पञ्चपादिका
वक्तव्यकाशिका
 
कथं तर्हि नामादिषु ब्रह्माध्यासः ? किमत्र कथम् ? तत्र कारणदोषः, नापि मिथ्यार्थावभासः, सत्यम् ; अत एव चोदनावशात् इच्छातोऽनुष्ठेयत्वात् मानसी क्रियैषा, ज्ञानं ; ज्ञानस्य हि दुष्टकारणजन्यस्य विषयो मिथ्यार्थः हि ज्ञानमिच्छातो जनयितुं निवर्तयितुं वा शक्यं ; कारणैकायत्तत्वादिच्छानुप्रवेशानुपपत्तेःननु स्मृतिज्ञानमाभोगेन जन्यमानं मनोनिरोधेन निरुध्यमानं दृश्यतेसत्यं ; स्मृत्युत्पत्तिनिरोधयोस्तयोर्व्यापारः, किन्तु कारणव्यापारे तत्प्रतिबन्धे चक्षुष इवोन्मीलननिमीलने, पुनर्ज्ञानोत्पत्तौ व्यापार इच्छायाःतस्मात् ब्रह्मदृष्टिः केवला अध्यस्यते चोदनावशात् फलायैव, मातृबुद्धिरिव रागनिवृत्तये परयोषितितदेवम् अनवद्यमध्यासस्य लक्षणं

स्मृतिरूपः परत्र पूर्वदृष्टावभासः इति

लक्ष्याध्यासाभावेऽपि परत्र परावभासत्वाख्यस्वरूपलक्षणस्यान्वयादतिव्याप्तिरिति चोदयति -

कथं तर्हीति ।

लक्षणमस्ति चेत् लक्ष्यमप्यस्ति किमत्र चोद्यमित्याह –

किमत्र कथमिति ।

लक्ष्यमस्ति चेत् उपलक्षणेनापि भवितव्यम् , तदभावान्न लक्ष्यमस्तीत्याह -

न तत्र कारणदोष इति ।

उपलक्षणाभावमुक्त्वा लक्ष्याभावमाह -

नापि मिथ्यार्थावभास इति ।

लक्ष्यं नास्तीत्युक्तं तदमस्त्येव इतदप्यस्त्येव ; परत्र परावभास इत्यवभासशब्देन ज्ञानत्वं च लक्षणमुक्तम् , तदिह नास्ति क्रियात्वादित्याह –

सत्यमित्यादिना ।

अत एवेति ।

लक्ष्याभावादेवेत्यर्थः ।

ज्ञानस्य दुष्टकारणजन्यस्य विषयो मिथ्यार्थ इति ।

मिथ्यार्थविषयज्ञानमध्यास इति हि पूर्वं लक्षणमुक्तम् । परत्र अवभास इत्यत्र अवभासशब्देनेति भावः ।

क्रियायाश्चिकीर्षापूर्वकत्ववज्जिज्ञासापूर्वकत्वात् ज्ञानस्येच्छासाध्यत्वमस्त्येवेत्याशङ्क्य फलशिरस्कत्वेनैव क्रियानिष्पत्तेः फलनिष्पत्तिपर्यन्ता क्रियानिष्पत्तिः अनवसिता, क्रियानिष्पत्तेरपि कारकव्यापारसमकालत्वात् क्रियानिष्पत्तिपर्यन्तं कारकव्यापारोऽप्यनवसितः । कारकव्यापारनिष्पत्तेरपि कारकप्रेरकाचिकीर्षासमकालत्वात् कारकव्यापारनिष्पत्तिपर्यन्तमिच्छाप्यनवसिता । अतः कारकव्यापारस्य क्रियायाः फलस्य च निष्पत्तिरिच्छाधीनेति क्रियाया इच्छासाध्यत्वं स्यात् , इह तु ज्ञानकारकेन्द्रियाणां तेजोविशेषत्वादेव गत्वह्रस्वास्वभाव्यत् इतिभाव्यात् कारकप्रेरणाय नेच्छापेक्षा, इन्द्रियाणां विषयविशेषेषु नियतत्वात् । विषयविशेषे नियमनाय च नेच्छापेक्षा, किन्तु ज्ञानकारणप्रतिबन्धरूपनिमीलननिरासे इच्छाया उपयोगः, न तु ज्ञानोत्पत्ताविति मत्वाह -

न हि ज्ञानमिति ।

निवर्तयितुं न शक्यमिति ।

निवर्तयितुमशक्यत्वादित्यर्थः ।

देवतादिस्मरणं इच्छया जन्यते चण्डालादिस्मरणं च निवर्त्यत इति चोदयति -

ननु स्मृतिज्ञानमिति ।

आभोगेन इच्छयेत्यर्थः ।

स्मृत्युत्पत्तिनिरोधौ यत्र भवतः तत्र इच्छामनोनिरोधौ स्त एव, किन्तु स्मृत्युत्पत्तिस्थले मनसोऽन्यपरतालक्षणप्रतिबन्धनिरासहेतुरिच्छा न तु मनोव्यापारनिष्पादनेन ज्ञानोत्पत्तौ हेतुः, स्मृतिनिरोधस्थलेऽपि चण्डालादिविषयमनःप्रवृत्तिनिरोधे मनोनिरोधस्योपयोगः, न तु स्मृतिस्वरूपनिरोध इत्याह –

सत्यमित्यादिना ।

चक्षुष इवेति ।

यथा चक्षुषोऽभिमतार्थविषयप्रवृत्तिप्रतिबन्धक रूपगोलकनिमीलननिरासे इच्छाया उपयोगः । अनभिमतार्थेन सम्प्रयोगलक्षणप्रवृत्तौ सत्यां तत्प्रतिबन्धरूपगोलकनिमीलने मनोनिरोधस्योपयोग इत्यर्थः ।

ब्रह्मण आरोपं विना ब्रह्मदृष्टिमात्रस्यैव नामादिष्वारोप इत्याह –

तस्मादिति ।

सर्वफलप्रदातृब्रह्मणोऽध्यस्तत्वे फलसिद्धिः स्यात् , तदभावे न फलसिद्धिरिति, नेत्याह –

चोदनावशादिति ।

विधिवशादित्यर्थः ।