पञ्चपादिका
वक्तव्यकाशिका
 
ननु एवमपि तल्लक्षणस्य वस्तुनः सद्भावमात्रम् इह कथनीयम् ; हि यत्र यस्य सद्भावः प्रमाणतः प्रतिपन्नः, तत्रैव तस्य असम्भावनाशङ्का, येन तद्विनिवृत्तये तत्सम्भावना अपरा कथ्येत ; सत्यमेवं, विषयविशेषस्तु प्रयत्नेन अन्विच्छद्भिरपि अनुपलभ्यमानकारणदोषे विज्ञाने अवभासमानोऽपि पूर्वप्रवृत्तेन सकललोकव्यापिना निश्चितेन प्रमाणेन असम्भाव्यमानतया अपोद्यमानो दृश्यतेतद्यथाऔत्पातिकः सवितरि सुषिः, यथा वा माहेन्द्रजालकुशलेन प्रासादादेः निगरणम्एवम् अविषये असङ्गे केनचिदपि गुणादिना अध्यासहेतुना रहिते निष्कलङ्कचैतन्यतया अन्यगतस्यापि अध्यासस्य अपनोदनसमर्थे अध्यासावगमः अविभाव्यमानकारणदोषः विभ्रमः इति आशङ्क्येत, तत् मा शङ्कि इति, सद्भावातिरेकेण सम्भवोऽपि पृथक् कथनीयः ; तदुच्यते ;

आह कोऽयमध्यासो नामइति

किंवृत्तस्य प्रश्ने आक्षेपे प्रयोगदर्शनात् उभयस्य इह सम्भवात् तन्त्रेण वाक्यमुच्चरितम्तत्रापि प्रथमं प्रश्नस्य प्रतिवचनं स्वरूपम् आख्याय पुनः तस्यैव सम्भवम् आक्षिप्य प्रतिविधत्तेतत्र एवंभूते विषये श्रोतॄणां सुखप्रबोधार्थं व्याचक्षाणाः प्रतिवादिनं तत्रस्थमिव समुत्थाप्य तेन आक्षिप्तम् अनेन पृष्टमिति मत्वा प्रत्युक्तं, पुनरसौ स्वाभिप्रायं विवृणोति इति आक्षेपमवतार्य प्रतिविधानं प्रतिपद्यन्तेसर्वत्र एवंविधे ग्रन्थसन्निवेशे एष एव व्याख्याप्रकारः

निवर्त्यभ्रमसद्भावात् सम्भावना वाच्येत्याशङ्क्य भ्रमप्राप्तिरेव नास्तीत्याह -

न हि यत्र यस्येति ।

यत्र यस्य सद्भावः प्रतिपन्नः तत्र तस्याअसम्भवना इतिसम्भावनाशङ्का नास्तीत्युक्ते दर्पणप्रतिपन्नमुखस्य तत्रासम्भावना दृश्यत इत्याशङ्कायाम्, तद्व्यावर्तयति -

प्रमाणत इति ।

एवमुक्ते आत्मन्यनुमानादिप्रमाणसिद्धाविद्यायां व्यभिचारे तमपनुदति -

तत्रैवेति ।

अविद्याया न केवलमात्मन्येवासम्भावना, किन्तु जडे चासम्भावनेति भावः ।

काचोपाधिसन्निध्युपाधिसंश्लेषदूरत्वाख्यदोषचतुष्टयहीनं भ्रमकार्येण कल्प्यादृष्टदोषहीनं च ज्ञानं निरूप्यमाणे प्रमाणम्, तस्मिन् प्रतिपन्नस्यासम्भावना नास्ति । काचाद्यभावेऽपि कल्प्योऽदृष्टदोष इति । वृत्तिप्रतिभासतः प्रमाणज्ञाने प्रतिपन्नस्यासम्भावना स्यादित्याह –

सत्यमिति ।

रूप्यज्ञाने झटिति बाधया गम्यकाचदेवत् इतिकाचादिवत् सुषिरज्ञानस्य कारदोष इतिकारणदोषो नास्तीत्याह -

अनुपलभ्यमानेति ।

दर्पणसंस्थं मुखमिति ज्ञाने दर्पणोपाधेरन्वयव्यतिरेकानुसन्धानेन गम्योपाधिसंनिधिदोषवत् सुषिरज्ञानस्याप्युपाधिसन्निधिदोषो नास्तीत्याह –

अन्विच्छद्भिरपीति ।

ह्रस्वो वर्ण इति भ्रमे उपाधिभूतध्वनिसम्बन्धव्यतिरेकेण केवलवर्णोपलब्ध्यभावादेवोपाधेर्वर्णाद्यतिरेकानुसन्धानायोगो ध्वन्यन्तरसम्बन्धे दीर्घो भवति, ततोऽन्यध्वनिसम्बन्धे ह्रस्वो भवति इति उपाधिव्यभिचारानुसन्धानेन गम्योपाधिसंश्लेषदोषो नास्तीत्याह –

यत्नेनान्विच्छद्भिरपीति ।

पर्वताग्रस्थवृक्षाल्पत्वभ्रमे पर्वतारोहणेन गम्यं दूरत्वादिदोषमाह –

पूर्ववृत्तेनेति ।

पूर्वरजतज्ञानस्य उत्तरशुक्तिज्ञानविषयशुक्तावसम्भावनाहेतुत्वम्, न दृश्यत इत्याशङ्क्य ततो विशिनष्टि -

प्रवृत्तेनेति ।

प्रवाहरूपेण प्रवृत्तेनेत्यर्थः

पूर्वप्रवृत्तदर्पणस्थं मुखमिति ज्ञानम् उत्तरग्रीवास्थं मुखमिति ज्ञानविषयेनासम्भावनाहेतुरित्याशङ्क्य विशिनष्टि -

सकललोकव्यापिनेति ।

ह्रस्वोऽकार इति ज्ञानेन स एवायमकार इति ज्ञानविषयसर्वगतत्वनित्यत्वयोः नासम्भावनेत्याशङ्क्य विशिनष्टि -

निश्चितेनेति ।

सवितरि सुषिरप्रतिभासः कस्यचिदेवाल्पायुषः पुरुषस्य भवतीत्यतः सर्वजनप्रसिद्धोदाहरणमाह -

यथा वा माहेन्द्रेति ।

निगरणस्य झटिति बाधात् प्रतिभासतः प्रमाणविषयत्वं नास्तीति नाशङ्का, प्रसिद्धनिगरणस्यापि क्षणिकत्वात् सद्यो नाशो भवति, तद्वदत्रापि सद्यो नाश एवेति झटिति बाधाभावात् । अविषय इति शुक्तिवदारोप्येण सहैकज्ञानाविषय इत्यर्थः ।

असङ्ग इति ।

आत्मातिरिक्तस्य कृत्स्नस्याध्यस्तत्वात् आत्मन्येव दोषानुषङ्गो वक्तव्यः, सोऽपि नास्तीत्यर्थः ।

आरोप्येण गुणावयवसादृश्यमधिष्ठानस्य वक्तव्यम् , तच्च नास्तीत्याह -

केनचिदपि गुणागुणादिनेतिगुणदिनेति ।

अध्यास विरोध्यधिष्ठानयाथात्म्यावभासोऽप्यात्मनि विद्यत इत्याह –

निष्कलङ्कचैतन्यतयेति ।

शुक्तितत्त्वविषयवृत्तेरध्यासविरोधित्वादत्र अहं ब्रह्मास्मीत्यात्मतत्वविषयबुद्धिवृत्त्यभावादध्यासोऽस्तीत्याशङ्क्य तत्रापि शुक्तिबुद्धिप्रतिबिम्बिताजडबोधस्यैव निवर्तकत्वात् बोधात्मनि नाहङ्काराद्यध्यास इत्याह -

अन्यगतस्याप्यध्यासस्येति ।

अध्यासावगम इति ।

अध्यासोऽस्तीति साधकप्रमाणमित्यर्थः ।

तदुच्यत इति ।

तत्त्रितयं लक्षणं सम्भावनाप्रमाणं क्रमेणोच्यत इत्यर्थः ।

किं वृत्तस्येति ।

हिरण्यगर्भवाचिकशब्देन निष्पन्नं क इति पदं न, किन्तु किं शब्दनिष्पन्नमित्यर्थः ।

अनेकस्मिन्नर्थे प्रयोगदर्शनादेव यद्यपि तत्र शक्तिरस्ति, तथाप्येकस्मिन् प्रयोग एक एवार्थः स्यादित्याशङ्क्य उभयमप्यत्र विवक्षितमित्याह -

उभयस्य चेति ।

पूर्वभाष्ये अध्यास इत्युक्ते सामान्यज्ञानात् प्रश्नः सम्भवति । आत्मानात्मनोरध्यासआत्मनात्मनोरिति इत्युक्ते विशेषज्ञानादाक्षेपः सम्भवतीत्यर्थः ।

उभयमत्र विवक्षितं भवतु, तथाप्येकस्य वाक्यस्यार्थद्वये तात्पर्यं नास्तीत्याशङ्क्यात्र वाक्यद्वयमर्थद्वयपरतया तन्त्रेणोच्चरितमित्याह –

तन्त्रेणेति ।

परिहारोऽपि किं तन्त्रेण क्रियत इति, नेत्याह –

तत्रापीति ।

यद्यपि आक्षेपस्याध्यासस्वरूपापहारकत्वेन प्रबलत्वात् प्रथममाक्षेपः परिहार्यः । तथापि स्वरूपापरिज्ञाने आक्षेपस्यानुदयात् स्वरूपं प्रथममाख्येयमित्याह –

स्वरूपमाख्यायेति ।

इहेति ।

आत्मनीत्यर्थः ।

आहेति परोक्तिः किमर्थेत्याशङ्क्यापरोक्ष्यपर्यन्तत्वेन च प्रतिपादनीये ब्रह्मात्मविषये सुखप्रतिबोधनार्थं वादकथा प्रवर्त्यत इति प्रदर्शयितुमित्याह –

तत्रैवमिति ।

तेन कृतमभिप्रायमाक्षेपरूपमपि प्रश्नरूपमेवेति मत्वा प्रत्युक्तम्, पुनः पूर्ववाद्येवाक्षेपरूपेण विवृणोति इति पूर्ववादिमुखेनाक्षेपं कथं पुनरित्यादिनावतार्य प्रतिविधानं प्रतिपद्यन्त इति योजना ।

स्वरूपज्ञानाभावादनवसरदुःस्थोऽदुःस्थोऽपि यमाक्षेप इतियमाक्षेप इत्युक्ते पूर्ववादी स्वात्मनोऽप्राप्तकारित्वं बुद्ध्‍वा कुण्ठितमतिःकुण्ठितमिति इति प्रश्नपरिहारमप्यवगन्तुं न शक्नोतीति तथा नोक्तमिति मत्वा आह -

तेनेत्यारभ्य प्रत्युक्तमित्यन्तेन ।

आह कोऽयमित्यस्मिन् भाष्ये आक्षेपस्य कृतत्वादुत्तरस्मिन्नाक्षेपो न कार्य इत्याशङ्क्य - ‘सत्यम्, पूर्वभाष्ये कृत आक्षेपः सम्भावनाभाष्येणावतार्यते केवलमित्याह –

आक्षेपमवतार्येति ।

यदुक्तमित्यनुवादरूपेण किमिति नावतार्यत इत्याशङ्क्य आक्षेपमनूद्य परिहारोक्तौ मया प्रश्नाक्षेपौ सह कृतौ तद्विदित्वैव दुर्बलप्रश्नपरिहारं पूर्वं कृत्वा प्रबलमेवाक्षेपं पश्चात् परिहरति । अत आक्षेपस्य प्रथमप्राप्त्यभावेऽपि अज्ञानिना मया कृतोऽप्राप्त इति पूर्ववादी बुद्ध्‍वा वक्तुं कृतमतिराक्षेपपरिहारमवगन्तुं न शक्नोतीति नानुवादः कृतः इत्यभिप्रायेणाह –

पुनरसाविति ।

यद्यपि जल्पादिषु परोक्तिर्विद्यते तथाप्यर्थनिर्णयाय प्रवृत्ते ग्रन्थसन्निवेशे परोक्तिर्वादकथात्वसूचिकेति व्याख्येयमित्याह -

सर्वत्रैवंविध इति ।