ननु न जीवो ब्रह्मणोऽन्यः इत्युक्तम् ॥ बाढम् ; अत एवाऽर्थाज्जीवे ब्रह्मस्वरूपप्रकाशाच्छादिका अविद्या कल्प्यते ; अन्यथा परमार्थतस्तत्स्वरूपत्वे तदवबोधोऽपि यदि नित्यसिद्धः स्यात् , तदा तादात्म्योपदेशो व्यर्थः स्यात् । अतः अनादिसिद्धाविद्यावच्छिन्नानन्तजीवनिर्भासास्पदमेकरसं ब्रह्मेति श्रुतिस्मृतिन्यायकोविदैरभ्युपगन्तव्यम् । तथा च स्मृतिः — ‘प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि’ (भ . गी १३ - १९) इति क्षेत्रक्षेत्रज्ञत्वनिमित्तामनादिसिद्धामविद्यां प्रकृतिशब्देनाह ; ‘मायां तु प्रकृतिं विद्यात्’ (श्वे. उ. ४-१०) इति श्रुतेः । अतो मायावच्छिन्नरूपत्वादनन्यदपि ब्रह्मरूपमात्मनो न वेत्ति । तथा चोक्तम् — ‘अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’ (गौ.का.१/१६) इति ॥
अत एवार्थादिति ।
ऐक्ये सत्येवसत्ये इति ब्रह्मरूपानवभासानुपपत्त्याच्छादिकाविद्या कल्प्यत इत्यर्थः ।
अन्यथेति ।
अयमर्थः, जीवस्य ब्रह्मरूपत्वाच्छादिकाविद्याभावे परमार्थतो ब्रह्मरूपत्वात् ब्रह्मात्मतावबोधोऽपि तत्र यदि नित्यसिद्धः स्यात् तदा तादात्म्योपदेशो व्यर्थः स्यादिति । ऐक्ये सति जीवब्रह्मविभागः कथं सिध्येदित्याशङ्क्य अविद्यालेशेषु प्रतिबिम्बितचैतन्यानि जीवा इत्युच्यन्ते ।
तेषां बिम्बभूतमखण्डचैतन्यं ब्रह्मेत्यतो बिम्बप्रतिबिम्बभावेनाविद्यया भेद इत्याह –
अतोऽनादिसिद्धेति ।
निर्भासास्पदमिति ।
प्रतिबिम्बास्पदमित्यर्थः ।
ब्रह्मव्यतिरिक्तमनादिवस्तु नासीदिति तत्राह -
तथा च स्मृतिरिति ।
साङ्ख्याभिमतप्रकृतेरनादित्वं स्मृत्योक्तं नाविद्याया इति, नेत्याह –
क्षेत्रज्ञत्वनिमित्तामिति ।
जीवत्वे हेतुभूतामित्यर्थः ।