पञ्चपादिका
वक्तव्यकाशिका
 
कथं पुनः भोक्ता स्वयञ्ज्योतिः कार्यकरणसङ्घातात् व्यावृत्तो न प्रकाशते ? ‘मनुष्योऽहमि’ति मिथ्यैव एकताभिमानात् । ननु गौणोऽयं, न मिथ्या ? यथा न गौणः, तथा भाष्यकार एव वक्ष्यति ॥

भेदस्यात्ममात्रत्वात् आत्मपदार्थज्ञानमेव भेदे प्रत्यक्षमिति भेदानवभासो नास्तीति चोदयति -

कथं पुनर्भोक्तेति ।

चिज्जडयोर्विरुद्धयोः न सत्यैकताभिमानाशङ्कास्तीति मत्वाह –

मिथ्यैवैकताभिमानादिति ।

अतो भेदो नावगत इत्यर्थः ।