पञ्चपादिका
वक्तव्यकाशिका
 
अन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते इति

यत्र शुक्तिकादौ, यस्य रजतादेरध्यासः, तस्यैव शुक्तिशकलादेः, विपरीतधर्मत्वस्य रजतादिरूपत्वस्य, कल्पनाम् अविद्यमानस्यैवावभासमानताम् , आचक्षते

सर्वथापि तु इति

स्वमतानुसारित्वं सर्वेषां कल्पनाप्रकाराणां दर्शयतिअन्यस्यान्यधर्मावभासत्वं नाम लक्षणं, परत्रेत्युक्ते अर्थात् परावभासः सिद्धः इति यदवादिष्यम् , तत् व्यभिचरतिकथम् ? पूर्वस्मिन् कल्पे ज्ञानाकारस्य बहिष्ठस्य वा शुक्तिधर्मत्वावभासनात् व्यभिचारः, द्वितीयेऽपि शुक्तिरजतयोः पृथक् सतोरपृथगवभासः अभिमानात् , तृतीयेऽपि शुक्तिशकलस्य रजतरूपप्रतिभासनात्पूर्वदृष्टत्वस्मृतिरूपत्वयोः सर्वत्राव्यभिचारात् विवादः इत्यभिप्रायःतत्रस्मृतिरूपः पूर्वदृष्टावभासःइत्येतावति लक्षणे निरधिष्ठानाध्यासवादिपक्षेऽपि निरुपपत्तिके लक्षणव्याप्तिः स्यादिति तन्निवृत्तयेपरत्रइत्युच्यतेकथं ? निरुपपत्तिकोऽयं पक्षः हि निरधिष्ठानोऽध्यासो दृष्टपूर्वः, सम्भवी वाननु केशाण्ड्रकाद्यवभासो निरधिष्ठानो दृष्टः, ; तस्यापि तेजोऽवयवाधिष्ठानत्वात्

विपरीतधर्मत्वस्येत्युक्ते शुक्तिशकलस्य साक्षाद्विपरीतशुक्त्यभावस्य स्वरूपेणारोपप्राप्तौ भावस्य भावान्तररूपेणारोप इत्याह -

रजतादिरूपत्वस्येति ।

आचक्षत इति शून्यख्यात्यन्यथाख्यातिविशेषौ आचक्षत इत्यर्थः ।

स्वमतानुसारित्वमिति ।

स्वेनोक्तलक्षणत्वमित्यर्थः ।

तात्पर्यमुक्त्वा सर्वथापित्वितिभाष्यं व्याचष्टे -

अन्यस्यान्यधर्मावभासित्वं नाम लक्षणमिति ।

यल्लक्षणमवादिष्मेत्यन्वयः ।

परत्र अवभास इत्यत्र परशब्दद्वयाभावे कथमन्यस्यान्यधर्मावभासित्वं नाम यल्लक्षणमवादिष्मेत्यनूद्यते भाष्यकारेणेत्याशङ्क्याह -

परत्रेत्युक्तेऽर्थात् परावभासः सिद्ध इतीति ।

आख्यति इतिअख्यातिवादिनाऽपि मानसं संसर्गज्ञानं संसर्गाभिमानो वा वक्तव्य इत्यभिप्रायः ।

परत्र परावभास इति लक्षणं न वादिभिरुक्तमिति शङ्कते -

कथमिति ।

अनेन शब्दरचनाप्रकारेण अनुक्तमपि शब्दान्तरेणेदं लक्षणमुक्तमित्याह -

पूर्वस्मिन् कल्प इत्यादिना ।

स्मृतिरूपशब्देनोक्तकारणत्रितयजन्यत्वाख्योपलक्षणस्य भाष्यकारेण पक्षान्तरेषु अन्वयप्रदर्शनाभावादुपलक्षणमविवक्षितमित्याशङ्क्यान्वयस्य सम्प्रतिपन्नत्वादप्रदर्शनमित्याह –

पूर्वदृष्टत्वस्मृतिरूपत्वयोरिति ।

अविद्यापूर्वभ्रमसंस्काराभ्यामेव पदार्थज्ञानरूपभ्रमपरम्परोत्पत्तेः सम्प्रयुक्ताधिष्ठानानपेक्षणात् तदभिधायिपरत्रेति पदमविवक्षितमिति शून्यवादिशङ्कायामाह -

तत्र स्मृतिरूप इति ।

शून्यवादिपक्षेऽपि पदार्थज्ञानत्वाख्यलक्षणस्य प्राप्तिरस्त्विति नेत्याह –

निरुपपत्तिकेति ।

शून्यवादिपक्षे लक्षणस्य घटपटादिज्ञानाख्यभ्रमेष्वेव व्याप्तिं विना अविभ्रमेऽपि शून्यज्ञाने पदार्थज्ञानत्वाख्यलक्षणस्य व्याप्तिः निरुपपत्तिकेति भावः ।

पूर्वभ्रमसंस्कारलक्षणनिमित्तकारणसम्भवाद्सम्भवादर्थपञ्चमाकाराविद्येतिविद्यालक्षणोपादानसद्भावाच्चोत्तरोत्तरघटादिपदार्थ ज्ञानलक्षणभ्रमजन्मसिद्धिरित्येवमुपपत्तिसम्भवादस्मिन् पक्षे का अनुपपत्तिरित्याक्षिपति -

कथं निरुपपत्तिकोऽयमिति ।

हस्तेन नयनस्य मर्दनान्नयनरश्मेर्नेप्सितरूपं भवति । ससंवेष्टितनयनरश्मिरधिष्ठानं तत्राप्यस्तीत्याह -

न तत्रापि तेजोऽवयवाधिष्ठानत्वादिति ।