कथं पुनः नैमित्तकव्यवहारस्य नैसर्गिकत्वम् ? अत्रोच्यते ; अवश्यं एषा अविद्याशक्तिः बाह्याध्यात्मिकेषु वस्तुषु तत्स्वरूपसत्तामात्रानुबन्धिनी अभ्युपगन्तव्या ; अन्यथा मिथ्यार्थावभासानुपपत्तेः । सा च न जडेषु वस्तुषु तत्स्वरूपावभासं प्रतिबध्नाति ; प्रमाणवैकल्यादेव तदग्रहणसिद्धेः, रजतप्रतिभासात् प्राक् ऊर्ध्वं च सत्यामपि तस्यां स्वरूपग्रहणदर्शनात् , अतः तत्र रूपान्तरावभासहेतुरेव केवलम् । प्रत्यगात्मनि तु चितिस्वभावत्वात् स्वयम्प्रकाशमाने ब्रह्मस्वरूपानवभासस्य अनन्यनिमित्तत्वात् तद्गतनिसर्गसिद्धाविद्याशक्तिप्रतिबन्धादेव तस्य अनवभासः । अतः सा प्रत्यक्चिति ब्रह्मस्वरूपावभासं प्रतिबध्नाति, अहङ्काराद्यतद्रूपप्रतिभासनिमित्तं च भवति, सुषुप्त्यादौ च अहङ्कारादिविक्षेप संस्कारमात्रशेषं स्थित्वा पुनरुद्भवति, इत्यतः नैसर्गिकोऽपि अहङ्कारममकारात्मको मनुष्याद्यभिमानो लोकव्यवहारः मिथ्याज्ञाननिमित्तः उच्यते, न पुनः आगन्तुकत्वेन ; तेन नैसर्गिकत्वं नैमित्तिकत्वेन न विरुध्यते ॥
अध्यासस्य कारणात्मना नैसर्गिकत्वम् , कार्यव्यक्तिरूपेणकार्यव्यक्तिरूपे इति नैमित्तिकत्वमुक्तम् । अज्ञानअज्ञानं नैमित्तिकेतिनिमित्तककार्यव्यक्तिरूपेणैव नैसर्गिकत्वमुक्तं मत्वा चोदयति -
कथं पुनरिति ।
अध्यासस्य कारणात्मना नैसर्गिकत्वमुक्तं कारणत्वयोग्यभावरूपाज्ञानसिद्धौ सिद्ध्यतीति मत्वा आत्मनि भावरूपमज्ञानं साधयति -
अवश्यमित्यादिना ।
अत्र शक्तिशब्देन भावत्वं विवक्षति ।
अविद्याशक्तिरित्यभ्युपगन्तव्या,
भावरूपेत्यभ्युपगन्तव्येत्यर्थः ।
भावरूपत्वे अनुमानमस्तीति मत्वाह -
अवश्यमिति ।
प्रत्यक्षमस्तीत्याह -
एषेति ।
बाह्याध्यात्मिकेषु वस्तुष्विति ।
आध्यात्मिकान्तःकरणदेहाद्याश्रयत्वेन बाह्यघटादिविषयत्वेन च प्रतीयमानेत्यर्थः ।
निरूप्यमाणे देहघटाद्यवच्छिन्नसत्वमाश्रयविषयावित्याह -
तत्स्वरूपेत्यादिना ।
तत्स्वरूपानुबन्धिनीत्युक्ते अज्ञानकार्यघटदेहादीनामज्ञानं स्वरूपम् । अतोऽज्ञानानुबन्ध्यज्ञानमित्युक्तं स्यात् , तदपाकरोति -
सत्तेति ।
जडविशिष्टसत्तां व्यावर्तयति -
मात्रेति ।
प्रमाणज्ञानं कस्यचिद्भावस्य निवर्तकम् , अप्रकाशितार्थप्रकाशकत्वात् , भावरूपतमोनिवर्तकप्रदीपवदित्यनुमानमत्राभिप्रेतम् । अहमज्ञो मामन्यं च न जानामीति अपरोक्षानुभवोऽत्र प्रत्यक्षमभिप्रेतं द्रष्टव्यम् ।
भावत्वे अर्थापत्तिमाह -
अन्यथेति ।
मिथ्यार्थादवभासानुपपत्तेरित्यर्थः ।
घटादिषु नाज्ञानमावरणम्, प्रकाशप्राप्त्यभावात् । तत्र कथं बाह्यवस्तुष्विति तद्विषयत्वं भण्यत इति । शङ्कायामावरणाभावमङ्गीकरोति -
सा चेति ।
चैतन्यप्रकाशेन जडानां नित्यवदन्वयादेव प्रकाशप्राप्तौ सत्यामावरणाभावे कथमनवभास इति तत्राह -
प्रमाणवैकल्यादिति ।
जडप्रमाणस्य चैतन्यस्य आवरणाज्जडानामनवभाससिद्धेरित्यर्थः ।
अज्ञानस्य जडाख्यविषयाच्छादकत्वे प्रमाणाच्छादकत्वमेवाभ्युपेयम् अनवभासनिर्वाहायेत्याशङ्क्य बहूनां विषयाणां बह्वज्ञानैः बह्वावरणकल्पनाद्वरमेकचैतन्यलक्षणप्रमाणस्यैकाज्ञानेनैकावरणकल्पनमित्याह -
प्रमाणवैकल्यादेवेत्येवकारेण ।
किञ्च शुक्त्यज्ञाने संस्थितेऽपि शुक्तित्वावभासाद् बाह्यवस्तुष्वनावरकमित्याह -
रजतप्रतिभासादिति ।
इदानीं रजतप्रतिभासात् तत्कारणत्वेन प्राक्तस्यामविद्यायां सत्यामेव तस्य भाववदूर्ध्वं च रजतप्रतिभासात् तत्कारणत्वेन स्यात् , सत्यामप्यविद्यायां शुक्तिस्वरूपदर्शनादिति योजना ।
कं च तर्ह्यतिशयमज्ञानजन्यमाश्रित्य बाह्यवस्तुष्विति अनात्मविषयमज्ञानं दर्शितमिति तत्राह -
अतस्तत्रेति ।
शुक्त्यज्ञानस्य घटाच्छादकत्वाभावे तस्मिन् रूपान्तरावभासहेतुर्नभवति तद्वच्छुक्तावपि स्यादित्याशङ्क्य घटावच्छिन्नचैतन्यगतत्वाभावात् तत्र विपर्ययहेतुत्वाभावः, शुक्तौ तु हेतुरेवेत्येवकारेणाह ।
तर्हि विपर्ययहेतुत्वे चैतन्य इव आच्छादकत्वमपि स्यादित्यशङ्क्य सत्यम्, शुक्तीदमंशावच्छिन्नचैतन्येन रूप्यादिविपर्ययस्य मुख्यसम्बन्धः इदमंशेन सम्बन्धाभास एवेत्याह -
केवलमिति ।
आत्मन्यप्यज्ञाननिमित्तमावरणं दुर्निरूपमिति तत्राह -
प्रत्यगात्मनि त्विति ।
प्रत्यगात्मन्यनवभासोऽविद्याशक्तिप्रतिबन्धादित्युक्ते प्राभाकराद्यभिमतात्मनि सर्वगतत्वाद्यनवभासोऽविद्याशक्तिप्रतिबन्धाभावेऽपि दृश्यत इत्याशङ्कां व्यावर्तयति -
चितिस्वभावत्वादिति ।
साङ्ख्याभिमतात्मनि भावरूपाविद्याप्रतिबन्धाभावेऽपि अनवभासोऽस्तीति तद्व्यावर्तयति -
स्वयम्प्रकाशमान इति ।
प्रत्यगात्मन्यनवभासो नास्तीति, नेत्याह -
ब्रह्मस्वरूपेति ।
आत्मनोऽन्यस्मिन्नध्यस्तत्वादधिष्ठानस्यावृतत्वेन, ब्रह्मरूपानवभासः, न स्वगतेनावरणेनेत्याशङ्क्य आत्मनोऽधिष्ठानान्तराभावात् तदावरणेन आत्मनो ब्रह्मरूपानवभासासम्भव इत्याह -
अनन्यनिमित्तत्वादिति ।
तद्गतेनानवभास इत्युक्ते अहङ्कारादिविपर्यासेन अनवभास इति स्यात् , तद्व्यावर्तयति -
निसर्गसिद्धेति ।
परिणामब्रह्मवाद्यभिमतसत्यानादिशक्तिं व्यावर्तयति -
अविद्येति ।
विद्याभावं व्यावर्तयति -
शक्तीति ।
भ्रान्तिसंस्कारप्रतिबन्धात् अनवभासं व्यावर्तयति एवकारेण ।
आवरणविपर्यासकारणत्वानुपपत्त्या अज्ञानं भावरूपत्वेन कल्प्यमिति मत्वाह -
अतः सेति ।
न केवलमावरणविपर्यासहेतुत्वाय भावरूपाज्ञानकल्पना, किन्तु अग्रहण मिथ्याज्ञानतत्संस्कारकर्मणां सुषुप्तिप्रलयादौ ब्रह्मरूपानवभासहेतुत्वायोगात् सुषुप्तादासुषुप्ताद्यनवभासेतिवनवभासहेतुत्वाय विपर्याससंस्काराश्रयत्वाय च भावरूपाज्ञानं कल्प्यमित्याह -
सुषुप्तादौ चेति ।
अहङ्कारादेर्मिथ्याज्ञानविषयस्य मिथ्याज्ञानस्य च सुषुप्तौ स्थित्यभावात् तत्संस्कारस्य च भ्रान्तरूप्यसंस्कारवत् भ्रमाधिष्ठानतत्त्वाभ्रमाधिष्ठानत्वेतिनवभासहेतुत्वायोगात् ग्रहणस्य आत्मनः स्वरूपचैतन्यत्वादेव नित्यत्वात् अग्रहणाभावात् कादाचित्कग्रहणाभावस्य स्वयम्प्रकाशसंवेदनेऽनवभासहेतुत्वाभावात् कर्मणामपि संस्काररूपत्वात् इतरसंस्कारवत् अनवभासहेतुत्वायोगात् भावरूपाज्ञानेनैव सुषुप्तादावनवभास इति भावः ।
विक्षेपसंस्कारात्मना आत्मनि सुषुप्तादौ अज्ञानस्यावस्थाने किं प्रमाणमित्याशङ्क्य पुनर्भ्रमरूपेणोत्पत्त्या कल्पत इत्याह -
पुनरुद्भवतीति ।
अतो नैसर्गिकोऽपीत्यनेन कारणरूपेणेत्यर्थः ।
नैमित्तिककार्यरूपमाह -
अहङ्कारममकारेत्यादिना ।
न पुनरागन्तुकत्वेनेति ।
आगन्तुककार्यरूपेण नैसर्गिकत्वं नोच्यत इत्यर्थः ।