‘आह — कोऽयमध्यासो नाम’
इत्याद्यारभ्य अध्याससिद्धिपरं भाष्यम् । तत्रापि
'कथं पुनरविद्यावद्विषयाणि’ इत्यतः
प्राक् अध्यासस्वरूपतत्सम्भावनाय, तदादि तत्सद्भावनिर्णयार्थम् इति विभागः । यद्येवं तत्स्वरूपतत्सम्भावनोपन्यासः पृथक् न कर्तव्यः ; न हि अनिर्ज्ञातरूपम् असम्भाव्यमानं च निर्णीयते च इति, दुःसम्पादं विशेषतः अध्यक्षानुभवनिर्णये, उच्यते — न देहेन्द्रियादिषु अहंममाभिमानवत एव प्रमातृत्वप्रदर्शनमात्रेण तस्य अध्यासात्मकता सिध्यति ; तत् कस्य हेतोः ? लोके शुक्तिरजतद्विचन्द्रादिवत् अध्यासानुभवाभावात् । बाधे हि सति स भवति, नेह स विद्यते । तस्मात् अध्यासस्य लक्षणमभिधाय तल्लक्षणव्याप्तस्य सद्भावः कथनीयः ॥
बन्धस्याध्यस्तत्वात् सूत्रिते विषयप्रयोजने सम्भवत इति अध्यासं सिद्धवद्धेतुत्वेनोपोदत्ते पूर्वभाष्यम् । उत्तरभाष्यं तु सर्वलोकप्रत्यक्ष इत्यन्तम् अध्यासं साधयतीत्याह –
कोऽयमिति ।
अध्याअध्यासस्यैकार्थ इतिसाख्यैकार्थसिद्धिपरत्वे भाष्यभेदप्रसिद्धिः न स्यादित्याशङ्क्य अवान्तरतात्पर्येण लक्षणसम्भावनाप्रमाणत्रयविषयत्वात् भाष्यभेद इत्याह –
तत्रापीति ।
कोऽयमिति भाष्ये तन्त्रेणोक्ताक्षेपप्रश्नपरिहारत्वेन एकराशित्वात् लक्षणसम्भावनाभाष्यद्वयस्य सहोपादानम् -
यद्येवमिति ।
अध्यासोऽस्त्येवेति सद्भावनिर्णयरूपप्रमाणमुच्यते चेदित्यर्थः ।
तद्रूपः तत्सम्भावनोपन्यासो न कर्तव्य इत्युक्ते अध्यासो नास्तीति भ्रमनिरासाय प्रमाणोक्तिवत् न सम्भवति, सङ्कीर्णमिति भ्रमद्वयनिरासाय लक्षणसम्भावने वक्तव्ये इत्याशङ्कायां सत्यां प्रमाणोक्त्या उक्तिसिद्धेः प्रमाणात् पृथङ्नवक्तव्ये इत्याह -
पृथगिति ।
प्रमाणस्यास्ति सम्भवति व्यावृत्तमिति चाकारत्रयवत्वाभावादेव तद्भ्रमनिवर्तकत्वासम्भवात् पृथग्वक्तव्य इत्याशङ्क्य आकारत्रयवत्वाभावे अभिप्रमितेऽर्थे सङ्कीर्णं न सम्भवति चेति भ्रमप्राप्त्यभावात् न वक्तव्य इत्याह -
न ह्यनिर्ज्ञातेति ।
अनुमानसिद्धे परमाण्वादौ लक्षणाद्यपेक्षास्तीत्याशङ्क्य प्रत्यक्षसिद्धे नापेक्षेत्याह –
दुःसम्पादमिति ।
विशेषत इति ।
असाधारणाकारेण व्यावृत्ततयेत्यर्थः ।
प्रदर्शनमात्रेणेति
प्रमातृत्वादिव्यवहारकाले आत्मनो देहादिष्वहंममाभिमानोऽस्त्येवेति प्रदर्शनमात्रेण तदास्याभिमानस्यानिर्वचनीयस्याध्यासत्वं न सिद्ध्यतीत्यर्थः । ।
अभिमानस्यैवाध्यासात्मकत्वादभिमानोऽस्तीति साधकेन प्रमाणेनाध्यासात्मकत्वं सिद्ध्यतीति चोदयति -
तत्कस्य हेतोरिति ।
कस्माद्धेतोरित्यर्थः
प्रमाणे सति किमिति मिथ्यात्वानुभवाभाव इति, प्रमाणान्तराधीनत्वादित्याह -
बाधे हीति ।
प्रत्यक्षादयस्त्वात्मनि अनात्मावभासे प्रमाणमिति भावः ।
अन्यस्यान्यात्मतावभासोऽस्तीति निश्चयस्य बाधनिमित्तविवेकाधीनत्वाद्बाधोऽप्यस्तीति तत्राह -
नेह स इति ।
यौक्तिकपरोक्षबाधेऽपि भ्रमनिवर्तकापरोक्षबाधो नास्तीति भावः ।
तर्हि अपरोक्षभ्रमबाधाय अपरोक्ष(भ्रम)बाधकज्ञानमेव सम्पादनीयं किमिति लक्षणोक्तिरित्याशङ्क्य प्रसिद्धाध्यासस्य लक्षणमभिधाय तल्लक्षणव्याप्तमिदमित्युक्तेऽपि अध्यासात्मकत्वाख्यमिथ्यात्वं स्पष्टं भवति इति मत्वाऽऽह –
तस्मादिति ।
सद्भावः कथनीय इति
प्रमाणोक्त्या सद्भावः कथनीय इत्यर्थः । ।