ननु नायं विषयानुभवनिमित्तोऽहमुल्लेखः, किं तु अन्य एव आत्ममात्रविषयः ‘अहमि’ति प्रत्ययः । तस्मिंश्च द्रव्यरूपत्वेनात्मनः प्रमेयत्वं, ज्ञातृत्वेन प्रमातृत्वमिति, प्रमातृप्रमेयनिर्भासरूपत्वादहंप्रत्ययस्य ग्राह्यग्राहकरूप आत्मा । तस्मादिदमनिदंरूपः ; प्रमेयांशस्येदंरूपत्वात् , अनिदंरूपत्वात् प्रमात्रंशस्य न चैतद्युक्तम् ; अनंशत्वात् , अपरिणामित्वाच्चात्मनः, प्रमेयस्य चेदंरूपतया पराग्रूपत्वादनात्मत्वात् । तस्मान्नीलादिज्ञानफलमनुभवः स्वयम्प्रकाशमानो ग्राह्यमिदन्तया, ग्राहकं चानिदन्तयाऽवभासयति, ग्रहणं चानुमापयतीति युक्तम् , अतो नेदमंशोऽहङ्कारो युज्यते, उच्यते — तत्रेदं भवान् प्रष्टव्यः, किमात्मा चैतन्यप्रकाशोऽनुभवो जडप्रकाशः ? उत सोऽपि चैतन्यप्रकाशः ? अथवा स एव चैतन्यप्रकाशः, आत्मा जडस्वरूपः ? इति । तत्र न तावत्प्रथमः कल्पः ; जडस्वरूपे प्रमाणफले विश्वस्यानवभासप्रसङ्गात् , मैवम् ; प्रमाता चेतनस्तद्बलेन प्रदीपेनेव विषयमिदन्तया, आत्मानं चानिदन्तया चेतयते, इति न विश्वस्यानवभासप्रसङ्गः, तन्न ; स्वयञ्चैतन्यस्वभावोऽपि सन् विषयप्रमाणेनाचेतनेनानुगृहीतः प्रकाशत इति, नैतत् साधु लक्ष्यते । किं च प्रमाणफलेन चेत् प्रदीपेनेव विषयमात्मानं च चेतयते, तदा चेतयति क्रियानवस्थाप्रसङ्गः ॥
आत्मा कर्मत्वेनावभासते अवभासमानत्वादनात्मवदिति भाट्टश्चोदयति -
ननु नायमिति ।
अहमुल्लेखः, अहमवभासः । आत्मावभास इत्यर्थः ।
एकस्यानात्मनः एकस्यां क्रियायां कर्तृत्वेन गुणभावः, कर्मत्वेन प्राधान्यं च अनुक्तमिति तत्राह –
तस्मिंश्चेति ।
ज्ञातृत्वेन प्रमातृत्वमिति ।
ज्ञानक्रियाशक्तिमदिति विशेषरूपेण प्रमातृत्वमित्यर्थः ।
कर्मतया आत्मावभासकत्वात् आत्मविषयज्ञानमपि घटज्ञानवदिदं प्रत्ययः स्यादित्याशङ्क्य प्रथमं जडाकारमवलम्ब्य तदवच्छिन्नसद्रूपात्मनि पर्यवसानात् घटादिज्ञानस्यैव इदंप्रत्ययत्वम् , अहमिति प्रत्ययस्य तु आत्मा साधारणं ज्ञात्राकारं विषयीकृत्य पश्चाद्घटादिसाधारणद्रव्याकारे पर्यवसानादहंप्रत्ययत्वमित्याह –
प्रमातृप्रमेयनिर्भासरूपत्वादहंप्रत्ययस्येति ।
अनंशत्वादिति ।
द्रव्यरूपस्य आत्मानात्मसाधारण्यात् आत्मत्वायोगात् , आत्मासाधारणस्य असाधारज्ञात् इतिज्ञानरूपस्य निरंशत्वात् तत्र न कर्तृकर्मव्यवस्थेत्यर्थः ।
अपरिणामित्वादिति ।
ज्ञानरूपस्यमातृकायां न स्पष्टम् निरवयवस्य युगपत् ज्ञानद्वयपरिणामायोगादित्यर्थः ।
प्रमेयस्य चेति ।
ग्राहकरूपस्य संविदाश्रयत्वेन स्वयम्प्रकाशत्वेन च सिद्ध्यनभ्युपगमादसिद्धत्वायोगाच्च कर्मतया सिद्धिर्वक्तव्या, तथा सत्यनात्मत्वमित्यर्थः । नीलादिज्ञानफलमित्यत्र ज्ञानशब्देन ज्ञायतेऽनेनेति व्युत्पत्त्या चतुष्टयसन्निकर्षाख्यसामग्र्यभिधानमिति द्रष्टव्यम् ।
अहङ्कारस्य अनात्मत्वं साधयितुमात्मनः स्वयम्प्रकाशत्वसाधनाय विकल्पयति -
अत्रेदमिति ।
उभयस्यपि स्वयम्प्रकाशत्वे कल्पनागौरवं प्रसज्येत, तत्परिहारार्थं एकः स्वयम्प्रकाश इति पक्षमाह -
किमात्मा चैतन्यप्रकाश इति ।
अनुभवस्य जडत्वे जगतः आन्ध्यप्रसङ्गपरहारार्थं पक्षान्तरमाह -
उत सोऽपि इति ।
पञ्चपादिकायां न दृश्यतेपुनरिति ।
कल्पनागौरवं प्राप्तं परिहर्तुं अन्यं पक्षमाह -
अथवा स एव चैतन्यप्रकाश इति ।
ज्ञापनव्यवधानेन विषये प्रकाशादिव्यवहारनिमित्तचक्षुषो जडत्वमस्तु, अव्यवधानेन विषये प्रकाशादिव्यवहारनिमित्तत्वात् प्रमाणफलस्य स्वयं प्रकाशत्वं वक्तव्यमन्यथा विश्वस्यानवभासः स्यादित्याह -
जडस्वरूपे इति प०पा०जडरूपे प्रमाणफल इति ।
तद्बलेनेति ।
जडानुभवबलेनेत्यर्थः ।
चित्स्वभावस्यात्मनो जडरूपानुभवापेक्षया चेतयितृत्वे दृष्टान्तमाह –
प्रदीपेनेवेति ।
तन्न, स्वयं चैतन्येत्यादेरयमर्थः, चित्स्वभावस्यान्याधीनतया प्रकाशमानत्वं न सम्भवति । विषयप्रमा(लक्षणाय)प्रवणेनात्मनःन स्पष्टम् प्रकाशमानत्वं च न सम्भवति । चैतन्यस्याचेतनेन प्रकाशमानत्वमपि न सम्भवति । चिद्रूपात्मनो जडानुभवनिमित्ततया विषयोपरागे सति आत्मचैतन्येन विषयस्यावभासमानत्वं विना जडानुभवादेव अवभासमानत्वं च न सम्भवति इति प्रमाणफलस्य प्रदीपवज्जडत्वाङ्गीकारात् , तस्याव्यवधानेन विषये प्रकाशत इति व्यवहारहेतुत्वाभावात् , तेन चेतयत इति जन्यानुभवान्तरं वक्तव्यम् । तस्यापि जडत्वात् तेन चेतयत इत्यनुभवान्तरमित्यनवस्थेत्याह -
किञ्च प्रमाणफलेन चेदिति ।