अतः चैतन्यं पुरुषस्य स्वरूपम् इतिवत् व्यपदेशमात्रं द्रष्टव्यम् ।
मिथ्याज्ञाननिमित्तः इति ।
मिथ्या च तदज्ञानं च मिथ्याज्ञानम् । मिथ्येति अनिर्वचनीयता उच्यते । अज्ञानमिति च जडात्मिका अविद्याशक्तिः ज्ञानपर्युदासेन उच्यते । तन्निमित्तः तदुपादानः इत्यर्थः ॥
व्यपदेशमात्रमिति ।
अध्यासस्य स्वगतविशेषअत्र रिक्तं दृश्यतेभेदात् भेदं विशिष्टेषु क्रमवर्तिप्रतिपत्तितः पौर्वापर्यं चापेक्ष्य चैतन्यं पुरुषस्य इति षष्ठीवदुपचारमात्रात् , क्त्वा प्रत्यय इत्यर्थः ।
पूर्वं स्वरूपतोऽप्यध्यस्तस्वरूपत्वादित्युक्तं स्वग्रन्थे । तत्राध्यस्तस्वरूपत्वं कुतोऽवगम्यत इत्याकाङ्क्षायां तन्निवृत्तये मिथ्याज्ञानोपादानत्वेन मिथ्यात्वं भाष्यकारैरुक्तमिति परिजिहीर्षुरुपादत्ते -
मिथ्याज्ञाननिमित्त इति ।
मिथ्यारूपज्ञाननिमित्त इत्युक्ते मिथ्याज्ञानात् संस्कारः, ततो मिथ्याज्ञानमिति नैसर्गिकपदेनोक्तत्वात् तेन पौनरुक्त्यमाशङ्क्य मिथ्यारूपज्ञाननिमित्त इति पदच्छेदो न भवति । किन्तु मिथ्यारूपाज्ञाननिमित्त इतीममर्थं समासोक्त्या व्यक्तीकरोति -
मिथ्या चेति ।
मिथ्याशब्दस्य अपह्नववाचित्वेन पूर्वत्र निर्णीतत्वात् असद्रूपाज्ञानं कारणमित्यापततीति, नेत्याह -
मिथ्येतीति ।
अज्ञानं नाम ज्ञानाभावः, तत्र मिथ्याज्ञानमित्युक्ते ज्ञानाभावो भावविलक्षणोऽनिर्वचनीय इत्युक्तं स्यात् , तदपाकरोति -
अज्ञानमित्यादिना ।
तत्राज्ञानमिति जडमुच्यत इत्युक्ते साङ्ख्याभिमतस्वतन्त्रजडस्याज्ञानत्वं प्राप्तं व्युदस्यति -
शक्तिरिति ।
परिणामब्रह्मवादिना अङ्गीकृतसत्यशक्तिं व्यावर्तयति -
अविद्येति ।
अविद्येत्युक्ते शून्यवाद्यभिमतार्थात्पञ्चमाकाराविद्यां प्राप्तां व्युदस्यति -
शक्तिरिति ।
पूर्णभावरूपेत्यर्थः ।
तर्हि एवंभूतस्याज्ञानशब्दवाच्यत्वं कुत इति, ज्ञानविरोधित्वादित्याह -
ज्ञानपर्युदासेनेति ।
सदसदनिर्वचनीयेष्वेकैकस्मिन्नर्थं गृहीत्वा तेभ्यो व्यतिरिक्तमर्थं गृहीत्वा वर्तत इत्यर्थः । पञ्चमाकाराविद्या शून्यवाद्यभिमता काचिद्विद्यत इति द्रष्टव्यम् ।