ननु ‘अहमि’ति यदि देहसमानाधिकरणः प्रत्ययः, न तर्हि तद्व्यतिरिक्त आत्मा सिध्यति ; अन्यस्य तथाग्राहिणः प्रत्ययस्याभावात् , आगमानुमानयोरपि तद्विरोधे प्रमाणत्वायोगात् । मिथ्यात्वात् तस्य न विरोधः इति चेत् , कुतस्तर्हि मिथ्यात्वम् ? आगमादनुमानाद्वा अन्यथाऽवगमादिति चेत् , नैतत् ; अन्योऽन्याश्रयता तथा स्यात् आगमानुमानयोः प्रवृत्तौ तन्मिथ्यात्वं तन्मिथ्यात्वे तयोः प्रवृत्तिरिति । तस्मात् देहादिव्यतिरिक्तविषय एवायमहङ्कारः इत्यात्मवादिभिरभ्युपेयम् ; अन्यथा आत्मसिद्धिरप्रामाणिकी स्यात् , अतो गौणो मनुष्यत्वाभिमानः । उच्यते — यद्यपि देहादिव्यतिरिक्तभोक्तृविषय एवायमहङ्कारः ; तथापि तथा अनध्यवसायात् तद्धर्मानात्मन्यध्यस्यति । दृश्यते हि स्वरूपेणावभासमानेऽपि वस्त्वन्तरभेदानध्यवसायात् तत्सम्भेदेनावभासः, यथा एकस्मिन्नप्यकारे हृस्वादिसम्भेदः ॥
आह गौणवादी -
नन्वहमिति ।
यदीति ।
अयो दहतीति अयसि दहतिप्रत्ययेऽप्ययोव्यतिरिक्तदाहकसिद्धिवत् देहे मनुष्योऽहमिति प्रत्ययेऽपि देहव्यतिरिक्तात्मसिद्धिः स्यादित्याशङ्क्य अयसो निष्कृष्टवह्निदर्शनवद्देहान्निष्कृष्टात्मासिद्धेः देहस्याहंप्रत्ययविषयत्वं मुख्यमिति प्रसज्येतेति मत्वाह -
अन्यस्य तथाग्राहिण इति ।
तद्विरोध इति ।
मनुष्योऽहमिति प्रत्यक्षविरोध इत्यर्थः ।
तथा स्यादिति ।
तथा सति स्यादित्यर्थः ।
अहंप्रत्ययस्य व्यतिरेकविषयत्वे व्यतिरिक्तो व्यतिरिक्त इतिवत् अहं व्यतिरिक्त इत्युक्ते पुनरुक्तिप्रसङ्गात् । व्यक्तिरेकविषयत्वमहंप्रत्ययस्येत्याशङ्क्याह –
अन्यथेति ।
किमर्थतो व्यतिरिक्तात्मविषयोऽहंप्रत्यय उच्यते, किं वा प्रतिभासतः, अर्थतश्चेत् तदध्यासः सम्भवात् इतितदध्याससम्भवात् न गौणत्वमित्याह –
यद्यपीति ।
तथा अनध्यवसायादिति ।
अर्थतो व्यतिरिक्तविषयत्वेऽपि व्यतिरिक्त इति व्यतिरेकस्यास्फुरणादित्यर्थः ।
तद्धर्मानिति ।
कृशस्थूलादिधर्मविशिष्टदेहमित्यर्थः ।
स एवायमकार इति प्रत्यभिज्ञया सर्वगतत्वादि सिद्धेर्नस्वतोऽह्रस्वत्वादि । किन्त्वध्यासकिन्त्वध्या एवेति एवेत्यभिप्रेत्य आह –
यथैकस्मिन्निति ।