पञ्चपादिका
वक्तव्यकाशिका
 

कोऽयमध्यासो नामे’ति किंवृत्तस्य प्रश्न आक्षेपे समानवर्तिनो विशेषानुपलब्धेःपृष्टमनेने’ति मत्वा अध्यासस्वरूपे अभिहिते पुनःआक्षिप्तं मये’त्यभिप्रायं विवृणोति

कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणामिति

बाढमेवंलक्षणोऽध्यासः, चेह सम्भवतिकथम् ? यतः

सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति ; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनोऽविषयत्वं ब्रवीषि

ह्यविषये अध्यासो दृष्टपूर्वः सम्भवी वा, उच्यते

तावदयमेकान्तेनाविषयः ; अस्मत्प्रत्ययविषयत्वात्

कोऽयमध्यासो नामे’ति किंवृत्तस्य प्रश्न आक्षेपे समानवर्तिनो विशेषानुपलब्धेःपृष्टमनेने’ति मत्वा अध्यासस्वरूपे अभिहिते पुनःआक्षिप्तं मये’त्यभिप्रायं विवृणोति

कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणामिति

बाढमेवंलक्षणोऽध्यासः, चेह सम्भवतिकथम् ? यतः

सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति ; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनोऽविषयत्वं ब्रवीषि

ह्यविषये अध्यासो दृष्टपूर्वः सम्भवी वा, उच्यते

तावदयमेकान्तेनाविषयः ; अस्मत्प्रत्ययविषयत्वात्

कोऽयमध्यासो नामेति भाष्ये कृतमध्यासाक्षेपमज्ञानम् । तं प्रति स्वीयाक्षेपाभिप्रायं विवृणोति, न त्वपूर्वमाक्षेपं करोति - कथं पुनरित्यादिनेत्याह –

कोऽयमिति ।

किं वृत्तस्येति ।

किंशब्देन निष्पन्नक इति शब्दस्येत्यर्थः ।

विशेषानुपलब्धेरिति ।

अध्यासं ब्रूहीति वा अध्यासो न सम्भवतीति वा विशेषानुपलब्धेरुभयं कृतमपीत्यर्थः ।

पृष्टमनेनेति ।

मत्वेति ।

अनेन पृष्टमेवेति मत्वेत्यर्थः ।

क्षिप्तमितिआक्षिप्तं मयेति ।

आक्षिप्तमपि मयेत्यर्थः ।

प्रत्यगिति ।

इन्द्रियाविषय इत्यर्थः । आत्मनि अपरिच्छिन्न इत्यर्थः । अविषये आरोप्येण सहैकज्ञानाविषय इत्यर्थः ।

यदि साधितार्थे अज्ञानमपलापोऽनादरो वा स्यात् तदा वादार्हो न स्यात् । अतोऽनुवादेनाज्ञानाद्यभावं वादार्हत्वाय दर्शयति पूर्ववादी -

बाढमेवमिति ।

लोके भवत्वेवंलक्षणोऽध्यासः इत्यर्थः ।

इहेति ।

आत्मनीत्यर्थः । स चेहेति चकारात् लक्षणमपि न सम्भवतीत्युच्यत इति द्रष्टव्यम् ।

पूर्वभाष्ये आत्मन्यहङ्काराद्यध्यासे लक्षणस्य समर्थितत्वाल्लक्ष्याध्यासोऽप्यस्तीति चोदयति -

कथमिति ।

आत्मनो अधिष्ठानत्वयोग्यत्वाभावादध्यासो न सम्भवतीति वदितुं लोके अधिष्ठानत्वे प्रयोजकाकारमाह -

सर्वो हि पुरोऽवस्थित इति ।

अस्यायमर्थः, पुरोवस्थिते इन्द्रियसम्प्रयुक्तेऽवस्थिते अवच्छिद्य स्थितः अवस्थितः, परिच्छिन्नः तस्मिन् विषये आरोप्येण सहैकज्ञानविषये विषयान्तरमध्यस्यतीति आत्मनोऽन्यगतज्ञानाविषयत्वेऽपि स्वगतज्ञानविषयविषत्वमितित्वमस्तीत्याशङ्क्य तथा सति स्वेनैव स्वं युष्मदिति ग्राह्यं स्यात् ,

तदभावान्नविषयत्वमात्रमित्याह -

युष्मत्प्रत्ययापेतस्य चेति ।

प्रत्यगिति ।

इन्द्रियप्रेरकत्वान्नेन्द्रियकर्मत्वेन पराक्त्वमित्यर्थः ।

आत्मन इति ।

आप्नोतीति व्युत्पत्त्या अपरिच्छिन्नत्वान्न परिच्छेद इत्यर्थः ।

विषये विषयान्तरस्याध्यासवदविषयात्मनि बुद्धिकर्तृत्वेन बुद्ध्यविषयाहङ्कारस्याध्यासः स्यादिति नेत्याह -

न हीति ।

न ह्यविषयेऽध्यासोऽदृष्टपूर्वत्वादेव नात्मन्यसम्भवः ? इत्याह -

सम्भवी वेति ।

अथवा ज्ञानं ज्ञानान्तरकर्मेति अविषये ज्ञाने अविषयज्ञानान्तरकर्मतया अध्यासो दृष्ट इत्याशङ्क्याह -

सम्भवी वेति ।

इन्द्रियजन्यज्ञानविषयमात्रस्य परिच्छिन्नमात्रस्य जडमात्रस्य चारोप्यत्वात् तद्विपरीताजडापरिच्छिन्नाविषयात्मनोऽधिष्ठानत्वं सम्भवतीत्यभिप्रेत्याह -

उच्यत इति ।

लोकेऽपि विषयतयाधिष्ठानशुक्तीदमंशे इन्द्रियजन्यज्ञानविषयत्वं परिच्छिन्नतया स्फुरितत्वं च विद्यते । तत्र केवलव्यतिरेकाभावात् स्फुरणजनकत्वेनान्यथासिद्धत्वाच्चेन्द्रियजन्यज्ञानविषयत्वमधिष्ठानत्वे प्रयोजकं न भवति । किन्तु परिच्छिन्नतया स्फुरितत्वमेव प्रयोजकम् । तदात्मन्यपि सम्भवति । अहङ्कारे अभिव्यक्तत्वेन परिच्छिन्नतया स्फुरितत्वादित्याह -

न तावदयमिति ।