पञ्चपादिका
वक्तव्यकाशिका
 
कस्य धर्मिणः कथं कुत्र च अध्यासः ? धर्ममात्रस्य वा क्व अध्यासः ? इति भाष्यकारः स्वयमेव वक्ष्यति । ‘अहमिदं ममेदम् इति’ अध्यासस्य स्वरूपं दर्शयति । अहमिति तावत् प्रथमोऽध्यासः । ननु अहमिति निरंशं चैतन्यमात्रं प्रतिभासते, न अंशान्तरम् अध्यस्तं वा । यथा अध्यस्तांशान्तर्भावः, तथा दर्शयिष्यामः । ननु इदमिति अहङ्कर्तुः भोगसाधनं कार्यकरणसङ्घातः अवभासते, ममेदमिति च अहङ्कर्त्रा स्वत्वेन तस्य सम्बन्धः । तत्र न किञ्चित् अध्यस्तमिव दृश्यते । उच्यते ; यदैव अहङ्कर्ता अध्यासात्मकः, तदैव तदुपकरणस्यापि तदात्मकत्वसिद्धिः । न हि स्वप्नावाप्तराज्याभिषेकस्य माहेन्द्रजालनिर्मितस्य वा राज्ञः राज्योपकरणं परमार्थसत् भवति, एवम् अहङ्कर्तृत्वप्रमुखः क्रियाकारकफलात्मको लोकव्यवहारः अध्यस्तः नित्यशुद्धबुद्धमुक्तस्वभावे आत्मनि । अतः तादृग्ब्रह्मात्मानुभवपर्यन्तात् ज्ञानात् अनर्थहेतोः अध्यासस्य निवृत्तिरुपपद्यते, इति तदर्थविषयवेदान्तमीमांसारम्भः उपपद्यते ॥

केवलस्यात्मनो देहादिषु सर्वेष्वारोप्यत्वमुत केवलात्मनोऽन्तःकरण एवाध्यासःएव केवलाध्यास इति । देहादिषु अन्तःकरणविशिष्टात्मन इति संशये तन्निरासाय भाष्यकारो वक्ष्यतीत्याह -

कस्य धर्मिण इति ।

आत्मनो देहादिभिः सर्वैः तादात्म्याध्यासः, उत अहङ्कारेणैक्याध्यासः, इतरेण तादात्म्याध्यास इति च सन्देहे वक्ष्यतीत्याह -

कथमिति ।

देहादीनामात्मनि वा, आत्मनि अध्यस्तान्तःकरणोपहितात्मनि वा अध्यास इति संशयनिरासाय वक्ष्यतीत्याह -

कुत्र चाध्यास इति ।

क्वाध्यास इति ।

कस्मिन्नुदाहरण इत्यर्थः ।

अहमिदमिति किमध्यासोऽस्तीति, नेत्याह -

अहमिति ।

प्रथमोऽध्यास इति ।

तावदिति ।

अनाद्यज्ञानाध्यासातिरिक्तकादाचित्काध्यासानां मध्य इत्यर्थः ।

नन्वहमित्यत्राहमिति चैतन्यमवभासत इत्युक्ते चैतन्यस्याध्यस्तत्वेनाधिष्ठानत्वेन वोपयोगः स्यात् , अतश्चैतन्यावभासो नाध्यासाभावहेतुरित्याशङ्क्य, सत्यम् , इदं रजतमित्यध्यास इवाकारान्तरानवभासो दोष इत्याह -

चैतन्यमात्रमिति ।

अहमनुभवामीत्यत्राधारत्वेनाधेयत्वेन च चैतन्यद्वयमवभासत इति, नेत्याह -

निरंशमिति ।

अहं जानामीत्यत्र बुद्धितदाश्रयत्वेनाकारद्वयमवभासत इत्याशङ्क्य तदुभयाकारस्यारोप्यत्वेन अधिष्ठानत्वेन चोपयोगः । अध्यस्तत्वेनमध्यस्तत्वेनेति तदनर्हत्वेन च उभयाकारो न प्रतीयत इत्याह -

नांशान्तरमिति नाशान्तरमिति ।

वाशब्दश्चार्थे ।

दर्शयिष्याम इति

अहङ्कारटीकायामित्यर्थः । ।

स्थूलशरीरस्य आत्मन्यध्यस्तत्वे अहअध्यस्तत्वोनहमितिमित्यधिष्ठानभूतात्मतत्वैकतयोतत्त्वैकोपलभ्यत्वमितिपलभ्यत्वम् आत्मनःसाकाशापृथक् इतिसकाशात् पृथक्सत्वेनानुपलभ्यत्वमात्मतत्वावबोधेनात्ममात्रतया लीनत्वं च शुक्तिरूप्यस्येव वक्तव्यम्, न तु तदस्ति, इन्द्रियैरिदन्तया पृथक्सत्वेनोपलभ्यत्वात् , केवलसाक्षिणा तु आत्मतयैव सिद्ध्यभावात् भूतेषु विलयश्रवणाच्च, अतो नाध्यस्तत्वमित्यभिप्रायेणाक्षिपति -

नन्विदमिति ।

अत्रेदमिति पृथगुपलम्भं दर्शयति -

भोगसाधनमिति ।

आत्मतया अनुपलम्भं दर्शयति । ममत्वेन गृहीतत्वात् पुत्रक्षेत्राद्यपि नाध्यस्तमित्याक्षिपति -

ममेदमिति चेति ।

अहं कर्तेति अहङ्कारेण इतरेतराध्यासेन सम्पिण्डित आत्मेत्यर्थः ।

अभिमन्यमानस्थूलदेहस्य तदन्तर्वर्त्यभिमन्तुश्च असत्यत्वे माहेन्द्रजालदृष्टान्तः । तस्यैव दृष्टान्तत्वे तद्वत् स्थूलसूक्ष्मशरीरयोरुभयोः मिथ्यात्वं विवक्षितं विहाय साक्षिचैतन्यस्यापि अविशेषाशङ्कायां प्रतीतेऽर्थे किञ्चित् कस्यचित् सत्यतया अवशेषेसत्येतया अवशेष सह स्वप्नमिति स्वप्नमुदाहरति । स्वप्नस्यैवोदाहरणत्वे तद्वत् साक्ष्यवशेषं विहाय सूक्ष्मशरीरमप्यबाध्यतया शिष्यत इति शङ्कायां तस्यापि बाध्यत्वे माहेन्द्रजालोदाहरणम् । पूर्वं भाष्यगतलोकशब्देन प्राणिनिकाय उच्यत इति व्याख्यातम् । इदानीं स्वीयलोकशब्देन साक्षिणा दृश्यं सर्वं स्वयमाह -

अहङ्कर्तृत्व इत्यादिना ।

जन्यफलकल्पनाधिष्ठानत्वाय आत्मनि तद्विपरीताकारं दर्शयति -

नित्येति ।

कारकल्पनाधिष्ठानत्वाय विपरीताकारं दर्शयति -

मुक्तेति ।

लोकव्यवहाराख्यप्रपञ्चतदज्ञानयोरध्यस्तत्वात् ब्रह्मात्मताख्यविषयो बन्धनिवृत्तिरूपप्रयोजनं चोपपद्यत इत्याह -

अतस्तादृगिति ।

ब्रह्मात्मानुभव इत्यनेन विषयस्योपादानं द्रष्टव्यम् ।

विषयप्रयोजनयोरुपपत्तेः शास्त्रारम्भकर्तव्यता सिद्धेत्याह -

तदर्थविषयेति ।

स एव अर्थः प्रयोजनं विषयश्च यस्य वेदान्तमीमांसरम्भस्य सः तदर्थविषयवेदान्तमीमांसारम्भ इति योजना ।