अथ पुनरेकान्ततो भिन्न एव देहादेरहङ्कर्ता अवभासेत, रसादिव गन्धः, ततः तत्सद्भावे न विप्रतिपत्तिरिति, तत्सिद्धये जिज्ञासा नावकल्पेत । जिज्ञासोत्तरकालं तर्हि गौण एव युक्तः, कथम् ? जिज्ञासा नाम युक्त्यनुसन्धानम् । न हि युक्तिः पृथक् ज्ञानान्तरजननी, किन्तु सिद्धस्यैवाहंप्रत्ययस्य विषयविवेचिनी । तस्मात् विविक्तविषयत्वात् व्यतिरिक्तात्मानुभवपर्यन्त एवाहङ्कारो जिज्ञासोत्तरकालं युक्तः, न युक्तः ; अकार इव हृस्वत्वाभिमानः । ननु तत्रापि कथम् ? अनुभव एव । एवमहङ्कारेऽपि समानश्चर्चः । ननु अनुभवः तर्कबलाद्यथावभासिन्यप्यकारे सम्भवति ; हृस्वादेः पृथक्सतस्तथानवगमात् , तन्न ; एकस्य पृथक्त्वेऽपि अर्थादितरस्यापि पृथक्त्वात् ॥
व्यतिरिक्त इति व्यतिरेकस्यापि स्फुरणमहंप्रत्यये नेति पक्षमाह -
अथ पुनरिति ।
अत्यन्तभेदस्फूर्तौ दृष्टान्तमाह -
रसादिव गन्ध इति ।
परिहरति -
ततस्तत्सद्भाव इति ।
विप्रतिपत्तिर्नास्त्येवेत्याशङ्क्याह -
तत्सिद्धय इति ।
युक्तिसहकृताहंप्रत्ययेन व्यतिरेकस्यापि प्रतीतेः पाश्चात्याहं मनुष्य इति ज्ञानं गौणमेव स्यात् , तथा प्राक्तनमपीत्यभिप्रेत्याह -
जिज्ञासोत्तरकालं तर्हीति ।
जिज्ञासोर्ध्वं युक्तिज्ञानसिद्धस्य भेदस्य प्रत्यक्षरूपाहंप्रत्ययसिद्धत्वाभावाज्जिज्ञासोत्तरकालीनस्य मनुष्योऽहमिति सामानाधिकरण्यव्यवहारस्य कथं गौणत्वमित्याह –
कथमिति ।
देहात्मनोः साधारणतया प्रतिपन्नाहंप्रत्ययस्य देहादिर्विषयत्वस्य योग्यो न भवति, तद्व्यतिरिक्तात्मैव विषयोग्येतिविषयत्वयोग्य इति युक्त्या विवेचने पश्चाद्व्यतिरिक्त इत्यहंप्रत्ययस्य व्यतिरेकसाधकत्वमस्तीत्याह -
जिज्ञासा नामेत्यादिना ।
अकार इव ह्रस्वाभिमान इतिह्रस्वत्वाभिमान इत्यस्यायमर्थः । अकारविषयज्ञानस्य युक्त्यनुसन्धानादूर्ध्वमप्यकारमात्रविषयत्वादेव ह्रस्वाद्यैक्यभ्रमविरोधिभेदप्रत्यक्षत्वाभावात् युक्तिसिद्धभेदस्य परोक्षत्वाच्च यथा ऐक्यभ्रमः तद्वदिति ।
ननु तत्रापि कथमिति ।
तत्र अपिना अध्यास इति भावः ।
अनुभव एवेति ।
अनुभव एवाध्यासं साधयतीति भावः ।
अकारस्य व्यतिरेकप्रतीतावपि ह्रस्वादेस्तदभावादध्यास इति चोदयति -
ननु अनुभव इति ।
तत्र तर्कबलाद्यथावभासिन्यपि अकारे दैवगत्या पृथक्सतो ह्रस्वादेः तथानवगमादैक्याध्यासानुभवः सम्भवतीत्यन्वयः ।
एकस्य पृथक्त्व इति ।
एकस्यैव भेदस्योभयगतत्वादित्यर्थः ।