‘स्मृतिरूपः परत्र पूर्वदृष्टावभासः’ इति
प्रश्नवाक्यस्थितम् अध्यासम् उद्दिश्य लक्षणम् अभिधीयते । तत्र परत्र इत्युक्ते अर्थात् परस्य अवभासमानता सिद्धा । तस्य विशेषणं स्मृतिरूपत्वम् । स्मर्यते इति स्मृतिः ; असंज्ञायामपि अकर्तरि कारके घञादीनां प्रयोगदर्शनात् । स्मर्यमाणरूपमिव रूपम् अस्य, न पुनः स्मर्यते एव ; स्पष्टं पुरोऽवस्थितत्वावभासनात् । पूर्वदृष्टावभासः इति उपपत्तिः स्मृतिरूपत्वे । न हि पूर्वम् अदृष्टरजतस्य शुक्तिसम्प्रयोगे रजतम् अवभासते । यतोऽर्थात् तद्विषयस्य अवभासस्यापि इदमेव लक्षणम् उक्तं भवति । कथम् ? तदुच्यते — स्मृतेः रूपमिव रूपमस्य, न पुनः स्मृतिरेव ; पूर्वप्रमाणविषयविशेषस्य तथा अनवभासकत्वात् । कथं पुनः स्मृतिरूपत्वम् ? पूर्वप्रमाणद्वारसमुत्थत्वात् । न हि असम्प्रयुक्तावभासिनः पूर्वप्रवृत्ततद्विषयप्रमाणद्वारसमुत्थत्वमन्तरेण समुद्भवः सम्भवति ॥
लक्षणभाष्ये लक्ष्याभिधायिपदाभावात् साकाङ्क्षत्वेनानर्थक्यमाशङ्क्य वाक्यं पूरयति -
प्रश्नवाक्यस्थितमिति ।
सर्वथापि त्विति भाष्ये परस्य परात्मतावभासोऽध्यास इति वक्ष्यति, तत्र कथमेकेनैव परशब्देन लक्षणं पूर्यत इति तत्राह -
तत्र परत्रेति ।
ज्ञानाध्यासस्य लक्षणकथनपरत्वं स्वयमेव भाष्यस्य प्रतीयत इति मत्वा अर्थाध्यासस्य लक्षणकथनपरत्वं दर्शयति -
अवभासमानतेति कर्मव्युत्पत्तिप्रदर्शनेन ।
तस्येति ।
अवभासमानपरस्येत्यर्थः ।
विशेषणत्वेनान्वयसिद्धये स्मृतिशब्दस्यापि कर्मव्युत्पत्तिमाह -
स्मर्यत इति ।
`अकर्तरि च कारके संज्ञायाम्'पा० सू० ३ - ३ - १९ इति सूत्रेण कर्तृव्यतिरिक्तकारके संज्ञायां घञादेर्विधानात् अत्र संज्ञायामगम्यमानायां क्तिन्प्रत्ययान्तस्मृतिशब्दस्य कथं कर्मपरतया व्युत्पादनमित्याशङ्क्य चकारादसंज्ञायामपि प्रयोगो भवेदित्युक्तमिति मत्वा आह –
असंज्ञायामपीति ।
रूपशब्दः किमर्थमित्याशङ्क्य स्मर्यमाणे वस्तुनि उपमासमासार्थ इत्याह -
स्मर्यमाणरूपमिवेति ।
ननु स्मर्यत एव रजतं न स्मर्यमाणसदृशमिति, नेत्याह -
न पुनः स्मर्यत एवेति ।
स्पष्टमवभासनादिति ।
अपरोक्षतया संसर्गज्ञानाधीनप्रवृत्तिहेतुतया चावभासनादित्यर्थः ।
पुरोऽवस्थितत्वावभासनादिति ।
इन्द्रियसम्प्रयोगजन्यज्ञानेन पुरोवर्तीदमंशसंसृष्टतयावभासनादित्यर्थः ।
ज्ञानमिति ।
पूर्वानुभवविशिष्टत्वेनाप्रतीतेः न स्मर्यमाणस्मर्यमाणत्वमितिरूप्यमित्यनुभूतार्थस्यैव प्रतीतेः स्मर्यमाणसदृशमेवेत्युपपत्तिपरं भाष्यमित्याह –
पूर्वदृष्टेति ।
पूर्वदृष्टस्यैवावभासः, न तु दर्शनस्येत्यर्थः ।
पूर्वदृष्टरजतस्य भ्रान्तौ प्रतीतिरन्यथाख्यातिपक्षे नानिर्वचनीयपक्षे, तत्र पूर्वदृष्टावभास इति कथमुच्यते इत्याशङ्क्य पूर्वदृष्टस्य रजतस्यैव न भ्रान्तौ प्रतीतिरुच्यते, किन्तु पूर्वं रजतद्रष्टुस्तत्संस्कारजन्यतया भ्रान्तौ रजतप्रतीतिर्नेतरस्येति विवक्षितमित्याह -
न हि पूर्वमिति ।
ज्ञानस्य स्मृतित्वात् , पूर्वानुभवविशिष्टतया बोधकत्वे वक्तव्ये अर्थस्यापि तद्विशिष्टतया बोध्यत्वेन स्मर्यमाणत्वमेव स्यादित्याशङ्क्याह -
यत इति ।
ज्ञानस्यापि संस्कारजन्यतया स्मृतिसदृशत्वमेव लक्षणमिति यतोऽतः पूर्वानुभवविशिष्टतया बोधकत्वाभावादर्थस्यापि तद्विशिष्टतया बोध्यत्वाभावात् संस्कारजत्वेन स्मर्यमाणसदृशत्वमेव लक्षणमित्यर्थः ।
अर्थादिति ।
भाष्यवाक्यसामर्थ्यादित्यर्थः ।
परत्रावभास्यमानः परः स्मर्यमाणसदृश इति स्मृतिरूपशब्दस्य पूर्वमर्थाध्यासलक्षणपरतया व्युत्पत्तिः कृता, अतो न ज्ञानाध्यासलक्षणपरत्वमिति चोदयति -
कथमिति ।
संस्कारजन्यत्वात् स्मृतिरेवेति तत्राह -
न पुनरिति ।
पूर्वप्रमाणविषयविशेष इति रूप्यव्यक्तिरुच्यते, व्यक्तेरनवभासकत्वात् रूप्यज्ञानं न स्मृतिरित्यर्थः ।
तथानवभासकत्वादिति ।
परोक्षदेशकालविशिष्टत्वेन साक्षात् स्मृतिवत् अनवभासकत्वादित्यर्थः ।
कथं पुनः स्मृतिरूपत्वमिति ।
स्मृतिसदृशत्वं पुनः कथमित्यर्थः । पूर्वप्रमाणमेव स्मृतिरूपत्वमास्थायार्थप्रकाशकं, तस्य स्मृतिरूपत्वप्राप्तौ द्वारतयावतिष्ठते संस्कारः, तस्मात् पूर्वप्रमाणद्वारमिति संस्कार उच्यते, संस्कारजन्यत्वात् स्मृतिसदृशत्वमित्यर्थः ।
स्मृतित्वाभावे संस्कारजन्यत्वमपि न स्यादित्याशङ्क्य सम्प्रयोगजज्ञानादन्येषां संस्कारजन्यत्वमस्तीत्याह -
न ह्यसम्प्रयुक्तावभासिन इति ।
पूर्वप्रमाणद्वारसमुत्थत्वमन्तरेणावभासिनो न सम्भव इत्येतावदुक्तौ निर्विकल्पकज्ञानसंस्कारस्य ज्ञानजनकत्वं नास्ति, कथमनुद्भवसंस्कारेण विना ज्ञानानामिति शङ्का स्यात् , तद्व्यावर्तयति -
प्रवृत्तेति ।
प्रवाहरूपेणानृतेनेत्यर्थः
एवमुक्ते शुक्तिज्ञानस्य पूर्वप्रवृत्तरजतज्ञानसंस्कारजन्यत्वं प्राप्तं व्युदस्यति -
तद्विषयेति ।
एवमुक्तौ धारावाहिकोत्तरज्ञाने अनैकान्तिकमिति, नेत्याह -
असम्प्रयुक्तावभासिन इति ।