‘अन्योन्यधर्मांश्च’ इति
पृथक् धर्मग्रहणं धर्ममात्रस्यापि कस्यचिदध्यास इति दर्शयितुम् ।
इतरेतराविवेकेन इति ॥
एकतापत्त्यैव इत्यर्थः ।
कस्यचिदिति ।
काणत्वमूकत्वादेरित्यर्थः ।
अविवेकशब्देन विवेकविरोध्यैक्यमुच्यत इति व्याकरोति ।
एकतापत्त्यैवेत्यर्थ इति ।