पञ्चपादिका
वक्तव्यकाशिका
 
कस्य धर्मिणः कथं कुत्र अध्यासः ? धर्ममात्रस्य वा क्व अध्यासः ? इति भाष्यकारः स्वयमेव वक्ष्यति

अहमिदं ममेदम् इति

अध्यासस्य स्वरूपं दर्शयतिअहमिति तावत् प्रथमोऽध्यासःननु अहमिति निरंशं चैतन्यमात्रं प्रतिभासते, अंशान्तरम् अध्यस्तं वायथा अध्यस्तांशान्तर्भावः, तथा दर्शयिष्यामःननु इदमिति अहङ्कर्तुः भोगसाधनं कार्यकरणसङ्घातः अवभासते, ममेदमिति अहङ्कर्त्रा स्वत्वेन तस्य सम्बन्धःतत्र किञ्चित् अध्यस्तमिव दृश्यतेउच्यते ; यदैव अहङ्कर्ता अध्यासात्मकः, तदैव तदुपकरणस्यापि तदात्मकत्वसिद्धिः हि स्वप्नावाप्तराज्याभिषेकस्य माहेन्द्रजालनिर्मितस्य वा राज्ञः राज्योपकरणं परमार्थसत् भवति, एवम् अहङ्कर्तृत्वप्रमुखः क्रियाकारकफलात्मको लोकव्यवहारः अध्यस्तः नित्यशुद्धबुद्धमुक्तस्वभावे आत्मनिअतः तादृग्ब्रह्मात्मानुभवपर्यन्तात् ज्ञानात् अनर्थहेतोः अध्यासस्य निवृत्तिरुपपद्यते, इति तदर्थविषयवेदान्तमीमांसारम्भः उपपद्यते

केवलस्यात्मनो देहादिषु सर्वेष्वारोप्यत्वमुत केवलात्मनोऽन्तःकरण एवाध्यासःएव केवलाध्यास इति । देहादिषु अन्तःकरणविशिष्टात्मन इति संशये तन्निरासाय भाष्यकारो वक्ष्यतीत्याह -

कस्य धर्मिण इति ।

आत्मनो देहादिभिः सर्वैः तादात्म्याध्यासः, उत अहङ्कारेणैक्याध्यासः, इतरेण तादात्म्याध्यास इति च सन्देहे वक्ष्यतीत्याह -

कथमिति ।

देहादीनामात्मनि वा, आत्मनि अध्यस्तान्तःकरणोपहितात्मनि वा अध्यास इति संशयनिरासाय वक्ष्यतीत्याह -

कुत्र चाध्यास इति ।

क्वाध्यास इति ।

कस्मिन्नुदाहरण इत्यर्थः ।

अहमिदमिति किमध्यासोऽस्तीति, नेत्याह -

अहमिति ।

प्रथमोऽध्यास इति ।

तावदिति ।

अनाद्यज्ञानाध्यासातिरिक्तकादाचित्काध्यासानां मध्य इत्यर्थः ।

नन्वहमित्यत्राहमिति चैतन्यमवभासत इत्युक्ते चैतन्यस्याध्यस्तत्वेनाधिष्ठानत्वेन वोपयोगः स्यात् , अतश्चैतन्यावभासो नाध्यासाभावहेतुरित्याशङ्क्य, सत्यम् , इदं रजतमित्यध्यास इवाकारान्तरानवभासो दोष इत्याह -

चैतन्यमात्रमिति ।

अहमनुभवामीत्यत्राधारत्वेनाधेयत्वेन च चैतन्यद्वयमवभासत इति, नेत्याह -

निरंशमिति ।

अहं जानामीत्यत्र बुद्धितदाश्रयत्वेनाकारद्वयमवभासत इत्याशङ्क्य तदुभयाकारस्यारोप्यत्वेन अधिष्ठानत्वेन चोपयोगः । अध्यस्तत्वेनमध्यस्तत्वेनेति तदनर्हत्वेन च उभयाकारो न प्रतीयत इत्याह -

नांशान्तरमिति नाशान्तरमिति ।

वाशब्दश्चार्थे ।

दर्शयिष्याम इति

अहङ्कारटीकायामित्यर्थः । ।

स्थूलशरीरस्य आत्मन्यध्यस्तत्वे अहअध्यस्तत्वोनहमितिमित्यधिष्ठानभूतात्मतत्वैकतयोतत्त्वैकोपलभ्यत्वमितिपलभ्यत्वम् आत्मनःसाकाशापृथक् इतिसकाशात् पृथक्सत्वेनानुपलभ्यत्वमात्मतत्वावबोधेनात्ममात्रतया लीनत्वं च शुक्तिरूप्यस्येव वक्तव्यम्, न तु तदस्ति, इन्द्रियैरिदन्तया पृथक्सत्वेनोपलभ्यत्वात् , केवलसाक्षिणा तु आत्मतयैव सिद्ध्यभावात् भूतेषु विलयश्रवणाच्च, अतो नाध्यस्तत्वमित्यभिप्रायेणाक्षिपति -

नन्विदमिति ।

अत्रेदमिति पृथगुपलम्भं दर्शयति -

भोगसाधनमिति ।

आत्मतया अनुपलम्भं दर्शयति । ममत्वेन गृहीतत्वात् पुत्रक्षेत्राद्यपि नाध्यस्तमित्याक्षिपति -

ममेदमिति चेति ।

अहं कर्तेति अहङ्कारेण इतरेतराध्यासेन सम्पिण्डित आत्मेत्यर्थः ।

अभिमन्यमानस्थूलदेहस्य तदन्तर्वर्त्यभिमन्तुश्च असत्यत्वे माहेन्द्रजालदृष्टान्तः । तस्यैव दृष्टान्तत्वे तद्वत् स्थूलसूक्ष्मशरीरयोरुभयोः मिथ्यात्वं विवक्षितं विहाय साक्षिचैतन्यस्यापि अविशेषाशङ्कायां प्रतीतेऽर्थे किञ्चित् कस्यचित् सत्यतया अवशेषेसत्येतया अवशेष सह स्वप्नमिति स्वप्नमुदाहरति । स्वप्नस्यैवोदाहरणत्वे तद्वत् साक्ष्यवशेषं विहाय सूक्ष्मशरीरमप्यबाध्यतया शिष्यत इति शङ्कायां तस्यापि बाध्यत्वे माहेन्द्रजालोदाहरणम् । पूर्वं भाष्यगतलोकशब्देन प्राणिनिकाय उच्यत इति व्याख्यातम् । इदानीं स्वीयलोकशब्देन साक्षिणा दृश्यं सर्वं स्वयमाह -

अहङ्कर्तृत्व इत्यादिना ।

जन्यफलकल्पनाधिष्ठानत्वाय आत्मनि तद्विपरीताकारं दर्शयति -

नित्येति ।

कारकल्पनाधिष्ठानत्वाय विपरीताकारं दर्शयति -

मुक्तेति ।

लोकव्यवहाराख्यप्रपञ्चतदज्ञानयोरध्यस्तत्वात् ब्रह्मात्मताख्यविषयो बन्धनिवृत्तिरूपप्रयोजनं चोपपद्यत इत्याह -

अतस्तादृगिति ।

ब्रह्मात्मानुभव इत्यनेन विषयस्योपादानं द्रष्टव्यम् ।

विषयप्रयोजनयोरुपपत्तेः शास्त्रारम्भकर्तव्यता सिद्धेत्याह -

तदर्थविषयेति ।

स एव अर्थः प्रयोजनं विषयश्च यस्य वेदान्तमीमांसरम्भस्य सः तदर्थविषयवेदान्तमीमांसारम्भ इति योजना ।