पञ्चपादिका
वक्तव्यकाशिका
 
ननु च ग्रन्थकरणादिकार्यारम्भे कार्यानुरूपं इष्टदेवतापूजानमस्कारेण बुद्धिसन्निधापिताथवृद्ध्यादिशब्दैः दध्यादिदर्शनेन वा कृतमङ्गलाः शिष्टाः प्रवर्तन्ते । शिष्टाचारश्च नः प्रमाणम् । प्रसिद्धं च मङ्गलाचरणस्य विघ्नोपशमनं प्रयोजनम् । महति च निःश्रेयसप्रयोजने ग्रन्थमारभमाणस्य विघ्नबाहुल्यं सम्भाव्यते । प्रसिद्धं च `श्रेयांसि बहुविघ्नानि' इति । विज्ञायते च-'तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः' इति, येषां च यन्न प्रियं ते तद्विघ्नन्तीति प्रसिद्धं लोके । तत् कथमुल्लङ्घ्य शिष्टाचारं अकृतमङ्गल एव विस्रब्धं भाष्यकारः प्रववृते? अत्रोच्यते —'युष्मदस्मद्' इत्यादि `तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः' इत्यन्तमेव भाष्यम् । अस्य च अयमर्थः—सर्वोपप्लवरहितो विज्ञानघनः प्रत्यगर्थः इति । तत् कथञ्चन परमार्थतः एवम्भूते वस्तुनि रूपान्तरवदवभासो मिथ्येति कथयितुम् तदन्यपरादेव भाष्यवाक्यात् निरस्तसमस्तोपप्लवं चैतन्यैकतानमात्मानं प्रतिपद्यमानस्य कुतो विघ्नोपप्लवसम्भवः? तस्मात् अग्रणीः शिष्टाचारपरिपालने भगवान् भाष्यकारः । विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् इति । कोऽयं विरोधः? कीदृशो वा इतरेतरभावः अभिप्रेतः? यस्य अनुपपत्तेः—'तमःप्रकाशवत्' इति निदर्शनम् । यदि तावत् सहानवस्थानलक्षणो विरोधः, ततः प्रकाशभावे तमसो भावानुपपत्तिः, तदसत् ; दृश्यते हि मन्दप्रदीपे वेश्मनि अस्पष्टं रूपदर्शनं, इतरत्र च स्पष्टम् । तेन ज्ञायते मन्दप्रदीपे वेश्मनि तमसोऽपि ईषदनुवृत्तिरिति ; तथा छायायामपि औष्ण्यं तारतम्येन उपलभ्यमानं आतपस्यापि तत्र अवस्थानं सूचयति । एतेन शीतोष्णयोरपि युगपदुपलब्धेः सहावस्थानमुक्तं वेदितव्यम् । उच्यते परस्परानात्मतालक्षणो विरोधः, न जातिव्यक्त्योरिव परमार्थतः परस्परसम्भेदः सम्भवतीत्यर्थः ; तेन इतरेतरभावस्य-इतरेतरसम्भेदात्मकत्वस्य अनुपपत्तिः । कथम्? स्वतस्तावत् विषयिणः चिदेकरसत्वात् न युष्मदंशसम्भवः । अपरिणामित्वात् निरञ्जनत्वाच्च न परतः । विषयस्यापि न स्वतः चित्सम्भवः, समत्वात् विषयत्वहानेः ; न परतः ; चितेः अप्रतिसङ्क्रमत्वात् । तद्धर्माणामपि सुतराम् इति । एवं स्थिते स्वाश्रयमतिरिच्य धर्माणाम् अन्यत्र भावानुपपत्तिः सुप्रसिद्धा इति दर्शयति । इति शब्दो हेत्वर्थः । यस्मात् एवम् उक्तेन न्यायेन इतरेतरभावासम्भवः, अतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके इति ॥ अस्मत्प्रत्यये यः अनिदमंशः चिदेकरसः तस्मिन् तद्बलनिर्भासिततया लक्षणतो युष्मदर्थस्य मनुष्याभिमानस्य सम्भेद इव अवभासः स एव अध्यासः । तद्धर्माणां च इति ॥ यद्यपि विषयाध्यासे तद्धर्माणामप्यर्थसिद्धः अध्यासः ; तथापि विनापि विषयाध्यासेन तद्धर्माध्यासो बाधिर्यादिषु श्रोत्रादिधर्मेषु विद्यते इति पृथक् धर्मग्रहणम् । तद्विपर्ययेण विषयिणस्तद्धर्माणां च इति ॥ चैतन्यस्य तद्धर्माणां च इत्यर्थः । ननु विषयिणः चिदेकरसस्य कुतो धर्माः ? ये विषये अध्यस्येरन् , उच्यते ; आनन्दो विषयानुभवो नित्यत्वमिति सन्ति धर्माः, अपृथक्त्वेऽपि चैतन्यात् पृथगिव अवभासन्ते इति न दोषः । अध्यासो नाम अतद्रूपे तद्रूपावभासः । सः मिथ्येति भवितुं युक्तम् इति । मिथ्याशब्दो द्व्यर्थः अपह्नववचनोऽनिर्वचनीयतावचनश्च । अत्र अयमपह्नववचनः । मिथ्येति भवितुं युक्तम् अभाव एवाध्यासस्य युक्तः इत्यर्थः । यद्यप्येवं ; तथापि नैसर्गिकः प्रत्यक्चैतन्यसत्तात्रामानुबन्धी । अयं युष्मदस्मदोः इतरेतराध्यासात्मकः । अहमिदं ममेदमितिलोकव्यवहारः । तेन यथा अस्मदर्थस्य सद्भावो न उपालम्भमर्हति, एवमध्यासस्यापि इत्यभिप्रायः । लोक इति मनुष्योऽहमित्यभिमन्यमानः प्राणिनिकायः उच्यते । व्यवहरणं व्यवहारः ; लोक इति व्यवहारो लोकव्यवहारः ; मनुष्योऽहमित्यभिमानः इत्यर्थः । सत्यानृते मिथुनीकृत्य इति । सत्यम् अनिदं, चैतन्यम् । अनृतं युष्मदर्थः ; स्वरूपतोऽपि अध्यस्तस्वरूपत्वात् । ‘अध्यस्य’ ‘मिथुनीकृत्य’ इति च क्त्वाप्रत्ययः, न पूर्वकालत्वमन्यत्वं च लोकव्यवहारादङ्गीकृत्य प्रयुक्तः ; भुक्त्वा व्रजतीतिवत् क्रियान्तरानुपादानात् । ‘अध्यस्य नैसर्गिकोऽयं लोकव्यवहारः’ इति स्वरूपमात्रपर्यवसानात् । उपसंहारे च ‘एवमयमनादिरनन्तो नैसर्गिकोऽध्यासः’ इति तावन्मात्रोपसंहारात् ॥
ननु च ग्रन्थकरणादिकार्यारम्भे इति ; कार्यानुरूपमिति ; इष्टदेवतेत्यादिना ; बुद्धिसन्निधापितेति ; शिष्टाचारश्च नः प्रमाणमिति ; प्रसिद्धं चेति ; महति चेति ; प्रसिद्धं चेति ; विज्ञायते चेति ; तत्कथमिति ; अत्रोच्यत इति ; युष्मदिति ; अस्य चेत्यादिना ; विज्ञानघन इति ; सर्वोपप्लवरहित इति ; प्रत्यगर्थ इति ; प्रत्यगिति ; अर्थ इति ; विज्ञानघन इति ; घन इति ; तत्कथंञ्चनेति ; तदन्यपरादिति ; भाष्यवाक्यादिति ; अग्रणीरिति ; कोऽयं विरोध इति ; कीदृशो वेति ; यस्यानुपपत्तेरिति ; तत इति ; तदसदिति ; इतरत्र च स्पष्टमिति ; तथा छायायामपीति ; तारतम्येनेति ; एतेन शीतोष्णयोरपीति ; उच्यते परस्परेत्यादिना ; न जातिव्यक्त्योरिति ; परमार्थतः ; तेनेति - ; इतरेतरसम्भेदात्मकत्वस्येति ; कथमिति ; स्वतस्तावदित्यादिना ; अपरिणामित्वादिति ; निरञ्जनत्वादिति ; न परतः ; विषयस्यापीति ; समत्वात् ; - प्रत्यक्षगोचरगोचत्व इतित्वहानेरित्यर्थः ; न परतश्चितेरिति ; चितेरप्रतिसङ्क्रमत्वादिति ; एवं स्थित इति ; इतिशब्दो हेत्वर्थ इति ; यस्मादेवमिति ; अस्मत्प्रत्यये योऽनिदमंशमंशत्यत्रेति इति ; अनिदमंश इति ; चिदिति ; एकरस इति ; अनिदमंश इति ; तस्मिन्निति ; तद्बलेति ; मनुष्याभिमानस्य ; सम्भेद इवावभास इति ; स एवेति ; विषयाध्यास इति - ; विना विषयाध्यासेनेति ; चैतन्यस्य तद्धर्माणां चेत्यर्थ इति ; चैतन्येति ; एकरसस्येति ; नित्यत्वमिति ; पृथगिवेति ; अध्यासो नामेति ; स मिथ्येति भवितुं युक्तमिति ; मिथ्याशब्दो द्व्यर्थ इति ; मिथ्येति ; भवितुं युक्तमिति ; अभाव एवेति ; यद्यप्येवमिति ; तथापि नैसर्गिक इति ; प्रत्यगनुबन्धीति ; चैतन्येति ; सत्तेति ; मात्रेति ; अनुबन्धीति ; अयमिति ; अहमिदं ममेदमिति ; युष्मदस्मदोरितरेतराध्यासात्मको लोकव्यवहार इति ; लोक इति ; मनुष्योऽहमितीति ; व्यवहरणं व्यवहार इति ; लोक इतीति ; मनुष्योऽहमिति अभिमान इत्यर्थ इति ; सत्यानृते मिथुनीकृत्येति ; सत्यमिति ; अनिदमिति ; चैतन्यमिति ; अनिदमिति ; युष्मदर्थम् इति ; स्वरूपतोऽपीति ; अध्यस्य मिथुनीकृत्येति ; `भुक्त्त्वा व्रजतीतिवद्’ इति ; अध्यस्य नैसर्गिकोऽयमिति ; तावन्मात्रोपसंहारादिति ;

भाष्यमनाप्तप्रणीततयाभाष्यमानाप्तेति व्याख्येयं न भवतीति प्रसज्यत इत्यभिप्रेत्य चोदयति -

ननु च ग्रन्थकरणादिकार्यारम्भे इति ।

कृतमङ्गलाः शिष्टाः प्रवर्तन्त इति ग्रन्थाद्बहिरेव भेरीघोषादिसहितदेवब्राह्मणपूजादिलक्षणं मङ्गलाचरणं कृतमेवेत्याशङ्क्य चिकीर्षितवाचिककार्यस्य अनुकूलमङ्गलाचरणं कर्तव्यमित्याह –

कार्यानुरूपमिति ।

कार्यव्यक्तीनामानन्त्यादिदं प्रतीदं मङ्गलाचरणमिदं प्रतीदमिति ज्ञातुमशक्यत्वात् कार्यानुरूपमङ्गलाचरणं केनापि कर्तुं न शक्यत इत्याशङ्क्य कार्यव्यक्तीनां कायिकं वाचिकं मानसमिति च त्रिराशीकर्तुं शक्यत्वात् ।

कायिककार्यारम्भे कायिकं नमस्कारादिलक्षणं मङ्गलाचरणं वाचिककार्यारम्भेकार्यारम्रे इति वाचिकम् अथवृद्ध्यादिशब्दप्रयोगलक्षणम्, मानसकार्यारम्भे मानसं दध्यादिदर्शनरूपं मङ्गलाचरणमिति ज्ञातुं शक्यत्वादत्र चिकीर्षितकार्यस्य वाचिकत्वात् वाचिकं मङ्गलाचरणं कर्तव्यमेवेत्याह –

इष्टदेवतेत्यादिना ।

अथवृद्ध्यादिशब्देषु नियमं वारयति -

बुद्धिसन्निधापितेति ।

शिष्टाचारश्च नः प्रमाणमिति ।

अस्यायमर्थः - आचारो धर्म इति बुद्ध्या अनुष्ठीयमानं कर्मकर्म न न इति नः प्रमाणम्, प्रमीयत इति प्रमाणम्, तच्च प्रमीयमाणं कर्तव्यमित्येव प्रमीयते । अतश्शिष्टाचारोऽस्माभिः कर्तव्यतया प्रमीयत इति ।

प्रयोजनाभावात् किं मङ्गलाचरणेनेति, नेत्याह -

प्रसिद्धं चेति ।

अल्पारम्भत्वाद्विघ्नो नास्तीति, नेत्याह -

महति चेति ।

आरम्भस्याल्पत्वेऽपि फलतो महत्वात् पद्यबन्धनस्येव विघ्नबाहुल्यं सम्भवतीति भावः ।

सम्भावनामात्रान्न प्रवृत्तिर्विघ्नोपशान्तय इति तत्राह -

प्रसिद्धं चेति ।

वटयक्षप्रसिद्धिवत् प्रसिद्धिर्निर्मूलेति, तत्राह -

विज्ञायते चेति ।

तत्कथमिति ।

अत्र शिष्टानामग्रणीर्भाष्यकारः कथं शिष्टाचारमुल्लङ्घ्य प्रववृते । अकृतमङ्गलो विघ्नैरुपहन्यमानो विस्रब्धं कथं प्रववृत इति योजना ।

भाष्यकारेण मङ्गलाचरणमात्रं कर्तव्यमित्युच्यत उत वाचिककार्यस्य वाचिकमङ्गलाचरणं कर्तव्यमित्युच्यत इति विकल्प्य विशुद्धब्रह्मतत्त्वानुस्मरणं नाम साधारणं मङ्गलाचरणं ग्रन्थकरणकार्यानुकूलवाचिकं मङ्गलाचरणं चोभयमपि नाचोभयमपि कृतमित्याह -

अत्रोच्यत इति ।

कथमिह उभयं कृतमिति तत्राह - युष्मदित्यन्तमेवयुष्मदिति इत्यन्तमिति भाष्यं वाचिकमङ्गलाचरणं साधारणमङ्गलाचरणे प्रमाणं चेत्यध्याहृत्ययोजना -

युष्मदिति ।

विषय इति च अहङ्कारादिमात्मनो निष्कृष्य अनुसन्धाय अस्मदिति विषयीति च अनवच्छिन्नसाक्षिस्वभावत्वेन प्रत्यगात्मानं युष्मदो विभज्य अनुसन्धाय उभयस्मिन् युष्मदस्मद्विषयविषयिणोरिति शब्दं विरचयता कृतमेवोभयमपि मङ्गलाचरणमित्यर्थः । तर्हि युष्मदित्यादिविषयविषयिणोरित्यन्तस्यैव तत्त्ववाचकतया वाचिकमङ्गलाचरणत्वात् वक्तुस्तत्वानुस्मृतिकल्पकं तव असाधारणमङ्गलाचरणे प्रमाणत्वाच्चोत्तरभाष्यखण्डस्य उपादानमयुक्तम् । तन्न, युष्मदेवास्मत् , अस्मदेव युष्मदित्यैक्यं किमनुसन्धत्ते, किं वा प्रत्यगात्मानं युष्मदो विविनक्तीति संशये पूर्वमैक्यानुसन्धाने उत्तरत्रेतरेतरभावोपपत्तिरिति वक्तव्यम् , इतरेतरभावानुपपत्तेरुक्तत्वात् , पूर्वमपि विवेक एव कृत इति निर्णयार्थमुत्तरखण्डस्य उपादानमित्यविरोधात् ।

युष्मदित्यादिभाष्यस्याध्यासाभावविषयत्वात् , अध्यासाभावानुस्मृतिपूर्वकत्वं स्वस्य कल्पयति केवलम्, न तु भाष्यकारस्य तत्त्वानुस्मृतिसद्भावे प्रमाणमित्याशङ्क्य युष्मदित्यादिपदद्वयस्य तत्त्वमर्थ इति प्रदर्शयति -

अस्य चेत्यादिना ।

अस्य भाष्यस्य अध्यासाभावव्यतिरेकेणायं चार्थ इत्यन्वयः । ननु भाष्यटीकयोः व्याख्यानव्याख्येयभाव एव नोपपद्यते, कथं टीकाकारः षट्‍पदानि व्याख्येयत्वेनोपादाय सर्वोपप्लवरहितइत्यादिपदत्रयेण व्याख्यां चकार ? तत्रानेन पदत्रयेण व्याख्येयत्वे नोपात्तषट्‍पदस्यपदषट्कस्य इति स्यात् तात्पर्यार्थं कथयति, किं वा प्रतिपदमभिधेयार्थम् ? यदि तात्पर्यार्थकथनं तदा परत्र युष्मदस्मदित्यारभ्य अभिधेयार्थो वक्तव्यः, न तु विरुद्धस्वभावयोरित्यारभ्य । अथ व्याख्येयपदानामभिधेयार्थं कथयति तदपि न, व्याख्यानस्य पदत्रयत्वात् तेन व्याख्येयसर्वपदानामर्थकथनायोगात् । पदत्रये व्याख्येयषट्‍पदानांपदषट्कस्य मध्ये पदत्रयं व्याख्यातम् । पश्चादितरपदानि व्याख्यास्यन्त इति वक्तुं न शक्यते । परत्र विषयविषयिणोरिति द्वितीयपदमारभ्य व्याख्येयत्वेनोपादानात् ।

ननु विवरणकारः पदद्वयं व्याख्यातमित्यवादीदतः पदद्वयं व्याख्यातम् , सर्वोपप्लव - इत्यादिना, पश्चादुत्तरं व्याख्यास्यत इति स्वीक्रियतामिति चेन्न, तस्याप्यसङ्गतत्वात् । कथम्, विवरणकारः ‘सुप्तिङन्तं पदम्’ इति पदलक्षणमङ्गीकृत्य पदद्वयं व्याख्यातमित्यवादीत् , अथवा पद्यते अनेनेति पदमिति व्युत्पत्त्या बोधकमात्रस्य पदत्वमङ्गीकृत्य, उभयथाप्यसङ्गतिरेव, कथम् ? प्रथमपक्षे विषयविषयिणोरितिद्वितीयेत्याधिकं दृश्यते पदस्य व्याख्येयत्वेनोपादानं न सङ्गच्छते, द्वितीयपक्षे केवलं युष्मदस्मदिति पदद्वयं मुक्त्वा प्रत्ययगोचरयोरित्येतदारभ्य व्याख्यायेत, न तथा क्रियत इति निश्चितमसङ्गतमिति चेत् - तन्न, ‘सुप्तिङन्तं पदम्’ इति पदलक्षणेन लक्षितं पदद्वयं व्याख्यातमिति विवरणकारस्योक्तिरिति निश्चयात् । कथं तर्हि टीकाकारेण विषयविषयिणोरिति द्वितीयपदस्य व्याख्येयत्वेन उत्तरत्रोपादानम् ? नैष दोषः, तमःप्रकाशवद्विरुद्धस्वभावयोरित्यत्र विरोधशब्दार्थः सहानवस्थानलक्षणः किं वा ऐक्यायोग्यतालक्षण इति विशये चिज्जडयोः विषयिविषयत्वादेककाले अवस्थानात् , सहानवस्थानलक्षणो विरोधो नास्ति । किन्त्वैक्यायोग्यतालक्षणो विरोध इति निर्णयार्थं विषयविषयिणोरिति पदस्योपादानम् ; न तु व्याख्येयत्वेनेत्यविरोधात् । तर्हि व्याख्येयत्वाभावे व्याख्येयपदार्थनिर्णायकत्वाभावेननिर्णायकत्वभावेनेतिव्याख्येयतृतीयपदेन सह चतुर्थमितरेतरभावानुपपत्तिरिति पदं किमिति परत्र उपादत्त इति चेत् विरोधशब्देनैक्याभाव उच्यते, किं वैक्ययोग्यताभाव उच्यत इति सन्देहे ऐक्याभावस्य चतुर्थपदेन उच्यमानत्वात् , पारिशेष्यात् ऐक्ययोग्यताभाव एव विरोधशब्देनोच्यत इति निर्णयार्थं चतुर्थपदोपादानं कृतम् । अतो व्याख्यानत्वं व्याख्येयत्वं च सम्भवतीति पदद्वयं प्रति त्रयाणां पदानां व्याख्यानत्वेन कथमनुप्रवेश इति चेत् सर्वोपप्लवरहितः प्रत्यगर्थः इति पदद्वयम् । प्रथमपदस्य व्याख्यानम् -

विज्ञानघन इति ।

द्वितीयपदस्य व्याख्यानप्रकारो द्विविधः, व्याख्येयपदेन फलितार्थप्रदर्शनमप्रसिद्धार्थव्याख्येयस्य प्रसिद्धार्थपर्यायशब्देनार्थकथनं च । तत्र युष्मदित्यंशेन फलितमर्थमाह -

सर्वोपप्लवरहित इति ।

युष्मदित्यहङ्काराख्यधर्मिणो विवेकात् कर्तृत्वादितद्धर्मेभ्यो विवेकाच्च आत्मा सर्वोपप्लवरहितः संवृत्त इत्यर्थः ।

अस्मत्प्रत्यय इत्यंशं व्याकरोति -

प्रत्यगर्थ इति ।

तत्राप्यस्मदिति पदस्य पर्यायपदेन अर्थमाह –

प्रत्यगिति ।

प्रत्ययशब्देन प्रतीतित्वात् प्रत्यय इति व्युत्पत्त्या व्याप्तचिद्रूपत्वेन फलितं सत्यत्वमाह -

अर्थ इति ।

विषयविषयिणोरिति द्वितीयपदं व्याचष्टे -

विज्ञानघन इति ।

विषयिशब्देन घटादिविषयेभ्यो व्यावृत्तम् आश्रयभूतजडेनाविरुद्धं विज्ञानमुच्यत इति शङ्कां व्यावर्तयति -

घन इति ।

आश्रयजडहीनमित्यर्थः । द्वितीयपदस्य युष्मदस्मद्व्याख्यानयोर्मध्ये व्याख्यानं किमिति चेत् अस्मत्प्रत्ययगोचर इत्यस्यार्थभूतप्रत्यगर्थत्वं प्रति विषयविषयिणोरिति पदोक्तविज्ञानघनत्वं हेतुरिति प्रकटनायेति न विरोधः । विज्ञानघनत्वात् प्रत्यक्त्वम् अर्थत्वं सत्यत्वं चेत्यर्थः । विषयविषयिणोरिति शब्दार्थस्य विज्ञानघनत्वस्य साक्षिरूपत्वाद्युष्मच्छब्दार्थभूतसाक्ष्यस्य अस्मत्प्रत्ययशब्दार्थभूतप्रत्यक्साक्षिणो व्यावृत्तिरस्तीति दर्शयितुं वा मध्ये व्याचष्टे ।

भाष्यकारेणाध्यासाभाव एवानुस्मर्यते । नात्मतत्त्वमध्यासभावविषयत्वाद्भाष्यस्येति न । अध्यासाभावकथनाय तत्वमप्यनुस्मर्यत इत्याह –

तत्कथंञ्चनेति ।

परमार्थत एवंभूते वस्तुनि रूपान्तरवदवभासश्च रूपान्तरं च कथं न मिथ्येति कथयितुमित्येकोऽन्वयः ।

एवंभूते वस्तुनि कथञ्चन अतीतवद्वर्तमानोतीतभीतवद्वर्गमानो इति रूपान्तरवदवभासः, अथ अत्रेदं न स्पष्टम्अतो मिथ्यैवेति कथयितुमिति वा । एवंभूते वस्तुनि रूपान्तरवत्तदवभासः कथञ्चन कथमपि केनापि प्रकारेण स्वरूपेण संसृष्टरूपेण च मिथ्येति कथयितुमिति वा -

तदन्यपरादिति ।

तस्मादात्मतत्त्वादन्याध्यासाभावपरादित्यर्थः ।

करिष्यमाणभाष्यवाक्यादर्थप्रतिपत्त्ययोगात् साध्यतया प्रतिपन्नवाक्यं स्वनिष्पत्त्यर्थं वक्तुः स्वार्थप्रतिपत्तिहेतुरित्यभिप्रेत्याह –

भाष्यवाक्यादिति ।

अग्रणीरिति ।

अग्रं नयतीत्यग्रणीस्तस्मात्तत्कृतं भाष्यं व्याख्येयमित्यर्थः ।

अप्रसिद्धार्थमनेकार्थाभिधायि वा पदं व्याख्येयं भवति । इह तु विरोधशब्दस्य निमित्तभूतजातिद्वयाभावात् प्रसिद्धार्थत्वाच्च व्याख्येयत्वाभावेऽपि विरोधशब्दस्य मध्यमजातिनिमित्तत्वात् तद्व्याख्यावान्तरजातिद्वयलक्षणव्यक्तिद्वयलक्षणसम्भवात् अत्रेदृग्व्यक्तिर्विवक्षितेति निर्णेतुं पृच्छति -

कोऽयं विरोध इति ।

इतरेतरभावानुपपत्तिरित्युत्तरपदार्थं प्रति यस्य विरोधस्य हेतुत्वं सम्भवति सोऽत्र विरोधशब्दार्थं इति ज्ञातुं शक्यते किमत्र पृच्छ्यते इत्याशङ्क्योत्तरपदस्याप्यर्थो न निर्णीत इति कृत्वासौ विवेक्तव्य इत्याह –

कीदृशो वेति ।

इतरस्मिन् इतरस्य भावानुपपत्तिरिति तादात्म्याभाव उच्यते, इतरस्य इतरभावानुपपत्तिरित्यैक्याभाव उच्यते । इतरस्मिन् सतीतरभावानुपपत्तिरिति सहावस्थानाभाव उच्यत इति सन्दिग्ध इत्यर्थः । तादात्म्यायोग्यत्वं वा सहावस्थानायोग्यत्वमैक्यायोग्यत्वं वा विरोधोऽस्तु । सर्वथाऽपि विरुद्धस्वभावत्वेन साध्याध्यासमिथ्यात्वं सिद्ध्यति । अतो न प्रष्टव्यमस्तीत्याशङ्क्य यथा इतरेतरायोग्यताया विरोधशब्दार्थत्वे तमःप्रकाशदृष्टान्तगतविरोधेन साम्यं भवति तथेतरेतरभावानुपपत्तिपदं निर्णेतव्यमिति मत्वाह –

यस्यानुपपत्तेरिति ।

यस्य इतरेतरभावस्यानुपपत्तेरित्यर्थः । सहानवस्थानलक्षणो विरोध इत्यत्र सहानवस्थानं लक्षणं गमकं यस्य सहावस्थानायोग्यत्वस्य तत् सहानवस्थानलक्षणमिति योजना ।

तत इति ।

सहावस्थानायोग्यत्वलक्षणात् कारणादित्यर्थः ।

भवतु सहावस्थानानुपपत्तिरिति तत्राह –

तदसदिति ।

भाष्ये विरुद्धस्वभावत्वादध्यासो मिथ्येत्यंशेनात्मानात्मानावध्यासहीनौ क्वाप्यभेदा अभेदयोग्यद्वादितियोग्यत्वात् तमःप्रकाशवदिति अनुमिते असिद्धिशङ्कानिरासायायोग्यताकार्यतया तद्गमकाभेदाभावमितरेतरभावानुपपत्तिरिति पदेनाह भाष्यकारः । तत्साधूक्तमिति द्योतयति । ततः प्रकाशस्याभाव इत्ययोग्यतायाः कारणत्वकथनेन इतरेतरभावानुपपत्तेरध्यासो मिथ्येत्यनेनात्मानात्मानावध्यासहीनौ क्वाप्यभेदहीनत्वात् तमःप्रकाशवदित्यनुमिते अभेदायोग्यत्वं प्रयोजकमिति शङ्कायां तन्निरासाय अभेदायोग्यत्वं साधनव्यापकत्वात् अनुपाधिरित्यभिप्रेत्य विरुद्धस्वभावयोरिति पदं वदति भाष्यकारः । तदपि साधूक्तमिति द्योतयति । सहावस्थानायोग्यतायागम्यत्वकथनेन द्रष्टव्यम् । रूपदर्शनास्पाष्ट्यं स्वरूपमतो रूपदर्शनास्पाष्ट्येन तमसोऽनुवृत्तिर्वक्तुं न शक्यत इत्याशङ्क्य तथा सति सर्वत्राप्यस्पाष्ट्यं स्यान्न तथा दृश्यत इत्याह -

इतरत्र च स्पष्टमिति ।

सहावस्थानासहावस्थानयोग्यत्वादितियोग्यत्वात् तमःप्रकाशयोर्दृष्टान्तत्वं मा भूत् , तमःप्रकाशशब्दाभ्यां तमोलेशभूतछायां प्रकाशैकदेशात् पथो इति तथोपलक्ष्य तयोः सहावस्थानायोग्यत्वात् दृष्टान्तत्वमुच्यते भाष्यकारेणेत्याशङ्क्य तत्रापित - वपि इति सहावस्थानयोग्यत्वमस्तीत्याह -

तथा छायायामपीति ।

छायायामौष्ण्यमुपलभ्यमानं स्वधर्मित्वेन आतपस्यापि तत्रावस्थानं सूचयति इति, एतावदुक्तौ छायाया औष्ण्यं स्वरूपमत औष्ण्यसद्भावेनातपसद्भावकल्पना न युक्तेत्याशङ्क्य तथा सति मध्याह्नेऽपराह्णे छायानुगतौअनुगतैष्ण्य इतिष्ण्यस्यैकरूप्यं स्यान्न तथा दृश्यते इत्याह –

तारतम्येनेति ।

तर्हि तमःप्रकाशशब्दाभ्यां छायातपावुपलक्ष्य पश्चाच्छायानुगतशैत्यमातपानुगतौष्ण्यं च लक्षितलक्षणयोपादाय तयोः सहावस्थानायोग्यत्वात् दृष्टान्तत्वमुच्यते भाष्यकारेणेत्याशङ्क्य तयोरपि सहावस्थानयोग्यत्वमस्तीत्याह -

एतेन शीतोष्णयोरपीति ।

पक्षान्तरं निराकृत्य स्वाभिमतपक्षान्तरमुपादत्ते सिद्धान्ती

उच्यते परस्परेत्यादिना ।

सर्वसाधारणत्वात् प्रमेयत्वशब्दवाच्यत्ववत् परस्परात्मत्वायोग्यत्वस्य विरोधत्वं न सम्भवतीत्याशङ्क्य जातिव्यक्त्यादौ वृत्त्यभावमितरेतरभावायोग्यत्वस्य दर्शयति -

न जातिव्यक्त्योरिति ।

परमार्थतः ।

परमार्थस्थल इत्यर्थः ।

तेनेति -

परस्परात्मत्वायोग्यत्वहेतुनेत्यर्थः ।

इतरस्मिन् सति इतरभावानुपपत्तिरिति । सहावस्थानाभाव उच्यत इति शङ्कां व्यावर्त्य ऐक्यतादात्म्ययोरभावोऽर्थ इत्याह –

इतरेतरसम्भेदात्मकत्वस्येति ।

भ्रमस्थले ऐक्यतादात्म्याभावोऽध्यासाभावभावे हेतुक इतिहेतुक इति मत्वा सोऽध्यासाध्यासभाव इतिभाव एव हेतुरिति चोदयति -

कथमिति ।

प्रमाणस्थले ऐक्यतादात्म्ययोरभावोऽध्यासध्यासभावे इतिभावे हेतुत्वेन मयोक्त इति स्पष्टीकुर्वन् प्रमाणस्थलेऽपि द्वयोरैक्यभावः स्पष्ट इति कृत्वा अंशांशिभावेन तादात्म्याभावमुपपादयति -

स्वतस्तावदित्यादिना ।

अस्यायमर्थः, प्रपञ्चस्थले तादात्म्यं सम्भवति तत्र चिज्जडयोरुभयोर्द्रव्यत्वादेव जातिव्यक्ति गुणगुणिभावासम्भवाच्चैतन्यस्यानादित्वादपरिणामित्वाच्च कार्यकारणत्वासम्भवादेव कार्यकारणभावासम्भवात् , चैतन्यस्यासङ्गत्वादेव विशिष्टस्वरूपत्वासम्भवादेभिराकारैस्तादात्म्यासम्भवः प्रसिद्ध इत्यङ्गीकृत्य प्रमाणस्थले अंशांशिभावेन अतादात्म्यं दर्शयतीति । स्वतः स्वाभाविक इत्यर्थः ।

आगन्तुकत्वेऽपि क्षीरस्य दधिभाववत् न निर्हेतुको युष्मदंश इत्याह –

अपरिणामित्वादिति ।

चन्दनस्य जलसंसर्गात् दौर्गन्ध्यवद्धेतुतोऽपि न युष्मदंश इत्याह –

निरञ्जनत्वादिति ।

असङ्गत्वादित्यर्थः ।

न परतः ।

नागन्तुक इत्यर्थः ।

विषयस्यापीति ।

अनात्मनोऽपीत्यर्थः ।

समत्वात् ।

आत्मना चेतनत्वेन समत्वादित्यर्थः ।

विषयत्वहानेः

- प्रत्यक्षगोचरगोचत्व इतित्वहानेरित्यर्थः । ।

न परतश्चितेरिति ।

अनात्मानं प्रत्यागन्तुकांशत्वे जडत्वं स्यात् , चित्वादेव नांश इत्यर्थः ।

कषायद्रव्यगतलोहित्यं यथा पटः स्वीकरोति तथा आत्मगतमेव चैतन्यचैतन्यमानात्मेतिमनात्मा स्वाङ्गत्वेन स्वीकुर्यादिति तत्राह –

चितेरप्रतिसङ्क्रमत्वादिति ।

सर्वगतनिरवयवस्यात्मनः सङ्क्रमायोगादिति भावः ।

एवं स्थित इति ।

आत्मानात्मनोरभेदाभावे सतीत्यर्थः ।

इतिशब्दस्य परिसमाप्तिद्योतकत्वं व्यावर्तयति -

इतिशब्दो हेत्वर्थ इति ।

इतरेतर भावानुपपत्तेरध्यासाभावं प्रति सत्ताहेतुत्वं दर्शयति ।

यस्मादेवमिति ।

अस्मत्प्रत्यये योऽनिदमंशमंशत्यत्रेति इति ।

अस्मत्प्रत्यये अहमिति प्रतीयमाने अहंप्रत्ययविषय इत्यर्थः ।

अहंप्रत्ययविषय इत्युक्ते अहङ्कारचेतनौ प्रतीयेते । तत्राहङ्कारं व्यावर्तयति -

अनिदमंश इति ।

एवमुक्ते प्राभाकराभिमतात्मनोऽपि कर्मत्वाभावादेव अनिदमंशत्वमस्तीति तं व्यावर्तयति -

चिदिति ।

एतावदुक्तौ आश्रयभूतजडसहत्वं प्रतीयते तद्व्यावर्तयति -

एकरस इति ।

चिदेकरसत्वेऽपि साङ्ख्याभिमतात्मनोऽनुमेयत्वमस्तीति तद्व्यावर्तयति -

अनिदमंश इति ।

व्याख्येयपदत्रयगतसप्तम्याः अर्थमाह –

तस्मिन्निति ।

अहङ्कारादिशरीरान्तस्य अहमिति प्रतीयमानत्वात् कथं युष्मत्वमित्याशङ्क्य प्रयोक्तारं प्रतीदमिति ग्राह्यत्वं स्वरूपेण अहमिति ग्राह्यत्वमपरोक्षत्वं च यस्य भवति तस्य युष्मत्वं स्यात् । तल्लक्षणं देहादेरप्यस्तीत्याह -

तद्बलेति ।

तस्यात्मचैतन्यस्य बलेन प्रतिबिम्बेन निर्भास्यत्वादपरोक्षतया वेद्यत्वात् प्रयोक्तुर्भाष्यकाराख्यात्मनः विवेकावस्थायामाहमितिमहमिति ग्राह्यत्वाच्च लक्षणतो युष्मदर्थत्वं देहादेरित्यर्थः ।

मनुष्याभिमानस्य ।

मनुष्याद्यभिमानस्य अभिमन्यमानस्य देहादेरित्यर्थः ।

अध्यासशब्दस्य अधिहास इति आसः अध्यासः इति निर्वचनेन प्राप्ताधाराधेयभावाभिधायित्वं व्यावर्त्याभिमतमर्थमाह -

सम्भेद इवावभास इति ।

इवशब्द आभासार्थः ।

अहमित्यभिमन्यमानस्येत्युक्त्या अध्यस्तत्वमुक्तम् । पुनरप्यभिमन्यमानस्य सम्भेद इवेति चाध्यस्तत्वमुक्तम् । अतोऽध्यस्तस्याध्यस्तत्वमसङ्गतमित्याशङ्क्य तद्विधाभिमान एव सम्भेद इवावभासस्याध्यास इत्याह -

स एवेति ।

विषयाध्यास इति -

धर्म्यध्यास इत्यर्थः ।

विना विषयाध्यासेनेति ।

श्रोत्रमहं चक्षुरहमिति श्रोत्रादिधर्म्यध्यासेनेत्यर्थः ।

अकर्मतया सिद्धं प्राभाकराभिमतजडरूपात्माख्यविषयिणं व्यावर्तयति -

चैतन्यस्य तद्धर्माणां चेत्यर्थ इति ।

ननु विषयिण इत्यत्र विषयीत्युक्ते प्राभाकराभिमतजडरूपविषयिणं प्राप्तं व्यावर्तयति -

चैतन्येति ।

परिणामिब्रह्मवादिनाङ्गीकृतचिज्जडात्मत्वं व्यावर्तयति -

एकरसस्येति ।

नित्यत्वमिति

सत्यत्वमित्यर्थः । ।

पृथगिवेति ।

अन्तःकरणवृत्त्युपाधिनिमित्ततया नानेवावभासन्त इत्यर्थः ।

अध्यासशब्दस्य पूर्वमेवार्थोऽभिहितः । किमिदानीमर्थोक्तिरित्याशङ्क्य मिथ्याज्ञाननिमित्त इत्यत्र मिथ्याशब्दस्यानिर्वचनीयत्वनिश्चयादत्रापि मिथ्याशब्देन अनिर्वचनीयत्वस्याभिधानादध्यास इति च तस्यैवाभिधानात् अध्यासो मिथ्येति पुनरुक्तिस्स्यात् । अतःअताः इति पुनरुक्ततया अध्यासशब्दस्य स्वार्थप्रच्युतौ प्राप्तायां पूर्वोक्त एवार्थ इत्याह -

अध्यासो नामेति ।

अध्यासो भवितुं युक्तम् , मिथ्यात्वादित्यन्वयं व्यावर्त्य अध्यासो मिथ्येत्यन्वयमाह -

स मिथ्येति भवितुं युक्तमिति ।

तं तथा सोऽध्यास इति विधिः प्राप्त इत्याशङ्क्य मिथ्याशब्दस्य अर्थान्तरमस्तीत्याह -

मिथ्याशब्दो द्व्यर्थ इति ।

अध्याअध्यामुद्दिश्य इतिसमुद्दिश्य मिथ्यात्वं विधेयमिति दर्शयितुंदेशयितुमिति पूर्वं मिथ्याशब्दस्योपादानं कृतम् । इदानीं भवितुंशब्दस्य अन्वयं वक्तुं मिथ्याशब्दमादत्ते -

मिथ्येति ।

भवितुं युक्तमिति ।

मिथ्येति कृत्वा अध्यासो भवितुं युक्तमिति व्याहतोक्तिं व्यावर्तयति -

अभाव एवेति ।

अध्यासो मिथ्येति भवितुं युक्तमिति भाष्येणाध्यासापह्नवः क्रियते, किं वा अध्याससद्भावमङ्गीकृत्य तस्य लोकसिद्धकादाचित्कशुक्तिरजताद्यध्यासे दृष्टसादृश्यादिकारणाभावादसम्भव उच्यत इति विकल्प्य कारणाभावादसम्भवं प्राप्तमङ्गीकरोति -

यद्यप्येवमिति ।

तर्हि असम्भव एव स्यादिति आशङ्क्य आत्मनि अहङ्काराद्यध्यासस्य प्रवाहरूपेणानादित्वात् इदं प्रथमरजताद्यध्यासकारणाभावेनासम्भवो नास्ति । प्रवाहरूपेणोत्पद्यमानमध्यवर्तिज्वालायां प्रथमज्वालाकारणाभावेन असम्भवाभाववदित्यभिप्रेत्याह -

तथापि नैसर्गिक इति ।

नैसर्गिक इत्यनपनोद्यत्वमुच्यत इति शङ्कां निरस्य अनादित्वं तस्यार्थ इत्याह -

प्रत्यगनुबन्धीति ।

आत्मा तावदनादिः, तस्मिन् कार्यरूपेण संस्काररूपेण वा अध्यासस्य प्रवाहव्यभिचाराभावादध्यासोऽनादिरित्यर्थः ।

प्रत्यक्सम्बन्धीत्युक्ते प्राभाकराभिमतप्रत्यग्रूपेण च सम्बन्धं प्राप्तं व्यावर्तयति -

चैतन्येति ।

चैतन्यमध्याससाक्षित्वेन अन्यथासिद्धं न त्वध्याससम्बन्धित्वेनाधिष्ठानमिति तदपनुदति -

सत्तेति ।

सत्ताया जडविशिष्टत्वान्नाध्यासं प्रत्यधिष्ठानत्वमिति शङ्काव्यावृत्त्यर्थं जडाद्विभजते -

मात्रेति ।

सत्तामनुसृत्यात्यन्ततिरोधानमकृत्वा बध्नाति । चिदानन्दाच्छादकत्वेन चिदानन्दावाच्छादकत्वेन इति बध्नातीत्याह -

अनुबन्धीति ।

अध्यासापह्नवपरं भाष्यमिति पक्षेऽपि अपह्नवो न शक्य इत्याह -

अयमिति ।

प्रत्यक्षम् इत्यर्थः ।

प्रमेयापह्नवं कुर्वता मया प्रमाणस्यापह्नवः क्रियत एव इत्याशङ्क्य विलक्षणाकारवत्तया विलक्षणशब्दोल्लिखितत्वेन च प्रमाणं प्रसिद्धमित्याह -

अहमिदं ममेदमिति ।

अध्यास आक्षिप्तः, लोकव्यवहारस्समाधीयत इति असङ्गतोक्तिः प्राप्तेति, नेत्याह -

युष्मदस्मदोरितरेतराध्यासात्मको लोकव्यवहार इति ।

तेनेत्यादेरयमर्थः, कादाचित्कशुक्तिरजतादौ सिद्धकारणाभावेनानाद्यध्यासो नोपालम्भमर्हति । आगन्तुकघटादिकारणाभावेन अनाद्यात्मन उपलम्भाभाववदिति ।

लोकत इति कर्मव्युत्पत्त्या देहादिरूपार्थाध्यासे लोकशब्दो वर्तत इत्याह -

लोक इति ।

मनुष्योऽहमितीति ।

व्यवहारशब्दस्य भावव्युत्पत्त्याऽज्ञानसाध्यासवाचित्वं दर्शयति -

व्यवहरणं व्यवहार इति ।

लोकश्चासौ व्यवहारश्च इति लोकव्यवहार इति कर्मधारयं व्यावर्त्य लोकविषयो व्यवहारो लोकव्यवहार इत्याह -

लोक इतीति ।

व्यवहारशब्दस्य अभिज्ञाभिवदनोपादानार्थक्रियाभिधायित्वात् कथं ज्ञानाध्यासवाचित्वमित्याशङ्क्य इहाभिज्ञाभिवदनाख्यशब्दोल्लिखितज्ञानमात्राभिधायित्वात् ज्ञानाध्यासवाचित्वं युक्तमित्याह -

मनुष्योऽहमिति अभिमान इत्यर्थ इति ।

अहमिति प्रतिभासस्याध्यासत्वे द्व्याकारतया अवभासेत । द्व्याकारत्वाभावान्नाध्यासत्वमित्याशङ्काव्यावर्तकत्वेन इतरेतराविवेकेनेति पदमुपादेयम् । भिन्नपदार्थप्रतीतावितरेतराविवेकः कुत इत्याकाङ्क्षायां सत्यानृते मिथुनीकृत्येति पदमुपादेयम् । तदाकाङ्क्षाक्रममनादृत्योपादत्ते -

सत्यानृते मिथुनीकृत्येति ।

स्वरूपेण सत्ये संसर्गविशिष्टतया अनृते च यथा व्यवहारःयथाच्हरतः इति तथा मिथुनीकृत्येति वा, सत्यमसत्यं च मिथुनीकृत्य इति वा निर्वाह इति सन्देहे सत्यमसत्यं चेति निर्वाह इत्याह -

सत्यमिति ।

पदच्छेदेन ।

सत्यमिति सत्यवाक्यमुच्यत इति शङ्कामपनुदति -

अनिदमिति ।

प्राभाकराभिमतात्मानं व्यावर्तयति -

चैतन्यमिति ।

तावत्युक्ते साङ्ख्याभिमतानुमेयात्मनः प्राप्तिं व्युदस्यति -

अनिदमिति ।

अनृतमित्युक्ते अनृतवाक्यप्राप्तिं व्युदस्यति -

युष्मदर्थम् इति ।

अध्यस्तस्वरूपत्वादित्युक्ते आत्मनोऽप्यनृतत्वं प्राप्तं व्युदस्यति -

स्वरूपतोऽपीति ।

संसर्गस्याध्यस्तत्वात्संसर्गविशिष्टरूपेणात्मनोऽध्यस्तत्वम्, न तु स्वरूपेण । जडस्य तु स्वरूपेण संसृष्टरूपेण चाध्यस्तत्वादनृतत्वमिति भावः ।

क्त्वाप्रत्ययादेव भेदपौर्वापर्यप्रतीतेरध्यासमिथुनीकरणलोकव्यवहारशब्दानांव्यवहारलोकार्थत्वमिति एकार्थत्वमयुक्तमिति तत्राह -

अध्यस्य मिथुनीकृत्येति ।

क्रियान्तरानुपादानादित्युक्ते लोकव्यवहार इति व्यवहारलक्षण क्रियान्तरोपादानमस्तीत्याशङ्क्य भुक्त्त्वा व्रजतीतिवत् समानकर्तृकक्रियान्तरानुपादानादित्याह -

`भुक्त्त्वा व्रजतीतिवद्’ इति ।

`लोकव्यवहार’ इत्युक्ते स किं भवतीति साकाङ्क्षत्वात् व्यवहारस्य समानकर्तृकक्रियान्तरलाभाय ‘अनेन क्रियत’ इत्यध्याहर्तव्यमित्याशङ्क्य ‘नैसर्गिकपदेनाकाङ्क्षापूरणं’ नाध्याहर्तव्यमित्याह -

अध्यस्य नैसर्गिकोऽयमिति ।

तावन्मात्रोपसंहारादिति ।

स्वरूपकथनमात्रेणोपसंहारादित्यर्थः ।