पञ्चपादिका
वक्तव्यकाशिका
 
ननु शुक्तिका प्रतिभासते, रजतमेव प्रतिभासते, तेन शुक्तिकेति, रजतवदिति चोभयं नोपपद्यते, उच्यतेशुक्तिकाग्रहणमुपरितनसम्यग्ज्ञानसिद्धं परमार्थतः शुक्तिकात्वमपेक्ष्य, वतिग्रहणं तु सम्प्रयुक्तस्यारजतस्वरूपस्य मिथ्यारजतसम्भेद इवावभासनमङ्गीकृत्यमिथ्यात्वमपि रजतस्य आगन्तुकदोषनिमित्तत्वादनन्तरबाधदर्शनाच्च कथ्यते, पुनः परमार्थाभिमतात् रजतादन्यत्वमाश्रित्यतत्र असम्प्रयुक्तत्वाद्रजतस्य नेदन्तावभासस्तद्गतः, किन्तु सम्प्रयुक्तगत एवअपरोक्षावभासस्तु संस्कारजन्मनोऽपि रजतोल्लेखस्य दोषबलादिन्द्रियजज्ञानान्तर्भावाच्चेतिद्रष्टव्यम्तत्र शुक्तिकोदाहरणेन सम्प्रयुक्तस्यानात्मा रजतमिति दर्शितम्निरञ्जनस्य चैतन्यस्य अस्मदर्थे अनिदमंशस्य अनात्मा तदवभास्यत्वेन युष्मदर्थलक्षणापन्नः अहङ्कारः अध्यस्तः इति प्रदर्शनार्थं द्विचन्द्रोदाहरणेन जीवेश्वरयोः जीवानां चानात्मरूपो भेदावभासः इति दर्शितम्ननु बहिरर्थे कारणदोषोऽर्थगतः सादृश्यादिः इन्द्रियगतश्च तिमिरादिरुपलभ्यते, तन्निमित्तश्चार्थस्य सांशत्वादंशान्तरावग्रहेऽपि अंशान्तरप्रतिबन्धो युज्येत, त्विह कारणान्तरायत्ता सिद्धिः, येन तद्दोषादनवभासोऽपि स्यात् , निरंशस्य चैतन्यस्य स्वयञ्ज्योतिषस्तदयोगात्ननु ब्रह्मस्वरूपमनवभासमानमस्त्येव, तदनवभासनाज्जीवेऽनवभासविपर्यासौ भवतः हि शुक्तेरग्रहणात् स्थाणावग्रहणं विपर्यासो वाननु ब्रह्मणोऽन्यो जीवः, अनेन जीवेनात्मना’ (छा. उ. ६-३-२) इति श्रुतेः, अतः तदग्रहणमात्मन एव तत् , एवं तर्हि सुतरामविद्यायास्तत्रासम्भवः ; तस्य विद्यात्मकत्वात् , तस्य भासा सर्वमिदं विभाति’ (क. उ. २-२-१५) इति तच्चैतन्येनैव सर्वस्य भासमानत्वात् , उच्यतेविद्यत एव अत्राप्यग्रहणाविद्यात्मको दोषः प्रकाशस्याच्छादकःकथं गम्यते ? श्रुतेः तदर्थापत्तेश्चश्रुतिस्तावत् — ‘अनृतेन हि प्रत्यूढाः’ ‘अनीशया शोचति मुह्यमानःइत्येवमाद्यातदर्थापत्तिरपि विद्यैव सर्वत्र श्रुतिषु ब्रह्मविषया मोक्षाय निवेद्यते, तेनार्थादिदमवगम्यते जीवस्य ब्रह्मस्वरूपतानवगमोऽविद्यात्मको बन्धो निसर्गत एवास्तीति

ननु न शुक्तिः प्रतिभासते इति ; उच्यते, शुक्तिकाग्रहणमिति ; मिथ्यात्वमपि रजतस्येति ; तत्रासम्प्रयुक्तत्वादिति ; सम्प्रयुक्तगत एवेति ; अपरोक्षावभासस्त्विति ; रजतल्लोख इतिरजतोल्लेखस्येति ; इन्द्रियजज्ञानान्तर्भावाच्चेति ; अनात्मा रजतमिति दर्शितमिति ; अस्मदर्थे अनिदमंशस्येति ; चैतन्यस्येति ; निरञ्जनस्येति ; तदवभास्यत्वेनेति ; अध्यस्त इति ; भेदावभास इति ; ननु बहिरर्थ इत्यादिना युज्यत इत्यन्तेन ; उपलभ्यत इत्यन्तेन ; तन्निमित्तश्चेति ; न त्विह कारणान्तरायत्तेत्यादिना ; स्वयञ्ज्योतिष इति ; निरंशस्येति ; अनवभासविपर्यासौ न भवत इति ; न हि शुक्तेरिति ; एवं तर्हि सुतरामिति ; तच्चैतन्येनैवेति ; उच्यत इत्यादिना ; अग्रहणेति ; अविद्यात्मक इति ; प्रकाशस्याच्छादक इति ; ’अनृतेन हि प्रत्यूढाछां०उ० ८ - ३ - २’ इति ; तदर्थापत्तिरपीति ;

यः शुक्तौ रजतं भ्रमति तस्य रजतमेवेत्यवभासनात् रजतवदित्यनवभासाच्छुक्तिकानवभासनाच्च भ्रान्त्यः इतिभ्रान्त्याः - शुक्तिका रजतवदत्र भासत इति नानुभवन्ति, तत्र कथं लोकानुभव इति चोदयति -

ननु न शुक्तिः प्रतिभासते इति ।

भ्रान्तस्येति भावः ।

यद्यपि भ्रान्तिसमये नानुभवति शुक्तिकाज्ञानोदये तत्सिद्धिः । शुक्तिकामुपादाय शुक्तिकारजतमवभासत इति लक्षणमनुभवति । शुक्तिज्ञानसामर्थ्येन नेदं रजतमिति ज्ञानविषयतया वा सिद्धमिथ्यारजतेन सत्यशुक्तिसम्भेदावभासाख्यलक्ष्यरजतवदित्यनुभवति । एवं लक्ष्यलक्षणसङ्गतिमनुभूतां शुक्तिका रजतवदवभासत इति वाक्येन प्रदर्शयति लोक इत्याह -

उच्यते, शुक्तिकाग्रहणमिति ।

इवशब्दश्चाभासतामभिधाय सम्भेदशब्देनावभासशब्देन च सम्बध्यते ।

मिथ्यारजतमिति विशेषणात् अन्यत्र सद्रूपरजतं वक्तव्यमित्याशङ्क्य मिथ्यात्वं प्रति जनकस्याभावात् मिथ्यात्वमुच्यते न सद्रूपरजताद्व्यावृत्त्यर्थमित्याह -

मिथ्यात्वमपि रजतस्येति ।

मिथ्यारजतधर्मत्वादिदन्ताया अपि मिथ्यात्वान्निरधिष्ठानताप्रसङ्ग इत्याशङ्क्य सम्प्रयुक्तस्य सम्प्रयुक्तधर्मत्वमयुक्तमित्याह –

तत्रासम्प्रयुक्तत्वादिति ।

सम्प्रयुक्तगत एवेति ।

शुक्तिगत एवेत्यर्थः ।

कथम् असम्प्रयुक्तरजतस्यापरोक्षतेत्यत आह –

अपरोक्षावभासस्त्विति ।

रजतल्लोख इतिरजतोल्लेखस्येति ।

इत्युल्लेखः, अवभासमानरजतस्येत्यर्थः ।

उल्लिख्यत आपरोक्ष्यस्य दोषजन्यत्वे बाध्यत्वं प्राप्तमित्याशङ्क्येन्द्रियजन्यज्ञानेनेदमंशेऽभिव्यक्तापरोक्षचैतन्ये अध्यस्तत्वाद्रूप्यस्याप्यपरोक्षत्वमिति पक्षान्तरमाह –

इन्द्रियजज्ञानान्तर्भावाच्चेति ।

अत्र ज्ञानशब्देन ज्ञप्तिः ज्ञानमितीदमंशावच्छिन्नस्फुरणमुच्यते -

अनात्मा रजतमिति दर्शितमिति ।

अनात्मभूतरजतं सम्प्रयुक्तशुक्तावध्यस्तमिति दर्शितमित्यर्थः ।

अस्मदर्थे अनिदमंशस्येति ।

अहमिति प्रतिभासमाने अवेद्यांशस्येत्यर्थः ।

अहमिति प्रतिभासमाने जडरूपात्मा भवेत् योऽस्तीति प्राभाकराभिमतमिति तद्व्यावृत्त्यर्थमाह –

चैतन्यस्येति ।

चिद्रूपात्मनोऽपि शक्तिमत्वं परिणामब्रह्मवाद्यभिमतं तद्व्यावृत्त्यर्थमाह –

निरञ्जनस्येति ।

असङ्गस्येत्यर्थः ।

प्रतिभासतो युष्मदर्थत्वाभावेऽपि तदवभास्यत्वं नाम युष्मदर्थलक्षणमहङ्कारस्यास्तीत्याह –

तदवभास्यत्वेनेति ।

अध्यस्त इति ।

चैतन्ये अध्यस्त इत्यर्थः ।

भेदावभास इति ।

जीवेश्वरयोर्जीवानां च भेदोऽवभासमानः तेषामस्वरूपभूत एव जीवादिषु अध्यस्त इति दर्शितमित्यर्थः । वादाधिकारसिद्ध्यर्थमुक्तार्थे स्वस्य ज्ञानापलापोऽनादराभावद्योतनाय ।

बाह्याध्यासे उक्तकारणत्रितयजन्यत्वं परत्र परावभासत्वं च सुस्थितमित्याह -

ननु बहिरर्थ इत्यादिना युज्यत इत्यन्तेन ।

तत्रापि कारणत्रितयजन्यत्वमस्तीत्याह -

उपलभ्यत इत्यन्तेन ।

कारणदोष इति प्रमातृस्थरागादिदोष उच्यते । इन्द्रियशब्देन सम्प्रयोग उच्यते । सम्प्रयोगशब्देन संस्कारोऽपि लक्ष्यते । परत्र परावभास इति स्वरूपलक्षणमप्यस्तीत्याह –

तन्निमित्तश्चेति ।

उपलक्षणं स्वरूपलक्षणं च बाह्याहङ्काराध्यासे सम्भवति । अधिष्ठानात्मग्राहक कारणतद्दोषादीनामभावात् आत्मनो निरंशत्वादगृहीतविशेषत्वेनाधिष्ठानत्वायोगाच्चेत्याह -

न त्विह कारणान्तरायत्तेत्यादिना ।

इहेति अहङ्काराद्यधिष्ठानात्मनि इत्यर्थः ।

आकाशवन्निरंशस्यापि न कार्त्स्न्येनावभास इति तत्राह -

स्वयञ्ज्योतिष इति ।

स्वयम्प्रकाशत्वेऽपि संवेदनवदगृहीतांशः स्यादिति नेत्याह –

निरंशस्येति ।

अनवभासविपर्यासौ न भवत इति ।

अनवभासो न भवत्यत एव विपर्यासोऽपि न स्यादित्यर्थः ।

ब्रह्मणः सर्वज्ञत्वादिभ्रमाधिष्ठानत्वाज्जीवस्य चाहङ्कारादिभ्रमाधिष्ठानत्वसाम्येन एकत्वात् ब्रह्मानवभासेब्रह्मानवभासोजीवानवभास इति जीवानवभास इत्याशङ्क्य आह -

न हि शुक्तेरिति ।

एवं तर्हि सुतरामिति ।

आश्रयविषयभेदाभावात् ज्ञानप्रकाशविरोधाच्चाज्ञानाभावान्नाज्ञातत्वमित्यर्थः ।

ताः रि श्रुति जन्यबुद्धि इतिश्रुतिगतभासेति शब्देन प्रकाशमात्रस्याभिधानमिति शङ्कानुत्यर्थमितिशङ्कापनुत्यर्थं चैतन्यपरत्वेन व्याकरोति -

तच्चैतन्येनैवेति ।

भ्रमनिवर्तकज्ञानसामग्र्याः तद्गतदोषस्य च संस्कारस्य च भ्रमकारणत्वमन्यत्र दृष्टमिहापि ब्रह्मात्मवस्त्वाकारश्रुतिजन्यबुद्धिवृत्तिप्रतिबिम्बितब्रह्मात्मचैतन्यस्याहङ्कारादिभ्रमनिवर्तकज्ञानत्वात् । प्रतिबिम्बप्रदत्वेन बिम्बभूतब्रह्मात्मवस्तुनो निवर्तकज्ञानसामग्रीत्वात् । तस्यास्तद्गताविद्यादोषस्य च पूर्वाहङ्कारादिविनाशजसंस्कारस्य चोत्तराहङ्कारादिभ्रमहेतुत्वात् कारणत्रितयजन्यत्वं सिध्यति । अविद्यया ब्रह्मरूपस्यानवभासादहमित्यात्मनोऽवभासात् अगृहीतविशेषात्मन्यधिष्ठानेऽहङ्काराध्यासात् । परत्र परावभासत्वं च सिध्यतीत्यभिप्रेत्य आत्मन्याच्छादिकाविद्यास्तीत्याह -

उच्यत इत्यादिना ।

अग्रहणेति ।

आच्छादकेत्यर्थः ।

साङ्ख्याभिमताच्छादकसत्यतमोगुणं प्रसक्तं व्यावर्तयति -

अविद्यात्मक इति ।

प्रकाशजनकचक्षुरादिगतशक्तिप्रतिबन्धककाचादिषु दोषशब्दप्रयोगो दृश्यते । अत्रापि चित्प्रकाशप्रतिबन्धकत्वादविद्यायाः सुतरां दोषशब्दवाच्यत्वं भवतीति मत्वाह -

प्रकाशस्याच्छादक इति ।

’अनृतेन हि प्रत्यूढाछां०उ० ८ - ३ - २’ इति ।

जीवाःजीवाव अनृतरूपाविद्ययाछन्नतया स्वकीयपूर्णानन्दब्रह्मरूपमात्मानं सुषुप्ते न विजानन्ति नान्येनेत्यर्थः । अनीशयेत्यत्र मुह्यमानः अज्ञानलक्षणमोहेनैकतां गतः, अतो‍ऽनीशया स्वभावसिद्धेश्वरत्वस्याप्रतिपत्त्याअप्रतिपत्त्यतशोचतीत्यन्वयः ।

तदर्थापत्तिरपीति ।

’तरति शोकमात्मवित्’ इति बन्धनिवृत्तिफलश्रुत्यनुपपत्तिर्निवर्त्याविद्यामध्यासाख्यबन्धहेतुभूतां गमयतीत्यर्थः ।