पञ्चपादिका
वक्तव्यकाशिका
 

ननु विषयिणश्चिदात्मनः कथं विषयभावः ? पराग्भावेन इदन्तासमुल्लेख्यो हि विषयो नाम, भवति तद्वैपरीत्येन प्रत्यग्रूपेणानिदम्प्रकाशो विषयी ; तत् कथमेकस्य निरंशस्य विरुद्धांशद्वयसन्निवेशः ? अत्रोच्यतेअस्मत्प्रत्ययत्वाभिमतोऽहङ्कारः चेदमनिदंरूपवस्तुगर्भः सर्वलोकसाक्षिकःतमवहितचेतस्तया निपुणतरमभिवीक्ष्य रूपकपरीक्षकवत् स्वानुभवमप्रच्छादयन्तो वदन्तु भवन्तः परीक्षकाःकिमुक्तलक्षणः ? वा ? इति

ननु विषयिणश्चिदात्मनः कथं विषयभावः ? पराग्भावेन इदन्तासमुल्लेख्यो हि विषयो नाम, भवति तद्वैपरीत्येन प्रत्यग्रूपेणानिदम्प्रकाशो विषयी ; तत् कथमेकस्य निरंशस्य विरुद्धांशद्वयसन्निवेशः ? अत्रोच्यतेअस्मत्प्रत्ययत्वाभिमतोऽहङ्कारः चेदमनिदंरूपवस्तुगर्भः सर्वलोकसाक्षिकःतमवहितचेतस्तया निपुणतरमभिवीक्ष्य रूपकपरीक्षकवत् स्वानुभवमप्रच्छादयन्तो वदन्तु भवन्तः परीक्षकाःकिमुक्तलक्षणः ? वा ? इति

नन्वहङ्काराध्यासे तदुपाधिकतया आत्मनः परिच्छिन्नतया स्फुरितत्वम् , परिच्छिन्नतया स्फुरितत्वे अत्यहङ्कार इतिअहङ्कारस्याध्यास इतीतरेतराश्रयत्वं स्यादिति, तन्न, पूर्वकल्पनाहङ्कारसंस्कारावच्छिन्नतया स्फुरिते अद्यतनाहङ्काराध्यासः अद्यतनाहङ्कारावच्छिन्नतया स्फुरिते तत्संस्काराध्यास इत्यनादित्वात् । अस्मत्प्रत्ययशब्देनात्मविषयं ज्ञानमुक्तमिति मन्वानश्चोदयति -

ननु विषयिणश्चिदात्मनः कथं विषयभाव इति ।

विषयित्वात् विषयत्वं न सम्भवति । चित्वाच्च जडे विद्यमानविषयत्वं न सम्भवतीत्यर्थः ।

इदन्तासमुल्लेख्य इति ।

इदमिति प्रकाश्य इत्यर्थः ।

प्रकाश्यवैपरीत्यमाह -

प्रकाश इति ।

एकस्यैव कण्डूयनकर्मत्वं कण्डूयनकर्तृत्वं चेति विरुद्धरूपद्वयसन्निवेशो दृष्टः इत्याशङ्क्याह –

निरंशस्येति ।

अस्मत्प्रत्ययत्वाभिमतोऽहङ्कार इति ।

आत्मनो व्यञ्जकतया तस्य परिच्छिन्नतया स्फुरितत्वे निमित्तं स्फटिकमणिकल्पमात्मन्यध्यस्तद्रव्यमस्मत्प्रत्ययः । न त्वात्मकर्मकज्ञानमित्यर्थः ।

नन्विदं रजतमितिवत् अध्यस्तत्वे अहमित्यत्रापि द्वैरूप्यावभासो वक्तव्य इत्यत आह -

स चेदमनिदंरूपवस्तुगर्भ इति ।

स्वयम्प्रकाशचैतन्येनाहङ्कारगतजाड्यतिरस्कारात् तस्मिन्नहङ्कारो गर्भितः । अहङ्कारेण चैतन्यगतस्वयम्प्रकाशत्वतिरस्कारात् चैतन्यमहङ्कारे गर्भितमित्यर्थः ।

सर्वलोकसाक्षिक इति ।

सर्वलोकस्य प्राणिजातस्य साक्षिकः । स्वसाक्ष्यात्मना साक्षात्कृतोऽतो द्वैरूप्ये साक्षिप्रमाणमस्तीत्यर्थः ।

अहमिति प्रतीयमानं इदमनिदंरूपत्वेन न साक्षात्कुर्मः इत्याशङ्क्य अहं दुःखीति दुःखरूपेण परिणाम्येकं वस्तु तदैव जिहासितदुःखधर्मितया नित्यप्रेमास्पदसुखात्मकमपरं वस्तु च प्रतीयते । तस्माद्वस्तुद्वयमवधानेन वीक्ष्य वदन्त्वित्याह –

तमवहितचेतस्तयेति ।

अहं जानामीति ज्ञानरूपेण परिणामितया ज्ञानात् द्रष्ट्टत्वाख्यद्रष्टृत्वाय इतिपरिणामिचिद्रूपतया च वस्तुद्वयमस्तीत्यवलोक्य वदन्त्वित्याह -

निपुणनिपुणतरमभिवीक्ष्येति पञ्चपादिकामभिवीक्ष्येति ।

अहमिदं जानामीत्यत्राहङ्कारे बुद्धौ बोध्ये च युगपत् त्रितयसाधकत्वानुभवात्मना अनुस्यूतचैतन्यमहमिति व्यावृत्तरूपं चेति वा मते तदप्यवलोक्य वदन्त्वित्याह –

निपुणतरमभिवीक्ष्येति ।