पञ्चपादिका
वक्तव्यकाशिका
 
ननु सर्वमेवेदमसदिति भवतो मतम् एवमाह ? अनिर्वचनीयानाद्यविद्यात्मकमित्युद्घोषितमस्माभिःअथ पुनर्विद्योदये अविद्याया निरुपाख्यतामङ्गीकृत्यासत्त्वमुच्येत, काममभिधीयताम्तथा बाधकज्ञानंनेदं रजतम्इति विशिष्टदेशकालसम्बद्धं रजतं विलोपयदेवोदेति, देशान्तरसम्बन्धमापादयति ; तथाऽनवगमात्तथा दूरवर्तिनीं रज्जुं सर्पं मन्यमानस्य निकटवर्तिनाऽऽप्तेननायं सर्पःइत्युक्ते सर्पाभावमात्रं प्रतिपद्यते, तस्य देशान्तरवर्तित्वं ; तत्प्रतिपत्तावसामर्थ्यात् वाक्यस्यनार्थापत्त्या ; इह भग्नघटाभाववत् तावन्मात्रेणापि तत्सिद्धेःयत्रापि सर्पबाधपूर्वको रज्जुविधिरक्षजन्यः तादृशवाक्यजन्यो वा, तत्रापि एव न्यायः ; तथाऽनवगमात् , तदेवं क्वचिन्निरधिष्ठानोऽध्यासः ? तस्मात् साधूक्तं परत्र इतियद्येवंपरत्र पूर्वदृष्टावभासःइत्येतावदस्तु लक्षणम्, तथाविधस्य स्मृतिरूपत्वाव्यभिचारात् , सत्यम् ; अर्थलभ्यस्य स्मृतित्वमेव स्यात् , स्मृतिरूपत्वम् स्मृतिविषयस्याध्यासत्वमित्युक्तम्यद्येवमेतावदस्तु लक्षणं परत्र स्मृति रूपावभासः इति, तत्र परत्रेत्युक्ते अर्थलभ्यस्य परावभासस्य स्मृतिरूपत्वं विशेषणं, हि परस्यासम्प्रयुक्तस्य पूर्वदृष्टत्वाभावे स्मृतिरूपत्वसम्भवः, सत्यम् ; विस्पष्टार्थं पूर्वदृष्टग्रहणमिति यथान्यासमेव लक्षणमस्तु

तथा लोके अनुभवः

इत्युदाहरणद्वयेन लौकिकसिद्धमेवेदमध्यासस्य स्वरूपं लक्षितं, किमत्र युक्त्या ? इति कथयति

शुक्तिका हि रजतवदवभासते इति

अध्यस्तमिदं सर्वमसदेवेति तेऽपि मतम् इति चोदयति -

नन्विति ।

सद्विलक्षणमित्युक्तत्वादर्थासत्वमुक्तमित्याशङ्क्यासद्विलक्षणत्वमप्युक्तमित्याह -

अनिर्वचनीयाविद्यात्मकमिति इति ।

प्राक् अनिर्वचनीयत्वेऽपि बाधादूर्ध्वं रूप्यादेः शून्यत्वमाशङ्क्य तदिष्टमेव घटादीनामपि समानत्वादित्याह -

अथ पुनरिति ।

सर्वस्य नाशादूर्ध्वं शून्यत्वेऽपि भ्रमगृहीतस्य बाधादूर्ध्वं शून्यताभ्युपगमो न युक्तोऽन्यत्र सत्वादित्याशङ्क्य न तावद्बाधकज्ञानादन्यत्र सत्वसिद्धिरित्याह -

तथा चेति ।

तथानवगमादिति ।

मुखं दर्पणस्थं न भवति, किन्तु ग्रीवास्थमितिवत् रजतमिदं न भवति किन्तु देशान्तरे बुद्धौवेत्यनवगमादित्यर्थः ।

प्रत्यक्षबाधस्य देशान्तरे रूप्यादिसत्वबोधकत्वशङ्कायामपि वाक्यजन्यबाधकज्ञानस्य बोधकत्वशङ्कापि नास्ति, देशान्तरीयसत्ववाचिशब्दाभावादित्याह -

तथा च दूरवर्तिनीमिति ।

मा भूद्बाधकज्ञानादन्यत्र सत्वावगमः, किन्त्विह निषेधान्यथानुपपत्त्या अन्यत्र सत्वसिद्धिरित्याशङ्क्य व्यभिचारमाह –

नार्थापत्त्येति ।

प्रतीतिसिद्ध्यर्थं पुरोदेशे अन्यत्र वा रूप्यस्य न सत्तापेक्षा, अत्रैवाविद्याविलाससद्भावमात्रेण प्रतीतिसिद्धेरित्याह -

तन्मात्रेणेतितावन्मात्रेणापि तत्सिद्धेरिति ।

यदा नायं सर्प इत्यभावमात्रप्रतिपत्तिरपि न देशान्तरे सर्पत्वं गमयति तदा रज्जुरियमित्यधिष्ठाने पर्यवसिता प्रतिपत्तिः देशान्तरे सत्वं न बोधयतीति किमु वक्तव्यम् इत्याह –

यत्रापीति ।

पूर्वदृष्टावभास इति भाष्येण पूर्वदर्शनसम्भेदं विना पूर्वदृष्टस्य संस्कारनिर्मिततया पूर्वदृष्टसजातीयस्य रूप्यादेरवभास इत्युक्ते तस्य स्मृतिरूपत्वमुक्तं भवत्यतः स्मृतिरूप इति पृथङ् न वक्तव्यमित्याह –

तथाविधस्येति ।

अर्थलभ्यस्य स्मृतित्वमेव स्यात् इत्यर्थलभ्यस्य स्मृतिरूपस्य विकलस्मृतित्वशङ्का स्यात् । पूर्वानुभवसम्भिन्नविषयत्वाभावादित्यर्थः ।

स्मृतित्वमस्त्विति, नेत्याह -

न च स्मृतिविषयस्येति ।

परत्रेति ।

सम्प्रयुक्तस्याभिधानादर्थादागतं परस्येति पदमसम्प्रयुक्तमभिधत्त इत्याह –

असम्प्रयुक्तस्येति ।

पूर्वदृष्टत्वाभाव इति ।

पूर्वदृष्टार्थसंस्कारजन्यतया पूर्वदृष्टसजातीयार्थत्वाभाव इत्यर्थः ।

विस्पष्टार्थ इति ।

संस्कारजन्यत्वमेव स्मृतिरूपशब्दोक्तस्मृत्या सादृश्यं न पूर्वानुभवसम्भेद इति स्पष्टीकरणार्थमित्यर्थः ।

लोकसिद्धमेवेदमिति ।

यल्लक्षितं सत्यमिथ्यावस्तुसम्भेदात्मकमिदमध्यासरूपं तल्लोकसिद्धमेव सत्यमिथ्यावस्तु सम्भेदरूपमित्यत्र न युक्त्यपेक्षेत्यर्थः ।

युक्तिरिति ।

सत्यस्य वस्तुनो मिथ्यावस्तु सम्भेदावभासोऽध्यासः, अन्यथा शुक्लो घट इत्यादिज्ञानेष्वपि भ्रमत्वप्रसङ्गादित्येषोइत्येवोच्यते ? च्यते ।

तथा च लोकेत्यादिलोकेनुभव इत्यादि भाष्यस्य - भाष्यस्य तात्पर्यमुक्त्वा तदेकदेशमाक्षेपसमाधानायोपादत्ते -

शुक्तिका रजतवदवभासत इति ।