद्बहिरेव भेरीघोषादिसहितदेवब्राह्मणपूजादिलक्षणं मङ्गलाचरणं कृतमेवेत्याशङ्क्य चिकीर्षितवाचिककार्यस्य अनुकूलमङ्गलाचरणं कर्तव्यमित्याह –

कार्यानुरूपमिति ।

कार्यव्यक्तीनामानन्त्यादिदं प्रतीदं मङ्गलाचरणमिदं प्रतीदमिति ज्ञातुमशक्यत्वात् कार्यानुरूपमङ्गलाचरणं केनापि कर्तुं न शक्यत इत्याशङ्क्य कार्यव्यक्तीनां कायिकं वाचिकं मानसमिति च त्रिराशीकर्तुं शक्यत्वात् ।

कायिककार्यारम्भे कायिकं नमस्कारादिलक्षणं मङ्गलाचरणं वाचिककार्यारम्भेकार्यारम्रे इति वाचिकम् अथवृद्ध्यादिशब्दप्रयोगलक्षणम्, मानसकार्यारम्भे मानसं दध्यादिदर्शनरूपं मङ्गलाचरणमिति ज्ञातुं शक्यत्वादत्र चिकीर्षितकार्यस्य वाचिकत्वात् वाचिकं मङ्गलाचरणं कर्तव्यमेवेत्याह –

इष्टदेवतेत्यादिना ।

अथवृद्ध्यादिशब्देषु नियमं वारयति -

बुद्धिसन्निधापितेति ।

शिष्टाचारश्च नः प्रमाणमिति ।

अस्यायमर्थः - आचारो धर्म इति बुद्ध्या अनुष्ठीयमानं कर्मकर्म न न इति नः प्रमाणम्, प्रमीयत इति प्रमाणम्, तच्च प्रमीयमाणं कर्तव्यमित्येव प्रमीयते । अतश्शिष्टाचारोऽस्माभिः कर्तव्यतया प्रमीयत इति ।

प्रयोजनाभावात् किं मङ्गलाचरणेनेति, नेत्याह -

प्रसिद्धं चेति ।

अल्पारम्भत्वाद्विघ्नो नास्तीति, नेत्याह -

महति चेति ।

आरम्भस्याल्पत्वेऽपि फलतो महत्वात् पद्यबन्धनस्येव विघ्नबाहुल्यं सम्भवतीति भावः ।

सम्भावनामात्रान्न प्रवृत्तिर्विघ्नोपशान्तय इति तत्राह -

प्रसिद्धं चेति ।

वटयक्षप्रसिद्धिवत् प्रसिद्धिर्निर्मूलेति, तत्राह -

विज्ञायते चेति ।

तत्कथमिति ।

अत्र शिष्टानामग्रणीर्भाष्यकारः कथं शिष्टाचारमुल्लङ्घ्य प्रववृते । अकृतमङ्गलो विघ्नैरुपहन्यमानो विस्रब्धं कथं प्रववृत इति योजना ।

भाष्यकारेण मङ्गलाचरणमात्रं कर्तव्यमित्युच्यत उत वाचिककार्यस्य वाचिकमङ्गलाचरणं कर्तव्यमित्युच्यत इति विकल्प्य विशुद्धब्रह्मतत्त्वानुस्मरणं नाम साधारणं मङ्गलाचरणं ग्रन्थकरणकार्यानुकूलवाचिकं मङ्गलाचरणं चोभयमपि नाचोभयमपि कृतमित्याह -

अत्रोच्यत इति ।

कथमिह उभयं कृतमिति तत्राह - युष्मदित्यन्तमेवयुष्मदिति इत्यन्तमिति भाष्यं वाचिकमङ्गलाचरणं साधारणमङ्गलाचरणे प्रमाणं चेत्यध्याहृत्ययोजना -

युष्मदिति ।

विषय इति च अहङ्कारादिमात्मनो निष्कृष्य अनुसन्धाय अस्मदिति विषयीति च अनवच्छिन्नसाक्षिस्वभावत्वेन प्रत्यगात्मानं युष्मदो विभज्य अनुसन्धाय उभयस्मिन् युष्मदस्मद्विषयविषयिणोरिति शब्दं विरचयता कृतमेवोभयमपि मङ्गलाचरणमित्यर्थः । तर्हि युष्मदित्यादिविषयविषयिणोरित्यन्तस्यैव तत्त्ववाचकतया वाचिकमङ्गलाचरणत्वात् वक्तुस्तत्वानुस्मृतिकल्पकं तव असाधारणमङ्गलाचरणे प्रमाणत्वाच्चोत्तरभाष्यखण्डस्य उपादानमयुक्तम् । तन्न, युष्मदेवास्मत् , अस्मदेव युष्मदित्यैक्यं किमनुसन्धत्ते, किं वा प्रत्यगात्मानं युष्मदो विविनक्तीति संशये पूर्वमैक्यानुसन्धाने उत्तरत्रेतरेतरभावोपपत्तिरिति वक्तव्यम् , इतरेतरभावानुपपत्तेरुक्तत्वात् , पूर्वमपि विवेक एव कृत इति निर्णयार्थमुत्तरखण्डस्य उपादानमित्यविरोधात् ।

युष्मदित्यादिभाष्यस्याध्यासाभावविषयत्वात् , अध्यासाभावानुस्मृतिपूर्वकत्वं स्वस्य कल्पयति केवलम्, न तु भाष्यकारस्य तत्त्वानुस्मृतिसद्भावे प्रमाणमित्याशङ्क्य युष्मदित्यादिपदद्वयस्य तत्त्वमर्थ इति प्रदर्शयति -

अस्य चेत्यादिना ।

अस्य भाष्यस्य अध्यासाभावव्यतिरेकेणायं चार्थ इत्यन्वयः । ननु भाष्यटीकयोः व्याख्यानव्याख्येयभाव एव नोपपद्यते, कथं टीकाकारः षट्‍पदानि व्याख्येयत्वेनोपादाय सर्वोपप्लवरहितइत्यादिपदत्रयेण व्याख्यां चकार ? तत्रानेन पदत्रयेण व्याख्येयत्वे नोपात्तषट्‍पदस्यपदषट्कस्य इति स्यात् तात्पर्यार्थं कथयति, किं वा प्रतिपदमभिधेयार्थम् ? यदि तात्पर्यार्थकथनं तदा परत्र युष्मदस्मदित्यारभ्य अभिधेयार्थो वक्तव्यः, न तु विरुद्धस्वभावयोरित्यारभ्य । अथ व्याख्येयपदानामभिधेयार्थं कथयति तदपि न, व्याख्यानस्य पदत्रयत्वात् तेन व्याख्येयसर्वपदानामर्थकथनायोगात् । पदत्रये व्याख्येयषट्‍पदानांपदषट्कस्य मध्ये पदत्रयं व्याख्यातम् । पश्चादितरपदानि व्याख्यास्यन्त इति वक्तुं न शक्यते । परत्र विषयविषयिणोरिति द्वितीयपदमारभ्य व्याख्येयत्वेनोपादानात् ।

ननु विवरणकारः पदद्वयं व्याख्यातमित्यवादीदतः पदद्वयं व्याख्यातम् , सर्वोपप्लव - इत्यादिना, पश्चादुत्तरं व्याख्यास्यत इति स्वीक्रियतामिति चेन्न, तस्याप्यसङ्गतत्वात् । कथम्, विवरणकारः ‘सुप्तिङन्तं पदम्’ इति पदलक्षणमङ्गीकृत्य पदद्वयं व्याख्यातमित्यवादीत् , अथवा पद्यते अनेनेति पदमिति व्युत्पत्त्या बोधकमात्रस्य पदत्वमङ्गीकृत्य, उभयथाप्यसङ्गतिरेव, कथम् ? प्रथमपक्षे विषयविषयिणोरितिद्वितीयेत्याधिकं दृश्यते पदस्य व्याख्येयत्वेनोपादानं न सङ्गच्छते, द्वितीयपक्षे केवलं युष्मदस्मदिति पदद्वयं मुक्त्वा प्रत्ययगोचरयोरित्येतदारभ्य व्याख्यायेत, न तथा क्रियत इति निश्चितमसङ्गतमिति चेत् - तन्न, ‘सुप्तिङन्तं पदम्’ इति पदलक्षणेन लक्षितं पदद्वयं व्याख्यातमिति विवरणकारस्योक्तिरिति निश्चयात् । कथं तर्हि टीकाकारेण विषयविषयिणोरिति द्वितीयपदस्य व्याख्येयत्वेन उत्तरत्रोपादानम् ? नैष दोषः, तमःप्रकाशवद्विरुद्धस्वभावयोरित्यत्र विरोधशब्दार्थः सहानवस्थानलक्षणः किं वा ऐक्यायोग्यतालक्षण इति विशये चिज्जडयोः विषयिविषयत्वादेककाले अवस्थानात् , सहानवस्थानलक्षणो विरोधो नास्ति । किन्त्वैक्यायोग्यतालक्षणो विरोध इति निर्णयार्थं विषयविषयिणोरिति पदस्योपादानम् ; न तु व्याख्येयत्वेनेत्यविरोधात् । तर्हि व्याख्येयत्वाभावे व्याख्येयपदार्थनिर्णायकत्वाभावेननिर्णायकत्वभावेनेतिव्याख्येयतृतीयपदेन सह चतुर्थमितरेतरभावानुपपत्तिरिति पदं किमिति परत्र उपादत्त इति चेत् विरोधशब्देनैक्याभाव उच्यते, किं वैक्ययोग्यताभाव उच्यत इति सन्देहे ऐक्याभावस्य चतुर्थपदेन उच्यमानत्वात् , पारिशेष्यात् ऐक्ययोग्यताभाव एव विरोधशब्देनोच्यत इति निर्णयार्थं चतुर्थपदोपादानं कृतम् । अतो व्याख्यानत्वं व्याख्येयत्वं च सम्भवतीति पदद्वयं प्रति त्रयाणां पदानां व्याख्यानत्वेन कथमनुप्रवेश इति चेत् सर्वोपप्लवरहितः प्रत्यगर्थः इति पदद्वयम् । प्रथमपदस्य व्याख्यानम् -

विज्ञानघन इति ।

द्वितीयपदस्य व्याख्यानप्रकारो द्विविधः, व्याख्येयपदेन फलितार्थप्रदर्शनमप्रसिद्धार्थव्याख्येयस्य प्रसिद्धार्थपर्यायशब्देनार्थकथनं च । तत्र युष्मदित्यंशेन फलितमर्थमाह -

सर्वोपप्लवरहित इति ।

युष्मदित्यहङ्काराख्यधर्मिणो विवेकात् कर्तृत्वादितद्धर्मेभ्यो विवेकाच्च आत्मा सर्वोपप्लवरहितः संवृत्त इत्यर्थः ।

अस्मत्प्रत्यय इत्यंशं व्याकरोति -

प्रत्यगर्थ इति ।

तत्राप्यस्मदिति पदस्य पर्यायपदेन अर्थमाह –

प्रत्यगिति ।

प्रत्ययशब्देन प्रतीतित्वात् प्रत्यय इति व्युत्पत्त्या व्याप्तचिद्रूपत्वेन फलितं सत्यत्वमाह -

अर्थ इति ।

विषयविषयिणोरिति द्वितीयपदं व्याचष्टे -

विज्ञानघन इति ।

विषयिशब्देन घटादिविषयेभ्यो व्यावृत्तम् आश्रयभूतजडेनाविरुद्धं विज्ञानमुच्यत इति शङ्कां व्यावर्तयति -

घन इति ।

आश्रयजडहीनमित्यर्थः । द्वितीयपदस्य युष्मदस्मद्व्याख्यानयोर्मध्ये व्याख्यानं किमिति चेत् अस्मत्प्रत्ययगोचर इत्यस्यार्थभूतप्रत्यगर्थत्वं प्रति विषयविषयिणोरिति पदोक्तविज्ञानघनत्वं हेतुरिति प्रकटनायेति न विरोधः । विज्ञानघनत्वात् प्रत्यक्त्वम् अर्थत्वं सत्यत्वं चेत्यर्थः । विषयविषयिणोरिति शब्दार्थस्य विज्ञानघनत्वस्य साक्षिरूपत्वाद्युष्मच्छब्दार्थभूतसाक्ष्यस्य अस्मत्प्रत्ययशब्दार्थभूतप्रत्यक्साक्षिणो व्यावृत्तिरस्तीति दर्शयितुं वा मध्ये व्याचष्टे ।

भाष्यकारेणाध्यासाभाव एवानुस्मर्यते । नात्मतत्त्वमध्यासभावविषयत्वाद्भाष्यस्येति न । अध्यासाभावकथनाय तत्वमप्यनुस्मर्यत इत्याह –

तत्कथंञ्चनेति ।

परमार्थत एवंभूते वस्तुनि रूपान्तरवदवभासश्च रूपान्तरं च कथं न मिथ्येति कथयितुमित्येकोऽन्वयः ।

एवंभूते वस्तुनि कथञ्चन अतीतवद्वर्तमानोतीतभीतवद्वर्गमानो इति रूपान्तरवदवभासः, अथ अत्रेदं न स्पष्टम्अतो मिथ्यैवेति कथयितुमिति वा । एवंभूते वस्तुनि रूपान्तरवत्तदवभासः कथञ्चन कथमपि केनापि प्रकारेण स्वरूपेण संसृष्टरूपेण च मिथ्येति कथयितुमिति वा -

तदन्यपरादिति ।

तस्मादात्मतत्त्वादन्याध्यासाभावपरादित्यर्थः ।

करिष्यमाणभाष्यवाक्यादर्थप्रतिपत्त्ययोगात् साध्यतया प्रतिपन्नवाक्यं स्वनिष्पत्त्यर्थं वक्तुः स्वार्थप्रतिपत्तिहेतुरित्यभिप्रेत्याह –

भाष्यवाक्यादिति ।

अग्रणीरिति ।

अग्रं नयतीत्यग्रणीस्तस्मात्तत्कृतं भाष्यं व्याख्येयमित्यर्थः ।

अप्रसिद्धार्थमनेकार्थाभिधायि वा पदं व्याख्येयं भवति । इह तु विरोधशब्दस्य निमित्तभूतजातिद्वयाभावात् प्रसिद्धार्थत्वाच्च व्याख्येयत्वाभावेऽपि विरोधशब्दस्य मध्यमजातिनिमित्तत्वात् तद्व्याख्यावान्तरजातिद्वयलक्षणव्यक्तिद्वयलक्षणसम्भवात् अत्रेदृग्व्यक्तिर्विवक्षितेति निर्णेतुं पृच्छति -

कोऽयं विरोध इति ।

इतरेतरभावानुपपत्तिरित्युत्तरपदार्थं प्रति यस्य विरोधस्य हेतुत्वं सम्भवति सोऽत्र विरोधशब्दार्थं इति ज्ञातुं शक्यते किमत्र पृच्छ्यते इत्याशङ्क्योत्तरपदस्याप्यर्थो न निर्णीत इति कृत्वासौ विवेक्तव्य इत्याह –

कीदृशो वेति ।

इतरस्मिन् इतरस्य भावानुपपत्तिरिति तादात्म्याभाव उच्यते, इतरस्य इतरभावानुपपत्तिरित्यैक्याभाव उच्यते । इतरस्मिन् सतीतरभावानुपपत्तिरिति सहावस्थानाभाव उच्यत इति सन्दिग्ध इत्यर्थः । तादात्म्यायोग्यत्वं वा सहावस्थानायोग्यत्वमैक्यायोग्यत्वं वा विरोधोऽस्तु । सर्वथाऽपि विरुद्धस्वभावत्वेन साध्याध्यासमिथ्यात्वं सिद्ध्यति । अतो न प्रष्टव्यमस्तीत्याशङ्क्य यथा इतरेतरायोग्यताया विरोधशब्दार्थत्वे तमःप्रकाशदृष्टान्तगतविरोधेन साम्यं भवति तथेतरेतरभावानुपपत्तिपदं निर्णेतव्यमिति मत्वाह –

यस्यानुपपत्तेरिति ।

यस्य इतरेतरभावस्यानुपपत्तेरित्यर्थः । सहानवस्थानलक्षणो विरोध इत्यत्र सहानवस्थानं लक्षणं गमकं यस्य सहावस्थानायोग्यत्वस्य तत् सहानवस्थानलक्षणमिति योजना ।

तत इति ।

सहावस्थानायोग्यत्वलक्षणात् कारणादित्यर्थः ।

भवतु सहावस्थानानुपपत्तिरिति तत्राह –

तदसदिति ।

भाष्ये विरुद्धस्वभावत्वादध्यासो मिथ्येत्यंशेनात्मानात्मानावध्यासहीनौ क्वाप्यभेदा अभेदयोग्यद्वादितियोग्यत्वात् तमःप्रकाशवदिति अनुमिते असिद्धिशङ्कानिरासायायोग्यताकार्यतया तद्गमकाभेदाभावमितरेतरभावानुपपत्तिरिति पदेनाह भाष्यकारः । तत्साधूक्तमिति द्योतयति । ततः प्रकाशस्याभाव इत्ययोग्यतायाः कारणत्वकथनेन इतरेतरभावानुपपत्तेरध्यासो मिथ्येत्यनेनात्मानात्मानावध्यासहीनौ क्वाप्यभेदहीनत्वात् तमःप्रकाशवदित्यनुमिते अभेदायोग्यत्वं प्रयोजकमिति शङ्कायां तन्निरासाय अभेदायोग्यत्वं साधनव्यापकत्वात् अनुपाधिरित्यभिप्रेत्य विरुद्धस्वभावयोरिति पदं वदति भाष्यकारः । तदपि साधूक्तमिति द्योतयति । सहावस्थानायोग्यतायागम्यत्वकथनेन द्रष्टव्यम् । रूपदर्शनास्पाष्ट्यं स्वरूपमतो रूपदर्शनास्पाष्ट्येन तमसोऽनुवृत्तिर्वक्तुं न शक्यत इत्याशङ्क्य तथा सति सर्वत्राप्यस्पाष्ट्यं स्यान्न तथा दृश्यत इत्याह -

इतरत्र च स्पष्टमिति ।

सहावस्थानासहावस्थानयोग्यत्वादितियोग्यत्वात् तमःप्रकाशयोर्दृष्टान्तत्वं मा भूत् , तमःप्रकाशशब्दाभ्यां तमोलेशभूतछायां प्रकाशैकदेशात् पथो इति तथोपलक्ष्य तयोः सहावस्थानायोग्यत्वात् दृष्टान्तत्वमुच्यते भाष्यकारेणेत्याशङ्क्य तत्रापित - वपि इति सहावस्थानयोग्यत्वमस्तीत्याह -

तथा छायायामपीति ।

छायायामौष्ण्यमुपलभ्यमानं स्वधर्मित्वेन आतपस्यापि तत्रावस्थानं सूचयति इति, एतावदुक्तौ छायाया औष्ण्यं स्वरूपमत औष्ण्यसद्भावेनातपसद्भावकल्पना न युक्तेत्याशङ्क्य तथा सति मध्याह्नेऽपराह्णे छायानुगतौअनुगतैष्ण्य इतिष्ण्यस्यैकरूप्यं स्यान्न तथा दृश्यते इत्याह –

तारतम्येनेति ।

तर्हि तमःप्रकाशशब्दाभ्यां छायातपावुपलक्ष्य पश्चाच्छायानुगतशैत्यमातपानुगतौष्ण्यं च लक्षितलक्षणयोपादाय तयोः सहावस्थानायोग्यत्वात् दृष्टान्तत्वमुच्यते भाष्यकारेणेत्याशङ्क्य तयोरपि सहावस्थानयोग्यत्वमस्तीत्याह -

एतेन शीतोष्णयोरपीति ।

पक्षान्तरं निराकृत्य स्वाभिमतपक्षान्तरमुपादत्ते सिद्धान्ती

उच्यते परस्परेत्यादिना ।

सर्वसाधारणत्वात् प्रमेयत्वशब्दवाच्यत्ववत् परस्परात्मत्वायोग्यत्वस्य विरोधत्वं न सम्भवतीत्याशङ्क्य जातिव्यक्त्यादौ वृत्त्यभावमितरेतरभावायोग्यत्वस्य दर्शयति -

न जातिव्यक्त्योरिति ।

परमार्थतः ।

परमार्थस्थल इत्यर्थः ।

तेनेति -

परस्परात्मत्वायोग्यत्वहेतुनेत्यर्थः ।

इतरस्मिन् सति इतरभावानुपपत्तिरिति । सहावस्थानाभाव उच्यत इति शङ्कां व्यावर्त्य ऐक्यतादात्म्ययोरभावोऽर्थ इत्याह –

इतरेतरसम्भेदात्मकत्वस्येति ।

भ्रमस्थले ऐक्यतादात्म्याभावोऽध्यासाभावभावे हेतुक इतिहेतुक इति मत्वा सोऽध्यासाध्यासभाव इतिभाव एव हेतुरिति चोदयति -

कथमिति ।

प्रमाणस्थले ऐक्यतादात्म्ययोरभावोऽध्यासध्यासभावे इतिभावे हेतुत्वेन मयोक्त इति स्पष्टीकुर्वन् प्रमाणस्थलेऽपि द्वयोरैक्यभावः स्पष्ट इति कृत्वा अंशांशिभावेन तादात्म्याभावमुपपादयति -

स्वतस्तावदित्यादिना ।

अस्यायमर्थः, प्रपञ्चस्थले तादात्म्यं सम्भवति तत्र चिज्जडयोरुभयोर्द्रव्यत्वादेव जातिव्यक्ति गुणगुणिभावासम्भवाच्चैतन्यस्यानादित्वादपरिणामित्वाच्च कार्यकारणत्वासम्भवादेव कार्यकारणभावासम्भवात् , चैतन्यस्यासङ्गत्वादेव विशिष्टस्वरूपत्वासम्भवादेभिराकारैस्तादात्म्यासम्भवः प्रसिद्ध इत्यङ्गीकृत्य प्रमाणस्थले अंशांशिभावेन अतादात्म्यं दर्शयतीति । स्वतः स्वाभाविक इत्यर्थः ।

आगन्तुकत्वेऽपि क्षीरस्य दधिभाववत् न निर्हेतुको युष्मदंश इत्याह –

अपरिणामित्वादिति ।

चन्दनस्य जलसंसर्गात् दौर्गन्ध्यवद्धेतुतोऽपि न युष्मदंश इत्याह –

निरञ्जनत्वादिति ।

असङ्गत्वादित्यर्थः ।

न परतः ।

नागन्तुक इत्यर्थः ।

विषयस्यापीति ।

अनात्मनोऽपीत्यर्थः ।

समत्वात् ।

आत्मना चेतनत्वेन समत्वादित्यर्थः ।

विषयत्वहानेः

- प्रत्यक्षगोचरगोचत्व इतित्वहानेरित्यर्थः । ।

न परतश्चितेरिति ।

अनात्मानं प्रत्यागन्तुकांशत्वे जडत्वं स्यात् , चित्वादेव नांश इत्यर्थः ।

कषायद्रव्यगतलोहित्यं यथा पटः स्वीकरोति तथा आत्मगतमेव चैतन्यचैतन्यमानात्मेतिमनात्मा स्वाङ्गत्वेन स्वीकुर्यादिति तत्राह –

चितेरप्रतिसङ्क्रमत्वादिति ।

सर्वगतनिरवयवस्यात्मनः सङ्क्रमायोगादिति भावः ।

एवं स्थित इति ।

आत्मानात्मनोरभेदाभावे सतीत्यर्थः ।

इतिशब्दस्य परिसमाप्तिद्योतकत्वं व्यावर्तयति -

इतिशब्दो हेत्वर्थ इति ।

इतरेतर भावानुपपत्तेरध्यासाभावं प्रति सत्ताहेतुत्वं दर्शयति ।

यस्मादेवमिति ।

अस्मत्प्रत्यये योऽनिदमंशमंशत्यत्रेति इति ।

अस्मत्प्रत्यये अहमिति प्रतीयमाने अहंप्रत्ययविषय इत्यर्थः ।

अहंप्रत्ययविषय इत्युक्ते अहङ्कारचेतनौ प्रतीयेते । तत्राहङ्कारं व्यावर्तयति -

अनिदमंश इति ।

एवमुक्ते प्राभाकराभिमतात्मनोऽपि कर्मत्वाभावादेव अनिदमंशत्वमस्तीति तं व्यावर्तयति -

चिदिति ।

एतावदुक्तौ आश्रयभूतजडसहत्वं प्रतीयते तद्व्यावर्तयति -

एकरस इति ।

चिदेकरसत्वेऽपि साङ्ख्याभिमतात्मनोऽनुमेयत्वमस्तीति तद्व्यावर्तयति -

अनिदमंश इति ।

व्याख्येयपदत्रयगतसप्तम्याः अर्थमाह –

तस्मिन्निति ।

अहङ्कारादिशरीरान्तस्य अहमिति प्रतीयमानत्वात् कथं युष्मत्वमित्याशङ्क्य प्रयोक्तारं प्रतीदमिति ग्राह्यत्वं स्वरूपेण अहमिति ग्राह्यत्वमपरोक्षत्वं च यस्य भवति तस्य युष्मत्वं स्यात् । तल्लक्षणं देहादेरप्यस्तीत्याह -

तद्बलेति ।

तस्यात्मचैतन्यस्य बलेन प्रतिबिम्बेन निर्भास्यत्वादपरोक्षतया वेद्यत्वात् प्रयोक्तुर्भाष्यकाराख्यात्मनः विवेकावस्थायामाहमितिमहमिति ग्राह्यत्वाच्च लक्षणतो युष्मदर्थत्वं देहादेरित्यर्थः ।

मनुष्याभिमानस्य ।

मनुष्याद्यभिमानस्य अभिमन्यमानस्य देहादेरित्यर्थः ।

अध्यासशब्दस्य अधिहास इति आसः अध्यासः इति निर्वचनेन प्राप्ताधाराधेयभावाभिधायित्वं व्यावर्त्याभिमतमर्थमाह -

सम्भेद इवावभास इति ।

इवशब्द आभासार्थः ।

अहमित्यभिमन्यमानस्येत्युक्त्या अध्यस्तत्वमुक्तम् । पुनरप्यभिमन्यमानस्य सम्भेद इवेति चाध्यस्तत्वमुक्तम् । अतोऽध्यस्तस्याध्यस्तत्वमसङ्गतमित्याशङ्क्य तद्विधाभिमान एव सम्भेद इवावभासस्याध्यास इत्याह -

स एवेति ।

विषयाध्यास इति -

धर्म्यध्यास इत्यर्थः ।

विना विषयाध्यासेनेति ।

श्रोत्रमहं चक्षुरहमिति श्रोत्रादिधर्म्यध्यासेनेत्यर्थः ।

अकर्मतया सिद्धं प्राभाकराभिमतजडरूपात्माख्यविषयिणं व्यावर्तयति -

चैतन्यस्य तद्धर्माणां चेत्यर्थ इति ।

ननु विषयिण इत्यत्र विषयीत्युक्ते प्राभाकराभिमतजडरूपविषयिणं प्राप्तं व्यावर्तयति -

चैतन्येति ।

परिणामिब्रह्मवादिनाङ्गीकृतचिज्जडात्मत्वं व्यावर्तयति -

एकरसस्येति ।

नित्यत्वमिति

सत्यत्वमित्यर्थः । ।

पृथगिवेति ।

अन्तःकरणवृत्त्युपाधिनिमित्ततया नानेवावभासन्त इत्यर्थः ।

अध्यासशब्दस्य पूर्वमेवार्थोऽभिहितः । किमिदानीमर्थोक्तिरित्याशङ्क्य मिथ्याज्ञाननिमित्त इत्यत्र मिथ्याशब्दस्यानिर्वचनीयत्वनिश्चयादत्रापि मिथ्याशब्देन अनिर्वचनीयत्वस्याभिधानादध्यास इति च तस्यैवाभिधानात् अध्यासो मिथ्येति पुनरुक्तिस्स्यात् । अतःअताः इति पुनरुक्ततया अध्यासशब्दस्य स्वार्थप्रच्युतौ प्राप्तायां पूर्वोक्त एवार्थ इत्याह -

अध्यासो नामेति ।

अध्यासो भवितुं युक्तम् , मिथ्यात्वादित्यन्वयं व्यावर्त्य अध्यासो मिथ्येत्यन्वयमाह -

स मिथ्येति भवितुं युक्तमिति ।

तं तथा सोऽध्यास इति विधिः प्राप्त इत्याशङ्क्य मिथ्याशब्दस्य अर्थान्तरमस्तीत्याह -

मिथ्याशब्दो द्व्यर्थ इति ।

अध्याअध्यामुद्दिश्य इतिसमुद्दिश्य मिथ्यात्वं विधेयमिति दर्शयितुंदेशयितुमिति पूर्वं मिथ्याशब्दस्योपादानं कृतम् । इदानीं भवितुंशब्दस्य अन्वयं वक्तुं मिथ्याशब्दमादत्ते -

मिथ्येति ।

भवितुं युक्तमिति ।

मिथ्येति कृत्वा अध्यासो भवितुं युक्तमिति व्याहतोक्तिं व्यावर्तयति -

अभाव एवेति ।

अध्यासो मिथ्येति भवितुं युक्तमिति भाष्येणाध्यासापह्नवः क्रियते, किं वा अध्याससद्भावमङ्गीकृत्य तस्य लोकसिद्धकादाचित्कशुक्तिरजताद्यध्यासे दृष्टसादृश्यादिकारणाभावादसम्भव उच्यत इति विकल्प्य कारणाभावादसम्भवं प्राप्तमङ्गीकरोति -

यद्यप्येवमिति ।

तर्हि असम्भव एव स्यादिति आशङ्क्य आत्मनि अहङ्काराद्यध्यासस्य प्रवाहरूपेणानादित्वात् इदं प्रथमरजताद्यध्यासकारणाभावेनासम्भवो नास्ति । प्रवाहरूपेणोत्पद्यमानमध्यवर्तिज्वालायां प्रथमज्वालाकारणाभावेन असम्भवाभाववदित्यभिप्रेत्याह -

तथापि नैसर्गिक इति ।

नैसर्गिक इत्यनपनोद्यत्वमुच्यत इति शङ्कां निरस्य अनादित्वं तस्यार्थ इत्याह -

प्रत्यगनुबन्धीति ।

आत्मा तावदनादिः, तस्मिन् कार्यरूपेण संस्काररूपेण वा अध्यासस्य प्रवाहव्यभिचाराभावादध्यासोऽनादिरित्यर्थः ।

प्रत्यक्सम्बन्धीत्युक्ते प्राभाकराभिमतप्रत्यग्रूपेण च सम्बन्धं प्राप्तं व्यावर्तयति -

चैतन्येति ।

चैतन्यमध्याससाक्षित्वेन अन्यथासिद्धं न त्वध्याससम्बन्धित्वेनाधिष्ठानमिति तदपनुदति -

सत्तेति ।

सत्ताया जडविशिष्टत्वान्नाध्यासं प्रत्यधिष्ठानत्वमिति शङ्काव्यावृत्त्यर्थं जडाद्विभजते -

मात्रेति ।

सत्तामनुसृत्यात्यन्ततिरोधानमकृत्वा बध्नाति । चिदानन्दाच्छादकत्वेन चिदानन्दावाच्छादकत्वेन इति बध्नातीत्याह -

अनुबन्धीति ।

अध्यासापह्नवपरं भाष्यमिति पक्षेऽपि अपह्नवो न शक्य इत्याह -

अयमिति ।

प्रत्यक्षम् इत्यर्थः ।

प्रमेयापह्नवं कुर्वता मया प्रमाणस्यापह्नवः क्रियत एव इत्याशङ्क्य विलक्षणाकारवत्तया विलक्षणशब्दोल्लिखितत्वेन च प्रमाणं प्रसिद्धमित्याह -

अहमिदं ममेदमिति ।

अध्यास आक्षिप्तः, लोकव्यवहारस्समाधीयत इति असङ्गतोक्तिः प्राप्तेति, नेत्याह -

युष्मदस्मदोरितरेतराध्यासात्मको लोकव्यवहार इति ।

तेनेत्यादेरयमर्थः, कादाचित्कशुक्तिरजतादौ सिद्धकारणाभावेनानाद्यध्यासो नोपालम्भमर्हति । आगन्तुकघटादिकारणाभावेन अनाद्यात्मन उपलम्भाभाववदिति ।

लोकत इति कर्मव्युत्पत्त्या देहादिरूपार्थाध्यासे लोकशब्दो वर्तत इत्याह -

लोक इति ।

मनुष्योऽहमितीति ।

व्यवहारशब्दस्य भावव्युत्पत्त्याऽज्ञानसाध्यासवाचित्वं दर्शयति -

व्यवहरणं व्यवहार इति ।

लोकश्चासौ व्यवहारश्च इति लोकव्यवहार इति कर्मधारयं व्यावर्त्य लोकविषयो व्यवहारो लोकव्यवहार इत्याह -

लोक इतीति ।

व्यवहारशब्दस्य अभिज्ञाभिवदनोपादानार्थक्रियाभिधायित्वात् कथं ज्ञानाध्यासवाचित्वमित्याशङ्क्य इहाभिज्ञाभिवदनाख्यशब्दोल्लिखितज्ञानमात्राभिधायित्वात् ज्ञानाध्यासवाचित्वं युक्तमित्याह -

मनुष्योऽहमिति अभिमान इत्यर्थ इति ।

अहमिति प्रतिभासस्याध्यासत्वे द्व्याकारतया अवभासेत । द्व्याकारत्वाभावान्नाध्यासत्वमित्याशङ्काव्यावर्तकत्वेन इतरेतराविवेकेनेति पदमुपादेयम् । भिन्नपदार्थप्रतीतावितरेतराविवेकः कुत इत्याकाङ्क्षायां सत्यानृते मिथुनीकृत्येति पदमुपादेयम् । तदाकाङ्क्षाक्रममनादृत्योपादत्ते -

सत्यानृते मिथुनीकृत्येति ।

स्वरूपेण सत्ये संसर्गविशिष्टतया अनृते च यथा व्यवहारःयथाच्हरतः इति तथा मिथुनीकृत्येति वा, सत्यमसत्यं च मिथुनीकृत्य इति वा निर्वाह इति सन्देहे सत्यमसत्यं चेति निर्वाह इत्याह -

सत्यमिति ।

पदच्छेदेन ।

सत्यमिति सत्यवाक्यमुच्यत इति शङ्कामपनुदति -

अनिदमिति ।

प्राभाकराभिमतात्मानं व्यावर्तयति -

चैतन्यमिति ।

तावत्युक्ते साङ्ख्याभिमतानुमेयात्मनः प्राप्तिं व्युदस्यति -

अनिदमिति ।

अनृतमित्युक्ते अनृतवाक्यप्राप्तिं व्युदस्यति -

युष्मदर्थम् इति ।

अध्यस्तस्वरूपत्वादित्युक्ते आत्मनोऽप्यनृतत्वं प्राप्तं व्युदस्यति -

स्वरूपतोऽपीति ।

संसर्गस्याध्यस्तत्वात्संसर्गविशिष्टरूपेणात्मनोऽध्यस्तत्वम्, न तु स्वरूपेण । जडस्य तु स्वरूपेण संसृष्टरूपेण चाध्यस्तत्वादनृतत्वमिति भावः ।

क्त्वाप्रत्ययादेव भेदपौर्वापर्यप्रतीतेरध्यासमिथुनीकरणलोकव्यवहारशब्दानांव्यवहारलोकार्थत्वमिति एकार्थत्वमयुक्तमिति तत्राह -

अध्यस्य मिथुनीकृत्येति ।

क्रियान्तरानुपादानादित्युक्ते लोकव्यवहार इति व्यवहारलक्षण क्रियान्तरोपादानमस्तीत्याशङ्क्य भुक्त्त्वा व्रजतीतिवत् समानकर्तृकक्रियान्तरानुपादानादित्याह -

`भुक्त्त्वा व्रजतीतिवद्’ इति ।

`लोकव्यवहार’ इत्युक्ते स किं भवतीति साकाङ्क्षत्वात् व्यवहारस्य समानकर्तृकक्रियान्तरलाभाय ‘अनेन क्रियत’ इत्यध्याहर्तव्यमित्याशङ्क्य ‘नैसर्गिकपदेनाकाङ्क्षापूरणं’ नाध्याहर्तव्यमित्याह -

अध्यस्य नैसर्गिकोऽयमिति ।

तावन्मात्रोपसंहारादिति ।

स्वरूपकथनमात्रेणोपसंहारादित्यर्थः ।