ननु स्मृतेः प्रमोषो न सम्भवति इत्युक्तं, तथा च तन्त्रान्तरीया आहुः — ‘अनुभूतविषयासम्प्रमोषा स्मृतिः’ इति । का तर्हि गतिः शुक्तिसम्प्रयोगे रजतावभासस्य ? उच्यते — न इन्द्रियजज्ञानात् संस्कारजं स्मरणं पृथगेव स्मरणाभिमानशून्यं समुत्पन्नं, किन्तु एकमेव संस्कारसहितात् इन्द्रियात् । कथमेतत् ? उच्यते — कारणदोषः कार्यविशेषे तस्य शक्तिं निरुन्धन्नेव संस्कारविशेषमपि उद्बोधयति ; कार्यगम्यत्वात् कारणदोषशक्तेः । अतः संस्कारदुष्टकारणसंवलिता एका सामग्री । सा च एकमेव ज्ञानम् एकफलं जनयति । तस्य च दोषोत्थापितसंस्कारविशेषसहितसामग्रीसमुत्पन्नज्ञानस्य उचितमेव शुक्तिगतमिथ्यारजतमालम्बनमवभासते । तेन मिथ्यालम्बनं ज्ञानं मिथ्याज्ञानम् , न स्वतो ज्ञानस्य मिथ्यात्वमस्ति, बाधाभावात् । भिन्नजातीयज्ञानहेतुसामग्र्योः कथमेकज्ञानोत्पादनमिति चेत् , नैष दोषः ; दृश्यते हि लिङ्गज्ञानसंस्कारयोः सम्भूय लिङ्गिज्ञानोत्पादनं, प्रत्यभिज्ञानोत्पादनञ्च अक्षसंस्कारयोः । उभयत्रापि स्मृतिगर्भमेकमेव प्रमाणज्ञानम् ; संस्कारानुद्बोधे तदभावात् । तस्मात् लिङ्गदर्शनमेव सम्बन्धज्ञानसंस्कारमुद्बोध्य तत्सहितं लिङ्गिज्ञानं जनयतीति वक्तव्यम् । अयमेव च न्यायः प्रत्यभिज्ञानेऽपि । न पुनः ज्ञानद्वये प्रमाणमस्ति । तथा भिन्नजातीयज्ञानहेतुभ्यो नीलादिभ्य एकं चित्रज्ञानं निदर्शनीयम् । तत्र लैङ्गिकज्ञानप्रत्यभिज्ञाचित्रज्ञानानामदुष्टकारणारब्धत्वाद् यथार्थमेवावभासः, इह तु कारणदोषादतथाभूतार्थावभासः इति विशेषः । एवंच सति नानुभवविरोधः ; प्रतिभासमानस्य रजतस्यैवावलम्बनत्वात् , अतो मायामयं रजतम् । अथ पुनः पारमार्थिकं स्यात् , सर्वैरेव गृह्येत ; यतो न हि पारमार्थिकं रजतं कारणदोषं स्वज्ञानोत्पत्तावपेक्षते । यद्यपेक्षेत, तदा तदभावे न तत्र ज्ञानोत्पत्तिः ; आलोकाभावे इव रूपे । मायामात्रत्वे तु मन्त्राद्युपहतचक्षुष इव दोषोपहतज्ञानकरणा एव पश्यन्तीति युक्तम् । किञ्च नेदं रजतम् इति बाधोऽपि मायामयत्वमेव सूचयति । कथम् ? तेन हि तस्य निरुपाख्यतापादनपूर्वकं मिथ्यात्वं ज्ञाप्यते । ‘नेदं रजतं मिथ्यैवाभासिष्ट’ इति । न च तत् केनचिद्रूपेण रूपवत्त्वेऽवकल्पते ; सम्प्रयुक्तशुक्तिवत् निरस्यमानविषयज्ञानवच्च ॥ ननु न व्यापकमिदं लक्षणम् ; स्वप्नशोकादावसम्भवात् , न हि स्वप्नशोकादौ केनचित् सम्प्रयोगोऽस्ति, येन परत्र परावभासः स्यात् । अत एव वासनातिरिक्तकारणाभावात् स्मृतिरेव, न स्मृतिरूपता, अत्रोच्यते न तावत् स्मृतित्वमस्ति ; अपरोक्षार्थावभासनात् । ननु स्मृतिरूपत्वमपि नास्ति ; पूर्वप्रमाणसंस्कारमात्रजन्यत्वात् , अत्रोच्यते ; उक्तमेतत् पूर्वप्रमाणविषयावभासित्वमात्रं स्मृतेः स्वरूपमिति । तदिह निद्रादिदोषोपप्लुतं मनः अदृष्टादिसमुद्बोधितसंस्कारविशेषसहकार्यानुरूपं मिथ्यार्थविषयं ज्ञानमुत्पादयति । तस्य च तदवच्छिन्नापरोक्षचैतन्यस्थाविद्याशक्तिरालम्बनतया विवर्तते । ननु एवं सति अन्तरेव स्वप्नार्थप्रतिभासः स्यात् ? को वा ब्रूते नान्तरिति ? ननु विच्छिन्नदेशोऽनुभूयते स्वप्नेऽपि जागरण इव, न तदन्तरनुभवाश्रयत्वे स्वप्नार्थस्योपपद्यते, ननु देशोऽपि तादृश एव, कुतस्तत्सम्बन्धात् विच्छेदोऽवभासते ? अयमपि तर्ह्यपरो दोषः, नैष दोषः ; जागरणेऽपि प्रमाणज्ञानादन्तरपरोक्षानुभवात् न विषयस्था अपरोक्षता भिद्यते ; एकरूपप्रकाशनात् । अतोऽन्तरपरोक्षानुभवावगुण्ठित एव जागरणेऽप्यर्थोऽनुभूयते ; अन्यथा जडस्य प्रकाशानुपपत्तेः । यथा तमसाऽवगुण्ठितो घटः प्रदीपप्रभावगुण्ठनमन्तरेण न प्रकाशीभवति, एवम् । यः पुनर्विच्छेदावभासः, स जागरेऽपि मायाविजृम्भितः ; सर्वस्य प्रपञ्चजातस्य चैतन्यैकाश्रयत्वात् , तस्य च निरंशस्य प्रदेशभेदाभावात् । प्रपञ्चभेदेनैव हि तत् कल्पितावच्छेदं सदवच्छिन्नमिव बहिरिव अन्तरिव प्रकाशते । अथवा दिगाकाशौ मनोमात्रगोचरौ सर्वत्राध्यासाधारौ विद्येते इति न परत्रेति विरुध्यते ॥
दूषणमप्युक्तमनुस्मारयत्यन्यथाख्यातिवादी -
ननु स्मृतेपं. पादिकायां ननु स्मृतेरित्येवास्तिरपीति ।
तन्त्रान्तरीयाः साङ्ख्या इत्यर्थः ।
का पुनर्गतिरिति वदता गत्यन्तराभावादख्यातिरेव समाश्रयणीयेति स्वपक्षे पर्यवसानं क्रियते उत सर्वतो निरुद्धः सद्गतिमेव पृच्छसीति विकल्प्य स्वपक्षे पर्यवसानं न कार्यमित्याह सिद्धान्ती -
उच्यत इत्यादिनाइत्याहेदित इतिसमुत्पन्नमित्यन्तेन ।
प्रश्नपक्षेऽपि गमनं गतिरिति व्युत्पत्त्या ज्ञानमुक्त्वा तदेकं किं वा द्वयमिति पृच्छ्यते । गम्यत इति गतिरिति व्युत्पत्त्या ज्ञानविषयस्य सत्यत्वमसत्यत्वं वेति पृच्छ्यते । गम्यत अनयेति गतिरिति व्युत्पत्त्या सामग्रीमुक्त्वा किं दोषः सामग्री उत सम्प्रयोगः यदि वा संस्कार इति पृच्छ्यत इति विकल्प्य सामग्रीप्रश्नस्य परिहारमाह -
किन्त्वेकमेव संस्कारसंस्कारसंहितात् इतिसहितादिन्द्रियादिति ।
एकमेवेति ज्ञानस्यैक्यं सामग्र्यैक्ये हेतुत्वेनोच्यत इति द्रष्टव्यम् ।
संस्कारजन्यत्वे इन्द्रियजन्यत्वे द्वयजन्यत्वे च स्मृतिवद्ग्रहणवत् प्रत्यभिज्ञावत् सम्यग्ज्ञानत्वमेव स्यात् , कथं भ्रान्तित्वमिति चोदयति -
कथमेतदिति ।
दोषोपेतेन्द्रियसंस्कारजातत्वात् भ्रान्तित्वमित्याह -
उच्यते, कारणदोष इति ।
दोषसद्भावे किं प्रमाणमित्याशङ्क्य शुक्तित्वादि विशेषज्ञानलक्षणकार्यविशेषजनक शक्तिप्रतिबन्धः कल्पक इत्याह -
कार्यविशेषे शक्तिं निरुन्धन्नेवेति ।
संस्कारविशेषोद्बोधश्च स्वहेतुत्वेन दोषकल्पक इत्याह –
संस्कारविशेषमप्युद्बोधयतीति ।
दोषः प्राप्तकार्यस्य प्रतिबन्धकः स्यात् , कथं संस्कारोद्बोधकः स्यादिति तत्राह –
कार्यगम्यत्वादिति ।
संवलितेति ।
संवलनरूपेत्यर्थः ।
ज्ञानस्य एकत्वानेकत्वविषयप्रश्नस्य परिहारमाह -
सा चेति ।
कथम् एकत्वं ज्ञानस्येति तत्राह –
एकफलमिति ।
एकफलत्वादित्यर्थः ।
विषयस्यैकत्वानेकत्वसत्यत्वमिथ्यात्वविषयप्रश्नस्य परिहारमाह -
तस्य चेति ।
अत्र घटपटाविति ज्ञानस्यैकत्वेऽप्यर्थस्य भिन्नत्ववत् ज्ञानैक्येऽप्यर्थभेदः स्यादिति शङ्काव्यावृत्त्यर्थमर्थैक्यं पृथगुच्यते अथवा अर्थैक्ये तात्पर्यं नास्ति किन्तु रजतस्य मिथ्यात्वमुच्यते । अयमर्थः सम्प्रयोगजन्यत्वाच्छुक्तिकालम्बनत्वमुचितं संस्कारविशेषजन्यत्वाद्रजतालम्बनत्वमुचितम्, दोषजन्यत्वान्मिथ्यालम्बनत्वमुचितम्, सम्प्रयोगादित्रयसन्घातेन जन्यत्वात् शुक्तिकागतमिथ्यारजतालम्बनत्वमुचितमिति यवत्शुक्तिकागतालम्बनत्वमुचितम् ।
अवभासत इति ।
अत्र सामग्रीशब्देन सम्प्रयोग उच्यत इति द्रष्टव्यम् ।
ज्ञानस्य मिथ्यात्वप्रसिद्धिनिर्वाहाय च मिथ्यालम्बनत्वमभ्युपेयमित्याह -
तेन मिथ्यालम्बनमिति ।
तेन मिथ्यार्थस्योचितालम्बनत्वेनेत्यर्थः ।
बाधाभावादिति ।
नेदं ज्ञानमिति बाधाभावादित्यर्थः ।
स्मृतिज्ञानं प्रति निरपेक्षकारणसंस्कारस्य, ग्रहणज्ञानं प्रति निरपेक्षकारणसम्प्रयोगस्य च कथं सम्भूयैकज्ञानहेतुत्वमिति चोदयति ज्ञानद्वयवादी -
भिन्नजातीयेति ।
निरपेक्षसंस्कारसम्प्रयोगाभ्यां सह सापेक्षदोषस्य एकज्ञानकारणत्वं न सम्भवतीति पृच्छ्यते किं वा निरपेक्षसंस्कारसम्प्रयोगयोः सम्भूयैकज्ञानकारणत्वं न सम्भवतीति पृच्छ्यत इति विकल्पोभयत्रापि इतिविकल्प्य उभयत्रापि दृष्टान्तं दर्शयति -
दृश्यते हीत्यादिना ।
लिङ्गं व्याप्तिज्ञानसापेक्षं व्याप्तिसंस्कारोव्याप्तिसंस्कारा इति निरपेक्षः, तदुभयं सम्भूय लिङ्गिज्ञानकारणं दृष्टमित्यर्थः ।
तत्रापि ज्ञानकारणभेदात् ज्ञानभेद इति, नेत्याह –
उभयत्रापीति ।
स्मृतिःस्मृतिस्मर्यमाणामिति स्मर्यमाणं व्यक्तिरूपं गर्भो यस्याग्नित्वादिसामान्यस्य तत् स्मृतिगर्भम्, स्मृतिःस्मृतिस्मरणमिति स्मरणं गर्भो यस्य सामान्यज्ञानस्य तत् स्मृतिगर्भमेकमेव प्रमाणज्ञानमिति चानुमाने योजना । प्रत्यभिज्ञायां स्मृतेर्गर्भं यत्तं स्मृतिगर्भमिति निर्वचनम् । पूर्वकालोपलक्षिततया स्मर्यमाणे गृह्यमाणतया अयमित्यपरोक्षाकारस्य स्वरूपतया गर्भरूपेणावस्थानमैक्यज्ञानोदयकाले अस्ति । पश्चादयमेव स इति स्मर्यमाणस्य परोक्षस्य अपरोक्षोऽयमित्याकारमात्रत्वविधानादैक्यप्रमित्युदयनान्तरीयकतया परोक्षस्यापरोक्ष्यविरोधादेव अपगतत्वात् पारोक्ष्यहेतुस्मृतेरप्यपगतत्वात् प्रत्यभिज्ञाज्ञानं केवलमपरोक्षज्ञानं भवति । तत्रापि पारोक्ष्यस्यानिवृत्तिमङ्गीकृत्य स्मृतिगर्भमित्युक्तमिति वेदितव्यम् ।
ज्ञानलिङ्गेन सह व्याप्तिस्मृतिः लिङ्गिज्ञानकारणम् । ननु इतिन तु व्याप्तिज्ञानसंस्कार इति तत्राह -
संस्कारानुद्बोधे तदभावादिति ।
उद्बुद्धसंस्काराभावे तस्याः स्मृतेरभावात् उद्बुद्धसंस्कारः स्मृत्यङ्गीकारेऽपि वक्तव्यः । तदा केवलव्यतिरेकाभावात् कल्पनागौरवाच्चोद्बुद्धसंस्कारेण न स्मृत्यपेक्षेति भावः । अथवा तदभावादिति तयोर्लिङ्गिज्ञानव्याप्तिस्मृत्योर्युगपत् ज्ञानानुत्पत्तिरिति न्यायात् युगपदसम्भवादित्यर्थः ।
प्रत्यभिज्ञायां सम्प्रयोगः पूर्वानुभूतस्मृतिश्च कारणम् । ज्ञानद्वययौगपद्यप्रसङ्गाभावान्न संस्कार इति, तत्राह -
अयमेव च न्याय इति ।
संस्कारानुद्बोधे स्मृत्यभावात् केवलव्यतिरेकाभावात् कल्पनागौरवाच्चोद्बुद्धसंस्कारेणैव पर्याप्तमिति न्यायः प्रत्याभिज्ञायामपि समान इत्यर्थः ।
न पुनर्ज्ञानद्वये प्रमाणमस्तीति ।
अयमर्थः, उद्बुद्धसंस्कारे सति अनन्तरं प्रत्यभिज्ञाज्ञानोत्पत्तिव्यतिरेकेण मध्ये द्वितीयस्मृतिसद्भावे प्रमाणं नास्तीति ।
भवतु प्रत्यभिज्ञाप्रत्यक्षे निरपेक्षकारणसमाहारः । अभिज्ञानप्रत्यक्षे तु रजतज्ञाने न स्यादिति तत्राह -
तथा भिन्नजातीयेति ।
अत्र सम्प्रयोगादेः प्रत्येकं कारणत्वं धर्मि, बहूनां सम्भूय कारणत्वेन अविनाभूतं भवितुमर्हति, ज्ञानकारणस्थत्वात् । सम्भूय विचित्रज्ञानकारणीभूतनीलादीनां प्रत्येकं कर्मत्ववदित्यनुमानमभिप्रेतं द्रष्यव्यम् ।
संस्कारसहितप्रमाणकारणजन्यत्वात् लैङ्गिकज्ञानादिवदिदं रजतमिति ज्ञानं प्रमाणं स्यादिति तत्राह -
तत्र लैङ्गिकेति ।
संस्कारसहितप्रमाणकारणजन्यत्वाख्यप्रयोजकाभावेऽप्यदुष्टकारणजन्यत्वाख्यप्रयोजकेन प्रामाण्यं दृष्टमिति प्रदर्शनाय चित्रज्ञानमुदाहृतमिति द्रष्टव्यम् ।
एवं च सतीति ।
शुक्तिगतमिथ्यारजते सति अपरोक्षस्य स्मर्यमाणत्वानङ्गीकारात्स्मर्यमाणावनङ्गीति संसर्गस्य प्रतिपन्नस्य शून्यत्वानङ्गीकारात् बाह्यशुक्तीदमात्मतया प्रतिपन्नरजतस्यान्तर्बुद्धिगतत्वानभ्युपगमादितरपक्ष इव नानुभवविरोध इत्यर्थः ।
अतो मायामयमिति ।
यस्माद्ज्ञानस्य भ्रान्तत्वं रूप्यस्यासत्वे सत्वे वा अनुपपन्नमतो मयामयमितिमायामयमित्यर्थः ।
सदिदं रजतमिति रजतस्य प्रतिपन्नसत्तासंसर्गः, शुक्तिकासत्तासंसर्गो न स्वीयत संसर्ग इतिस्वीयसत्तासंसर्गः, इदन्तासंसर्गवत् । तथाप्येतदज्ञात्वा सदिति प्रतिभासानुसारेण परमार्थत्वं शङ्कते -
अथ पुनरिति ।
शुक्तित्वतिरोधानसमर्थकारणदोषवता पुरुषेण रजतं दृश्यम् , न तु सर्वैरिति, नेत्याह -
यतो नहीति ।
यद्यपेक्षेतेति ।
शुक्तिरजतं यद्यपेक्षेतेत्यर्थः ।
तदभावे न तत्रेति ।
अत्र न स्पष्टम्(हट्टादिस्थ ? ) पट्टणादिस्थसर्वपरमार्थरजत इत्यर्थः ।
मायात्मकरजतं शुक्तीदमात्मना अपरोक्षमवभासत इति पक्षेऽपि सर्वैदृश्येत इत्याशङ्क्य रजतस्य बिम्बेदमंशस्थत्वे हि तद्गतशौक्ल्यादिवत् सर्वैर्गृह्येत, तद्वैपरीत्येन इदमाकारबुद्धिवृत्त्यग्रे प्रतिबिम्बितेदमि रजतस्याध्यस्तत्वात् बुद्धेरन्यवेद्यात्वाभावात् तत्प्रति बिम्बितेदमंशगतरजतस्यान्यवेद्यत्वाभाव इत्यभिप्रेत्याह -
मायामात्रत्वे त्विति ।
बाधोऽपीति ।
न केवलं भ्रान्तित्वप्रसिद्ध्यनुपपत्तिः, स्वविषयरजतस्य मिथ्यात्वं साधयति । किन्तु बाधकप्रत्यक्षमपि इत्यर्थः ।
रजतस्य प्रतिपन्नोपाधावभावं बाधो बोधयति न तस्य मिथ्यात्वममिथ्यात्वमितिइदं न स्पष्टम् (न तस्य मिथ्यात्वम् ? ) चोदयति -
कथमिति ।
पूर्वमिदमात्मना प्रतिपन्नरजतस्येदमात्मना प्रतिपत्त्ययोग्यतापादनपादेन इतिपूर्वकमभावप्रतियोगितया भावविलक्षणत्वेन प्रतिपन्नोपाधावभावप्रतियोगितया सद्विलक्षणत्वेन च रजतम् , नेदं रजतमिति ज्ञानेन ज्ञाप्यते । अतः प्रतिपन्नोपाधावभावप्रतियोगित्वं नाम मिथ्यात्वं बाधकज्ञानेन सिद्ध्यति । तस्मिन् अभावप्रतियोगितयावभासनादित्याह -
तेन हि तस्येति ।
बाधकज्ञानसिद्धस्य प्रतिपन्नोपाधावभावप्रतियोगित्वाख्यमिथ्यात्वस्य पुनः स्वशब्देन परामर्शाच्च बाधविषयो मिथ्यात्वमित्याह –
मिथ्यैवाभासिष्टेति ।
तद्रजतं बुद्धिर्वेति परामर्शं विना मिथ्यैवाभासिष्टेति परामृष्टं प्रतिपन्नोपाधावभावप्रतियोगित्वाख्यं मिथ्यात्वं रूप्यस्यान्यत्र सत्वे नावकल्पत इत्याह -
न च तदिति ।
बौद्धव्यतिरिक्तानां प्रतिपन्नोपाधावभावप्रतियोगित्वहीनत्वहीन इति दृष्टान्त उच्यते -
सम्प्रयुक्तशुक्तिकावदिति ।
बौद्धस्य दृष्टान्त उच्यते -
निरस्यमानेति ।
स्मृतिरूपशब्दोक्तकारणत्रितयजन्यत्वाख्योपलक्षणं परत्र परावभास इति स्वरूपलक्षणं चाव्याप्तमिति चोदयति -
ननु न व्यापकमिति ।
शोक इति ।
शोकादिनिमित्तनष्टपुत्रादिभ्रम इत्यर्थः ।
परत्रेत्युक्तसम्प्रयुक्ताधिष्ठानस्य सम्प्रयोगाख्यकारणांशस्य चाभावमाह -
न हीति ।
अत एवेति ।
दोषाश्रयभूतसम्प्रयुक्तेन्द्रियाभावादित्यर्थः ।
अतिरिक्तकारणाभावादिति ।
दोषाख्यकारणाभावादित्यर्थः । मात्रजन्यत्वाभावादिति भावः ।
उक्तमेतदिति ।
पूर्वप्रमाणविषयावभासित्वं नाम परोक्षतया अर्थप्रत्यायकत्वं स्मृतेः स्वरूपमित्युक्तम् । अत्रापि स्मृतित्वे परोक्षतया अवभासकत्वं स्यादयं त्वपरोक्षावभासित्वान्न स्मृतिरिति भावः ।
स्मृतित्वं माभूत् , कथं कारणत्रितयजन्यत्वाभावे स्मृतिरूपत्वमित्याशङ्क्य रूप्यभ्रमनिवर्तक शुक्तिज्ञानसाधनचक्षुस्तद्गतदोषः संस्कारश्च निवर्त्यरूप्यभ्रमकारणं दृष्टम् । तथेहापि स्वप्नभ्रमनिवर्तकजाग्रद्देहावच्छिन्नात्मग्राहिज्ञानसाधनं मनस्तद्गतनिद्रादिदोषः संस्कारश्चेत्येतत्कारणत्रितयजन्यत्वात् स्मतिरूपत्वं स्वप्नभ्रमस्येत्याह –
तदिहेति ।
तदिति निवर्तज्ञानसाधनभूतं मनो निर्दिशति ।
निद्रादिदोषस्य संस्कारविशेषेणासाधारणसम्बन्धाभावात् अदृष्टादेरुद्बोधकत्वमाह –
अदृष्टादिसमुद्बोधितेति ।
दोषं विना अदृष्टादिनोद्बुद्धत्वात् सत्यार्थस्मृतिजनकत्वे प्राप्तेऽपि दोषसहकारिबलान्मिथ्यार्थविषयं ज्ञानमुत्पादयतीत्याह –
सहकार्यनुरूपमिति ।
भवतु कारणत्रितयजन्यतया स्मृतिरूपत्वम् , कथं परत्र परावभास इति तत्राह -
तस्य चेति ।
तदवच्छिन्नेति ।
तेन मनसा संयुक्तमित्यर्थः ।
अपरोक्षभ्रमाधिष्ठानत्वे अपरोक्षत्वं प्रयोजकम् , न तु सम्प्रयोगतज्जन्यज्ञानकर्मतया अपरोक्षत्वं केवलव्यतिरेकाभावात् । अतः कर्मत्वाभावेऽपि स्वप्रकाशत्वादात्मनोऽपरोक्षतया परोक्षेतिअपरोक्षस्वप्नभ्रमं प्रत्यधिष्ठानत्वं सम्भवतीति मत्वा आह –
अपरोक्षचैतन्येति ।
अतः सत्यचैतन्यस्य मिथ्या विवर्तस्य च सम्भेदावभासरूपः परत्र परावभासो विद्यत इति भावः ।
घटः स्फुरतीति सर्वसमानाधिकृतस्फुरणस्यानवच्छिन्नसर्वात्मकचैतन्यमात्मानमनादृत्याहमिति प्रतीयमानाहङ्कारविशिष्टचैतन्यमात्मेत्युपादाय आत्मैवाधिष्ठानंआत्मैवाधिनिष्ठानमिति चेदिदं रजतमितिवदहं नीलमित्येव स्वप्न प्रपञ्चो प्रपञ्चोर्भयादितिभायादिति चोदयति -
नन्वेवमिति ।
अहङ्कारान्निष्कृष्टसर्वात्मकचैतन्यम् आत्मेत्युपादाय चैत्स्न्यस्येतिचेत्यस्य चित्सामानाधिकरण्यावभासं सर्वत्राङ्गीकृत्य परिहरति -
को वा ब्रूत इति ।
पुनरप्यहङ्कारविशष्टचैतन्यमात्मानमुपादाय चोदयति -
ननु विच्छिन्नदेश इति ।
इदमिति भिन्नदेशस्थ इत्यर्थः ।
खःस्थादित्यस्य विच्छिन्नजलस्थताप्रतिभासवदन्तःस्थस्यैव बहिष्ठतया भानं न भवति । तत्र खःस्थताया अपि प्रतिभासात् । इहान्तःस्थताया अप्रतिभासात् बहिष्ठ एवेति मत्वा आह -
जागरण इवेति ।
देशः स्फुरतीति देशोऽप्यनवच्छिन्नचैतन्यात्मस्थतयावभासत इत्याह सिद्धान्ती -
ननु देशोऽपीति ।
अत्र ननुः प्रसिद्धौ वर्तते ।
पुनरप्यहङ्कारविशिष्टचैतन्यमात्मानमादाय देशस्याप्यात्मस्थत्वे अहं देश इति प्रतीयादित्याह -
अयमपि तर्हीति ।
स्वप्नयुक्तार्थक्रियासमर्थजाग्रत्प्रपञ्चोऽप्येकचैतन्ये कल्पितः । किमु वक्तव्यम्, स्वप्नप्रपञ्चस्यैकचैतन्ये कल्पितत्वमस्तीति वदितुं निगूढाभिसन्धिं परित्यज्य अनवच्छिन्नचैतन्यमात्मानं स्पष्टीकुर्वन् चैतन्यैक्यं साधयति -
न दोषनैष दोषः इति स्यात् इत्यादिना ।
प्रमाणज्ञानादिति प्रसिद्धप्रसिक इतिभेदमन्तरेण प्रमाणतो न भिद्यत इत्यर्थः ।
एकरूपेति ।
चैतन्याख्यैकरूपेत्यर्थः ।
साधितैकचैतन्ये आत्मनि जाग्रत्प्रपञ्चस्य कल्पितत्वेन सिद्धिमाह -
अतोऽन्तरअतोेऽन्तरिति इति ।
अन्यथेति ।
सहमवच्छिन्नेतिअहमवच्छिन्नचैतन्यात् विषयगतचैतन्यानि भिन्नानि चेदित्यर्थः ।
प्रकाशानुपपत्तेरिति ।
विषयेष्वात्मचैतन्यव्याप्त्यभावे स्वयं चैतन्यहीनत्वात् प्रकाशानुपपत्तेरित्यर्थः ।
अनुभवावगुण्ठितत्वेऽपि अवाकुण्ठितत्वेेऽपि इतिप्रपञ्चस्य नानुभवप्रकाश्यता आलोकसंसर्गेऽपि वाय्वादीनामप्रकाश्यत्ववत् इत्याशङ्क्य पूर्वमज्ञानतमोव्याप्तत्वात् प्रकाश्यत्वमस्तीत्यत्र दृष्टान्तमाह -
यथा तमसेति ।
वाय्वादीनां रूपहीनत्वात् तमोव्याप्तिर्नास्तीति भावः ।
सर्वस्यैकात्मचैतन्यगतत्वे घटादीनामिदमित्यनात्मतयावभासो देहादीनामहमित्यात्मतयावभासश्च कथं स्यादित्याशङ्क्यैकात्मचैतन्ये कल्पिततया सर्वस्य चिदात्मसामानाधिकरण्येऽप्यहमिति प्रतीतियोग्यपूर्वपूर्वदेहादिविनाशजन्यसंस्कारविशिष्टमायाजन्यत्वात् उत्तरोत्तरदेहादेरहमित्यात्मत्वप्रसिद्धिर्भवति । इदमित्यनात्मतया प्रतीतियोग्यपूर्वपूर्वघटादिनाशजन्यसंस्कारविशिष्टमायाजन्यत्वात् तदुत्तरोत्तरघटादेरिदमित्यनात्मत्वप्रसिद्धिर्भवेदित्येवं व्यवस्था जागरणेऽपि सिद्ध्यति, किमु स्वप्न इत्यभिप्रेत्याह -
एवं यः पुनरिति ।
चैतन्यस्यान्तर्बहिर्भावप्रतिभासो भेदप्रतिभासश्चौपाधिको न स्वतः, निरंशत्वादित्याह -
तस्य चेति ।
मनोमात्रगोचराविति ।
आत्मातिरिक्तविषये केवलमनसः प्रवृत्त्यभावान्मनोगोचरत्वं वाद्यन्तरसिद्धमुच्यत इति द्रष्टव्यम् ।
सर्वत्रेति ।
स्वप्नशोकादिभ्रमेषु सर्वत्रेत्यर्थः ।