पञ्चपादिका
वक्तव्यकाशिका
 

कथं पुनः भोक्ता स्वयञ्ज्योतिः कार्यकरणसङ्घातात् व्यावृत्तो प्रकाशते ? ‘मनुष्योऽहमि’ति मिथ्यैव एकताभिमानात्ननु गौणोऽयं, मिथ्या ? यथा गौणः, तथा भाष्यकार एव वक्ष्यति

कथं पुनः भोक्ता स्वयञ्ज्योतिः कार्यकरणसङ्घातात् व्यावृत्तो प्रकाशते ? ‘मनुष्योऽहमि’ति मिथ्यैव एकताभिमानात्ननु गौणोऽयं, मिथ्या ? यथा गौणः, तथा भाष्यकार एव वक्ष्यति

भेदस्यात्ममात्रत्वात् आत्मपदार्थज्ञानमेव भेदे प्रत्यक्षमिति भेदानवभासो नास्तीति चोदयति -

कथं पुनर्भोक्तेति ।

चिज्जडयोर्विरुद्धयोः न सत्यैकताभिमानाशङ्कास्तीति मत्वाह –

मिथ्यैवैकताभिमानादिति ।

अतो भेदो नावगत इत्यर्थः ।